सामग्री पर जाएँ

वेदान्तपरिभाषासंग्रहः

विकिपुस्तकानि तः

॥ हरिः ॥ ॥ श्रीगणपतये नमः॥

== वेदान्तपरिभाषासंग्रहः॥ ==

प्रणिपत्य गुरुं शेषमम्बां मातरमेव च ।

संग्रहः परिभाषायाः क्रियते रामवर्मणा ॥

धर्मार्थकाममोक्षभेदेन पुरुषार्थाश्चत्वारः । तत्र अन्त्य एव नित्यत्वात् परमपुरुषार्थः । 'न स पुनरावर्तत' इत्यादिश्रुत्या तस्य नित्यत्वम् । अन्ये त्वनित्याः, 'तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते' इत्यादिश्रुतेः। मोक्षश्च ब्रह्मज्ञानादेव भवति, 'तमेव विदि त्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इत्यादिश्रुतेः । अतस्तसिद्धये ब्रह्म तज्ज्ञानं तत्प्रमाणं च निरूप्यते ॥ तत्र प्रमाकरणं प्रमाणम् । प्रमात्वं च द्विविध-स्मृतिसाधारणं तदसाधारणं चेति । तत्राद्यमबाधितार्थविषयकज्ञानत्वम् । द्वितीयं त्वनधिगताबाधितार्थविषयकज्ञानत्वम् । स्मृतिवारणायानधिगतेति । तस्या अपि प्रमात्वे तत्करणस्यापि प्रमाणत्वप्रसङ्गः । धारास्थले तत्तत्क्षणाना मपि विषयत्वात्, स्वविरोधिवृत्त्युत्पत्तिपर्यन्तं घटादिविषयकैकवृत्तेरेव स्वीकारात् वृत्तिभेदेऽपि द्वितीयादिवृत्तेरलक्ष्यत्वाभ्युपगमाद्वा नाव्याप्तिः । अबाधितत्वं च संसारदशायामबाधितत्वम् । तेन वस्तुतो घटादेरपि मिथ्यात्वेऽपि न तज्ज्ञाने लौकिकप्रमारूपेऽव्याप्तिः ॥

प्रमाणानि च प्रत्यक्षानुमानोपमानागमार्थापत्त्यनुपलब्धयः षट् । तत्र प्रत्यक्षप्रमाकरणं प्रत्यक्षप्रमाणम् । प्रत्यक्षप्रमा च मुख्या चैतन्यमेव, 'यत्साक्षादपरोक्षात्' इति श्रुतेः । अपरोक्षादिति पञ्चमी प्रथमार्थे । इन्द्रि यसभिकर्षादिजन्यान्तःकरणवृत्तिस्तु ज्ञानाभिव्यञ्जकत्वात् प्रमेत्युपचर्यते । तस्याश्च जन्यत्वात् तत्करणस्य चक्षुरादेः प्रमाणत्वम् । वृत्तिज्ञानं मनोधर्मः, 'कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहीं(6रित्येतत्सर्वं मन एवं' इति श्रुतेः । तत्र धीशब्दो वृत्त्यभिधायी ॥ ज्ञाने विषये च प्रत्यक्षत्वव्यवहारोऽस्ति । तत्राचे वृत्तिचैतन्ये विषय चैतन्याभेदो नियामकः। द्वितीये विषये प्रमातृचैतन्यसत्तातिरिक्तसत्ताशू न्यत्वम् । तथाहि । चैतन्यं त्रिविधं-विषयचैतन्यं वृत्तिचैतन्यमन्तःकरण चैतन्यं चेति । एतानि च क्रमात् प्रमेयप्रमाणप्रमातृचैतन्यापरनामानि । प्रत्यक्षस्थले तैजसमन्तःकरणं इन्द्रियद्वारा बहिर्निर्गत्य विषयदेशं गत्वा तदाकारेण परिणमते । स परिणामो वृत्तिरित्युच्यते ॥ __ चैतन्यभेदकोपाधीनां यतैकदेशस्थत्वं तत्र चैतन्यभेदो नोपगम्यते । घटाकाशमठाकाशयोर्भेदेऽपि मठस्थघटाकाशः यथा न मठाकाशाद्भिन्नः, यथा च तटाकजलघटजलयो देऽपि तटाकस्थघटजलं न तटाकजलाद्भिन्नम् , तथा विषयेन्द्रियसनिकर्षदशायां वृत्तेविषयस्य च एकदेशस्थत्वात् तच्चै तन्ययोरभेदेन वृत्तिचैतन्ये विषयचैतन्याभेदाइत्तेः प्रत्यक्षत्वम् । एवं विषयस्य घटादेः स्वावच्छिन्न चैतन्येऽध्यस्ततया तत्सत्तायाश्च, आरोपितनिष्ठ सत्ताया अधिष्ठानसत्तातोऽनतिरिक्ततया, अधिष्ठानचैतन्यसत्तातो न भेदः । प्रत्यक्षस्थले उक्तरीत्या प्रमाविषयचैतन्ययोरेकदेशस्थत्वेन विषयसत्तायाः प्रमातृचैतन्यसत्तातोऽप्यनतिरेकाद्विषये प्रत्यक्षत्वमुपपद्यते । सुखाद्यवच्छिन्न चैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य चोपाध्योर्नियमेनैकदेशस्थत्वात् सुखादि विषयके मानसप्रत्यक्षेऽपि लक्षणसंगतिः । तवाद्ये प्रत्यक्षलक्षणे विषये तत्तदिन्द्रिययोग्यत्वं वर्तमानत्वं च विशे पणं देयम् । तेन वाक्यादिजन्ये अदृष्टादिज्ञाने, सुखादिस्मृतौ सुखाद्यशे च नातिव्याप्तिः । एवं च तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्यस्य वृत्त्यवच्छिन्नचैतन्याभिन्नत्वं ज्ञानात्मकप्रत्यक्षस्य लक्षणं पर्यवसन्नम्॥ द्वितीयलक्षणेऽपि तत्तदाकारवृत्त्युपहितत्वं प्रमातरि, तत्तदिन्द्रिय योग्यत्वं च विषये, विशेषणं देयम् । इत्थं च तत्तदाकारवृत्त्युपहित प्रमातचैतन्यसत्ताभिन्नसत्ताशून्यत्वे सति तत्तदिन्द्रिययोग्यत्वं विषयस्य प्रत्यक्षत्वम् । रूपवान् घट इत्यादिप्रत्यक्षस्थले घटादिगतपरिमाणादा वतिव्याप्तिवारणाय तत्तदाकारवृत्त्युपहितत्वं प्रमातृविशेषणम् । तत्र रूपाद्यवच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य च तदुपाथ्योरेकदेशस्थत्वेन एकत्वात् रूपाधवच्छिन्नचैतन्यस्य प्रमातचैतन्याभेदे परिमाणाधवच्छिन्नचै तन्यस्यापि प्रमात्रभिन्नत्वं प्राप्तमित्यतिव्याप्तिः । रूपादिविषयकवृत्तिदशायां परिमाणाद्याकारकवृत्त्यभावाच न तत्रेदानीमतिप्रसङ्गः ॥ धर्माधर्मादिगोचरानुमित्यादिस्थले धर्माधर्मादेः प्रत्यक्षत्वापत्तिवार णाय विशेष्यभागः । धर्मादेः गुरुत्वादिवत् स्वभावत एव अयोग्यत्वान्न तत्रातिव्याप्तिः ॥ सुखादिसत्त्वदशायां तु अहं सुखीत्यादिवाक्यजन्यज्ञानस्य प्रत्यक्ष त्वापादनम् इष्टापत्त्या परिहरणीयम् । सनिकृष्टविषये दशमस्त्वमसीत्यादि वाक्यादपि प्रत्यक्षाङ्गीकारात् ॥ पर्वतो वह्निमानित्यादिज्ञानं सन्निकृष्टविषयतया पर्वतांशे प्रत्यक्षम् । वहेरतथात्वेन तदंशेऽनुमितिः । अवच्छेदकभेदेन विरुद्धयोरपि प्रत्यक्ष त्वानुमितित्वयोः कपिसंयोगतदभावयोरिव एकत्र समावेशः सूपपादः ।। सुरभि चन्दनमित्यादौ सौरभांशे ज्ञानं परोक्षमेव, ज्ञानलक्षणायाः सन्निकर्षत्वानङ्गीकारात् । अतस्तत्र नाव्याप्तिशङ्कावकाशः ॥ न चैवमनवस्थाभिया वृत्तिगोचरापरवृत्तेरनङ्गीकरात् द्वितीयलक्षणस्य तत्तदाकारवृत्त्युपहितत्वघटितस्य वृत्तावव्याप्तिरिति वाच्यम् । वृत्तेर्वृत्त्यन्त राविषयत्वेऽपि स्वविषयत्वाङ्गीकारेण स्वविषयवृत्त्युपहितप्रमातृचैतन्यघटित लक्षणस्य तत्राक्षतत्वात् । केवलसाक्षिवेद्यत्वस्य इन्द्रियानुमानादिप्रमाण व्यापारमन्तरेण साक्षिविषयत्वरूपत्वान्नान्तःकरणतद्धर्मादीनां तद्धानिः । इदं रजतमिति भ्रमस्थलेऽपि रजताकाराविद्यावृत्तेरभ्युपगमेन प्रातिभासि करजतेऽपि लक्षणसंगतिः॥ चैतन्याभिव्यञ्जकवृत्तिश्चेन्द्रियसन्निकर्षाजायते । ते च सन्निकर्षाः संयोग-संयुक्ततादात्म्य-संयुक्ताभिन्नतादात्म्यभेदात् विविधाः। क्रमेण घट तद्रूपरूपधर्माणां वृत्तिजनने तेषामुपयोगः ॥ वेदान्तपरिभाषासंग्रहः । वृत्तिश्चतुर्विधा-संशयनिश्चयगर्वस्मरणभेदात् । वृत्तिभेदादेकमप्यन्त: करणं मना बुद्धिः अहंकारः चित्तमिति चाख्यां लभते । तदुक्तम् 'मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे ॥' इति ॥

निरुक्तं प्रत्यक्षं सविकल्पकनिर्विकल्पकभेदात् द्विविधम् । तत्र वैशिष्टचावगाहि प्रथम, घटमहं जानामीत्याकारकम् । संबन्धानवगाहि तु द्वितीयं, यथा सोऽयं देवदत्तः, तत्त्वमसीत्यादिवाक्यजन्यं ज्ञानम् । तस्येन्द्रियाजन्यत्वेऽपि प्रत्यक्षत्वम् , इन्द्रियजन्यत्वस्य तदप्रयोजकत्वात् । पूर्वोक्तप्रत्यक्षलक्षणस्य च तत्र सत्त्वात्। उक्तवाक्ययोविशिष्टार्थस्य विरुद्धत्वेन तात्पर्याविषयत्वात् । विरुद्धयोरुपाध्योस्त्यागे विशेष्यस्यैकत्वेन तस्यैव तात्पर्य विषयत्वेन तज्ज्ञानस्य संसर्गानवगाहितया निर्विकल्पकत्वमव्याहतमेव ॥ तञ्च प्रत्यक्षं पुनरपि जीवसाक्षीश्वरसाक्षिभेदात् द्विविधम् । तत्रान्तःकरणविशिष्टं चैतन्यं जीवः, तदुपहितं जीवसाक्षि । अन्तःकरणस्य विशेषणत्वोपाधित्वाभ्यां जीवसाक्षिणोर्भेदः। विशेषणोपाध्योावर्तकत्वे समानेऽपि कार्यान्वयानन्वयाभ्यां भेदः । एवं च कार्यान्वयि व्यावर्तकं विशेषणम् । तदनन्वयि व्यावर्तकमुपाधिः । कार्य-विधेयम् । रूपवि शिष्टो घटोऽनित्य इति विशेषणोदाहरणम् । तत्र विशेष्यान्वयिन्य नित्यपदार्थे रूपस्यान्वयसंभवात् विशेषणत्वम् । कर्णशष्कुल्यवच्छिन्नं नमः श्रोत्रमित्युपाध्युदाहरणम् । तत्र विशेष्यान्वयिनि विधेये श्रोत्रेन्द्रिये कर्ण शष्कुल्या अयोग्यत्वेनान्वयासंभवादुपाधित्वम् ॥ प्रकृते चान्तःकरणविशिष्टो जीव इत्यत्र विधेये जीवपदार्थेऽन्त: करणस्यान्वयसंभवाद्विशेषणत्वम् । अन्तःकरणावच्छिन्नं साक्षीत्यत्र विशेष्यान्वयिनि विधेये साक्षिपदार्थे विषयावभासकेऽन्तःकरणस्य जडस्या न्वयायोग्यत्वात्तस्योपाधित्वम् । अन्तःकरणोपाधीनामनेकत्वेन जीवानां भेदात्तत्साक्षिणामपि भेदोऽङ्गीकार्यः। अन्यथा एकेनावगतस्यान्येनाप्यनु संधानप्रसङ्गात् । ईश्वरोपाधिमायाया एकत्वेन ईश्वरस्यैकत्वम् । तस्या एकत्वे च 'अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः। अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥' इत्यादीनि प्रमाणम् । एवं च मायाविशिष्टं चैतन्यमीश्वरः, तदुपहितं चैत न्यमीश्वरसाक्षीति विवेकः । तस्येश्वरस्यैकत्वेऽपि तदुपाधिमायागतसत्त्वरज स्तमोगुणैः प्रत्येकमुपाधिभूतैः क्रमाद्विष्णुब्रह्मशिवरूपास्त्रिमूर्तिविलासाः । तत्र ब्रह्मविष्णुशिवाः यथासंख्यं सृष्टिस्थितिसंहारकर्तारः । ईश्वरकूटस्थस्या नादित्वेऽपि परिपकप्राणिकर्मवशात्तदुपाधिभूतमायायाम् , इन्द्रियसन्निकर्षा जीवोपाध्यन्तःकरण इव, वृत्तिविशेषा उत्पद्यन्ते । वृत्तीनां जन्यत्वात् तत्प्रतिबिम्बितचैतन्येऽपि जन्यत्वव्यवहारः ॥ भ्रमस्यापि लक्ष्यत्वान्न तत्रातिव्याप्तिशङ्कावसरः । पूर्वोक्तलक्षणे उक्ता बाधितत्वस्यापि निवेशे प्रमामात्रस्य लक्षणं भवति । इदं रजतमित्यादि भ्रमस्य वास्तवरजतादिना सन्निकर्षाभावेन तद्विषयकत्वासंभवात् तत्कालो त्पन्नप्रातिमासिकरजतादिविषयकत्वस्वीकारस्यावश्यकत्वात् । ज्ञानलक्ष णायाः सन्निकर्षत्वं तु नाङ्गीकृतम् ।। प्रातिभासिकशुक्तिरजतादिपदार्थोत्पत्तौ च शुद्धरजतादिसामग्री नापेक्षिता । किंतु तब विलक्षणैव सामग्री । तथाहि । काचादिदुष्टदृष्टेः पुरो वर्तिद्रव्यसंयोगादिदमाकारा चाकचक्याद्याकारा चान्तःकरणवृत्तिर्जायते । तस्यां वृत्ताविदमंशावच्छिन्नं चैतन्यं प्रतिबिम्बते । उपाधीनामुक्तरीत्या तत्रैकदेशस्थत्वेन तदुपहितानामैक्यं संभवति । इत्थं च इदमंशावच्छिन्नचै तन्याश्रिता शुक्तित्वप्रकारिकाऽविद्या चाकचक्यादिसादृश्यसंदर्शनसमुद्घो धितरजतसंस्कारेण काचादिदोषेण च सहिता रजताकारेण रजतज्ञनाभासा कारेण च परिणमते । तच्च रजतमविद्याधारे इदमवच्छिन्नचैतन्ये वर्तते । सर्वकार्यस्यापि स्वोपादानाविद्याश्रयनिष्ठत्वनियमात् । चैतन्यनि ष्ठस्यापि रजतादेः पुरोवर्तिनाऽभेदेन भानं तु, नैयायिकनये आत्मनिष्ठस्य ज्ञानादेः शरीरनिष्ठत्वेनेव, तदवच्छेदकत्वादिति बोध्यम् ॥ प्रातिभासिकव्यावहारिकरजतयोरुभयोरप्यविद्याजन्यत्वेन साम्ये - प्यागन्तुकानियतकाचादिनानादोषजन्यत्व-नियतैकाविद्यादोषजन्यत्वाभ्यां वेदान्तपरिभाषासंग्रहः। तयोर्वैलक्षण्यम् । स्वाप्नपदार्था अपि प्रातिभासिका एव, तेषां प्रत्यक्षतया: नुभवात् । 'अथ रथान रथयोगान् पथः सृजते' इति रथादिसृष्टिप्रतिपा दिका श्रुतिरप्यखानुपाहिका । स्वानपदार्थाः साक्षान्मायामया इत्येके । अन्तःकरणद्वारा तथेत्यपरे । अध्यासाधिष्ठानस्य चैतन्यस्य जागरे प्रत्यक्षाभावेऽपि स्वाप्नपदार्थानां जागरे नानुवृत्तिः, निवृत्तिरूपकार्यनाशेन तत्सिद्धेः । उपादानसद्भावदशायामपि विरोधिवृत्त्युत्पत्त्या दोषनिवृत्त्या वा कार्यनाशाङ्गीकारात् । प्रकृते च विरोधिप्रत्ययोत्पत्त्या निद्रादिनाशेन च स्वाप्नपदार्थाननुवृत्तिरुपपादयितुं शक्या । बाधरूपकार्यनाश एवाधिष्ठान साक्षात्कारजन्योपादाननाशस्यापेक्षितत्वात् प्रकृते तदभावेऽपि न क्षतिः ॥ __ शुक्तिरजतादेः शुक्त्यवच्छिन्नतूलाविद्याकार्यत्वपक्षे अधिष्ठानतत्त्व ज्ञानात्तस्याविद्यया सह बाधः । मूलाज्ञानकार्यत्वपक्षे तन्नाशस्य ब्रह्मसाक्षा. त्कारैकसाध्यतया शुक्तित्वादिज्ञानेन शुक्तिरजतादेर्घटादेर्दण्डप्रहारादिनेव तदानीं निवृत्तिमात्रम्, न त्वत्यन्तनाशः ॥ जपासक्तस्फटिके रक्तत्वभ्रमस्थले न प्रातिभासिकरक्तोत्पत्तिरङ्गीक्रियते, तत्रेन्द्रियसन्निकर्षस्य विद्यमानत्वेन तेनैव प्रत्यक्षत्वनिर्वाहात् । यत्रारोप्यमस निकृष्टं तत्रैव प्रातिभासिकवस्तूत्पत्तिरावश्यकी । प्रत्यक्षं पुनर्द्विविधं-इन्द्रियजन्यं तदजन्यं चेति । तत्राद्यं चक्षुरा दीन्द्रियभेदात् पञ्चविधम् । द्वितीयं सुखादिप्रत्यक्षम् । तत्र मनस एव कारणत्वात् मनसश्च सिद्धान्ते इन्द्रियत्वस्यानङ्गीकारात् । तत्र घ्राणं रसनं त्वक् च स्वस्थानस्थितान्येव विषयान गृह्णन्ति । इतरे तु विषयदेशं गत्वा विषयं गृहीतः । वीचीतरङ्गन्यायेन कर्णशष्कुलीप्रदेशे भेर्याद्यवच्छेदेनोत्प अशब्दस्य उत्पत्तिकल्पनं, 'भेरीशब्दो मया श्रुत' इति प्रतीतेः सजातीयविष यत्वकल्पनं च गौरवात् क्लिष्टत्वाच न संभवति ॥ ॥ इति प्रत्यक्षनिरूपणम् ॥

।। अथानुमाननिरूपणम् ॥ इदानीमनुमानं निरूप्यते । अनुमितिकरणमनुमानम् । व्याप्तिज्ञानत्वेन तज्जन्यः ज्ञानमनुमितिः । व्याप्तिसंस्कारोऽव्यवहितकारणत्वात् व्यापारः । महानसादावनुभूताया धूमनिष्ठवह्निव्याप्तेः संस्कारस्य पर्वतादौ धूमदर्शने नोबोधे सति अव्यवहितोत्तरक्षणे वह्नयनुमितिर्जायते । मध्ये व्याप्तिस्मरणं परामर्शो वा नापेक्षितः, प्रमाणाभावात् गौरवाञ्च । अनुमितेः संस्कार जन्यत्वेन स्मृतित्वापादनं न संभवति । संस्कारध्वंसादावतिप्रसङ्गेन संस्का रजन्यत्वस्य स्मृतित्वे अप्रयोजकत्वात् । इत्थं चानुमितौ जननीयायां पक्ष धर्मताज्ञानेनोद्धव्याप्तिसंस्कारादन्यन्नापेक्षितमस्ति । व्याप्तिज्ञानस्य च वह्निज्ञानांश एवोपयोगः, तदंश एव तस्यानुमितित्वात् ॥ व्याप्तिश्वाशेषसाधनाश्रयाश्रितसाध्यसामानाधिकरण्यम् । तद्हे सह चारज्ञानं कारणम् । तच भूयोदर्शनमेवेति नियमस्तु न । व्यभिचारास्फूर्ती सहर्शनेनापि व्याप्तिनिश्चयदर्शनात् ॥ __ अनुमानमन्वयिनामकमेकमेव । सर्वेषामपि धर्माणां ब्रह्मण्यसद्भा वात् केवलान्वय्येवाप्रसिद्धः । साध्याभावे हेत्वभावव्याप्तेः साध्यानुमि तावप्रयोजकत्वाव्यतिरेक्यप्रसिद्धः । व्यतिरेकव्याप्तिमात्रग्रहात् साध्यज्ञा नमर्थापत्त्येत्यग्रे स्फुटीभविष्यति ॥ अनुमानं स्वार्थपरार्थभेदेन द्विविधम् । तत्राद्यं निरूपितम् । द्वितीयं न्यायसाध्यम् । न्यायोऽवयवसमुदायः । अवयवत्रयेणैवानुमितिनिर्वाहादि तरत् द्वयमनर्थकम् । प्रतिज्ञाहेतूदाहरणानि उदाहरणोपनयनिगमनानि वा अवयवाः । व्याप्तिपक्षधर्मतयोनिस्य अन्यतरसमुदायेनैव सिद्धथा अन्य. द्वयस्यात्रानुपयोगात् ॥ ॥ इत्यनुमाननिरूपणम् ॥

॥ अथोपमाननिरूपणम् ॥ इदानीमुपमानं निरूप्यते । उपमितिकरणमुपमानम् । गृहे दृष्टगो पिण्डकस्य पुरुषस्य वने गवयेन्द्रियसंयोगे सति यज्ज्ञानम् 'अयं पिण्डो मगोसदृशः' इति तत् करणम् । तदनन्तरम् 'अनेन सदृशी मदीया गौः' इति यो निश्चयो जायते तत् गोनिष्ठगवयसादृश्यज्ञानं फलमुपमितिः । तच्च न प्रत्यक्षेण निर्वहति, तदानीं गोव्यक्तेरिन्द्रियासन्निकृष्टत्वात् । नाप्य नुमानेन, व्याप्तिज्ञानाधभावेऽपि तादृशप्रतीतेः संभवात् । उपमिनोमीति प्रतीतेर्विलक्षणत्वाञ्च तस्याः प्रमित्यन्तरत्वम् ।। ॥ इत्युपमानम् ॥

॥ अथागमः॥ सजातीयप्रमाणान्तराबाधिततात्पर्यविषयपदार्थसंसर्गबोधकवाक्यं प्रमाणशब्दः । सर्वेषां व्यावहारिकपदार्थानां ब्रह्मप्रमाबाध्यत्वात्सजातीयेति । 'घटमानय' 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादिलौकिकवैदिकवाक्येषु लक्षणसंगतिः। तदर्थघटानयन-यागस्वर्गसाध्यसाधनभावादिसंसर्गस्य पार मार्थिकतत्त्वावेदकवेदान्तवाक्यै धेऽपि व्यावहरिकतत्त्वावेदकप्रमाणैर बाधात् ॥ आकाङ्क्षा-योग्यताऽसत्ति-तात्पर्यज्ञानानि वाक्यार्थज्ञाने कारणानि । तत्र पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकासा । सा च क्रिया कारकपदानाम् । क्रियाश्रवणे कारकस्य, कर्मादिकारकश्रवणे क्रियायाश्च जिज्ञासोदयात् । कचिजिज्ञासाविरहेऽपि बोधोदयात् योग्यत्वानुधावनम् । 'नीलमुत्पलं' 'तत्त्वमसि' इत्यादावभेदान्वयबोधानुरोधेनाभेदान्वयबोधे समानविभक्तिकत्वमित्यायुधम् । तात्पर्यविषयसंसर्गाबाधो योग्यता । 'वहिना सिनेत्' इति वाक्यं न योग्यम् , तत्र तात्पर्यविषयसंसर्गस्य बाधितत्वात् । आदित्यो यूप इत्यादावभेदसंसर्गस्य बाधेऽपि तस्य तात्पर्याविषयत्वात, यूपप्राशस्त्यस्यैव तात्पर्यविषयत्वात् , तस्य चाबाधितत्वान्न योग्यताहानिः । 'तत्त्वमसि' 'सोऽयं देवदत्त' इत्यादौ वाच्यार्थाभेदस्य बाधेऽपि तात्पर्य विषयलक्ष्यार्थसंसर्गस्याबाधितत्वाद्योग्यतोपपत्तिः । अव्यवधानेन पदज न्यपदार्थोपस्थितिरासत्तिः । पदजन्यत्वविशेषणं च मानान्तरोपस्थापितानां बोधहेतुत्ववारणाय । द्वारमित्यादावपि पिधेहीत्यादिपदाध्याहारादेव बोधः।। ___ पदार्थो द्विविधः-शक्यो लक्ष्यश्चेति । तत्राद्यो मुख्यः । शक्य त्वं शक्तिविषयत्वम् । शक्तिर्नाम पदानामर्थेषु मुख्या वृत्तिः । यथा गोपदस्य सानादिमति । सा च शक्तिः पदार्थान्तरं कार्यानुमेयेति च सिद्धान्तः । सा च शक्तिर्जातावेव । तद्भासकसामग्र्यैव व्यक्तिभानम् , लाघवात् । यद्वा व्यक्तावपि शक्तिः स्वीक्रियते | सा स्वरूपसती शाब्दबोधे कारणम् , जातिशक्तिस्तु ज्ञातेति भेदः । नीलादिपदादिव धर्मिभानं लक्षणयेति केचित् । द्वितीयोऽमुख्यः । लक्षणाविषयत्वं लक्ष्यत्वम् ॥ लक्षणा शक्यसंबन्धः । सा च द्विविधा-केवला लक्षितलक्षणा चेति । तत्र शक्यसाक्षात्संबन्ध आद्या । यथा गङ्गायां घोष इत्यादौ । तत्र शक्यार्थस्य प्रवाहादेः साक्षात्संबन्धस्य तीरादौ सत्त्वात् । यत्र परम्परा संबन्धस्तत्र द्वितीया । यथा द्विरेफादिपदे । तत्र स्ववाच्यरेफद्वयघटितपद वाच्यत्वादिपरम्पराया एव संबन्धत्वात् । गौणी तु नापरा वृत्तिः, किंतु लक्षितलक्षणैव । सिंहो माणवक इत्यादौ सिंहादिपदशक्यनिष्टक्रौर्यादि सदृशक्रौर्यादिरूपपरम्परयैव तत्र बोधनिर्वाहात् ॥ लक्षणा पुनस्त्रिविधा जहल्लक्षणा अजहल्लक्षणा जहदजहल्लक्षणाचेति । यत्र शक्यमनन्तर्भाव्य पदार्थान्तरप्रतीतिः तत्राद्या । यथा शत्रुगृहे भोज नानुमति प्रार्थयन्तं प्रत्युत्तरं-'विषं भुक्ष्व' इति । शत्रुगृहे भोजननिवृत्ति रभिमतार्थः । स्वार्थस्य भानं तु नास्त्येव । नीलमुत्पलमित्यादौ द्वितीया। तत्र वाच्यार्थ नीलरूपमपरित्यज्यैव तद्वति लक्षणाङ्गीकारात् । एवं काकेभ्यो दधि रक्ष्यतामित्यादावपि । तत्र काकाद्यपरित्यागेन दध्युपधातकमार्जा रादेरपि बोधात् । सोऽयं देवदत्तः, तत्त्वमसीत्यादौ तृतीया। तत्राये तद्देशतत्कालविशिष्टत्वैतद्देशैतत्कालविशिष्टत्वयोः, द्वितीये सर्वज्ञत्वकिंचिज्ज्ञ त्वयोश्च विरुद्धत्वात्तद्विशिष्टयोरभेदासंभवनावशेष्यमात्रपरत्वमुभयत्रापीति ॥ ___लक्षणाबीजं तात्पर्यानुपपत्तिरेव । काकेभ्यो दधि रक्ष्यतामित्यादौ व्यभिचारेणान्वयानुपपत्तेरसार्वत्रिकत्वात् ॥ वाक्येऽपि लक्षणाऽस्ति । गभीरायां नद्यां घोष इत्यत्र वाक्यस्य गभीरनदीतीरे लक्षणा । वाक्ये प्रत्येकशक्त्यभावेऽपि तद्धटकपदशक्त्यधी नप्रतीतिविषयरूपशक्यसंबन्धस्य तीरे सत्त्वाभानुपपत्तिः। वाक्यार्थज्ञाने पदार्थज्ञानस्य तज्ज्ञाने शक्तिज्ञानस्य च हेतुतया शक्त्यधीनत्वं वाक्यजन्य प्रतीतरुपपद्यते । स्तुत्यर्थवादवाक्यानां तेजो वै घृतमित्यादीनां प्राशस्त्ये, सोऽरोदीदित्यादिनिन्दार्थवादवाक्यानां कुत्सितत्वे च लक्षणा ॥ तात्पर्य तत्प्रतीतिजननयोग्यत्वं, तत्रावच्छेदिका शक्तिरेव । अस्मिन् मते सर्वत्र कारणतायां शक्तरेवावच्छेदकत्वात् । तदन्यमात्रप्रतीतीच्छया ऽनुपरितत्वे सति तत्प्रतीतिजननयोग्यत्वं तात्पर्यमिति तु निष्कर्षः ॥ तात्पर्यप्रहश्च वेदे 'उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपती च लिङ्गं तात्पर्यनिर्णये ॥ इत्युक्तप्रकोरण मीमांसापरिशोधितन्यायात् , लोके प्रकरणादिना च भवति ॥ वेदानां सिद्धान्ते, न नैयायिकानामिव क्षणिकत्वं, न बा मीमांस कानामिव नित्यत्वम् , किंतु उत्पत्तिमत्त्वं, सृष्टिकाले ईश्वररचितत्वस्य 'अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद' इत्या दिश्रुतिसिद्धत्वात् । प्रलयकाले च तेषां वियदादीनामिव नाशः। एवं सति वेदस्य ईश्वरकृतत्वेनापौरुषेयत्वसिद्धान्तभङ्ग इति न शङ्कनीयम् । स जातीयोचारणानपेक्षोञ्चारणविषयत्वस्यैव पौरुषेयत्वस्य विवक्षितत्वात् । सर्गाधकाले पूर्वसर्गसिद्धानुपूज्यैव वेदस्येश्वरेण रचनात्तादृशपौरुषेयत्वं तत्र नास्त्येव । भारतादिकं व्यासादिना स्वत एव कृतमिति तस्य सजातीयो पारणानपेक्षोच्चारणविषयत्वरूपपौरुषेयत्वमत्येव । एवंच पौरुषेयापौरुषेय भेदेनागमो द्विविध इति बोध्यम् ॥ ॥ इत्यागमः॥

॥ अथार्थापत्तिः॥ उपपाद्यज्ञानेनोपपादककल्पनमापत्तिः । तत्रोपपायज्ञानं कारणम् उपपादकज्ञानं फलमिति विवेकः । पीनो देवदत्तो दिवा न भुङ्क्ते इत्याधु दाहरणम् । येन विना यदनुपपन्नं तत्तत्रोपपाद्यम् । यथा रात्री भोजनं विना दिवा अभुखानस्य पीनत्वमनुपपन्नमिति तदुपपाद्यम् । यस्याभावे यस्यानुपपत्तिः तत्तत्रोपपादकम् । यथा रात्रिभोजनाभावे दिवाऽभुञानस्य पीनत्वमनुपपनमतो रात्रिभोजनमुपपादकम् ॥ __ अर्थस्यापत्तिः कल्पनमिति व्युत्पत्त्या फले, अर्थस्यापत्तिर्यस्मादिति व्युत्पत्त्या करणे चार्थापत्तिशब्दस्य प्रवृत्तिः । सा च दृष्टार्थापत्तिः श्रुता पत्तिश्चेति द्विविधा । पुरोवर्तिरङ्गादिविषयकेदंरजतमितिज्ञानानन्तरं यत्र नेदं रजतमिति ज्ञानं जायते तत्राद्या । तत्र निषेध्यत्वमुपपाद्यम् , तच रजतस्य सत्यत्वे नोपपद्यत इति सद्धिमत्वरूपमिथ्यात्वमुपपादकम् । यत्र 'तरति शोकमात्मवित्' इति वेदवाक्यबोधितात्मज्ञाननिष्ठसंसाररूपशो कनिवर्तकत्वानुपपत्त्या संसारमिध्यात्वकल्पनं तत्र द्वितीया । तत्र ज्ञानस्य संसारनिवर्तकत्वमुपपाधं, संसारमिथ्यात्वमुपपादकम् । एवमुदाहरणान्त राण्यप्यूपानि ॥ श्रुतापत्तिर्द्विविधा-अभिधानानुपपत्तिमूला, अभिहितानुपपत्तिमू ला चेति । तत्राभिधानं तात्पर्यम् । द्वारमित्याचाद्योदाहरणम् । तत्र द्वारकर्मक पिधानबोधतात्पर्यमुपपाचं, पिधेहिपदाध्याहार उपपादकम् । तत्र तत्प दाध्याहारं विना तादृशाबोधपरत्वानिर्वाहात् । ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यायन्त्योदाहरणम् । तद्वाक्यात्ताशयागस्य स्वर्गसाधनत्वमभिहितम् । तदुपपाचं, अपूर्व विना नष्टो यागो बहुकालानन्तरभाविस्वर्ग जनयितुं नालमित्यपूर्वस्य कल्पकं भवेत् ॥ व्यतिरेकव्याप्तिज्ञानस्यानुमितिहेतुत्वानङ्गीकारात् अर्थापत्तेर्नानुमानेन गतार्थता । पृथिवी इतरेभ्यो भिद्यत इत्यादावितरभेदादेरापत्त्यैव सिद्धिः । श्रत एव तस अनुव्यवसाय इतरभेदं कल्पयामीत्येव नानुमिनोमीति ॥ ॥ इत्यापत्तिः॥

॥ अथानुपलब्धिः ॥ ज्ञानकरणाजन्याभावानुभवासाधारणकारणमनुपलब्धिप्रमाणम् । अदृष्टाद्यभावविधेयकानुमितिकरणेऽतिव्याप्तिवारणायाजन्यान्तम् । घटादि वारणाय विशेष्यभागः। घटादिप्रत्यक्षमादाय चक्षुरादावतिप्रसङ्गवारणा याभावेति । साधारणकारणादृष्टादिवारणायासाधारणेति । अभावस्मृत्य साधारणकारणसंस्कारवारणायानुभवेति । यदि च स्मृतावनुभवस्यैव करणत्वं संस्कारस्तु व्यापार एव तदाऽनुभवत्वेन निवेशो माऽस्तु । ज्ञानकरणजन्यत्वात् स्मृतेरजन्यान्तेनैव वारणात् ॥ योग्यानुपलब्धिरेवाभावग्राहिका । तत्र योग्या चासावनुपलब्धिश्चेति विग्रहः । अनुपलब्धौ योग्यत्वं प्रतियोगिसत्त्वव्यापकोपलम्भकत्वम् । इत्थं चालोकादिचाक्षुषकारणकलापवति भूतलादौ घटाद्यभावस्यानुपलब्धि. गम्यत्वम् , एवं स्तम्भादौ पिशाचाद्यन्योन्याभावस्यानुपलब्धिगम्यत्वं चोपपद्यते । आत्मादावदृष्टादिविरहस्य पिशाचादौ स्तम्भादिभेदस्य चानुपलब्धिगम्यत्वस्य नेदानीमापत्तिः । अधिकरणादाविन्द्रियसन्निकर्ष सत्त्वात्तद्वहस्य इन्द्रियकरणकत्वेऽपि अभावेन इन्द्रियाणां सन्निकर्षाभावान तहस्य तत्करणकत्वम् । इन्द्रियाणामन्वयव्यतिरेकाभ्यामभावग्रहे अपे क्षितत्वेऽपि तेषामधिकरणादिप्रत्यक्षे उपक्षीणत्वात् अभावग्रहं प्रत्यन्यथा सिद्धत्वमेव । प्रत्यक्षत्वं तु नेन्द्रियजन्यत्वव्याप्यं, दशमस्त्वमसीत्यादि वाक्यजन्ये प्रत्यक्षे व्यभिचारात् । तब यथा शब्दः करणम्, एवमभाव प्रत्यक्षेऽनुपलब्धिरिति बोध्यम् । भूतले घटो नास्तीत्यभावानुभवस्थले वृत्तिनिर्गमावश्यंभावेन भूतलावच्छिन्नचैतन्यमिवाभावावच्छिन्नचैतन्यमपि प्रमात्रभिन्नमिति प्रत्यक्षत्वे समानेऽपि वृत्तिवैजात्यात् प्रमाणवैजात्यसिद्धिः । वृत्त्योस्त्विन्द्रियजन्यत्वतदजन्यत्वाभ्यां भेदः स्फुट एव । इत्थं चाभाव प्रत्यक्षे सन्निकर्षाभावादिन्द्रियाणां न करणत्वम् । अनुपलब्धेस्तत्संभवाच प्रमाणान्तरत्वमुपगन्तव्यम् । अभावश्चतुर्विधः-प्रागभावो ध्वंसोऽत्यन्ताभावोऽन्योन्याभावश्चेति । तत्र प्रथमः कारणे कार्योत्पत्तिपूर्वक्षणपर्यन्तं वर्तमानो भविष्यतीति प्रतीतिसाक्षिकोऽभावः । कार्योत्पत्तिक्षणे च तस्य नाशः । तत्रैव घटा देर्मुद्रपाताद्यनन्तरं नष्ट इति प्रतीतिसाक्षिकोऽभावो द्वितीयः । सोऽपि खाधिकरणकपालादिनाशे नश्यत्येव, ब्रह्मातिरिक्तस्य सर्वस्याप्येतन्मतेऽ नित्यत्वेन ध्वंसाधिकरणस्य नित्यत्वे कथमिति शङ्काया एव नावसरः । यत्र यस्य कालत्रयेऽप्यभावः स तृतीयः । यथा वाय्वादौ रूपादिकं नेति प्रतीतिविषयः । सोऽप्याकाशादिवद्विनाशी । घटो न पट इत्यादिप्रतीतिसिद्ध. श्वतुर्थोऽन्योन्याभावः । पृथक्त्वं विभाग इत्यादिशब्दैः व्यवह्रियमाणः स एव । भेदातिरिक्तविभागादौ प्रमाणाभावात् गौरवाच । अयं चाधिकरणस्य सादित्वे सादिः, तस्यामादित्वे अनादिः । यथा घटपटयोर्जीवब्रह्मणोश्च भेदः।। स पुनर्द्विविधः-सोपाधिकनिरुपाधिकभेदात् । य उपाधिसत्तायामेव वर्तते स आद्यः । उपाधिसत्ताव्याप्यसत्ताक इति यावत् । यश्वोपाधि. सत्ताधीनो न भेदः किं तु स्वतःसिद्धः स द्वितीयः । एकस्यैवाकाशस्य घटाद्युपाधिभेदाद्यो भेदः, एकस्य चन्द्रस्य जलभाजनभेदाद्यो भेदः, एकस्य ब्रह्मणः अन्तःकरणभेदाद्यो भेदः, तानि प्रथमस्योदाहरणानि । घटादौ पटादिभेदो द्वितीयोदाहरणम् ।। ॥ इत्यनुपलब्धिः ॥

॥अथ प्रामाण्यवादः॥ उक्तप्रमाणानां प्रामाण्यं स्वत एवोत्पद्यते ज्ञायते च । तथाहि । तद्वति तत्प्रकारकज्ञानत्वं प्रमात्वं स्मृत्यनुभवसाधारणम् । तत्र ज्ञानसामान्य सामग्री प्रयोजिका । अधिकस्य गुणस्य तत्र हेतुत्वं नाङ्गीक्रियते, अनुगत गुणस्य दुर्वचत्वात् । दोषाभावस्यापि प्रतिबन्धकाभावविधया प्रमायां कारणतया ज्ञानसामान्यसामग्रथाः भ्रमप्रमोभयसाधारण्येऽपि न भ्रमस्य वेदान्तपरिभाषासंग्रहः । प्रमात्वापत्तिः । ज्ञानसामम्यनन्तर्गतभावकारणानपेक्षत्वस्यैव स्वतस्त्वा दोषाभावस्याधिकस्य प्रमायां हेतुत्वेऽपि न तद्धानिः । दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वस्य स्वतोग्राह्यत्वरूपत्वान्न तस्यापि क्षतिः । साक्षिणा वृत्तिज्ञाने गृह्यमाणे तद्गतप्रामाण्यस्यापि तेनैव ग्रहणं संभवति । प्रामाण्यसंशयस्थले संशयानुरोधेन दोषस्याप्यावश्यकतया दोषाभावघटि तायाः स्वाश्रयग्राहकसामघ्या अभावेन तत्र प्रामाण्यग्रहस्यैवानुदयान तदनुपपत्तिः । यावत्स्वाश्रयग्राहकग्राह्यत्वयोग्यत्वं स्वतस्त्वमित्युच्यते । तस्य च संशयस्थलेऽपि सत्त्वान्न दोषः। परं तु संशयजनकदोषसमवधानेन प्रामाण्यामहान संशयानुपपत्तिरिति मन्तव्यम् । ज्ञानसामान्यसामग्री नाप्रामाण्ये प्रयोजिका, तथा सति प्रमाया अप्यप्रामाण्यापत्तेः, किन्तु दोषस्तत्प्रयोजकः । अप्रामाण्यघटकसकलपदार्थानां साक्षिणा ग्रहीतुमशक्य तया न तस्य स्वतोपाह्यत्वम् किन्त्वनुमानगम्यत्वमेव । एवं चाप्रामाण्यस्यो. त्पत्तिानं च परत एव ॥ ॥ इति प्रामाण्यवादः॥

॥ अथ विषयनिरूपणम् ॥ उक्तप्रमाणानां प्रामाण्यं व्यावहारिकतत्त्वावेदकत्वपारमार्थिकतत्त्वा बेदकत्वभेदेन द्विविधम् । तत्र ब्रह्मवरूपातिरिक्तविषयकाणां प्रथमम् । व्यवहारदशायामबाधितत्वं व्यावहारिकत्वम् । तच्च भूतभौतिकानां सर्वे षामस्ति, तेषां व्यवहारदशायां कदाऽपि बाधाभावात् । जीवब्रह्मैक्यपराणां तत्त्वमसीत्यादीनां द्वितीयम् । कालत्रयेऽप्यबाधितत्वं पारमार्थिकत्वम् । तच महावाक्यार्थे जीवपरैक्ये अस्ति, तस्य कदाऽपि बाधाप्राप्तेः । तस्य चैक्यस्य ज्ञानं तत्त्वंपदार्थज्ञानादेव भवति । अतस्तत्पदार्थो लक्षणप्रमाणाभ्यां प्रथमं निरूप्यते ॥

स्वरूपतटस्थभेदेन लक्षणं द्विविधम् । तत्र स्वरूपमेव लक्षणं स्वरूप लक्षणं, यथा 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिश्रुतिबोधितं सत्य ज्ञानादिकं ब्रह्मणो लक्षणम् । स्वरूपस्यापि कल्पनया धर्मत्वस्य संभवान लक्षणत्वहानिरिति बोध्यम् । तदुक्तम्-'आनन्दो विषयानुभवो नित्यत्वं चेति धर्माः अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्ते' इति । अयावल्ल क्ष्यभावित्वे सति व्यावर्तकं तटस्थलक्षणम् । यथा गन्धवत्त्वादिकं पृथि व्यादेः । महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु च तदभावाव्यावर्तक त्वाच्च तथात्वम् ॥ ब्रह्मणश्च जगत्सृष्टचादिकर्तृत्वं तटस्थलक्षणम् । उपादानगोचरापरो क्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम् । ईश्वरस्य तत्सत्त्वे च 'यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते' 'सोऽकामयत बहु स्यां प्रजायेयेति' 'तन्मनोऽकुरुत' इत्यदिश्रुतयो मानम् । अत्र च जन्माद्यन्यतमस्यैव कार्यकोटौ ज्ञानाद्यन्यतमस्यैव कारणकोटौ च प्रवेशः, नतु जन्मादित्रयस्य ज्ञानादित्रयस्य च, प्रयोजनाभावात् । इत्थं च सृष्टपनुकूलज्ञानवत्त्वरूपस्रष्टुत्वादिरूपाणि नव लक्षणानि । ब्रह्मणः सृष्टया दिकर्तृत्वे च 'यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति' इत्यादिश्रुतिर्मानम् ॥ यद्वा सकलकार्योपादानत्वं ब्रह्मलक्षणम् । तच्च जगदध्यासाधिष्ठानत्वं, जगदात्मना परिणममानमायाधिष्ठानत्वं वा । तादृशाध्यासे च 'इदं सर्व यदयमात्मा' इत्याद्याः श्रुतयो मानम् । घंटादावस्ति भातीष्ट इति व्यवहा रश्च तत्र जगद्ब्रह्मणोस्तादात्म्याध्यासेन ब्रह्मगतधर्माणां घटादौ भानात् । दुःखस्याप्यानन्दात्मकब्रह्माध्यासेऽपि न तत्रेष्टत्वव्यपदेशः। तथा प्रतीत्य भावेन तत्रानन्दांशाध्यासानङ्गीकारात् । जंगति नामरूपव्यपदेशः स्वपरि णाम्यविद्याधीनः । तदुक्तं पञ्चदश्याम् १, यथा अयो दहतीत्यादिव्यवहारेण अग्न्ययःपिण्डयोस्तादात्म्याच्यासेनामिगतध माणामयसि भानं तथेति बोध्यम् ॥ २. भारोपजनकदोषस्य फलमात्रोयत्वादिति भावः ॥

'अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥' इति । अथ जगत्सृष्टिप्रकारो निरूप्यते । सर्गाद्यकाले परमेश्वरः सृज्यमान प्रपञ्चवैचित्र्यहेतुप्राणिकर्मवासनासहकृतोऽपरिमितानिरूपितशक्तिविशेषवि शिष्टमायासहितः सन् नामरूपात्मकनिखिलप्रपन्चं यथापूर्व बुद्धावाकलय्य इदं करिष्यामीति संकल्पयति । 'तदैक्षत बहु स्यां प्रजायेयेति' 'सोऽकामयत बहु स्यां प्रजायेयेति' इत्यादिश्रुतेः । स च संकल्पः मायावृत्तिरूपः सिसृक्षेत्युच्यते॥ ततस्तमःप्रधानप्रकृतेः आकाशादीनि पञ्च भूतानि अपञ्चीक तानि तन्मात्राभिधानि जायन्ते । तत्राकाशस्य शब्द एव गुणः । वायु सेजोजलभुवां क्रमाच्छब्दस्पर्शी, शब्दस्पर्शरूपाणि, शब्दस्पर्शरूपरसाः, शब्दस्पर्शरूपरसगन्धाश्च गुणा बोध्याः। पञ्चानामपि भूतानामेकैको गुणः स्वाभाविकः, इतरे कारणगुणोत्पन्ना इति ध्येयम् ।। ___ इमानि च भूतानि सत्त्वरजस्तमोगुणकार्याणि । भूतानां सत्वांशैः क्रमाच्छ्रोत्रत्वगक्षिरसनघ्राणान्युत्पद्यन्ते । तैरेव मिलितैरन्तःकरणं जायते । अन्तःकरणस्यैव वृत्तयो मनोबुद्ध यहंकारचित्तानि । श्रोत्रादीन्द्रियाणां दिग्वातार्कवरुणाश्विनोऽधिष्ठातारः । घ्राणस्य पृथिव्यधिष्ठातृदेवतेत्यन्ये । अन्तःकरणवृत्तीनां क्रमाञ्चन्द्रब्रह्मरुद्रविष्णवो देवताः ॥ ___भूतानां रजोशैः क्रमाद्वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि भव न्ति । वहीन्द्रोपेन्द्रमृत्युप्रजापतयः क्रमात्तेषामधिष्ठातृदेवताः । पायोर्मित्रो देवतेत्येके । भूतानां रजोशैमिलितैः पञ्च वायवो जायन्ते । ते च प्राणापानव्यानोदानसमानसंज्ञा भवन्ति ॥ एभ्यः सूक्ष्मभूतेभ्यो महाभतान्युत्पद्यन्ते । तान्येव पश्चीकृत भूतान्युच्यन्ते । पञ्चीकरणं च 'द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः। स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते ॥' इत्युक्तप्रकारम् । पृथिव्यादावुक्तप्रकारेणेतरभूतांशसद्भावेऽपि पृथिव्या द्याधिक्येन तव्यवहारः, 'वैशेष्यात्तु तद्वादस्तद्वाद' इत्युक्तेः ॥ लोकान्तरयात्रानिर्वाहार्थं जीवानां सूक्ष्मशरीरमङ्गीक्रियते । तच्च 'पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् ।। अपञ्चीकृतभूतोत्थं सूक्ष्माकं भोगसाधनम् ॥ इत्युक्तम् । तच जीवानां मोक्षपर्यन्तं तिष्ठति । तञ्च लिङ्गशरीरं द्विविधम् परमपरं चेति । हिरण्यगर्भलिङ्गशरीरं जीवलिङ्गसमष्टिरूपं तत्राद्यम् । तदेव महत्तत्त्वमित्युच्यते । अस्मदादिलिङ्गशरीरमन्त्यमहंकाराख्यम् ॥ पञ्चीकृतभूतेभ्यश्चतुर्दशभुवनानां तद्गतभोग्यादिनिखिलपदार्थानां चोत्पत्तिः । पञ्चतन्मात्रोत्पत्तौ लिङ्गशरीरोत्पत्तौ हिरण्यगर्भस्थूलशरीरोत्पत्ती चेश्वरस्य साक्षात् , इतरप्रपश्चोत्पत्तौ हिरण्यगर्भद्वारा कर्तृत्वं बोध्यम् । 'हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याक. रवाणि' इति श्रुतेः । अयं च हिरण्यगर्भो मूर्तित्रयादन्यः प्रथमो जीवः । 'स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्मा समवर्तत ।। हिरण्यगर्भः समवर्तता इत्यादिश्रुतेः ।। ___अथ प्रलयः। त्रैलोक्यनाशरूपप्रलयो नित्यप्राकृतनैमित्तिकात्यन्तिक भेदाचतुर्धा भवति ॥ ___तत्र प्रथमः सुषुप्तिः, तदा सर्वकार्याणां लयात् । धर्माधर्मपूर्वसंस्का राणां च तदा स्वस्वकारणात्मनाऽवस्थानादनन्तरं सुखादेः स्मृतेश्च नानुप पत्तिः। सुषुप्तिकालेऽन्तःकरणस्यापि लीनत्वाच्छासोपलम्भो भ्रमः । यद्वाs न्तःकरणस्य शक्त्योर्ज्ञानक्रियारूपयोः आद्याया एव तदानीं लयः, तेन प्राणायवस्थाने न विरोधः ॥ ___कार्यब्रह्मनाशजन्यः सकलकार्यनाशो द्वितीयः । ब्रह्मणः स्वाधिकार निर्वाहकप्रारब्धावसाने लब्धसाक्षात्कारैः स्वलोकनिवासिभिः सर्वैः सह मुक्तिः । 'ब्रह्मणा सह ते सर्वे संप्राप्त प्रतिसंचरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥' ___ इति श्रुतेः । एवं ब्रह्मणि स्वलोकवासिभिः सह मुच्यमाने तदधि ष्ठितब्रह्माण्डतदन्तर्गतसकललोकानां तदन्तर्वर्तिनिखिलभूतभौतिककार्याणां च प्रकृतौ मायात्मिकायां लयो न ब्रह्मणि । अत एवायं प्राकृतप्रलय इत्युच्यते ॥ कार्यब्रह्मणो दिवसावसानभवस्तृतीयः । तदा त्रैलोक्यस्यैव नाशः। ब्रह्मणो दिवसश्च 'चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते' इति वचनबोधित श्चतुर्युगसहस्रपरिमितः कालः । तावानेव रात्रिसमयः। रात्रिदिवसयोः परिमाणस्य तुल्यत्वात् । सा च रात्रिरुक्तप्रलयः ।। ब्रह्मसाक्षात्कारजन्यः सर्वमोक्षश्चतुर्थः । स चैकजीववादे सर्वेषां युगपदेव, नानाजीववादे क्रमेण भवति । 'सर्व एकीभवन्ति' इति श्रुतेः । अयं चतुर्थः प्रलयः तत्त्वज्ञानमात्रसाध्यः । अन्ये त्रयोऽपि कर्मनाशाधीनाः॥ प्रलये क्रमः सृष्टेविपरीतः। तथाच पृथिव्यादीनाम् अबादिषु क्रमा लयो बोध्यः । तथाच विष्णुपुराणे 'जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते। तेजस्यापः प्रलीयन्ते तेजो वायो प्रदीयते ॥ वायुश्च लीयते व्योग्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मनिष्कले च प्रलीयते ॥' इति । एतादृशप्रलयकर्तृत्वमपि तत्पदार्थब्रह्मणस्तटस्थलक्षणम् ।। एवं सृष्टयादेः श्रुतिसिद्धत्वेऽपि न तस्य वास्तवत्वे श्रुतेस्तात्पर्यम् , अद्वैतव्याकोपात् । किं त्वद्वैतदाायैव श्रुत्यादिषु तद्वर्णनम् । तथाहि सृष्टचादिकमनुक्त्वा ब्रह्मणि प्रपञ्चे निषिद्धे सति वाय्वादौ प्रतिषेध्यस्य रूपादेरिवान्यत्र प्रसिद्धिराशङ्कत । तथाचाद्वितीयत्वं न निश्चितं स्यात् । सृष्टचादिप्रतिपादने च ब्रह्मणः प्रपञ्चोपादानत्वनिश्चयादुपादानादन्यत्र कार्यस्य सत्त्वप्रसक्तेरभावाच तत्रापि नेति नेतीति प्रपश्चनिषेधे सति तस्य मिथ्यात्वावगमादद्वैतमतिदृढं भवतीति । उपासनाकाण्डस्थसगुणवाक्यानां तदुपयोगिगुणारोपे निर्गुणस्थानां तेषां निषेधोपयोगिगुणबोधमात्रे तात्प यमिति न कस्यापि वचनस्याद्वैतप्रतिपादकवाक्येन विरोधः । तत्पदार्थ ईश्वरो मायाप्रतिबिम्बः, अन्तःकरणप्रतिबिम्बा जीवा इत्येकः पक्षः। तत्र 'कार्योपाधिरयं जीवः कारणोपाधिरीश्वर' इति श्रुति मानम् । अस्मिन् पक्षे जलाशयगतशरावगतसूर्यादिप्रतिबिम्बयोरिव जीवपरयोर्भेदः। उपाधेः प्रतिबिम्बपक्षपातितयोपाधिकृतदोषा ईश्वरेऽपि प्रसज्येरनित्यतः परमेश्वरो बिम्बभूतः, प्रतिबिम्बभूता जीवाः, बिम्बत्व प्रतिबिम्बत्वाभ्यामस्पृष्टं शुद्धं ब्रह्मेत्यपरं मतम् । बिम्बभूतमुखादेर्दर्पणादिप्रवे शाभाववदीश्वरस्यान्तःकरणाद्युपाध्यप्रवेशे तस्य सर्वान्तर्यामित्वं कथमिति नाशकनीयम् । परिच्छिन्नबिम्बस्य उपाधिप्रदेशेऽभावेऽपि अपरिच्छिन्नबि म्बस्येश्वरस्य प्रतिबिम्बप्रदेशसंबन्धस्याबाधितत्वान्न तस्य सर्वान्तर्यामि त्वस्य भङ्गः॥ त्वंपदार्थश्चैकजीववादेऽविद्याप्रतिबिम्बितो जीवः, अनेके जीवा इति पक्षे अन्तःकरणप्रतिबिम्बितः । जीवस्य च जाग्रत्स्वमसुषुप्तय इति तिम्रोऽवस्थाः सन्ति । तत्रेन्द्रियजन्यज्ञानं यइशायामस्ति सा जाप्रदवस्था । तादृशज्ञानमन्तःकरणवृत्तिः ॥ सा चावरणभङ्गार्थेत्येके । तेषां मते अविद्योपाधिको जीव इति घटाधवच्छिन्नचैतन्यस्य जीवस्य चैक्यात्सर्वदा जीवस्य घटादिभानापत्त्या तद्वारणाय तदावारकं किंचिदज्ञानमङ्गीकृतम् । तच मूलाज्ञानपरतन्त्रम् । तस्यैवावस्थाज्ञानं तूलाज्ञानमिति वा नाम । एवं च तदज्ञानेनावृतत्वान्न घटादेः सर्वदा भानप्रसङ्गः । अनावृतचैतन्यस्यैव भासकत्वोपगमात् । आवरणभङ्गश्च वृत्त्येत्यवश्यमङ्गीकरणीयम् । आवरणस्य येन केनापि निवृत्त्यनङ्गीकारे घटादेर्भानं कदाऽपि न स्यात् । भासकस्य निवर्तकत्वासं. भवान चैतन्यमात्रस्य तथात्वम् । सामान्यतो वृत्त्युपहितस्य निवर्तक वाङ्गीकारे परोक्षस्थलेऽपि तन्निवृत्तिः प्रसज्येत । तस्मादपरोक्षा वृत्ति स्तादृशवृत्तिविशिष्टचैतन्यं वा आवरणभङ्गहेतुरित्यावरणभनार्था वृत्तिरित्येक मतम् ।। __ संबन्धार्था वृत्तिरिति पक्षान्तरम् । तत्राविद्योपाधिकस्य सर्वव्या पिनो जीवस्य घटादिप्रदेशे विद्यमानस्यापि अपरोक्षवृत्तिविरहदशायां न विषयावभासकत्वं तादृशवृत्तिदशायां विषयावभासकत्वं च दृश्यते इति व्यङ्गथव्यञ्जकभावरूपसंबन्धविशेषस्यैव भाननिर्वाहकत्वस्य कादाचित्क वृत्तेरेव तत्प्रयोजकत्वस्य चाङ्गीकार आवश्यक इति वृत्त। संबन्धार्थत्वम् । वृत्तेविषयावभासकसंबन्धप्रयोजकत्वं कथमिति चेदित्थम् । तैजसमन्त: करणं स्वत एव स्वच्छत्वात् जीवचैतन्याभिव्यजनसमर्थम् । घटादिकं त्वस्वच्छद्रव्यत्वान्न तथा, किन्तु वृत्तिसंयोगे सति चैतन्याभिव्यञ्जनसमर्थ भवति । उक्तं च विवरणे-'अन्तःकरणं हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादौ चैतन्याभिव्यक्तियोग्यतामापादयति' इति । स्वच्छद्रव्यसंबन्धाद स्वच्छद्रव्यस्य प्रतिबिम्बग्रहणसामर्थ्यमनुभवसिद्धं च, यथा कुडथादेर्जला दिसंबन्धात् । विषयस्य व्यञ्जकत्वं तत्प्रतिबिम्बग्राहित्वम् । चैतन्यस्य अभिव्यक्तत्वं तु प्रतिबिम्बितत्वमिति मन्तव्यम् । विषयस्योक्ताभिव्य अकत्वसिद्धयर्थमेव प्रत्यक्षस्थले वृत्तेरिन्द्रियद्वारा बहिर्निर्गमनाङ्गीकारः । परोक्षस्थले विषये वृत्तिसंयोगाभावेन विषयस्य चैतन्यानभिव्यञ्जकतया न प्रत्यक्षत्वम् । विषयाणां चैतन्याभिव्यञ्जकत्वस्यैव तन्मते प्रत्यक्षत्वात् । जीवानामन्तःकरणोपाधिकतया परिच्छिन्नत्वमिति पक्षेऽपि वृत्तेः संबन्धार्थ त्वमेव । तथाहि । जीवस्य परिच्छिन्नतया विषयदेशसंबन्धाभावेन विषयप्रत्यक्षासंभवात् तत्सिद्धयर्थ घटाद्यवच्छिन्नचैतन्यस्य प्रमातृचैतन्याभे दसिद्धयर्थ बहिर्वृत्तिरावश्यकीति वृत्तेः संबन्धार्थता। वृत्तिदशायां प्रमातृ विषयचैतन्ययोरभेदप्रकारस्तु उपपादितोऽधस्तात् ।। ___इन्द्रियाजन्यविषयगोचरापरोक्षान्तःकरणवृत्त्यवस्था स्वप्नावस्था । अविद्यागोचराविद्यावृत्त्यवस्था सुषुप्तवस्था । अविद्याप्रतिबिम्बो जीव इत्येकजीववादिमतम् । अन्तःकरणप्रतिबि. म्बा इति मते जीवा अनेके। उभयत्रापि जीवः स्वयंप्रकाशोऽनुभवरूपश्च । अत एव स्वनावस्थामधिकृत्य 'अत्रायं पुरुषः स्वयंज्योतिः' इति 'प्रज्ञानघन' इति च श्रुतिः । एवंविधो जीवस्त्वंपदार्थः ।। तत्त्वमसीत्यादिवाक्यानि जीवपरयोरैक्यं वदन्ति । तस्य च नाहमीश्वर इति प्रत्यक्षेण, किंचिज्ज्ञत्वसर्वज्ञत्वादिविरुद्धधर्माश्रयत्वेन, 'द्वा सुपर्णा' इत्यादिश्रुत्या, 'द्वाविमौ पुरुषौं' इत्यादिस्मृत्या च सिद्धार्थविरुद्धत्वेऽपि उपक्रमादिना निर्णीतजीवपराद्वैततात्पर्यकमहावाक्यानां प्रबलतरप्रमाणत्वेन तेषां गौणार्थकत्वकल्पनं न न्याय्यमिति तेषामैक्यरूपमुख्यार्थपरत्वमेव । अन्यथा चन्द्रादौ ज्योतिश्शास्त्रबोधितस्य प्रकृष्टमहत्परिमाणस्य स्वल्पपरि माणग्राहिणा प्रत्यक्षेण बाधः प्रसज्येत । भेदवादस्तूपाधिकृतो भ्रान्तिकृतो वेति द्रष्टव्यम् । आरोग्यविषयसंस्कारस्यैवारोपप्रयोजकत्वात् प्रकृते च तादृशसंस्कारस्यानादितया कर्तृत्वाद्यध्यासे न काऽप्यनुपपत्तिरिति ध्येयम् । तत्त्वंपदशक्यविशिष्टार्थयोरभेदासंभवेऽपि तत्पदलक्ष्यार्थयोरैक्यं संभव त्येवेति प्रतिपादितमधस्तात् ॥ इत्थं च सर्वप्रमाणाविरुद्धं 'आत्मानं चेद्विजानीयादहमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥ तत्र को मोहः कः शोक एकत्वमनुपश्यतः ।। जाग्रत्स्वप्नसुषुप्त थादिप्रपञ्चो यत्प्रकाशते । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धात्प्रमुच्यते । मय्येव सकलं जातं मयि सर्व प्रतिष्ठितम् । मयि सर्व लयं याति तद्ब्रह्माद्वयमस्म्यहम् ।। यथा नदी नदो लोके सागरेणैकतामियात् । तद्वदात्माऽक्षरेणासौ निष्कलेनैकतामियात्॥ यदस्थूलमनण्वाख्यमप्रमेयमवर्णकम् । तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् ।। सर्वभूतान्तरस्थाय नित्यशुद्धचिदात्मने ।। प्रत्यक्चैतन्यरूपाय मह्यमेव नमो नमः ॥ इत्यादिश्रुतिपुराणस्मृत्यादितात्पर्यविषयीभूतं निरस्तसमस्तोपाधि जीवब्रह्मैक्यमेव वेदान्तशास्त्रस्य विषय इति सिद्धम् ॥ वेदान्तशास्त्रस्य प्रयोजनं परमपुरुषार्थः । स च मोक्षः । यज्ज्ञातं सत्स्ववृत्तितयेष्यते स पुरुषार्थः । मुख्यामुख्यभेदेन स द्विविधः। तत्र सुखदुःखाभावी मुख्यौ, तदन्यतरसाधनममुख्यम् । सुखं द्विविधं-निरति शयं सातिशयं चेति । तत्राचं ब्रह्मसुखमेव 'आनन्दो ब्रह्मेति व्यजानात्

इत्यादिश्रुतेः। द्वितीयं विषयविशेषानुषङ्गाजनितान्तःकरणवृत्तिविशेषाधीन परस्परतारतम्योपेतं आनन्दवल्ल्यां प्रसिद्धमन्तःकरणवृत्तौ ब्रह्मानन्दप्रति बिम्बरूपम् । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेः॥ 

दुःखनिवृत्तिसहितब्रह्मानन्दावाप्तिर्मोक्षः । स च तत्त्वज्ञानात् भव ति । 'ब्रह्मविद्ब्रह्मैव भवति' 'तरति शोकमात्मवित्' इत्यादिश्रुतेः । तयोः सिद्धत्वेऽपि कण्ठगतस्य विस्मृतस्य मणेः प्राप्तस्यैवाप्तोपदेशात् अप्राप्तस्येव प्राप्तिर्यथा, यथा च मन्दान्धकारे रजौ सर्पत्वभ्रमवतो नायं सर्प इत्याप्तवचनात्सर्पनिवृत्त्या परिहृतस्यैव परिहारस्तथा तयोः प्राप्तिपरिहारौ ॥ स च मोक्षस्तत्वज्ञानैकफलम् , 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इति श्रुतेः । अज्ञाननिवृत्तानमात्रसाध्यत्वादज्ञान निवृत्तिमन्तरेणाज्ञानकार्यसंसारदुःखस्यानिवृत्तेरिति । तञ्च ज्ञानं जीवपरैक्य. विषयकम् 'अभयं वै जनक प्राप्तोऽसि, यदात्मानमेवावेदहं ब्रह्मास्मीति' इति श्रुतेः । तच्च ज्ञानं प्रत्यक्षरूपमेव निवर्त्य भ्रमस्य प्रत्यक्षरूपत्वात् परोक्षज्ञानेन तदनिवृत्तेः । तचापरोक्षं ज्ञानं तत्त्वमसीति वेदान्तवाक्यादित्येके । अपरे तु-प्रत्यक्षत्वे इन्द्रियजन्यत्वं प्रयोजकम् । नतु विषयविशेषः । अन्यथा करणविशेषाधीने प्रत्यक्षाप्रत्यक्षे कथमुपपद्यते । तेन ब्रह्मसाक्षात्कारे वाक्यं न करणम् । किंतु मननादिसंस्कृतं मन एव । मनसैवानुद्रष्टव्यमिति श्रुतेः । औपनिषदत्वोक्तिरुपनिषत्प्रयोज्यत्वनिबन्धनेति न तद्विरोधः। मनोगोच रत्वश्रुतिरप्यसंस्कृतमनोविषयेति न तस्या अपि विरोध इत्याहुः ॥ __ ज्ञानापरोक्ष्यं न करणविशेषाधीनम् । इन्द्रियजन्यत्वस्य प्रत्यक्षत्व व्यापकत्वे सुखादिप्रत्यक्षे व्यभिचारः । मनस इन्द्रियत्वाभावेन ताश प्रत्यक्षे इन्द्रियजन्यत्वस्याभावात् । अतस्तत्त्वमस्यादिवाक्यमेव ब्रह्मापरोक्ष करणम् । प्रत्यक्षस्य करणविशेषानधीनत्वे एकस्मिन्नेव सूक्ष्मवस्तुनि पटपटु करणाभ्यां प्रत्यक्षतदभावौ कथमुपपद्येतामिति नाशकनीयम् , प्रमाणचै तन्यस्य विषयचैतन्याभिन्नत्वस्यैव प्रत्यक्षत्वप्रयोजकतया प्रत्यक्षे चान्त: करणस्य बहिर्निर्गमनावश्यंभावात् सूक्ष्मवस्तुन्यसमर्थेन्द्रियस्य समिकर्षा भावादन्तःकरणस्य बहिर्निर्गमनासंभवादुभयोपपत्तेः ।। तस्मात्सत्त्वमसीत्यादिवाक्यमेव ब्रह्मात्मैक्यप्रत्यक्षकरणम् । 'तं त्वौप निषदम्' इत्यादिश्रुतेः। 'मनसैवानुद्रष्टव्यः' 'दृश्यते त्वम्यया बुद्धया' इत्यादिश्रुतिश्च तस्य सहकारित्वमेव वदतीत्येव सिद्धान्तः ।। पापक्षयोऽपि ज्ञाने हेतुः । तत्र च शुभं कर्म कारणमिति कर्मणां परम्परया ज्ञाने उपयोगः । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति, योन दानेन तपसाऽनाशकेन' इति श्रुतेः । 'कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते' इति स्मृतेश्च । कषायोऽत्र पापम् ॥ एवं श्रवणादिकमपि तत्त्वज्ञाने कारणं, मैत्रेयीब्राह्मणे तथा प्रतिपाद नात् । श्रवणं नाम वेदान्तानामद्वितीये ब्रह्मणि तात्पर्यावधारणानुकूला मानसी क्रिया । मननं नाम शब्दावधारितेऽर्थे मानान्तरविरोधशङ्कायां तनिराकरणानुकूलतर्कात्मकज्ञानजनको मानसो व्यापारः । निदिध्यासनं नामानादिदुर्वासनया विषयेष्वाकृष्यमाणस्य चित्तस्य विषयेभ्योऽपकृष्यात्म विषयकस्थैर्यापादनानुकूलो मानसो व्यापारः । ब्रह्मसाक्षात्कारे निदिध्यासनं मुख्य कारणम् । 'ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगू ढाम्' इत्यादिश्रुतेः । निदिध्यासनं प्रति मननं कारणम् । तदभावेऽर्थदा ढसिद्धथा निदिध्यासनस्यैवासिद्धः। एवं मनने श्रवणं हेतुः । तेन विना तात्पर्यनिश्चयासंभवेन शाब्दबोधस्यैवानुदयावेदान्तवाक्यार्थे मानान्तरविरो धशकापरिहारानुकूलतर्कानुसंधानरूपमननासंभवात् । इत्थं च तत्व ज्ञाने निदिध्यासनं, तत्र मननं, मनने च श्रवणं कारणमिति फलितम् ।। केचित्तु श्रवणादित्रयमपि ज्ञाने स्वतन्त्रं कारणं, घटादिकं प्रति मृत्कुलालादिवदित्याहुः । अन्ये तु-तत्त्वज्ञाने श्रवणं मुख्य कारणम् । मनननिदिध्यासने त्वङ्गे । अत्रामुख्यभावः प्राधान्याप्राधान्यरूपः । घटादिकार्ये मृदादीनां प्राधान्यं दण्डादेश्वाप्राधान्यमितिवदिति वदन्ति ॥ मुमुक्षुः श्रवणादावधिकारी । मुमुक्षायां च नित्यानित्यविवेक इहा मुत्रार्थफलभोगविरागः शमदमोपरतितितिक्षासमाधानश्रद्धा उपयुज्यन्ते । अन्तरिन्द्रियनिग्रहः शमः। बहिरिन्द्रियनिग्रहो दमः। विक्षेपाभाव उपरतिः। शीतोष्णादिद्वन्द्वसहिष्णुत्वं तितिक्षा । चित्तैकाम्यं समाधानम् । गुरुवेदा न्तवाक्यविश्वासः श्रद्धा । अत्रोपरमः संन्यासः । तेन संन्यासिनामेव श्रवणादावधिकार इति केचित् । उपरमशब्दो न संन्यासे रूढः किंतु विक्षेपविरहार्थकः । तेन गृहस्थादीनामपि तत्राधिकारः । अत एव जनकादेरपि ब्रह्मविचारः श्रुतिप्रसिद्धः संगच्छते । तेन सर्वाश्रमिणामपि श्रवणादावधिकारस्तुल्य इत्यपरे ॥ सगुणोपासनस्य मोक्षे चित्तैकाम्यसंपादनद्वारा कारणत्वम् । उक्तं हि 'निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः। ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥ इति । 'वशीकृते मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ॥' इति । सगुणोपासका अचिरादिद्वारा ब्रह्मलोकं प्राप्य तत्र श्रवणा द्यनन्तरं ब्रह्मणा सह मुक्ता भवन्ति । काम्यकर्मकृतस्तु धूममार्गेण पितृलो कादिकं गत्वा तत्र कर्मफलस्य भोगेन क्षये कर्मशेषभोगाय पुनरिममेव लोकं प्राप्य विविधयोनिषु स्थावरजङ्गमरूपासु स्वस्वकर्मानुसारेण संसरन्ति । तथाच श्रूयते-रमणीयचरणा रमणीयां योनिमापद्यन्ते, कपूयचरणाः कपूयां योनिम्' इति । तत्त्वज्ञानिनस्तु न लोकान्तरगमनं, 'न तस्य प्राणा उत्क्रामन्ति' इति श्रुतेः । ते पुनः प्रारब्धकर्मशेषं भोगेन क्षपयित्वा देहपा तानन्तरं विदेहकैवल्यं प्राप्नुवन्ति ॥ ____ 'तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये' इत्यादिश्रुत्या 'नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि' इति स्मृत्या च संचितकर्मणामेव ज्ञानेन क्षय इति सिद्धान्तः । संचितं कर्म सुकृतं दुष्कृतं चेति द्विविधम् । 'तस्य पुत्रा दायमुपयन्ति, सुहृदः साधुकृत्यां, द्विषन्तः पापकृत्याम्' इति श्रुतेः । प्रारब्धस्य कर्मणोऽज्ञाननिवृत्तौ प्रतिबन्धकत्वात् ज्ञाने सत्यपि यावत्प्रारब्धावस्थानं नाज्ञानस्य नाशः । अविद्याया एकत्वपक्षे तत्त्वज्ञानेन तस्या नाशे सर्वमुक्त्यापत्ताविष्टापत्तिरेव शरणम् । अत एव दोषादविद्याया नानात्वमन्येऽङ्गीकुर्वन्ति । अविद्यैकैव तस्या ब्रह्मस्वरूपावारिकाः शक्तयो नाना । एकस्य ज्ञाने सति तस्य ब्रह्मावारकशक्ते शात्तद्विशिष्टाविद्याना शात्तस्य मोक्षेऽपि अन्येषां तादृशशक्तेरनाशान तेषां मोक्ष इति नैकमुक्ती सर्वमुक्तिप्रसङ्ग इत्यपरे । एकमुक्तौ सर्वमुक्तिरिति पक्षो न स्वरसः । बहूनां मुक्त्यनन्तरमपि लोकयात्रायाः पुराणादिषु प्रसिद्धत्वात् ॥ इत्थं च ब्रह्मज्ञानं मोक्षसाधनम् । स च मोक्षोऽनर्थनिवृत्तिसहिता खण्डनित्यनिरतिशयानन्दावाप्तिरूपो वेदान्तशास्त्रस्य प्रयोजनमिति सिद्धम्। इति शिवम् ॥ प्रसादादेव भवतो निश्चित्याहं भवानिति । सर्वमेतज्जगदपि न बिभेमि कुतश्चन ॥

॥ इति श्रीरामवर्माख्यगोश्रीमहाराजर्षिकृतः वेदान्तपरिभाषासंग्रहः समाप्तः ॥

॥ वेदान्तपरिभाषासंग्रहः ॥ महामहिमश्री-ज्ञानविद्याभूषण सर रामवर्म जि सि एस् ऐ, जि सि ऐ ई गोश्रीमहाराजैः प्रणीतः प्रसाधकः के. नारायणपिषारकः