ऋग्वेदः

विकिपुस्तकानि तः
०६:५७, ३ नवेम्बर् २०१३ पर्यन्तं Ravijoshi (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः

अग्निमीळे पुरोहितं यज्ञस्य देवं ऋत्विजम् | होतारं रत्नधातमम् || अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत | स देवानेह वक्षति || अग्निना रयिमश्नवत पोषमेव दिवे-दिवे | यशसं वीरवत्तमम || अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि | स इद्देवेषु गछति || अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः | देवो देवेभिरा गमत || यदङग दाशुषे तवमग्ने भद्रं करिष्यसि | तवेत तत सत्यमङगिरः || उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम | नमो भरन्त एमसि || राजन्तमध्वराणां गोपां रतस्य दीदिविम | वर्धमानंस्वे दमे || स नः पितेव सूनवे.अग्ने सूपायनो भव | सचस्वा नः सवस्तये ||

"https://sa.wikibooks.org/w/index.php?title=ऋग्वेदः&oldid=4997" इत्यस्माद् प्रतिप्राप्तम्