सामग्री पर जाएँ

मोक्षोपायान्तर्गतं स्थितिप्रकरणम्

विकिपुस्तकानि तः

ॐ अथ स्थितिप्रकरणं व्याख्यायते । ॐ

प्रत्यक्ज्योतिः किम् अपि परमम् भावयित्वाथ देवं
ध्यात्वा चित्ते भवभयहरं श्रीगणेशं विभुं च ।
मौलौ कृत्वा गुरुचरणयोर् धूलिपुञ्जं च टीका
स्थित्याख्येऽस्मिन् प्रकरणवरे तन्यते भास्करेण ॥ (मो_४,१.० ॥

एवम् उत्पत्तिप्रकरणेऽनुत्पत्तिरूपां जगदुत्पत्तिम् प्रतिपाद्य तच्छ्रवणेन च तत्र श्रीरामम् प्रतीतिभाजं निर्वर्ण्य तदनन्तरं योग्यं स्थितिप्रकरणारम्भं करोति

थोत्पत्तिप्रकरणाद् अनन्तरम् इदं शृणु ।
स्थितिप्रकरणं राम ज्ञातं निर्वाणकारि यत् ॥ (मो_४,१.१ ॥

अथशब्दो मङ्गलमात्रप्रयोजनः । इदं वक्ष्यमाणम् । स्थितिप्रकरणं किम् । यत् ज्ञातं श्रवणमनननिदध्यासनविषये कृतं सत् । निर्वाणम् ब्रह्मणि आत्यन्तिकं लयं करोतीति तादृशम् । भवति ॥ (मोटी_४,१.१ ॥

स्थितिप्रकरणम् एव कथयति

एवं तावद् इदं विद्धि दृश्यं जगद् इति स्थितम् ।
हं चेत्याद्य् अनाकारम् भ्रान्तिमात्रम् असन्मयम् ॥ (मो_४,१.२ ॥

तावत् त्वम् एवं विद्धि । अन्यत् स्वयम् एव ज्ञास्यसीति भावः । एवं कथम् इत्य् अपेक्षायाम् आह इदम् इति । जगद् इति । जगद् इति नामधेयेन स्थितम् । इदं दृश्यम् पुरःस्फुरत् । दृशिक्रियाविषयो भावजातम् । अहम् इत्यादि च भवति । कथम्भूतम् । अनाकारम् भ्रान्तिमात्रम् असन्मयं च ॥ (मोटी_४,१.२ ॥

कर्तृकम् अनङ्गं च गगने चित्रम् उत्थितम् ।
द्रष्टृकं सानुभवम् अनिद्रं स्वप्नदर्शनम् ॥ (मो_४,१.३ ॥

गगने चिदाकाशे । चित्रम् आलेख्यम् इव । उदितम् प्रादुर्भूतम् । कीदृक् चित्रम् । अकर्तृकम् कर्तृरहितम् । अनङ्गम् निःस्वरूपम् । पुनः किम् । स्वप्नदर्शनम् स्वप्नदर्शनस्वरूपम् । स्वप्नदर्शनम् कथम्भूतम् । अद्रष्टृकम् द्रष्टृरहितम् । सानुभवम् द्रष्ट्रनुभवविषयतां गतम् । अनिद्रम् निद्रादोषादृष्टम् । अत्रालौकिकत्वकथनेन विस्मयकारित्वे एव भरः कृतः ॥ (मोटी_४,१.३ ॥

भविष्यत्पुरनिर्माणं चित्रसंस्थम् इवोदितम् ।
मर्कटानलतापाभम् अम्ब्वावर्तवद् आस्थितम् ॥ (मो_४,१.४ ॥

भविष्यत्पुरस्य च नकिञ्चिद्रूपत्वं स्फुटम् एव । मर्कटस्यानलत्वेनाभासमानः अनलः मर्कटानलः । तस्य यः तापः । तस्याभा यस्य । तत् । मर्कटो हि कम् अपि फलविशेषम् अग्निभ्रमेण गृह्णाति । आस्थितम् स्थितियुक्तम् ॥ (मोटी_४,१.४ ॥

सद्रूपम् अपि निःशून्यं तेजः सौरम् इवाम्बरे ।
रत्नाभाजालम् इव खे दृश्यमानम् अभित्तिमत् ॥ (मो_४,१.५ ॥

सद्रूपम् चिन्मात्रसारत्वात् । निःशून्यम् नकिञ्चित्त्वात् । अम्बरे हि सौरं तेजः सद्रूपम् अपि निःशून्यम् इव भातीति तस्योपमानत्वेन ग्रहणम् ॥ (मोटी_४,१.५ ॥

सङ्कल्पपुरवत् प्रौढम् अनुभूतम् असन्मयम् ।
कथार्थप्रतिभानात्म न क्वचित् स्थितम् अस्ति च ॥ (मो_४,१.६ ॥

कथायाः अनेन कथ्यमानायाः कथायाः । यः अर्थः । तस्य यत् प्रतिभानम् स्फुरणम् । तदात्म तत्स्वरूपम् । कथाः श्रवणकाले हि श्रोतुः तदर्थः पुरः इव प्रतिभाति । न क्वचित् स्थितम् विचारासहत्वात् । अस्ति च प्रतिभासमानत्वात् ॥ (मोटी_४,१.६ ॥

निःसारम् अप्य् अतीवान्तःसारं स्वप्नाचलोपमम् ।
भूताकाशम् इवाकारभासुरं शून्यमात्रकम् ॥ (मो_४,१.७ ॥

निःसारम् पिण्डग्रहाभावात् । अतीवातिशयेनान्तःसारम् चिन्मात्रसारत्वात् । आकारभासुरम् नीलरूपयुक्ताकारभास्वरम् ॥ (मोटी_४,१.७ ॥

शरदभ्रम् इवाग्रस्थम् अलक्ष्यक्षयम् आक्षयि ।
वर्णो व्योमतलस्येव दृश्यमानम् अवस्तुकम् ॥ (मो_४,१.८ ॥

स्पष्टम् ॥ (मोटी_४,१.८ ॥

स्वप्नाङ्गनारताकारम् अर्थनिष्ठम् अनर्थकम् ।
चित्रोद्यानम् इवोत्फुल्लम् अरसं सरसाकृति ॥ (मो_४,१.९ ॥

अर्थनिष्ठम् रेतःस्रवाख्यार्थक्रियारतम् । अनर्थकम् प्रभातेऽदृश्यमानत्वात् वृथाभातम् । पुनः कथम्भूतम् । अरसम् आस्वादरहितम् अपि । सरसाकृति सरसा इवाकृतिः यस्य । तत् । किम् इव । उत्फुल्लं चित्रोद्यानम् आलेख्योद्यानम् । इव । तस्यापि अरसत्वेऽपि सरसाकृतित्वम् प्रसिद्धम् ॥ (मोटी_४,१.९ ॥

प्रकाशम् इव निस्तेजश् चित्रार्कानलवत् स्थितम् ।
नुभूतम् मनोराज्यम् इवासत्यम् अवास्तवम् ॥ (मो_४,१.१० ॥

स्पष्टम् ॥ (मोटी_४,१.१० ॥

चित्रपद्माकर इव सारसौगन्ध्यवर्जितम् ।
शून्ये प्रकचितं नानावर्णम् आकारितात्मकम् ॥ (मो_४,१.११ ॥

शून्ये अचेत्यचिन्मात्राख्यायां शून्यभित्तौ । आकारितः आकारयुक्तः । आत्मा यस्य । तादृशम् ॥ (मोटी_४,१.११ ॥

परमार्थेन शुष्यद्भिर् भूतपेलवपल्लवैः ।
ततं जडम् असारात्म कदलीस्तम्भभासुरम् ॥ (मो_४,१.१२ ॥

ततं व्याप्तम् ॥ (मोटी_४,१.१२ ॥

स्फारितेक्षणदृश्यान्धकारचक्रकवत् ततम् ।
त्यन्तम् अभवद्रूपम् अपि प्रत्यक्षवत् स्थितम् ॥ (मो_४,१.१३ ॥

स्फारितेक्षणस्य दृश्यानि यानि अन्धकारचक्रकाणि । तद्वत् ततम् । अभिनयगम्यश् चायम् अर्थः ॥ (मोटी_४,१.१३ ॥

वार् बुद्बुद इवाभोगि शून्यम् अन्तः स्फुरद्वपुः ।
रसात्मकं सत्यरसम् अविच्छिन्नक्षयोदयम् ॥ (मो_४,१.१४ ॥

रसात्मकम् इच्छास्वरूपं जलस्वरूपं च । सत्यरसं । सत्यस्य चिन्मात्रतत्त्वस्य । रसः यस्य । तत् । चिन्मात्रतत्त्वेनैव पुष्टिं गतम् इत्य् अर्थः ॥ (मोटी_४,१.१४ ॥

नीहार इव विस्तारि गृहीतं सन् न किञ्चन ।
जडं शून्यास्पदं शून्यं केषाञ्चित् परमाणुवत् ॥ (मो_४,१.१५ ॥

केषाञ्चित् स्थूलबुद्धीनां तार्किकाणाम् ॥ (मोटी_४,१.१५ ॥

किञ्चिद् भूतमयोऽस्तीति स्थितं शून्यम् अभूतकम् ।
गृह्यमाणम् असद्रूपं निशातम इवोत्थितम् ॥ (मो_४,१.१६ ॥

अयं संसारः किञ्चित् भूतमयः अस्तीति स्थितम् भासमानम् । एतैर् विशेषणैः समस्तः स्थितिप्रकरणार्थः सङ्गृह्योक्तः । स्थितिप्रकरणे एवंरूपाया जगत्स्थितेर् वक्तुम् इष्टत्वात् ॥ (मोटी_४,१.१६ ॥

श्रीरामः पृच्छति

महाकल्पक्षये दृश्यम् आस्ते बीज इवाङ्कुरम् ।
परे भूय उदेत्य् एतत् तत एवेति किं वद ॥ (मो_४,१.१७ ॥

इति किम् एतद् एव किम् अस्ति अथ वा नेति । वद कथय ॥ (मोटी_४,१.१७ ॥

एवम्बोधाः किम् अज्ञाः स्युर् उत तज्ज्ञा इति स्फुटम् ।
यथावद् भगवन् ब्रूहि सर्वसंशयशान्तये ॥ (मो_४,१.१८ ॥

एवम् पूर्वश्लोकोक्तरूपः । बोधः येषां । ते । तादृशाः ॥ (मोटी_४,१.१८ ॥

श्रीवसिष्ठ उत्तरम् आह

इदम् बीजेऽङ्कुर इव दृश्यम् आस्ते महाक्षये ।
ब्रूते यः परम् अज्ञत्वम् एतत् तस्यातिशैशवात् ॥ (मो_४,१.१९ ॥

अतिशैशवात् अतिमौर्ख्यात् ॥ (मोटी_४,१.१९ ॥

हेतुकथनम् अवश्योपदेश्यत्वेनाह

स्पर्शे किं तद् असम्बद्धं कथम् एतद् अवास्तवम् ।
विपरीतो बोध एष वक्तुः श्रोतुश् च मौर्ख्यकृत् ॥ (मो_४,१.२० ॥

असम्बद्धं तत् किम् भवति । न किञ्चिद् अपीत्य् अर्थः । एतत् अवास्तवम् असम्बद्धं । कथम् भवति । स्पर्शे आमुखे इत्य् । एष विपरीतः बोधः वक्तुः श्रोतुश् च मौर्ख्यकृत् भवति । एतत् अनेन हेतुना असम्बद्धम् भवति इति वक्तुः वक्तव्यम् । अनेन हेतुना एतत् अवास्तवं न भवतीति श्रोतुः पर्यनुयोगः कार्यः । अन्यथा तयोः मौर्ख्यम् एवेति भावः ॥ (मोटी_४,१.२० ॥

फलितम् आह

बीजकालेऽङ्कुर इव जगद् आस्ते इतीह या ।
बुद्धिः सासत्प्रलापार्था मूढा शृणु कथं किल ॥ (मो_४,१.२१ ॥

अत इत्य् अध्याहार्यम् । असत्प्रलापार्था असत्प्रलापस्येवार्थः यस्याः । सा । असत्प्रलापरूपेति यावत् । मूढा जडा । कथं केन हेतुना । हेत्वकथने ममापि मौर्ख्यापातः स्याद् इति भावः ॥ (मोटी_४,१.२१ ॥

बीजम् भवेत् स्वयं दृश्यं चित्तादीन्द्रियगोचरः ।
वटधानादि धान्यादि युक्तम् अत्राङ्कुरोद्भवः ॥ (मो_४,१.२२ ॥

चित्तादीन्द्रियगोचरः । अत एव दृश्यम् वटधानादि तथा धान्यादि बीजम् भवेत् । अत्र धानादिरूपे तथा धान्यादिरूपे बीजे । अङ्कुरोद्भवः युक्तम् भवति ॥ (मोटी_४,१.२२ ॥

मनःषष्ठेन्द्रियातीतं यः खाद् अतितराम् अपि ।
बीजं तद् भवितुं शक्तं स्वयम्भूर् जगतः कथम् ॥ (मो_४,१.२३ ॥

मनः षष्ठं येषाम् । तानि मनःषष्ठानि । तादृशानि च तानीन्द्रियाणि । तान्य् अतीतम् । स्वयम्भूः चिन्मात्रम् ॥ (मोटी_४,१.२३ ॥

आकाशाद् अपि सूक्ष्मस्य परस्य परमात्मनः ।
सर्वाक्षानुपलभ्यस्य कीदृशी बीजता कथम् ॥ (मो_४,१.२४ ॥

स्पष्टम् ॥ (मोटी_४,१.२४ ॥

सत् सूक्ष्मम् असदाभासम् असद् एव ह्य् अतद्दृशाम् ।
कीदृशी बीजता तत्र बीजाभावे कुतोऽङ्कुरः ॥ (मो_४,१.२५ ॥

सत् अपि यत् चिन्मात्राख्यं वस्तु । अतद्दृशाम् न तस्मिन् दृक् येषाम् । ते । तादृशाम् । चिन्मात्रज्ञानरहितानाम् इति यावत् । असद् एव भवति । अत्र हेतुम् आह । असदाभासम् इति । असद्वत् आभासः यस्य । तत् । तादृशम् । अत्रापि हेतुत्वेन विशेषणम् आह सूक्ष्मम् इति । सूक्ष्मत्वाद् असदाभासत्वम् । असदाभासत्वाद् असत्त्वम् इत्य् अर्थः । तत्र तस्मिन् चिन्मात्राख्ये वस्तुनि । बीजता कीदृशी भवति । न भवति । स्थूलस्यैव बीजत्वयोगाद् इत्य् अर्थः । बीजाभावे अङ्कुरः जगदाख्यः अङ्कुरः । कुतः भवति । नैव युक्त इत्य् अर्थः ॥ (मोटी_४,१.२५ ॥

गगनाङ्गाद् अपि स्वच्छे शून्ये तत्र परे पदे ।
कथं सन्ति जगन्मेरुसमुद्रगगनादयः ॥ (मो_४,१.२६ ॥

गगनाङ्गात् स्वच्छत्वं जाड्याख्यमालिन्यरहितत्वात् ज्ञेयम् ॥ (मोटी_४,१.२६ ॥

नकिञ्चिद् यत् कथं किञ्चित् तत्रास्ते वस्त्व् अवस्तुनि ।
स्ति चेत् तत् कथं तत्र विद्यमानं न दृश्यते ॥ (मो_४,१.२७ ॥

यत् चिन्मात्रम् । बाह्यान्तःकरणातीतत्वात् नकिञ्चिद् भवति । तत्र तस्मिन् । अवस्तुनि नकिञ्चिद्रूपे चिन्मात्रे । इन्द्रियगम्यत्वेन किञ्चिद्रूपं वस्तु जगदाख्यं वस्तु । कथम् आस्ते । तथापि चेत् अस्ति तत्र विद्यमानं कथं न दृश्यते । तर्हि विद्यमानत्वम् एवास्य युक्तं स्याद् इति भावः । ननु जगतः विद्यमानत्वं कथं नास्ति इति चेत् । विचारासहत्वान् नास्तीति ब्रूमः । यो हि विचारं सहते तस्यैव विद्यमानत्वम् । यथा रज्जुसर्पापेक्षया रज्जोः ॥ (मोटी_४,१.२७ ॥

नकिञ्चिदात्मनः किञ्चित् कथम् एति कुतोऽथ वा ।
शून्यरूपाद् घटाकाशाज् जातोऽद्रिः क्व कुतः कदा ॥ (मो_४,१.२८ ॥

पूर्वश्लोकव्याख्ययैव गतार्थोऽयं श्लोकः ॥ (मोटी_४,१.२८ ॥

प्रतिपक्षे कथं किञ्चिद् आस्ते छायातपे यथा ।
कथम् आस्ते तमो भानौ कथम् आस्ते हिमेऽनलः ॥ (मो_४,१.२९ ॥

किञ्चित् किम् अपि । प्रतिपक्षे कथम् आस्ते । प्रतिपक्षे अवस्थानं कस्यापि न युक्तम् इति भावः । विशेषेणैतद् एव दर्शयति च्छायेत्यादि ॥ (मोटी_४,१.२९ ॥

मेरुर् आस्ते कथम् अणौ कुतः किञ्चिद् अनाकृतौ ।
तदतद्रूपयोर् ऐक्यं क्व च्छायातपयोर् इव ॥ (मो_४,१.३० ॥

दृष्टान्तानि विशेषतयोक्त्वा दार्ष्टान्तिकम् अपि तत्तयैव कथयति कुतः किञ्चिद् इति । किञ्चित् इन्द्रियगम्यत्वात् किञ्चिद्रूपं जगत् । अनाकृतौ इन्द्रियागम्यत्वेनाकाररहिते चिन्मात्रे । कुतः न युक्तम् एतद् इति भावः । नन्व् एकत्वे न बीजाङ्कुरत्वम् अनयोर् अस्तीत्य् अत्राह तदतद् इति । तदतद्रूपयोः अत्यन्तभिन्नयोः ॥ (मोटी_४,१.३० ॥

साकारे वटधानादाव् अङ्कुरोऽस्तीति युक्तिमत् ।
नाकारे महाकारं जगद् अस्तीत्य् अयुक्तिमत् ॥ (मो_४,१.३१ ॥

स्पष्टम् ॥ (मोटी_४,१.३१ ॥

देशान्तरे यच् च नरान्तरे च
बुद्ध्यादिसर्वेन्द्रियशक्त्यदृश्यम् ।
नास्त्य् एव तत्तद्विधबुद्धिबोधे
नकिञ्चिद् इत्य् एव तद् उच्यते च ॥ (मो_४,१.३२ ॥

देशान्तरे च अस्मिन् देशे अन्यस्मिन् देशे च । नरान्तरे च त्वयि अन्येषु नरेषु च । कालस्याप्य् एतद् उपलक्षणम् । तेन कालान्तरे चेत्य् अपि ज्ञेयं । तेनायम् अर्थः । बुद्ध्यादीनां सर्वेन्द्रियशक्तीनां चादृश्यं यत् वस्तु । देशान्तरे नरान्तरे च तत्तद्विधबुद्धिबोधे । तत्तद्विधाः तत्तत्प्रकाराः । याः बुद्धयः । तासां यः बोधः । तत्र । नास्ति । तद्विषयो नास्तीति यावत् । पण्डितैः तत् नकिञ्चिद् इत्य् एव उच्यते कथ्यते ॥ (मोटी_४,१.३२ ॥

ततः किम् इत्य् अत्राह

कार्यस्य तत् कारणताम् प्रयातम्
वक्तीति यस् तस्य विमूढबोधः ।
कैर् नाम तत्कार्यम् उदेति तस्मात्
स्वैः कारणौघैः सहकारिरूपैः ॥ (मो_४,१.३३ ॥

तत् नकिञ्चिद् इति नामार्हं वस्तु । कार्यस्य कारणताम् प्रयातम् भवति । इति यः वक्ति । तस्य विमूढबोधः भवति । नासौ तज्ज्ञ इति भावः । सहकारिकारणाभावेन तस्य कारणतां निवारयति तत्कार्यम् इति । स्वैः निजैः । सर्वस्य नकिञ्चिद्रूपचिन्मात्रस्वरूपत्वेन सहकारिकारणसत्ता नास्तीति भावः ॥ (मोटी_४,१.३३ ॥

एतेन सिद्धं सिद्धान्तं सर्गान्तश्लोकेन कथयति

दुर्बुद्धिभिः कारणकार्यभावं
सङ्कल्पितं दूरतरे व्युदस्य ।
यद् एव तत् सत्यम् अनादिमध्यं
जगत् तद् एव स्थितम् इत्य् अवेहि ॥ (मो_४,१.३४ ॥

दुर्बुद्धिभिः कुबुद्धियुक्तैः । सङ्कल्पितं स्वसङ्कल्पेनोल्लिखितम् । न तु परमार्थसन्तं कार्यकारणभावं जगद्ब्रह्मविषयं कार्यकारणभावम् । व्युदस्य परित्यज्य । त्वम् इति अवेहि सत्यतया निश्चिनु इति । किम् इति । अनादिमध्यम् आदिमध्ययोर् अपि साक्षित्वेन स्थितत्वात् आदिमध्यरहितम् । यत् एव । तत् प्रसिद्धम् । सत्यम् सत्यभूतम् चिन्मात्राख्यं वस्तु अस्ति । तद् एव न तु तत्कार्यम् । जगत् अस्ति । इति शिवम् ॥ (मोटी_४,१.३४ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां जन्यजनकनिराकरणं स्थितिप्रकरणे प्रथमः सर्गः ॥१॥




वसिष्ठ उवाच

थैतदभ्युपगमे वच्मि वेद्यविदां वर ।
समस्तकलनातीते महाचिद्व्योम्नि निर्मले ॥ (मो_४,२.१ ॥
जगदाद्यङ्कुरस् तत्र यद्य् अस्ति तद् असौ तदा ।
कैर् इवोदेति कथय कारणैः सहकारिभिः ॥ (मो_४,२.२ ॥

हे वेद्यविदां वर । अथाहम् एतत् बीजत्वम् । अङ्गीकृत्य । वच्मि कथयामि । किं वक्षीत्य् अपेक्षायाम् आह समस्तेति । समस्तकलनातीते सर्वकार्यकारणभावादिकलनातीते । निर्मले चेत्याख्यमलादूषिते । सहकारिभिः कारणैः सहकारिकारणैः । युग्मम् ॥ (मोटी_४,१-२ ॥

सहकारिकारणानाम् अभावे वाङ्कुरोद्गतिः ।
वन्ध्याकन्या च दृष्टेह न कदाचन केनचित् ॥ (मो_४,२.३ ॥

वाशब्दः पादपूरणार्थः । चशब्दः समुच्चये ॥ (मोटी_४,१.३ ॥

सहकारिकारणानाम् अभावे यच् च वोदितम् ।
मूलकारणम् एवात्मा तत् स्वभावे स्थितं तथा ॥ (मो_४,२.४ ॥

यत् च जगदाख्यं कार्यम् । सहकारिकारणानाम् अभावे उदितम् कारणात् अन्यतया प्रादुर्भूतम् भवति । तत् तथा तेन प्रकारेण । स्वभावे स्वस्वरूपे । स्थितम् । मूलकारणम् आत्मा मूलकारणभूत आत्मैव भवति । न कार्यम् । सहकारिकारणसम्भव एव कार्यत्वदर्शनात् ॥ (मोटी_४,१.४ ॥

सर्गादौ सर्गरूपेण ब्रह्मैवात्मनि तिष्ठति ।
यथास्थितम् अनाकारं क्व जन्यजनकक्रमः ॥ (मो_४,२.५ ॥

सर्गादौ चेत्योन्मुखतासमये ॥ (मोटी_४,१.५ ॥

थ पृथ्व्यादयोऽन्ये वा कुतोऽप्य् आगत्य कुर्वते ।
सहकारिकारणत्वं तत् पूर्वैवात्र दूषणा ॥ (मो_४,२.६ ॥

पूर्वा दूषणेति । सर्गागमे या दूषणा अस्ति सा एव सहकार्यभिमतपृथ्व्याद्यागमेऽप्य् अस्तीत्य् अर्थः ॥ (मोटी_४,१.६ ॥

फलितम् आह

तस्मात् परे जगच् छान्तम् आस्ते तत् सहकारणैः ।
विना प्रसरतीत्य् उक्तिर् बालस्य न विपश्चितः ॥ (मो_४,२.७ ॥

तस्मात् ततो हेतोः । जगत् परे शान्तम् बीजत्वेन स्थितम् अस्ति । सहकारणैः सहकारिकारणैः विना । तत् प्रसरति इत्य् उक्तिः बालस्य मूर्खस्य । भवति । विपश्चितः पण्डितस्य । न भवति ॥ (मोटी_४,१.७ ॥

परमफलितं कथयति

तस्माद् राम जगन् नासीन् न चास्ति न भविष्यति ।
चेतनाकाशम् एवाच्छं कचतीत्थम् इवात्मनि ॥ (मो_४,२.८ ॥

हे राम । तस्मात् जगत् नासीत् न चास्ति न च भविष्यति सहकारिकारणाभावात् । पुनः किम् एतत् स्फुरतीत्य् । अत्राह चेतनेति । अच्छम् चेत्यरहितं । चेतनाकाशम् चिन्मात्राकाशम् । आत्मनि इत्थम् जगद्रूपेण । स्फुरति इव कचति इव ॥ (मोटी_४,१.८ ॥

त्यन्ताभाव एवास्य जगतो विद्यते यदा ।
तदा ब्रह्मेदम् अखिलम् इति सद् राम नान्यथा ॥ (मो_४,२.९ ॥

अन्यथा असत् ॥ (मोटी_४,१.९ ॥

ननु प्रागभावादिर् एव कथं नात्रास्ति । किम् अत्यन्ताभावेनेत्य् । अत्राह

पूर्वप्रध्वंसनान्योऽन्याभावैर् यद् उपशाम्यति ।
शान्तम् एव तच् चित्ते न शाम्यत्य् एव तद् यतः ॥ (मो_४,२.१० ॥

पूर्वप्रध्वंसनान्योऽन्याभावैः प्रागभावेन प्रध्वंसाभावेन अन्योऽन्याभावेन च । यत् शाम्यति तत् अशान्तम् एव भवति । यतः तत् वस्तु । चित्ते मनसि । न शाम्यति संस्कारत्वेन स्थितत्वात् । तस्माद् अत्यन्ताभाव एवात्र युक्त इति भावः ॥ (मोटी_४,१.१० ॥

त्यन्ताभावम् एवातो जगद्दृश्यस्य सर्वदा ।
वर्जयित्वेतरा युक्तिर् नास्त्य् एवानर्थसङ्क्षये ॥ (मो_४,२.११ ॥

जगद्दृश्यस्यात्यन्ताभाव एव जगद्रूपस्यानर्थस्य क्षये युक्तिः नान्यत् किञ्चिद् इति पिण्डार्थः ॥ (मोटी_४,१.११ ॥

चिदाकाशस्य बोधोऽयं जगदादीति यत् स्थितम् ।
यं सोऽहम् इदं रूपालोकचित्तकलाद्य् अपि ॥ (मो_४,२.१२ ॥

इदं जगदादीति यत् स्थितम् अस्ति । अयम् चिदाकाशस्य बोध एव भवति । नान्यत् । आदिशब्देन प्रलयस्य ग्रहणम् । जगदादीति विशेषेण कथयति अयं सोऽहम् इत्यादि । चित्तकला मनस्कारः ॥ (मोटी_४,१.१२ ॥

इदम् अर्कादि पृथ्व्यादि तथेदं वत्सरादि च ।
यं कल्पः क्षणश् चायम् इमे मरणजन्मने ॥ (मो_४,२.१३ ॥

स्पष्टम् ॥ (मोटी_४,१.१३ ॥

यं कल्पान्तसंरम्भो महाकल्पान्त एष सः ।
यं स सर्गप्रारम्भो भावाभावक्रमस् त्व् असौ ॥ (मो_४,२.१४ ॥

स्पष्टम् ॥ (मोटी_४,१.१४ ॥

लक्षाणीमानि कल्पानाम् इमा ब्रह्माण्डकोटयः ।
इमे ब्रह्मेन्द्रनिचया इमा विष्ण्वादिशक्तयः ॥ (मो_४,२.१५ ॥

विष्ण्वादिरूपाः शक्तयः विष्ण्वादिशक्तयः ॥ (मोटी_४,१.१५ ॥

एते चेमे परिणता इमे भूय उपागताः ।
इमानि धिष्ण्यजालानि देशकालकला इमाः ॥ (मो_४,२.१६ ॥

एते इमे परिणताः मृताः ॥ (मोटी_४,१.१६ ॥

उपसंहारं करोति

महाचित्परमाकाशम् अनावृत्तम् अनन्तकम् ।
यथा पूर्वं स्थितं शान्तम् इत्य् एवं कचति स्वयम् ॥ (मो_४,२.१७ ॥

अनावृत्तम् आवृत्तिरहितम् । अनन्तकम् अन्तरहितम् । शान्तम् स्वस्मिन् स्वरूपे एव सर्वदा निलीनम् । महाचित्परमाकाशम् । इति अनेन प्रकारेण । एवम् जगद्रूपेण । कचति स्फुरति ॥ (मोटी_४,१.१७ ॥

परमाणुसहस्रांशभास एता महाचितेः ।
स्वभावभूता एवान्तःस्थिता नायान्ति यान्ति नो ॥ (मो_४,२.१८ ॥

महाचितेः अन्तःस्थिताः । अत एव स्वभावभूताः । परमाणोः यः सहस्रांशः । तत्परिमाणाः भासः दीप्तयः । एताः सर्गपरम्पराः । न आयान्ति नो यान्ति सदा स्थितत्वात् ॥ (मोटी_४,१.१८ ॥

स्वयम् अन्तश् चमत्कारो यस् समुद्गीर्यते चिता ।
तत् सर्गभानम् भातीदम् भारूपं न च भित्तिमत् ॥ (मो_४,२.१९ ॥

चिता चिन्मात्रेण । अन्तःस्थितः यः चमत्कारः स्वरूपपरामर्शरूपः आस्वादः । बहिः समुद्गीर्यते सम्यक् उद्गीर्यते । तत् इदं समुद्गिरणं । सर्गभानम् भाति । इदं कथम्भूतम् । भारूपम् ज्ञानस्वरूपम् । न भित्तिमत् भित्तिरहितम् ॥ (मोटी_४,१.१९ ॥

नोद्यन्ति न च नश्यन्ति नायान्ति न च यान्ति च ।
महाशिलान्तर्लेखानां सन्निवेश इवाचलाः ॥ (मो_४,२.२० ॥

सर्गा इति शेषः ॥ (मोटी_४,१.२० ॥

इमे सर्गाः प्रस्फुरन्ति स्वतः स्वात्मनि निर्मले ।
नभसीव नभोभागा निराकारा निराकृतौ ॥ (मो_४,२.२१ ॥

स्वतः स्वभावेन ॥ (मोटी_४,१.२१ ॥

द्रवत्वानीव तोयस्य स्पन्दा इव सदागतेः ।
आवर्ता इव वाम्भोधेर् गुणिनो वाथवा गुणाः ॥ (मो_४,२.२२ ॥

पूर्वश्लोकदृष्टान्तत्वेनैव योज्यम् ॥ (मोटी_४,१.२२ ॥

विज्ञानघन एवैकम् इदम् इत्थम् इव स्थितम् ।
सोदयास्तमयारम्भम् अनन्तं शान्तम् आततम् ॥ (मो_४,२.२३ ॥

विज्ञानघने ज्ञानैकस्वरूपे चिन्मात्रतत्त्वे । इदम् जगत् ॥ (मोटी_४,१.२३ ॥

सहकार्यादिहेतूनाम् अभावे शून्यता जगत् ।
स्वयम्भूर् जायते चेति किलोन्मत्तकफूत्कृतम् ॥ (मो_४,२.२४ ॥

उन्मत्तकफूत्कृतम् उन्मत्तप्रलापः ॥ (मोटी_४,१.२४ ॥

सर्गान्तश्लोकेन फलितं कथयति

प्रशान्तसर्वार्थकलाकलङ्को
निरस्तनिःशेषविकल्पतल्पः ।
चिराय विद्रावितदीर्घनिद्रो
भवाभयो भूषितभूः प्रबुद्धः ॥ (मो_४,२.२५ ॥

तस्माद् इत्य् अध्याहार्यम् । तस्मात् त्वम् भव । कीदृश इत्य् अपेक्षायां विशेषणान्य् आह प्रशान्त इत्यादि । प्रशान्तः ब्रह्मैकताविज्ञानेन प्रकर्षेण शान्तः । सर्वार्थरूपः कलङ्कः यस्य । सः । निरस्ता निःशेषविकल्पा एव तल्पम् येन । सः । विद्राविता दीर्घनिद्रा अविद्यारूपा दीर्घनिद्रा येन । सः । अत एव प्रबुद्धः सम्यग्ज्ञानयुक्तः । अतः अभयः भयरहितः । इति शिवम् ॥ (मोटी_४,१.२५ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे द्वितीयः सर्गः ॥२॥




श्रीरामः पृच्छति

महाप्रलयसर्गादौ प्रथमोऽसौ प्रजापतिः ।
स्मृत्यात्मा जायते सर्गे स्मृत्यात्मैव ततो जगत् ॥ (मो_४,३.१ ॥

प्रथमः प्रजापतिः शुद्धमनोरूपः ब्रह्मा । स्मृत्यात्म स्मृतिरूपम् ॥ (मोटी_४,३.१ ॥

श्रीवसिष्ठः उत्तरं कथयति

महाप्रलयसर्गादाव् एवम् एतद् रघूद्वह ।
स्मृत्यात्मैव भवत्य् आदौ प्रथमोऽसौ प्रजापतिः ॥ (मो_४,३.२ ॥

एवम् एतत् एतत् सत्यम् एवेत्य् अर्थः ॥ (मोटी_४,३.२ ॥

तत्सङ्कल्पात्म च जगत् स्मृत्यात्मैवम् इदं ततः ।
इति सङ्कल्पनगरं स्थितम् पूर्वप्रजापतेः ॥ (मो_४,३.३ ॥

तत्सङ्कल्पात्म स्मृतिस्वरूपप्रजापतिस्वरूपम् ॥ (मोटी_४,३.३ ॥

इति स्थितेऽपि सा राम तस्य पूर्वप्रजापतेः ।
स्थितिर् न सम्भवत्य् एव नभसीव महाद्रुमः ॥ (मो_४,३.४ ॥

सा स्मृतिरूपा ॥ (मोटी_४,३.४ ॥

श्रीरामः पृच्छति

न सम्भवति किम् ब्रह्मन् सर्गादौ प्राक्तनी स्मृतिः ।
महाप्रलयसम्मोहैर् नश्यति प्राक्स्मृतिः कथम् ॥ (मो_४,३.५ ॥

महाप्रलयसम्मोहैः महाप्रलयकृताभिः मूर्च्छाभिः ॥ (मोटी_४,३.५ ॥

श्रीवसिष्ठ उत्तरं कथयति

प्राङ्महाप्रलये प्राज्ञ पूर्वे ब्रह्मादयः पुरा ।
किल निर्वाणम् आयातास् तेऽवश्यम् ब्रह्मतां गताः ॥ (मो_४,३.६ ॥

निर्वाणम् मुक्तिम् ॥ (मोटी_४,३.६ ॥

प्राक्तन्याः कः स्मृतेस् स्मर्ता तस्मात् कथय सुव्रत ।
स्मृतिर् निर्मूलतां याता स्मर्तुर् मुक्ततया यतः ॥ (मो_४,३.७ ॥

स्पष्टम् ॥ (मोटी_४,३.७ ॥

तः स्मर्तुर् अभावे सा स्मृतिः कोदेतु किं कथम् ।
वश्यं हि महाकल्पे सर्वे मोक्षैकभागिनः ॥ (मो_४,३.८ ॥

स्पष्टम् ॥ (मोटी_४,३.८ ॥

नानुभूतेऽनुभूते च स्वतश् चिद्व्योम्नि या स्मृतिः ।
सा जगच्छ्रीर् इति प्रौढा दृश्याभावे हि चित्प्रभा ॥ (मो_४,३.९ ॥

स्वतः न तु प्रजापतिरूपग्रहात् । नानुभूते पूर्वाननुभूते विषये । अनुभूते पूर्वम् अनुभूते विषये । चिद्व्योम्नि या स्मृतिः भवति । सा जगच्छ्रीर् इति प्रौढा भवति । न प्रजापतिस्मृतिर् इति भावः । कुत एतद् इत्य् । अत्राह दृश्येति । हि यस्मात् । दृश्याभावे स्मृतिरूपदृश्याभावे । चित्प्रभा एव भवति । न प्रजापतिप्रभा ॥ (मोटी_४,३.९ ॥

अथवालम् अनया स्मृतिकल्पनया । यतः चित्प्रभैव जगद् अस्तीत्य् अभिप्रायेनाह

भाति संवित्प्रभैवाच्छम् अनाद्यन्तावभासिनी ।
यत् तद् एतज् जगद् इति स्वयम्भूर् इति च स्थितम् ॥ (मो_४,३.१० ॥

अनाद्यन्तावभासिनी सदा भातत्वेनाद्यन्तावभासरहिता । संवित्प्रभा एव अच्छं यत् भाति तत् एतत् जगद् इति स्थितम् भवति । स्वयम्भूर् इति च स्थितम् भवति । अतः स्मृतेः स्वयम्भुवश् च न कापि सत्तास्तीति भावः ॥ (मोटी_४,३.१० ॥

नादिकालसंसिद्धं यद् भानम् ब्रह्मणो निजम् ।
स आतिवाहिको देहो विराजो जगदाकृतिः ॥ (मो_४,३.११ ॥

अनादिकालसंसिद्धम् सततसिद्धम् । ब्रह्मणः चिन्मात्रतत्त्वस्य । यत् निजं स्वसम्बन्धि । भानम् भवति । सः विराजः विराड्रूपस्य प्रजापतेः । आतिवाहिकः देहः भवति । कथम्भूतः । जगदाकृतिः समस्तजगत्स्वरूपः ॥ (मोटी_४,३.११ ॥

परमाणाव् इदम् भाति जगत् सभुवनत्रयम् ।
देशकालक्रियाद्रव्यदिनरात्रिक्रमान्वितम् ॥ (मो_४,३.१२ ॥

द्रव्यम् क्रियाविषयः पदार्थः । परमाण्वन्तस् त्रिभुवनाभानम् इन्द्रस्य निर्वाणप्रकरणे वक्ष्यति ॥ (मोटी_४,३.१२ ॥

परमाणुम् प्रति ततस् तस्यान्तस् तादृग् एव च ।
भाति भास्वरिताकारं तादृग्गिरिकुलावृतम् ॥ (मो_४,३.१३ ॥

ततः ततो हेतोः । तस्य परमाण्वन्तर्वर्तिनः त्रिभुवनस्य । प्रति परमाणुम् अन्तः प्रतिपरमाणुमध्ये । तादृक् एव न त्व् अन्यरूपम् । भास्वरिताकारं तादृग्गिरिकुलावृतम् तादृशपर्वतसमूहाकुलम् । अर्थात् त्रिभुवनम् भाति ॥ (मोटी_४,३.१३ ॥

तत्रापि तादृगाकारम् एवम् प्रत्य् अणुम् आततम् ।
दृश्यम् आभाति भारूपम् एतद् अङ्ग न वास्तवम् ॥ (मो_४,३.१४ ॥

तत्रापि प्रत्यणुवर्तिनि त्रिभुवनेऽपि । भारूपम् ज्ञानस्वरूपम् । फलितम् आह एतद् इति । हे अङ्ग । अतः एतत् त्रिभुवनम् । वास्तवम् परमार्थसत् । न भवति । स्वप्नवद् भारूपत्वात् ॥ (मोटी_४,३.१४ ॥

इत्य् अस्त्य् अन्तो न सद्दृष्टेर् असद्दृष्टेश् च वा क्वचित् ।
स्यास् त्व् अभ्युदितम् बुद्धम् अबुद्धम् प्रति वानघ ॥ (मो_४,३.१५ ॥

इति अनेन प्रकारेण । सद्दृष्टेः चिन्मात्रदृष्टेः । असद्दृष्टेः चेत्यदृष्टेः वा । अन्तोऽवसानम् । नास्ति । अस्याः सद्दृष्टेर् असद्दृष्टेश् च । अभ्युदितम् अभ्युदयः । प्रादुर्भाव इति यावत् । बुद्धम् प्रति अबुद्धम् प्रति वा भवति । बुद्धम् प्रति सद्दृष्टेः अभ्युदयः असद्दृष्टेः अबुद्धम् प्रतीति क्रमो ज्ञेयः ॥ (मोटी_४,३.१५ ॥

ननु एका एव भासमाना जगदाख्या दृष्टिर् अस्ति । तत् कथम् उक्तम् बुद्धम् प्रति सद्दृष्टेर् अन्तो नास्ति असद्दृष्टेर् अबुद्धम् प्रतीत्य् । आह

बुद्धम् प्रतीदम् ब्रह्मैव केवलं शान्तम् अव्ययम् ।
बुद्धम् प्रति तु द्वैतम् भासुरम् भुवनान्वितम् ॥ (मो_४,३.१६ ॥

इदम् एव जगत् । बुद्धस्य सद्दृष्ट्या भाति । अबुद्धस्यासद्दृष्ट्या । यथा एकः रज्जुः बुद्धम् प्रति रज्जुतया भाति । अबुद्धम् प्रति सर्पतयेति भावः ॥ (मोटी_४,३.१६ ॥

यथेदम् भासुरम् भाति जगद् अण्डकजृम्भितम् ।
तथा कोटिसहस्राणि भान्त्य् अन्यान्य् अप्य् अणाव् अणौ ॥ (मो_४,३.१७ ॥

स्पष्टम् ॥ (मोटी_४,३.१७ ॥

यथा स्तम्भे पुत्रिकान्तस् तस्याश् चाङ्गेषु पुत्रिका ।
तस्याश् च पुत्रिकास्त्य् अङ्गे तथा त्रैलोक्यपुत्रिका ॥ (मो_४,३.१८ ॥

त्रैलोक्याख्या पुत्रिका त्रैलोक्यपुत्रिका ॥ (मोटी_४,३.१८ ॥

न भिन्ना न च सङ्ख्येया यथाद्रौ परमाणवः ।
तथा ब्रह्मबृहन्मेरौ त्रैलोक्यपरमाणवः ॥ (मो_४,३.१९ ॥

स्पष्टम् ॥ (मोटी_४,३.१९ ॥

सूर्यौघांशुष्व् असङ्ख्यातुं शक्यन्ते लघवोऽणवः ।
नानाद्यन्ताश् चिदादित्ये त्रैलोक्यपरमाणवः ॥ (मो_४,३.२० ॥

स्पष्टम् ॥ (मोटी_४,३.२० ॥

यथाणवो वहन्त्य् अर्कदीप्तिष्व् अप्सु रजःसु च ।
तथा वहन्ते चिद्व्योम्नि त्रैलोक्यपरमाणवः ॥ (मो_४,३.२१ ॥

स्पष्टम् ॥ (मोटी_४,३.२१ ॥

शून्यानुभवमात्रात्म भूताकाशम् इदं यथा ।
सर्गानुभवमात्रात्म चिदाकाशम् इदं तथा ॥ (मो_४,३.२२ ॥

शून्यस्य यः अनुभवः । तन्मात्रम् आत्मा स्वरूपं यस्य । तत् ॥ (मोटी_४,३.२२ ॥

सर्गस् तु सर्गशब्दार्थतया बुद्धो नयत्य् अधः ।
स ब्रह्मशब्दार्थतया बुद्धः श्रेयो भवत्य् अलम् ॥ (मो_४,३.२३ ॥

श्रेयः मोक्षरूपम् ॥ (मोटी_४,३.२३ ॥

सर्गान्तश्लोकेनाप्य् एतद् एव कथयति

विज्ञानात्मा शासिता विश्वबीजम्
ब्रह्मैवाद्यं स्वं चिदाकाशमात्रं ।
तस्माज् जातं यत् तद् एवेति वेद्यं
विद्धि स्वान्तर् बोधसम्बोधमात्रम् ॥ (मो_४,३.२४ ॥

विज्ञानात्मा ज्ञानैकस्वरूपः । शासिता प्रेरकः । स्वम् सर्वेषाम् आत्मत्वेन स्थितम् । चिदाकाशमात्रम् आद्यम् ब्रह्मैव विश्वबीजं विश्वस्य बीजम् इव बीजम् । न तु साक्षाद् बीजम् । तस्य समनन्तरम् एव निराकृतत्वात् । भवति । तस्मात् तादृशात् ब्रह्मणः । यत् जातम् भवति । तत् तद् एव भवति । इति अतो हेतोः । त्वम् वेद्यम् विदिक्रियाविषयम् भावजातम् । स्वान्तः स्वमनसि । बोधस्य यः सम्बोधः स्वपरामर्शः । तन्मात्रं विद्धि जानीहि । लिङ्गसङ्करोऽलिङ्गत्वद्योतनार्थः । इति शिवम् ॥ (मोटी_४,३.२४ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे तृतीयः सर्गः ॥३॥





इन्द्रियग्रामसङ्ग्रामसेतुना भवसागरः ।

तीर्यते नेतरेणेह केनचिन् नाम कर्मणा ॥ (मो_४,४.१ ॥

इन्द्रियग्रामेणेन्द्रियसमूहेन । यः सङ्ग्रामः । स एव सेतुः । तेन ॥ (मोटी_४,४.१ ॥

शास्त्रसत्सङ्गमाभ्यासैः सविवेको जितेन्द्रियः ।
त्यन्ताभावम् एवास्य दृश्यौघस्यावगच्छति ॥ (मो_४,४.२ ॥

अवगच्छति जानाति ॥ (मोटी_४,४.२ ॥

एतत् ते कथितं सर्वं स्वरूपं रूपिणां वर ।
संसारसागरश्रेण्यो यथायान्ति प्रयान्ति च ॥ (मो_४,४.३ ॥

हे रूपिणां वर । मया ते । अर्थात् संसारसागरश्रेणीनां सर्वम् स्वरूपम् । कथितम् । तथा संसारसागरश्रेण्याः यथायान्ति प्रयान्ति च । तद् अपि कथितम् ॥ (मोटी_४,४.३ ॥

बहुनात्र किम् उक्तेन मनः कर्मद्रुमाङ्कुरम् ।
तस्मिंश् छिन्ने जगच्छाखश् छिन्नः कर्मतरुर् भवेत् ॥ (मो_४,४.४ ॥

कर्मतरुः कथम्भूतः । जगन्त्य् एव शाखाः यस्य । सः । तादृशः ॥ (मोटी_४,४.४ ॥

मनः सर्वम् इदं राम तस्मिन्न् अन्तश् चिकित्सिते ।
चिकित्सितोऽयं सकलो जन्मजालमयो भवः ॥ (मो_४,४.५ ॥

स्पष्टम् ॥ (मोटी_४,४.५ ॥

तद् एतज् जायते लोके मनो मललवाकुलम् ।
मनसो व्यतिरेकेण देहः क्व किल दृश्यते ॥ (मो_४,४.६ ॥

जायते जगत्तया उत्पद्यते । मललवाकुलम् सङ्कल्पाख्यमललेशाकुलम् ॥ (मोटी_४,४.६ ॥

दृश्यात्यन्तासम्भवनम् ऋते नान्येन हेतुना ।
मनःपिशाचः प्रशमं याति कल्पशतैर् अपि ॥ (मो_४,४.७ ॥

दृश्यात्यन्तासम्भवनं दृश्यात्यन्ताभावम् ॥ (मोटी_४,४.७ ॥

एतच् च सम्भवत्य् एव मनोव्याधिचिकित्सने ।
दृश्यात्यन्तासम्भवात्म परमौषधम् उत्तमम् ॥ (मो_४,४.८ ॥

मनोव्याधिचिकित्सने कार्ये । सम्भवत्य् एव प्रभवत्य् एव ॥ (मोटी_४,४.८ ॥

मनो मोहम् उपादत्ते म्रियते जायते पुनः ।
कस्यचित् तु प्रसादेन बध्यते मुच्यते पुनः ॥ (मो_४,४.९ ॥

कस्यचिद् अनाख्यस्य चिन्मात्रस्य ॥ (मोटी_४,४.९ ॥

स्फुरतीत्थं जगत् सर्वं चित्ते मननमन्थरे ।
शून्य एवाम्बरे स्फारे गन्धर्वाणाम् पुरं यथा ॥ (मो_४,४.१० ॥

मननमन्थरे मननभरिते ॥ (मोटी_४,४.१० ॥

मनसीदं जगत् कृत्स्नं स्फारं स्फुरति चास्ति च ।
पुष्पगुच्छ इवामोदस् तत्स्थस् तस्माद् इवेतरः ॥ (मो_४,४.११ ॥

स्फारम् विस्तीर्णम् ॥ (मोटी_४,४.११ ॥

यथा तिलकणे तैलं गुणो गुणिनि वा यथा ।
यथा धर्मिणि वा धर्मस् तथेदम् मनसि स्थितम् ॥ (मो_४,४.१२ ॥

स्पष्टम् ॥ (मोटी_४,४.१२ ॥

यथाम्भसि तरङ्गौघ इन्दौ द्वीन्दुभ्रमो यथा ।
मृगतृष्णा यथा तापे संसारश् चित्तके तथा ॥ (मो_४,४.१३ ॥

स्पष्टम् ॥ (मोटी_४,४.१३ ॥

रश्मिजालं यथा सूर्ये यथालोकश् च तेजसि ।
यथौष्ण्यं चित्रभानौ च मनसीदं तथा जगत् ॥ (मो_४,४.१४ ॥

स्पष्टम् ॥ (मोटी_४,४.१४ ॥

शैत्यं यथैव तुहिने यथा नभसि शून्यता ।
यथा चञ्चलता वायौ मनसीदं तथा जगत् ॥ (मो_४,४.१५ ॥

स्पष्टम् ॥ (मोटी_४,४.१५ ॥

सर्गान्तश्लोकेनाप्य् एतद् एव कथयति

मनो जगज् जगद् अखिलं तथा मनः
परस्परं त्व् अविरहितं सदैव हि ।
तयोर् द्वयोर् मनसि निरन्तरं क्षते
क्षतं जगन् न तु जगति क्षते मनः ॥ (मो_४,४.१६ ॥

निरन्तरम् अतिशयेन । तयोः द्वयोर् इति निर्धारणे षष्ठी । तस्मान् मन एव सम्यग्ज्ञानाद्युपायेन नाशनीयम् इति भावः । इति शिवम् ॥ (मोटी_४,४.१६ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे चतुर्थः सर्गः ॥४॥





श्रीरामः पृच्छति

भगवन् सर्वधर्मज्ञ पूर्वापरविदां वर ।
यम् मनसि संसारः स्फारः कथम् इव स्थितः ॥ (मो_४,५.१ ॥

मनसि परमाणुरूपे मनसि । स्फारः विस्तीर्णः ॥ (मोटी_४,५.१ ॥

यथायम् मनसि स्फार आरम्भः स्फुरति स्फुटम् ।
दृष्टान्तदृष्ट्या स्फुटया तथा कथय मेऽनघ ॥ (मो_४,५.२ ॥

आरम्भः जगदाख्य आरम्भः ॥ (मोटी_४,५.२ ॥

श्रीवसिष्ठ उत्तरं कथयति

यथैन्दवानां विप्राणां जगन्त्य् अवपुषाम् अपि ।
स्थितानि जातदार्ढ्यानि मनसीदं तथा स्थितम् ॥ (मो_४,५.३ ॥

अवपुषाम् मृतत्वेन शरीररहितानाम् ॥ (मोटी_४,५.३ ॥

लवणस्य यथा राज्ञश् चेन्द्रजालाकुलाकृतेः ।
चण्डालत्वम् अनुप्राप्तं तथेदम् मनसि स्थितम् ॥ (मो_४,५.४ ॥

इन्द्रजालेन ऐन्द्रजालिकप्रयुक्तेनेन्द्रजालेनाकुला आकृतिर् यस्य । सः ॥ (मोटी_४,५.४ ॥

भार्गवस्य चिरं कालं स्वर्गभोगबुभुक्षया ।
भोगेश्वरत्वं च यथा तथेदम् मनसि स्थितम् ॥ (मो_४,५.५ ॥

भार्गवस्य शुक्रस्य ॥ (मोटी_४,५.५ ॥

श्रीरामः पृच्छति

भगवन् भृगुपुत्रस्य स्वर्गभोगबुभुक्षया ।
कथम् भोगाधिनाथत्वं संसारित्वम् बभूव च ॥ (मो_४,५.६ ॥

भोगाधिनाथत्वं किं संसारित्वं संसारभावः ॥ (मोटी_४,५.६ ॥

श्रीवसिष्ठः उत्तरम् आह

शृणु राम पुरा वृत्तं संवादम् भृगुकालयोः ।
सानौ मन्दरशैलस्य तमालविटपाकुले ॥ (मो_४,५.७ ॥

स्पष्टम् ॥ (मोटी_४,५.७ ॥

पुरा मन्दरशैलस्य सानौ कुसुमसङ्कुले ।
तप्यत तपो घोरं कस्मिंश्चिद् भगवान् भृगुः ॥ (मो_४,५.८ ॥

स्पष्टम् ॥ (मोटी_४,५.८ ॥

तम् उपास्ते स्म तेजस्वी बालः पुत्रो महामतिः ।
शुक्रः सकलचन्द्राभः प्रकाश इव भास्करम् ॥ (मो_४,५.९ ॥

स्पष्टम् ॥ (मोटी_४,५.९ ॥

भृगुर् वरवने तस्मिन् समाधाव् एव संस्थितः ।
सर्वकालं समुत्कीर्णो वनोपलतलाद् इव ॥ (मो_४,५.१० ॥

आसीद् इत्य् अध्याहार्यम् ॥ (मोटी_४,५.१० ॥

शुक्रः कुसुमशय्यासु कलधौताब्जिनीषु च ।
मन्दारतरुदोलासु बालोऽरमत लीलया ॥ (मो_४,५.११ ॥

रमणे हेतुम् आह बाल इति ॥ (मोटी_४,५.११ ॥

विद्याविद्यादृशोर् मध्ये शुक्रो प्राप्तमहापदः ।
त्रिशङ्कुर् इव रोदोऽन्तर् अवर्तत तदा किल ॥ (मो_४,५.१२ ॥

रोदोऽन्तः रोदस्योः द्व्यावापृथिव्योर् । अन्तः मध्ये ॥ (मोटी_४,५.१२ ॥

निर्विकल्पसमाधिस्थे स कदाचित् पितर्य् अथ ।
व्यग्रोऽभवद् एकान्ते जितारिर् इव भूमिपः ॥ (मो_४,५.१३ ॥

स्पष्टम् ॥ (मोटी_४,५.१३ ॥

ददर्शाप्सरसं तत्र गच्छन्तीं नभसः पथा ।
क्षीरोदमध्यलुलितां लक्ष्मीम् इव जनार्दनः ॥ (मो_४,५.१४ ॥

अप्सरसं विशिनष्टि

मन्दारमाल्यवलिताम् मन्दानिलचलालकाम् ।
हारिझाङ्कारिगमनां सुगन्धितनभोऽनिलाम् ॥ (मो_४,५.१५ ॥

स्पष्टम् ॥ (मोटी_४,५.१५ ॥

लावण्यपादपलताम् मदघूर्णितलोचनाम् ।
मृतीकृततद्देशां देहेन्दूदयकान्तिभिः ॥ (मो_४,५.१६ ॥

स्पष्टम् ॥ (मोटी_४,५.१६ ॥

कान्ताम् आलोक्य तस्याभूद् उल्लासतरलम् मनः ।
दृष्टे निर्मलपूर्णेन्दौ वपुर् अम्बुनिधेर् इव ॥ (मो_४,५.१७ ॥

स्पष्टम् ॥ (मोटी_४,५.१७ ॥

सर्गान्तश्लोकेन सुरवधूत्वम् अस्य कथयति

मनसिजेषुशताहतम् आशये
स परिरुध्य मनस् तदनूशनाः ।
विगलितेतरवृत्तितयात्मना
सुरवधूमय एव बभूव सः ॥ (मो_४,५.१८ ॥

आशये हृद्देशे । परिरुध्य अन्याभ्यः वृत्तिभ्यः बद्ध्वा । इति शिवम् ॥ (मोटी_४,५.१८ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे पञ्चमः सर्गः ॥५॥




थ ताम् मनसा ध्यायंस् तत्रैवामीलितेक्षणः ।
आरब्धवान् मनोराज्यम् इदम् एकः किलोशनाः ॥ (मो_४,६.१ ॥

उशनाः शुक्रः ॥ (मोटी_४,६.१ ॥

एषा हि ललना व्योम्नि सहस्रनयनालये ।
सम्प्राप्तोऽयम् अहं स्वर्गम् आलोलसुरसुन्दरम् ॥ (मो_४,६.२ ॥

सहस्रनयनालये स्वर्गे ॥ (मोटी_४,६.२ ॥

इमे ते मृदुमन्दारकुसुमोत्तंससुन्दराः ।
द्रवत्कनकनिःष्यन्दविलासिवपुषः सुराः ॥ (मो_४,६.३ ॥

स्पष्टम् ॥ (मोटी_४,६.३ ॥

इमास् ता लोचनोल्लाससृष्टनीलाब्जवृष्टयः ।
मुग्धा हासविलासिन्यः कान्ता हरिणदृष्टयः ॥ (मो_४,६.४ ॥

स्पष्टम् ॥ (मोटी_४,६.४ ॥

इमे ते कौस्तुभोद्द्योता अन्योऽन्यप्रतिबिम्बिताः ।
विश्वरूपोपमाकारा मरुतो मत्तकाशिनः ॥ (मो_४,६.५ ॥

विश्वरूपस्य विष्णोः । समः आकारः येषां । ते । मरुतो देवविशेषाः ॥ (मोटी_४,६.५ ॥

ऐरावणकटामोदविरक्तमधुपश्रुताः ।
इमास् ताः काकलीगीता गीर्वाणगणगीतयः ॥ (मो_४,६.६ ॥

काकलीगीताः काकलीगीताख्याः ॥ (मोटी_४,६.६ ॥

इयं सा कनकाम्भोजचरद्वैरिञ्चसारसा ।
मन्दाकिनीतटोद्यानविश्रान्तसुरनायिका ॥ (मो_४,६.७ ॥

स्पष्टम् ॥ (मोटी_४,६.७ ॥

एते ते यमचन्द्रेन्द्रसूर्यानिलजलानलाः ।
लोकपालास् तनूद्द्योतकीर्णदीप्तोज्ज्वलार्चिषः ॥ (मो_४,६.८ ॥

स्पष्टम् ॥ (मोटी_४,६.८ ॥

यं स सुरविक्रान्तहेतिकण्डूयिताननः ।
ऐरावणो रणद्दन्तप्रोतदैत्येन्द्रमण्डलः ॥ (मो_४,६.९ ॥

सुरैः देवैः । विक्रान्तहेतिभिः कण्डूयितम् आननम् यस्य । सः ॥ (मोटी_४,६.९ ॥

इमे ते भूतलस्थाना व्योमतारकतां गताः ।
वैमानिकाश् चलच्चारुहारचामरकुण्डलाः ॥ (मो_४,६.१० ॥

भूतले स्थानं येषाम् । ते भूतलस्थानाः ॥ (मोटी_४,६.१० ॥

इमास् ता विविधोद्यानमणिमन्दिरमण्डिताः ।
विमानपङ्क्तयश् चारुचामीकरमयातपाः ॥ (मो_४,६.११ ॥

चारुचामीकरमयः आतपः उद्द्योतः यासाम् । ताः ॥ (मोटी_४,६.११ ॥

मेरूपलतलास्फालशीकराकीर्णदेवताः ।
एतास् ताः कीर्णमन्दारा गङ्गासलिलवीचयः ॥ (मो_४,६.१२ ॥

मेरूपलतलेषु यः आस्फालः विघट्टनम् । तेन ये शीकराः । तैः आकीर्णाः देवताः याभिस् । ताः ॥ (मोटी_४,६.१२ ॥

एताः प्रसृतमन्दारमञ्जरीपुञ्जपिञ्जराः ।
दोलालोलाप्सरःश्रेण्यः शक्रोपवनवीथयः ॥ (मो_४,६.१३ ॥

स्पष्टम् ॥ (मोटी_४,६.१३ ॥

इमे ते कुन्दमन्दारमकरन्दसुगन्धयः ।
चन्द्रांशुनिकराकाराः पारिजातसमीरणाः ॥ (मो_४,६.१४ ॥

स्पष्टम् ॥ (मोटी_४,६.१४ ॥

पुष्पकेसरनीहारपटवासेरणोत्सुकैः ।
लताङ्गनागणैर् व्याप्तम् इदं तन् नन्दनं वनम् ॥ (मो_४,६.१५ ॥

पुष्पकेसरम् एव नीहारः । स एव पटवासः । तस्य यत् ईरणम् चालनम् । तत्रौत्सुकैः ॥ (मोटी_४,६.१५ ॥

कान्तगीतरवानन्दप्रनर्तितसुराङ्गनौ ।
इमौ तौ वल्लकीस्निग्धस्वरौ नारदतुम्बुरू ॥ (मो_४,६.१६ ॥

स्पष्टम् ॥ (मोटी_४,६.१६ ॥

इमे ते पुण्यकर्तारो भूरिभूषनभूषिताः ।
व्योमन्य् उड्डयमानेषु विमानेषु सुखं स्थिताः ॥ (मो_४,६.१७ ॥

स्पष्टम् ॥ (मोटी_४,६.१७ ॥

मदमन्मथमत्ताङ्ग्य इमास् ताः सुरयोषितः ।
देवेश्वरं निषेवन्ते वनं वनलता इव ॥ (मो_४,६.१८ ॥

स्पष्टम् ॥ (मोटी_४,६.१८ ॥

चन्द्रांशुजालकुसुमाश् चिन्तामणिगुलुच्छकाः ।
कल्पवृक्ष इमे पक्वरत्नस्तवकदन्तुराः ॥ (मो_४,६.१९ ॥

स्पष्टम् ॥ (मोटी_४,६.१९ ॥

इह तावद् इमं शक्रम् अहम् आसनसंस्थितम् ।
द्वितीयम् इव देवेशम् पूजयैवाभिवादये ॥ (मो_४,६.२० ॥

देवेशम् महादेवम् ॥ (मोटी_४,६.२० ॥

इति सञ्चिन्त्य शुक्रेण मनसैव शचीपतिः ।
तेनाभिवादितस् तत्र द्वितीय इव वै भृगुः ॥ (मो_४,६.२१ ॥

मनसा एव न तु कायेन ॥ (मोटी_४,६.२१ ॥

थ सादरम् उत्थाय शुक्रः शक्रेण पूजितः ।
गृहीतहस्तम् आनीय समीप उपवेशितः ॥ (मो_४,६.२२ ॥

स्पष्टम् ॥ (मोटी_४,६.२२ ॥

धन्यस् त्वदागमेनाद्य स्वर्गोऽयं शुक्र शोभते ।
उष्यतां चिरम् एवेह शक्र इत्थम् उवाच तम् ॥ (मो_४,६.२३ ॥

स्पष्टम् ॥ (मोटी_४,६.२३ ॥

थ तत्रोपविश्यासौ भार्गवः शोभिताननः ।
श्रियं जहार शशिनः सकलस्यामलस्य च ॥ (मो_४,६.२४ ॥

स्पष्टम् ॥ (मोटी_४,६.२४ ॥

सर्गान्तश्लोकेनास्य नरत्वत्यागं कथयति

सकलसुरगणाभिवन्दितोऽसौ
भृगुतनयः शतमन्युपार्श्वसंस्थः ।
चिरतरम् अतुलाम् अवाप तुष्टिं
नरमतिम् उज्झितवान् अलम् बभूव ॥ (मो_४,६.२५ ॥

असौ शुक्रः । नरमतिम् नरोऽहम् इति बुद्धिम् । अलम् अतिशयेन । उज्झितवान् बभूव सम्पन्नः । देवत्वम् एव स्वस्मिन् ज्ञातवान् इति भावः । इति शिवम् ॥ (मोटी_४,६.२५ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे षष्ठः सर्गः ॥६॥




इति शुक्रः पुरम् प्राप्य वैबुधं स्वेन चेतसा ।
विसस्मार निजम् भावम् प्राक्तनं व्यसनं विना ॥ (मो_४,७.१ ॥

इति एवम् । शुक्रः स्वेन चेतसा वैबुधम् पुरम् प्राप्य । व्यसनम् अप्सरोविषयाम् आसक्तिं । विना । सर्वं निजम् प्राक्तनम् भावम् विसस्मार । व्यसनस्यापि मानुषभावे एवोद्भूतत्वात् प्राक्तनत्वं ज्ञेयम् ॥ (मोटी_४,७.१ ॥

मुहूर्तम् अथ विश्रम्य तस्य पार्श्वे शचीपतेः ।
स्वर्गं विहर्तुम् उत्तस्थौ स्वर्वासिपरिचोदितः ॥ (मो_४,७.२ ॥

स्वर्वासिपरिचोदितः अमरचोदितः ॥ (मोटी_४,७.२ ॥

स्वर्गश्रियं समालोक्य लोललोचनलाञ्छितम् ।
स्त्रैणं द्रष्टुं जगामासौ नलिनीम् इव सारसः ॥ (मो_४,७.३ ॥

स्त्रैणम् स्त्रीसमूहम् ॥ (मोटी_४,७.३ ॥

तत्र ताम् मृगशावाक्षीं कान्ताम् अध्यागताम् असौ ।
ददर्श विपिनान्तःस्थाम् भृङ्गश् चूतलताम् इव ॥ (मो_४,७.४ ॥

ताम् पूर्वम् मनुष्यलोकेऽनुभूताम् ॥ (मोटी_४,७.४ ॥

ताम् आलोक्य लसल्लोलविलासवलिताकृतिम् ।
आसीद् विलीयमानाङ्गो ज्योत्स्नयेन्दुमणिर् यथा ॥ (मो_४,७.५ ॥

स्पष्टम् ॥ (मोटी_४,७.५ ॥

विलीयमानसर्वाङ्गस् ताम् अवैक्षत कामिनीम् ।
चन्द्रकान्त इव ज्योत्स्नां शीतलां खे विलासिनीम् ॥ (मो_४,७.६ ॥

स्पष्टम् ॥ (मोटी_४,७.६ ॥

तेनावलोकिता सापि तत्परायणतां गता ।
निशान्ते चक्रवाकेन कान्तेन परिकूजिता ॥ (मो_४,७.७ ॥

स्पष्टम् ॥ (मोटी_४,७.७ ॥

रसाद् विकसतोर् नूनम् अन्योऽन्यम् अनुरक्तयोः ।
प्रातर् अर्कनलिन्योर् या शोभा सैव तयोर् अभूत् ॥ (मो_४,७.८ ॥

तयोः शुक्राप्सरसोः ॥ (मोटी_४,७.८ ॥

सङ्कल्पितार्थदायित्वाद् देशस्य मदनेन सा ।
सर्वाङ्गं विवशीकृत्य शुक्रायैव समर्पिता ॥ (मो_४,७.९ ॥

देशस्य स्वर्गदेशस्य । सङ्कल्पितार्थदायित्वात् । मदनेन असौ अप्सराः । सर्वाङ्गं सर्वेषु अङ्गेषु । विवशीकृत्य । शुक्राय समर्पिता दत्ता । सर्वसङ्कल्पदायिनः स्वर्गदेशस्यैव माहात्म्यम् एतत् । यन् मदनेनासौ विवशीकृत्य शुक्राय समर्पितेति भावः ॥ (मोटी_४,७.९ ॥

पेतुः स्मरशरास् तस्या मृदुष्व् अङ्गेषु भूरिशः ।
पलाशेष्व् इव पद्मिन्या धारा नवपयोमुचः ॥ (मो_४,७.१० ॥

स्पष्टम् ॥ (मोटी_४,७.१० ॥

सा बभूव स्मराधूता लोलालिवलयालका ।
मन्दवातविनुन्नाया मञ्जर्याः सहधर्मिणी ॥ (मो_४,७.११ ॥

स्पष्टम् ॥ (मोटी_४,७.११ ॥

नीलनीरजनेत्रां तां हंसवारणगामिनीम् ।
मदनः क्षोभयाम् आस पूरः कमलिनीम् इव ॥ (मो_४,७.१२ ॥

पूरः जलपूरः ॥ (मोटी_४,७.१२ ॥

थ तां तादृशीं दृष्ट्वा शुक्रः सङ्कल्पितार्थभाक् ।
तमः सङ्कल्पयाम् आस संहारम् इव भूतकृत् ॥ (मो_४,७.१३ ॥

सङ्कल्पयाम् आस सङ्कल्पेनोत्पादितवान् ॥ (मोटी_४,७.१३ ॥

त्रिविष्टपस्य देशोऽसौ बभूव तिमिराकुलः ।
भूलोकस्यान्धतमसो लोकालोकतटो यथा ॥ (मो_४,७.१४ ॥

स्पष्टम् ॥ (मोटी_४,७.१४ ॥

लज्जान्धकारतीक्ष्णांशौ तस्मिंस् तिमिरमण्डले ।
प्रतिष्ठाम् आगते तस्य मिथुनस्येव मन्मथे ॥ (मो_४,७.१५ ॥
तेषु सर्वेषु भूतेषु गतेष्व् अभिमतां दिशम् ।
तस्मात् प्रदेशाद् भूलोकं दिनान्ते विहगेष्व् इव ॥ (मो_४,७.१६ ॥
सा दीर्घधवलापाङ्गा प्रवृद्धमदना तथा ।
आजगाम भृगोः पुत्रम् मयूरी वारिदं यथा ॥ (मो_४,७.१७ ॥

तिमिरमण्डले कस्मिन् । लज्जा एवान्धकारः । तस्य । तीक्ष्णांशौ सूर्ये । नाशकत्वात् ॥ (मोटी_४,७.१५-१७॥

धवलागारमध्यस्थे पर्यङ्के परिकल्पिते ।
विवेश भार्गवस् तत्र क्षीरोद इव माधवः ॥ (मो_४,७.१८ ॥

स्पष्टम् ॥ (मोटी_४,७.१८ ॥

सा पादाव् अवलम्ब्यास्य विवशेव वरानना ।
रराज च सुरेभस्य पादलग्नेव पद्मिनी ॥ (मो_४,७.१९ ॥

विवशा परायत्तः ॥ (मोटी_४,७.१९ ॥

उवाच चेदं ललितं लसत्स्नेहोत्कया गिरा ।
वचो मधुरम् आनन्दि विलासि वलिताक्षरम् ॥ (मो_४,७.२० ॥

स्पष्टम् ॥ (मोटी_४,७.२० ॥

पश्यामलेन्दुवदन मण्डलीकृतकार्मुकः ।
बलाम् अनुबध्नाति माम् एष किमनङ्गकः ॥ (मो_४,७.२१ ॥

कुत्सितः अनङ्गः किमनङ्गकः ॥ (मोटी_४,७.२१ ॥

पाहि माम् अबलां नाथ दीनां त्वच्छरणाम् इह ।
कृपणाश्वासनं साधो विद्धि सच्चरितव्रतम् ॥ (मो_४,७.२२ ॥

स्पष्टम् ॥ (मोटी_४,७.२२ ॥

स्नेहदृष्टिम् अजानद्भिर् मूढैर् एव महामते ।
प्रणया अवगण्यन्ते न रसज्ञैः कदाचन ॥ (मो_४,७.२३ ॥

प्रणयाः लक्षणया प्रणययुक्ताः । अवगण्यन्ते अवमन्यन्ते ॥ (मोटी_४,७.२३ ॥

शङ्कितोपसम्पन्नः प्रणयोऽन्योऽन्यरक्तयोः ।
धःकरोति निष्यन्दं चान्द्रम् आस्वादितम् प्रिय ॥ (मो_४,७.२४ ॥

चान्द्रं निष्यन्दम् अमृतम् ॥ (मोटी_४,७.२४ ॥

न तथा सुखयत्य् एषा चेतस् त्रिभुवनेशता ।
यथा परस्परानन्दी स्नेहः प्रथमरक्तयोः ॥ (मो_४,७.२५ ॥

स्पष्टम् ॥ (मोटी_४,७.२५ ॥

त्वत्पादस्पर्शनेनेयं समाश्वस्तास्मि मानद ।
चन्द्रपादपरामृष्टा यथा निशि कुमुद्वती ॥ (मो_४,७.२६ ॥

स्पष्टम् ॥ (मोटी_४,७.२६ ॥

संस्पर्शामृतपानेन तव जीवामि सुन्दर ।
चन्द्रांशुरसपानेन चकोरी चपला यथा ॥ (मो_४,७.२७ ॥

स्पष्टम् ॥ (मोटी_४,७.२७ ॥

माम् इमां चरणालीनाम् भ्रमरीं करपल्लवैः ।
आलिङ्ग्यामृतसम्पूर्णे सत्पद्महृदये कुरु ॥ (मो_४,७.२८ ॥

चरणयोः आ समन्तात् । लीनाम् चरणालीनाम् ॥ (मोटी_४,७.२८ ॥

इत्य् उक्त्वा पुष्पमृद्वङ्गी सा तस्य पतितोरसि ।
व्याघूर्णितालिनयना सुतराव् इव मञ्जरी ॥ (मो_४,७.२९ ॥

स्पष्टम् ॥ (मोटी_४,७.२९ ॥

सर्गान्तश्लोकेन कथयति

तौ दम्पती तत्र विलासकान्तौ
विलेसतुस् तासु वनस्थलीषु ।
किञ्जल्कगौरानिलघूर्णितासु
मत्तौ द्विरेफाव् इव पद्मिनीषु ॥ (मो_४,७.३० ॥

स्पष्टम् । इति शिवम् ॥ (मोटी_४,७.३० ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे सप्तमः सर्गः ॥७॥





इति चित्तविलासेन चिरम् उत्प्रेक्षितैः प्रियैः ।
प्रणयैर् भार्गवस्यासीत् तुष्टये ससमागमः ॥ (मो_४,८.१ ॥

ससमागमः तया अप्सरसा सह समागमः ॥ (मोटी_४,८.१ ॥

मन्दारदामाकुलया वैबुधासवमत्तया ।
तदा तेन तया सार्धं द्वितीयेनामलेन्दुना ॥ (मो_४,८.२ ॥
विहृतम् मत्तहंसासु हेमपङ्कजिनीषु च ।
तटेष्व् अमरवाहिन्याः सह किन्नरचारणैः ॥ (मो_४,८.३ ॥

वैबुधासवः अमृतम् ॥ (मोटी_४,८.२-३ ॥

पीतम् इन्दुदलस्यन्दि देवैः सह रसायनम् ।
पारिजातलताजालनिलयेषु विलासिना ॥ (मो_४,८.४ ॥

स्पष्टम् ॥ (मोटी_४,८.४ ॥

चारुचैत्ररथोद्यानलतादोलासु लीलया ।
चिरं विलसितं व्यग्रैः सह विद्याधरीगणैः ॥ (मो_४,८.५ ॥

स्पष्टम् ॥ (मोटी_४,८.५ ॥

नन्दनोपवनाभोगो मन्दरेणेव वारिधिः ।
भृशम् उल्लोलतां नीतः प्रमथैः सह शाम्भवैः ॥ (मो_४,८.६ ॥

शुक्रेण शाम्भवैः शम्भुसम्बन्धिभिः । प्रमथैः रुद्रगणैः । सह । नन्दनोपवनाभोगः भृशम् उल्लोलताम् नीतः ॥ (मोटी_४,८.६ ॥

बालहेमलताजालजटिलासु दरीषु च ।
भ्रान्तम् उन्मत्तरागेण मैरवीष्व् अब्जिनीषु च ॥ (मो_४,८.७ ॥

शुक्रेण कर्त्रा भ्रान्तम् भ्रमः कृतः । शुक्रेण कथम्भूतेन । उन्मत्तरागेण उद्रिक्तरागेण ॥ (मोटी_४,८.७ ॥

कैलासवनकुञ्जेषु तया सह विलासिना ।
हारेन्दुधवला रात्रिः क्षपिता गणगीतिभिः ॥ (मो_४,८.८ ॥

गणगीतिभिः गन्धर्वादिगीतकृतैः विनोदैर् इत्य् अर्थः ॥ (मोटी_४,८.८ ॥

गन्धमादनशैलस्य विश्रम्योपरि सानुषु ।
सा तेन कनकाम्भोजैर् आपादम् अभिमण्डिता ॥ (मो_४,८.९ ॥

आपादम् पादपर्यन्तम् ॥ (मोटी_४,८.९ ॥

लोकालोकतटान्तेषु विचित्राश्चर्यहारिषु ।
क्रीडितं कृतहासेन राम तेन तया सह ॥ (मो_४,८.१० ॥

स्पष्टम् ॥ (मोटी_४,८.१० ॥

मन्दरान्तरकच्छेषु सार्धं हरिणशावकैः ।
वसत् स समाः षष्टिं कल्पितामरमन्दिरः ॥ (मो_४,८.११ ॥

कल्पितम् कल्पनया सम्पादितम् । अमरमन्दिरम् देवगृहम् । येन । सः ॥ (मोटी_४,८.११ ॥

क्षीरार्णवतटेष्व् अस्य वनितासहचारिणः ।
क्षीणं कृतयुगाद् अर्धं श्वेतद्वीपजनैः सह ॥ (मो_४,८.१२ ॥

स्पष्टम् ॥ (मोटी_४,८.१२ ॥

गन्धर्वनगरोद्यानलीलाविरचनैर् असौ ।
सृष्टानन्तजगत्सृष्टेः कालस्यानुकृतिं गतः ॥ (मो_४,८.१३ ॥

स्पष्टम् ॥ (मोटी_४,८.१३ ॥

थावसद् असौ शुक्रः पुरन्दरपुरे पुनः ।
सुखं चतुर्युगान्य् अष्टौ हरिणेक्षणया सह ॥ (मो_४,८.१४ ॥

स्पष्टम् ॥ (मोटी_४,८.१४ ॥

पुण्यक्षयानुसन्धानात् ततश् चावनिमण्डले ।
तयैव सह मानिन्या पपातापहृताकृतिः ॥ (मो_४,८.१५ ॥

स्पष्टम् ॥ (मोटी_४,८.१५ ॥

परालूनसमस्ताङ्गो हृतस्यन्दननन्दनः ।
चिन्तापरवशो ध्वस्तः समितीवाहतो भटः ॥ (मो_४,८.१६ ॥

हृते स्यन्दननन्दने रथनन्दनोपवने यस्य । सः । भटपक्षे हृतः स्यन्दननन्दनः प्रशस्तरथः यस्य । सः ॥ (मोटी_४,८.१६ ॥

पतितस्यावनौ तस्य चिन्तया सह दीर्घया ।
शरीरं शतधा यातं शिलापातीव निर्झरः ॥ (मो_४,८.१७ ॥

स्पष्टम् ॥ (मोटी_४,८.१७ ॥

संशीर्णयोर् देहकयोश् चित्ते ते वासनावृते ।
विचेरतुस् तयोर् व्योम्नि निर्नीडौ विहगौ यथा ॥ (मो_४,८.१८ ॥

स्पष्टम् ॥ (मोटी_४,८.१८ ॥

तत्राविविशतुश् चान्द्रं ते चित्ते रश्मिजालकम् ।
प्रालेयताम् उपेत्याशु शालिताम् अथ जग्मतुः ॥ (मो_४,८.१९ ॥

प्रालेयताम् अवश्यायभावम् ॥ (मोटी_४,८.१९ ॥

शालींस् तान् भुक्तवान् पक्वान् दशार्णेषु द्विजोत्तमः ।
शौक्राञ् शुक्राङ्गनागर्भान् मालवेषु च भूपतिः ॥ (मो_४,८.२० ॥

शौक्रान् शुक्रसम्बन्धिनः । तदुपादानबीजनिमित्तानीति यावत् । शुक्राङ्गना गर्भे येषाम् । तान् ॥ (मोटी_४,८.२० ॥

जायतोशनाः पूर्वं दशार्णेषु द्विजोत्तमात् ।
नृपाद् उत्तमसौभाग्यान् मालवेषु तदङ्गना ॥ (मो_४,८.२१ ॥

तदङ्गना शुक्राङ्गना । अप्सराः इति यावत् ॥ (मोटी_४,८.२१ ॥

स तत्र ववृधे बालः सा तत्र ववृधेऽङ्गना ।
तौ पूर्वदम्पती जातौ स्वर्भ्रष्टाव् इव भूतले ॥ (मो_४,८.२२ ॥

स्पष्टम् ॥ (मोटी_४,८.२२ ॥

थ षोडशवर्षोऽभूच् छुक्रः सारङ्गनामभृत् ।
पितुर् गृहे यौवनवाञ् श्रीमान् विप्रकुमारकः ॥ (मो_४,८.२३ ॥

सारङ्गेति नाम बिभर्तीति सारङ्गनामभृत् ॥ (मोटी_४,८.२३ ॥

मालानामसुरस्त्री सा कुमारी राजसद्मनि ।
भृङ्गेक्षणा गता वृद्धिं लता वरवने यथा ॥ (मो_४,८.२४ ॥

स्पष्टम् ॥ (मोटी_४,८.२४ ॥

राजपुत्री ततो माला पूजयाम् आस शङ्करम् ।
लभेयम् प्राक्तनं सिद्धम् पतिम् इत्य् अनिशं शुभा ॥ (मो_४,८.२५ ॥

स्पष्टम् ॥ (मोटी_४,८.२५ ॥

थ मालवभूपस्य यज्ञे द्विजसभागतम् ।
माला ददर्श सारङ्गम् पित्रा सह समागतम् ॥ (मो_४,८.२६ ॥

स्पष्टम् ॥ (मोटी_४,८.२६ ॥

तं दृष्ट्वा सानवद्याङ्गी प्राक्तनस्नेहभाविता ।
दृष्टचन्द्रेन्दुमणिवत् स्नेहस्विन्नाङ्गिका बभौ ॥ (मो_४,८.२७ ॥

प्राक्तनस्नेहेन पूर्वजन्मस्नेहेन । भाविता वासिता ॥ (मोटी_४,८.२७ ॥

ततो यज्ञसभामध्ये दाशार्णद्विजदारकम् ।
भर्तृत्वे वरयाम् आस सा माला मालवात्मजा ॥ (मो_४,८.२८ ॥

स्पष्टम् ॥ (मोटी_४,८.२८ ॥

क्रमात् कृतविवाहाय तस्मै वार्धकजर्जरः ।
मालवेशोऽखिलं राज्यम् प्रतिपाद्य वनं ययौ ॥ (मो_४,८.२९ ॥

वार्धकजर्जरः जराजर्जरः । प्रतिपाद्य दत्त्वा ॥ (मोटी_४,८.२९ ॥

स सारङ्गस् तया सार्धं तस्मिन् मालवमण्डपे ।
चकारातिसुखी राज्यं शक्रवच् छरदां शतम् ॥ (मो_४,८.३० ॥

स्पष्टम् ॥ (मोटी_४,८.३० ॥

थ कालेन महता चञ्चलत्वाच् च चेतसः ।
प्रियत्वम् मिथो यातौ दम्पती तौ विधेर् वशात् ॥ (मो_४,८.३१ ॥

स्पष्टम् ॥ (मोटी_४,८.३१ ॥

सारङ्गस् तु जराजीर्णः पातसज्जकलेवरः ।
दध्रे श्वसनशैथिल्याज् जीर्णपर्णसवर्णताम् ॥ (मो_४,८.३२ ॥

श्वसनशैथिल्यात् वातशैथिल्यात् ॥ (मोटी_४,८.३२ ॥

जायाजनविरागेण वार्धकातिशयेन च ।
मरणम् मन्दमन्देहो निरीहोऽभिननन्द सः ॥ (मो_४,८.३३ ॥

स्पष्टम् ॥ (मोटी_४,८.३३ ॥

थ नीरसराज्यस्य दुःखातिशयशंसिनः ।
रण्य इव वेतालो मोहोऽतिघनतां गतः ॥ (मो_४,८.३४ ॥

स्पष्टम् ॥ (मोटी_४,८.३४ ॥

मोहान्धकूपपतितम् भोगासङ्गाद् अनारतम् ।
विवेकिनम् अज्ञानम् असज्जनपरायणम् ॥ (मो_४,८.३५ ॥

स्पष्टम् ॥ (मोटी_४,८.३५ ॥

जहारैनं ततो मृत्युस् तृष्णाकवलिताशयम् ।
पतङ्गम् इव मण्डूकः कृताक्रन्दम् अकिञ्चनम् ॥ (मो_४,८.३६ ॥

अकिञ्चनम् असमर्थम् ॥ (मोटी_४,८.३६ ॥

ततः कर्मफलम् भुक्त्वा स्वम् परत्र शुभाशुभम् ।
ङ्गेषु धीवरो जातः स दुर्भाववशात् तदा ॥ (मो_४,८.३७ ॥

दुर्भाववशात् दुर्वासनावशात् ॥ (मोटी_४,८.३७ ॥

तत्र धीवरकर्माणि कुर्वन् स शरदां शतम् ।
दुःखजर्जरचेतस्त्वाद् वैराग्यं समुपाययौ ॥ (मो_४,८.३८ ॥

स्पष्टम् ॥ (मोटी_४,८.३८ ॥

दुःखं संसार इत्य् एवं चिन्तयन् भास्करं ततः ।
सम्पतंस् तेन सञ्जातः सूर्यवंशे महानृपः ॥ (मो_४,८.३९ ॥

सम्पतन् शरणं गच्छन् ॥ (मोटी_४,८.३९ ॥

शुभभाववशात् सोऽथ किञ्चिज् ज्ञानम् अवाप्तवान् ।
जज्ञे नृपतनुं त्यक्त्वा गुरुः सर्वोपदेशकः ॥ (मो_४,८.४० ॥

स्पष्टम् ॥ (मोटी_४,८.४० ॥

मन्त्रासाधितसिद्धिर् हि सोऽथ विद्याधरोऽभवत् ।
कल्पम् एकं तु बुभुजे ततो वैद्याधरीम् पुरीम् ॥ (मो_४,८.४१ ॥

स्पष्टम् ॥ (मोटी_४,८.४१ ॥

कल्पावसानसमयं नीत्वा पवनरूपया ।
तन्वा सृष्टौ प्रवृत्तायाम् भूयो जातो मुनेः सुतः ॥ (मो_४,८.४२ ॥

स्पष्टम् ॥ (मोटी_४,८.४२ ॥

ततो मुनीनां सम्पर्कात् तपस्य् उग्रे व्यवस्थितः ।
वसन् मेरुगहने मन्वन्तरम् अनिन्दितः ॥ (मो_४,८.४३ ॥

स्पष्टम् ॥ (मोटी_४,८.४३ ॥

तत्र तस्य समुत्पन्नो मृग्याः पुत्रो नराकृतिः ।
तत्स्नेहेन परम् मोहम् पुनर् अभ्याययौ क्षणात् ॥ (मो_४,८.४४ ॥

मृग्याः मृगीसकाशात् ॥ (मोटी_४,८.४४ ॥

पुत्रस्यास्य धनम् मेऽस्तु गुणाश् चायुश् च शाश्वतम् ।
इत्य् अनारतचिन्ताभिर् जहौ सत्याम् अवस्थितिम् ॥ (मो_४,८.४५ ॥

सत्याम् अवस्थितिम् सत्यभूतं धर्मपरत्वम् ॥ (मोटी_४,८.४५ ॥

धर्मचिन्तापरिभ्रंशात् पुत्रार्थम् भोगचिन्तनात् ।
क्षीणायुषं तम् अहरन् मृत्युः सर्प इवानिलम् ॥ (मो_४,८.४६ ॥

स्पष्टम् ॥ (मोटी_४,८.४६ ॥

भोगैकचिन्तया सार्धं स समुत्क्रान्तचेतनः ।
प्राप्य मद्रेशपुत्रत्वम् आसीन् मद्रमहीपतिः ॥ (मो_४,८.४७ ॥

मद्रेशपुत्रत्वम् मद्रदेशभूपसुतत्वम् ॥ (मोटी_४,८.४७ ॥

मद्रदेशे चिरं कृत्वा राज्यम् उच्छिन्नशात्रवः ।
जराम् अभ्याजगामात्र हिमाशनिम् इवाम्बुजः ॥ (मो_४,८.४८ ॥

स्पष्टम् ॥ (मोटी_४,८.४८ ॥

मद्रराजतनुं तं तु तपोवासनया सह ।
तत्याज तेन जातोऽसौ तपस्वी तापसात्मजः ॥ (मो_४,८.४९ ॥

सः मद्रराजतनुं तत्याजेति सम्बन्धः । तेन तनुत्यागेन ॥ (मोटी_४,८.४९ ॥

समङ्गाया महानद्यास् तटम् आसाद्य तापसः ।
तपस् तेपे महाबुद्धिः स राम विगतज्वरः ॥ (मो_४,८.५० ॥

समङ्गा नदीभेदः ॥ (मोटी_४,८.५० ॥

सर्गान्तश्लोकेन शुक्रस्य सुखावस्थानं कथयति

विविधजन्मदशाविवशाशयः
समनुसृत्य शरीरपरम्पराम् ।
सुखम् अतिष्ठद् असौ भृगुनन्दनो
वरनदीसुतटे दृढवृक्षवत् ॥ (मो_४,८.५१ ॥

वरनदीसुतटे समङ्गाख्यायाः उत्कृष्टायाः नद्याः शोभने तीरे । इति शिवम् ॥ (मोटी_४,८.५१ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे अष्टमः सर्गः ॥८॥




इति चिन्तयतस् तस्य शुक्रस्य पितुर् अग्रतः ।
जगामातितरां कालो बहुसंवत्सरात्मकः ॥ (मो_४,९.१ ॥

स्पष्टम् ॥ (मोटी_४,९.१ ॥

थ कालेन महता पवनातपजर्जरः ।
कायस् तस्य पपातोर्व्यां छिन्नमूल इव द्रुमः ॥ (मो_४,९.२ ॥

स्पष्टम् ॥ (मोटी_४,९.२ ॥

मनस् तु चञ्चलाभोगं तासु तासु दशासु च ।
बभ्रामातिविचित्रासु वनराजिष्व् इवैणकः ॥ (मो_४,९.३ ॥

स्पष्टम् ॥ (मोटी_४,९.३ ॥

भ्रान्तम् उद्भ्रान्तम् अभितश् चक्रार्पितम् इवाकुलम् ।
मनस् तस्य विशश्राम समङ्गासरितस् तटे ॥ (मो_४,९.४ ॥

चक्रार्पितो हि उद्भ्रमति ॥ (मोटी_४,९.४ ॥

नन्तवृत्तान्तघनाम् पेलवां सुदृढाम् अपि ।
तां संसृतिदशां शुक्रो विदेहोऽनुभवन् स्थितः ॥ (मो_४,९.५ ॥

तां संसृतिदशाम् समङ्गातटतापससम्बन्धिनीं संसारदशाम् । विदेहः स्थूलदेहरहितः ॥ (मोटी_४,९.५ ॥

मन्दराचलसानुस्था सा तनुस् तस्य धीमतः ।
तापप्रसरसंशुष्का चर्मशेषा बभूव ह ॥ (मो_४,९.६ ॥

स्पष्टम् ॥ (मोटी_४,९.६ ॥

शारीररन्ध्रप्रवहद्वातशीत्काररूपया ।
चेष्टादुःखक्षयानन्दात् काकल्येव स्म गायति ॥ (मो_४,९.७ ॥

तस्य सा तनुः । चेष्टाया यत् दुःखम् पीडा । तस्य क्षयात् य आनन्दः । ततः हेतोः । काकल्या कलसूक्ष्मया गानवाचा । गायति स्म इव । कथम्भूतया । शारीररन्ध्रेषु प्रवहन् यः वातः । तेन शीत्कारः ध्वनिविशेषः । स एव रूपं यस्याः । तादृश्या ॥ (मोटी_४,९.७ ॥

प्राणानुस्मरणोच्छ्वासम् इव वाष्पं स्म मुञ्चति ।
चण्डानिलविलासेन लुलित्वा वनभूमिषु ॥ (मो_४,९.८ ॥

वाष्पम् कथम्भूतम् । प्राणाणाम् पूर्वं स्थितानाम् यद् अनुस्मरणम् अनुक्षणं स्मरणम् । तेन उच्छ्वासः वृद्धिः यस्य । तत् । वाष्पत्वं चात्रावश्यायस्य ज्ञेयम् ॥ (मोटी_४,९.८ ॥

तनुम् एव विशिनष्टि

मनोवराकम् अवटे लुठितम् भवभूमिषु ।
हसन्तीवातिशुभ्राभ्रसितया दन्तमालया ॥ (मो_४,९.९ ॥

भवभूमिषु स्थिते अवटे अप्सरोरूपे अवटे ॥ (मोटी_४,९.९ ॥

दर्शयन्ती स्वकं शून्यं वपुर् अक्ष्णोर् अकृत्रिमम् ।
मुखारण्यजरत्कूपरूपया गर्तशोभया ॥ (मो_४,९.१० ॥

पुनः कथम्भूता । अक्ष्णोः स्वस्याक्षियुगलस्य । मुखम् एवारण्यम् । तस्य जरत्कूपतया गर्तशोभया । तद्व्याजेनेति यावत् । स्वं वपुः शून्यं दर्शयन्ती । शून्या एवाहम् अस्मीति दर्शयन्तीति यावत् । मृतशरीरस्य च मुखे मांसशेषात् गर्तो जायते ॥ (मोटी_४,९.१० ॥

तापोपतप्ता संसिक्ता वर्षाजलभरेण सा ।
पांसुना पवनोत्थेन दुष्कृतेनेव रूषिता ॥ (मो_४,९.११ ॥

सा इति तनूपरामर्शः ॥ (मोटी_४,९.११ ॥

शुष्ककाष्ठवद् आलोला पातेषु कृतझाङ्कृता ।
धारानिकरपातेन विनुन्ना जलदागमे ॥ (मो_४,९.१२ ॥

विनुन्ना प्रेरिता । चालितेति यावत् ॥ (मोटी_४,९.१२ ॥

प्रावृड्निर्झरपूरेण प्लुता गिरिनदीतटे ।
तारमारुतशीत्कारा वनोपल इव स्थिता ॥ (मो_४,९.१३ ॥

तारः मारुतशीत्कारः यस्यां सा । वनोपल इव वनोपलवत् । स्थिता ॥ (मोटी_४,९.१३ ॥

वक्रा शुष्कान्त्रतन्त्री च पूता झाङ्कारकारिणी ।
रण्यलक्ष्मीवीणेव शून्यचर्ममयोदरी ॥ (मो_४,९.१४ ॥

अरण्यलक्ष्म्याः वीणा अरण्यलक्ष्मीवीणा । सा इव ॥ (मोटी_४,९.१४ ॥

ननु तादृशी तस्य तनुः वनहिंस्रैः कथं न भुक्तेत्य् । अत्राह

रागद्वेषविहीनत्वात् तस्य पुण्याश्रमस्य तु ।
महातपस्त्वाच् च भृगोर् न भुक्ता मृगपक्षिभिः ॥ (मो_४,९.१५ ॥

पुण्याश्रमस्य च रागद्वेषविहीनत्वम् तत्रस्थप्रा--णिरागद्वेषविहीनत्वेन ज्ञेयम् ॥ (मोटी_४,९.१५ ॥

सर्गान्तश्लोकेनाप्य् एतद् एव कथयति

यमनियमकृशीकृताङ्गयष्टेश्
चरति तपः स्म भृगूद्वहस्य चेतः ।
तनुर् अथ पवनापनीतरक्ता
चिरम् अलुठन् महतीषु सा शिलासु ॥ (मो_४,९.१६ ॥

यमनियमकृशीकृताङ्गयष्टेः भृगूद्वहस्य शुक्रस्य । चेतः तपः चरति स्म । अथ सा तनुः पवनापनीतरक्ता सती महतीषु शिलासु अलुठत् लुठितवती । इति शिवम् ॥ (मोटी_४,९.१६ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे नवमः सर्गः ॥९॥




थ वर्षसहस्रेण दिव्येन परमेश्वरः ।
भृगुः परमसम्बोधाद् विरराम समाधितः ॥ (मो_४,१०.१ ॥

समाधितः कथम्भूतात् । परमसम्बोधात् ज्ञेयमालिन्यादूषितज्ञानरूपात् । न तु मूर्च्छारूपात् ॥ (मोटी_४,१०.१ ॥

नापश्यद् अग्रे तनयं तं नयावनताननम् ।
सीमान्तं गुणसीमायाः पुण्यम् मूर्तम् इव स्थितम् ॥ (मो_४,१०.२ ॥

स्पष्टम् ॥ (मोटी_४,१०.२ ॥

पश्यत् केवलं कालं कङ्कालम् पुरतो महत् ।
देहयुक्तम् इवाभाग्यं दारिद्र्यम् इव मूर्तिमत् ॥ (मो_४,१०.३ ॥

कालम् कृष्णम् । कङ्कालम् करङ्कम् । अभाग्यम् भाग्यविपर्ययः ॥ (मोटी_४,१०.३ ॥

कङ्कालं विशिनष्टि

तापशुष्कवपुः कृत्तिरन्ध्रस्फुरिततित्तिरि ।
संशुष्कान्त्रोदरगुहाछायाविश्रान्तदर्दुरम् ॥ (मो_४,१०.४ ॥

तित्तिरयः कीटविशेषाः ॥ (मोटी_४,१०.४ ॥

नेत्रगर्तकसंसुप्तप्रसूनवनकीटकम् ।
मक्षिकापञ्जरप्रोतकोशकारिक्रिमिव्रजम् ॥ (मो_४,१०.५ ॥

मक्षिकापञ्जरेषु पञ्जराकारेणोपविष्टेषु मक्षिकासमूहेषु । प्रोतः कोशकारक्रिमिव्रजः यस्मिन् । तत् ॥ (मोटी_४,१०.५ ॥

प्राक्तनीम् उपभोगेहाम् इष्टानिष्टफलप्रदाम् ।
धाराधौतान्तया तन्वा हसच् छुष्कास्थिमालया ॥ (मो_४,१०.६ ॥

हसत् हसद् इवेत्य् अर्थः ॥ (मोटी_४,१०.६ ॥

शिरोघटेन शुभ्रेण सम्पन्नेनेन्दुवर्चसा ।
विडम्बयच् च कर्पूरप्लुतलिङ्गशिरःश्रियम् ॥ (मो_४,१०.७ ॥

इन्दुवर्चसा चन्द्रमहसा । लिङ्गम् शिवलिङ्गम् ॥ (मोटी_४,१०.७ ॥

ऋज्वा संशुष्कसितया स्वास्थिमात्रावशेषया ।
ग्रीवयात्मानुसृतया दीर्घीकुर्वद् इवाकृतिम् ॥ (मो_४,१०.८ ॥

आत्मानुसृतया । आत्मना स्वेन । अनुसृतया सम्बद्धया ॥ (मोटी_४,१०.८ ॥

मृणालिकापाण्डुरया धारावधुतमांसया ।
नासास्थिलतया वक्त्रं कृतसीमाक्रमं दधत् ॥ (मो_४,१०.९ ॥

कृतसीमाक्रमम् कृतमर्यादाक्रमम् ॥ (मोटी_४,१०.९ ॥

दीर्घकन्धरया नूनम् उत्तानीकृतवक्त्रया ।
प्रेक्षमाणम् इव प्राणान् उत्क्रान्तान् अम्बरोदरे ॥ (मो_४,१०.१० ॥

नूनम् वितर्के ॥ (मोटी_४,१०.१० ॥

जङ्घोरुजानुदोर्दण्डैर् द्विगुणं दीर्घतां गतैः ।
प्रमिमाणम् इवाशान्तं दीर्घाध्वश्रमभीतितः ॥ (मो_४,१०.११ ॥

आशान्तम् दिगन्तम् ॥ (मोटी_४,१०.११ ॥

उदरेणातिनिम्नेन चर्मशेषेण शोषिणा ।
प्रदर्शयद् इवाज्ञस्य हृदयस्यातिशून्यताम् ॥ (मो_४,१०.१२ ॥

स्पष्टम् ॥ (मोटी_४,१०.१२ ॥

प्रेक्ष्य तच् छुष्ककङ्कालम् आलानम् इव दन्तिनः ।
पूर्वापरपरामर्शम् अकुर्वन् भृगुर् उत्थितः ॥ (मो_४,१०.१३ ॥

भृगुः किं कुर्वन् । पुत्रस्नेहेन पूर्वापरपरामर्शम् अकुर्वन् । योगिनाम् अपि हि कदाचित् प्रकृतिवशात् देहपातं तावत् पूर्वापरपरामर्शहीनत्वं जायते । किं तु तेषां तत् क्षणिकम् एवेति । उत्थितः स्वात्मतत्त्वपरामर्शात् उच्चलितः ॥ (मोटी_४,१०.१३ ॥

आलोकसमकालं हि प्रतिभातं ततो भृगोः ।
चिरम् उत्क्रान्तजीवः किम् मत्पुत्रोऽयम् इति क्षणात् ॥ (मो_४,१०.१४ ॥

ततः उत्थानानन्तरम् । आलोकसमकालम् पुत्रकङ्कालदर्शनसमकालम् । भृगोः इति प्रतिभातम् स्फुरितम् इति । किम् इति । अयम् मत्पुत्रः चिरम् बहुकालाद् आरभ्य । उत्क्रान्तजीवः किम् कथम् । सम्पन्न इत्य् अर्थः ॥ (मोटी_४,१०.१४ ॥

चिन्तयत एवास्य भविष्यत्ताबलं ततः ।
कालम् प्रति बभूवाशु कोपः परमदारुणः ॥ (मो_४,१०.१५ ॥

अथ भविष्यत्ताबलम् भवितव्यताबलम् । अचिन्तयतः तत्क्षणोत्थपूर्वापरविमर्शराहित्येनाविमृशतः । अस्य भृगोः । कालम् प्रति चिन्मात्रस्थक्रियावैचित्र्यरूपे काले । परमदारुणः कोपः बभूव ॥ (मोटी_४,१०.१५ ॥

काल एव मत्पुत्रो नीतः किम् इति कोपितः ।
कालाय शापम् उत्स्रष्टुम् भगवान् उपचक्रमे ॥ (मो_४,१०.१६ ॥

अकाले तद्युगनियतमनुष्यायुरसमाप्तिरूपे कालाभावे । इदम् अत्र तात्पर्यम् । निर्विकल्पसमाधिना शुद्धचिन्मात्रतां यातः असौ भृगुः । तस्मात् समाधेः उत्थितः । ततः बाह्यस्पर्शेन किञ्चिन्मात्रं स्फटिकवद् आस्रष्टुम् आरब्धः । तत्र प्रथमम् अकाले पुत्रम् मृतं दृष्ट्वा विवशीभूतः । समनन्तरकालानुभूतेन चिन्मात्ररूपेण स्वेन कृतं क्रियावैचित्र्यरूपं कालं नाशयितुम् ऐच्छत् । यश् च कालागमः स कथं स्वयं कृतं स्वभावसहचरम् एतं नाशयामीति विवेकागम एव ज्ञेयः । इत्य् आस्तां रहस्योद्घाटनेन ॥ (मोटी_४,१०.१६ ॥

थाकलितरूपोऽसौ कालः कवलितप्रजः ।
आधिभौतिकम् आस्थाय वपुर् मुनिम् उपाययौ ॥ (मो_४,१०.१७ ॥

अकलितरूपः । अकलितम् परमात्मगतत्वेन स्थितत्वात् प्रमेयताम् अगतम् । रूपं यस्य । सः । आधिभौतिको देहः परमार्थतः विचाररूपः एव ज्ञेयः । बाह्यान् प्रति तु देवतारूपः ॥ (मोटी_४,१०.१७ ॥

कीदृशः उपाययाव् इत्य् अपेक्षायाम् बाह्यदेवतारूपत्वम् बाह्यदृष्टीन् प्रति कथयति

खड्गपाशधरः श्रीमान् कुण्डली कवचान्वितः ।
षड्भुजः षण्मुखो बह्व्या वृतः किङ्करसेनया ॥ (मो_४,१०.१८ ॥

स्पष्टम् ॥ (मोटी_४,१०.१८ ॥

यच्छरीरसमुत्थेन ज्वालाजालेन वल्गता ।
फुल्लकिंशुकवृक्षस्य बभाराद्रेः श्रियं नभः ॥ (मो_४,१०.१९ ॥

स्पष्टम् ॥ (मोटी_४,१०.१९ ॥

यत्करस्थत्रिशूलाग्रनिष्ठ्यूतैर् अग्निमण्डलैः ।
विरेजुर् उदितैर् आशाः कानकैर् इव कुण्डलैः ॥ (मो_४,१०.२० ॥

स्पष्टम् ॥ (मोटी_४,१०.२० ॥

यत्पाशश्वसनायस्तशिखरा मेदिनीभृतः ।
दोलाम् इव समारूढाश् चेलुः पेतुश् च घूर्णिताः ॥ (मो_४,१०.२१ ॥

आयस्तशिखरा आकृष्टशिखराः ॥ (मोटी_४,१०.२१ ॥

यत्खड्गमण्डलोद्द्योतश्यामम् बिम्बं विवस्वतः ।
कल्पदग्धजगद्धूमपर्याकुलम् इवाबभौ ॥ (मो_४,१०.२२ ॥

स्पष्टम् ॥ (मोटी_४,१०.२२ ॥

स उपेत्य महाबाहुः कुपितं तम् महामुनिम् ।
कल्पक्षुब्धाब्धिगम्भीरं सान्त्वपूर्वम् उवाच ह ॥ (मो_४,१०.२३ ॥

सः कालः ॥ (मोटी_४,१०.२३ ॥

विज्ञातलोकस्थितयो मुने दृष्टपरावराः ।
हेतुनापि न मुह्यन्ति किम् उ हेतुम् विनोत्तमाः ॥ (मो_४,१०.२४ ॥

दृष्टः स्वरूपत्वेनानुभूतः । परावरः परावररूपेण स्थितं चिन्मात्रतत्त्वम् । यैः । ते ॥ (मोटी_४,१०.२४ ॥

त्वम् अनन्ततपा विप्रो वयं नियतिपालकाः ।
तेन सम्पूज्यसे पूज्य साधो नेतरयेच्छया ॥ (मो_४,१०.२५ ॥

अनन्ततपाः अपरिमिततपाः । तेन अनन्ततपस्त्वेन ॥ (मोटी_४,१०.२५ ॥

मा तपः क्षपय क्षुब्धैः कल्पकालमहानलैः ।
यो न दग्धोऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि ॥ (मो_४,१०.२६ ॥

योऽस्मि योऽहम् । चिन्मात्रक्रियावैचित्र्यरूपस्य कालस्य कदापि दाहासम्भवात् इति भावः । धक्ष्यसीति । दह भस्मीकरण इत्य् अस्य लृडन्तस्य प्रयोगः ॥ (मोटी_४,१०.२६ ॥

संसारावलयो ग्रस्ता निगीर्णा रुद्रकोटयः ।
भुक्तानि विष्णुवृन्दानि केन शाप्ता वयम् मुने ॥ (मो_४,१०.२७ ॥

स्पष्टम् ॥ (मोटी_४,१०.२७ ॥

भोक्तारो हि वयम् ब्रह्मन् भोजनं युष्मदादयः ।
स्वयं नियतिर् एषा हि नावयोर् एतद् ईहितम् ॥ (मो_४,१०.२८ ॥

आवयोः युष्माकम् अस्माकम् च । ईहितम् काङ्क्षितम् ॥ (मोटी_४,१०.२८ ॥

स्वयम् ऊर्ध्वम् प्रयात्य् अग्निः स्वयं यान्ति पयांस्य् अधः ।
भोक्तारम् भोजनं याति सृष्टिश् चाप्य् अन्तकं स्वयम् ॥ (मो_४,१०.२९ ॥

अन्तकम् कालम् ॥ (मोटी_४,१०.२९ ॥

इदम् इत्थम् मुने रूपम् अस्येह परमात्मनः ।
स्वात्मनि स्वयम् एवात्मा स्वत एव विजृम्भते ॥ (मो_४,१०.३० ॥

विजृम्भते विचित्राभिः क्रियाभिः विलसति ॥ (मोटी_४,१०.३० ॥

नेह कर्ता न भोक्तास्ति दृष्ट्या नष्टकलङ्कया ।
बहवश् चेह कर्तारो दृष्ट्यानष्टकलङ्कया ॥ (मो_४,१०.३१ ॥

नष्टकलङ्कया दृष्ट्या सम्यग्दृष्ट्या । अनष्टकलङ्कया दृष्ट्या असम्यग्दृष्ट्या ॥ (मोटी_४,१०.३१ ॥

कर्तृताकर्तृते ब्रह्मन् केवलम् परिकल्पिते ।
सम्यग्दर्शनेनैव न सम्यग्दर्शनेन वः ॥ (मो_४,१०.३२ ॥

स्पष्टम् ॥ (मोटी_४,१०.३२ ॥

पुष्पाणि तरुषण्डेषु भूतानि भुवनेषु च ।
स्वयम् आयान्ति यान्तीह कल्प्यते हेतुता विधेः ॥ (मो_४,१०.३३ ॥

मूढैः इह विधेः हेतुता कल्प्यते कल्पनया भाव्यते । न तु परमार्थतः हेतुता कस्याप्य् अस्ति । केवलस्य शुद्धचिन्मात्रस्यैव स्थितत्वात् ॥ (मोटी_४,१०.३३ ॥

ब्बिम्बितस्य चन्द्रस्य चलने कर्त्रकर्तृते ।
न सत्ये नानृते यद्वत् तद्वत् कालस्य सृष्टिषु ॥ (मो_४,१०.३४ ॥

कालस्य क्रियावैचित्र्यरूपस्य मम ॥ (मोटी_४,१०.३४ ॥

मनो मिथ्याभ्रमाल् लोके कर्तृताकर्तृतामयम् ।
करोति कलनां रज्ज्वाम् भ्रान्तेक्षण इवाहिताम् ॥ (मो_४,१०.३५ ॥

स्पष्टम् ॥ (मोटी_४,१०.३५ ॥

फलितम् आह

तेन मा गा मुने कोपम् आपदाम् ईदृशः क्रमः ।
यद् यथा तत् तथैवास्तु सत्यम् आलोकयाकुलः ॥ (मो_४,१०.३६ ॥

आपदाम् क्रमः ईदृश एव भवति । एताः सर्वेषाम् एवायान्तीति भावः । यत् यथा अस्ति । तत् तथैवास्तु । आकुलः आकुलीभूतः त्वम् । सत्यम् आलोकय । प्रवाहायाते शुभाशुभजाले मा क्षोभं गच्छेति भावः ॥ (मोटी_४,१०.३६ ॥

न वयम् प्रभुतार्थेन नाभिमानवशीकृताः ।
स्वतो हेवाकवशतः केवलं नियतौ स्थिताः ॥ (मो_४,१०.३७ ॥

वयम् प्रभुतार्थेन प्रभुताप्रयोजनेन । नियतौ भगवत्कृते नियमने । न स्थिताः । न चाभिमानवशीकृताः सन्तः स्थिताः । किं तु स्वतः स्वभावतः उत्थितात् । हेवाकवशतः नियतौ केवलं स्थिताः । किञ्चिद् अप्य् अत्रास्मास्व् अधीनं नास्तीति भावः ॥ (मोटी_४,१०.३७ ॥

प्रकृतव्यवहारेहां नियतां नियतेर् वशात् ।
प्राज्ञः समनुवर्तेत नाभिमानमहातमाः ॥ (मो_४,१०.३८ ॥

नियताम् शास्त्रनियताम् । प्राज्ञः कथम्भूतः । न अभिमान एवाहङ्कर्तेत्य् अभिमान एव तमः यस्य । तादृशः ॥ (मोटी_४,१०.३८ ॥

कर्तव्यम् एव क्रियते केवलं कार्यकोविदैः ।
सौषुप्तीं वृत्तिम् आश्रित्य कयाचिद् अपि नाशया ॥ (मो_४,१०.३९ ॥

प्राज्ञैः सर्वं फलानुसन्धानरहितम् एव क्रियते इति भावः ॥ (मोटी_४,१०.३९ ॥

क्व सा ज्ञानमयी दृष्टिः क्व महत्त्वं क्व धीरता ।
मार्गे सर्वप्रसिद्धे हि किम् अन्ध इव मुह्यसि ॥ (मो_४,१०.४० ॥

सा समनन्तरम् एवानुभूता । सर्वप्रसिद्धे लौकिके ॥ (मोटी_४,१०.४० ॥

त्रिकालामलदर्शित्वं धारयन्न् अपि चेतसि ।
विचार्य जगद्यात्रां किम् मूर्ख इव मुह्यसि ॥ (मो_४,१०.४१ ॥

त्रिकालामलदर्शित्वम् पूर्वापरविमर्शभाजनत्वम् ॥ (मोटी_४,१०.४१ ॥

स्वकर्मफलपाकोत्थाम् अविचार्य दशां सुते ।
किम् मूर्ख इव सर्वज्ञ मुधा मां शप्तुम् अर्हसि ॥ (मो_४,१०.४२ ॥

स्पष्टम् ॥ (मोटी_४,१०.४२ ॥

देहिनाम् इह सर्वेषां शरीरं द्विविधम् मुने ।
किं न जानासि वा देहम् एकम् अन्यन् मनोऽभिधम् ॥ (मो_४,१०.४३ ॥

देहम् स्थूलदेहम् । अन्यत् द्वितीयम् ॥ (मोटी_४,१०.४३ ॥

तत्र देहो जडोऽत्यर्थं विनाशैकपरायणः ।
मनस् तूत्थाननियतं कदर्थात् क्षीयते न वा ॥ (मो_४,१०.४४ ॥

उत्थाने सङ्कल्परूपे उद्योगे । नियतं मनः । कदर्थात् क्लेशात् । क्षीयते । अथ वा तेनापि । न क्षीयते ॥ (मोटी_४,१०.४४ ॥

चतुरेण यथा साधो रथः सारथिनोह्यते ।
कुर्वता किञ्चन स्वेहां देहोऽयम् मनसा तथा ॥ (मो_४,१०.४५ ॥

उह्यते स्वाभिमतं देशम् प्रति नीयते ॥ (मोटी_४,१०.४५ ॥

सत् सङ्कल्प्य क्रियते सच् छरीरं विनाश्यते ।
क्षणेन मनसा पङ्कपुरुषः शिशुना यथा ॥ (मो_४,१०.४६ ॥

असत् अविद्यमानम् । सत् विद्यमानम् ॥ (मोटी_४,१०.४६ ॥

चित्तम् एवेह पुरुषस् तत्कृतं कृतम् उच्यते ।
तद् बद्धं कलनाहेतोः कलनास्तं विमुच्यते ॥ (मो_४,१०.४७ ॥

कलनाहेतोः सङ्कल्पाख्यात् कारणात् । कलनास्तम् अस्तकलनम् ॥ (मोटी_४,१०.४७ ॥

यं देह इदं नेत्रम् इदम् अङ्गम् इदं शिरः ।
इदं स्फारविकारं तन् मन एवाभिधीयते ॥ (मो_४,१०.४८ ॥

मनः कथम्भूतम् । इदं स्फारविकारम् । इदम् इति स्फारः स्फुरणशीलः । विकारः यस्य । तादृशम् । मनः पण्डितैस् तद् अभिधीयते । तत् किम् । अयं देहः इदं नेत्रम् इदम् अङ्गम् इदम् शिरः इति यद् भवति ॥ (मोटी_४,१०.४८ ॥

मनो हि जीवज् जीवाख्यं निश्चायकतया तु धीः ।
हङ्कारोऽभिमानित्वान् नानात्वं त्व् इदम् एति हि ॥ (मो_४,१०.४९ ॥

जीवत् जीवनक्रियाकर्तृताम् भजत् । निश्चायकतया निश्चयकर्तृत्वेन । अभिमानित्वात् देहोऽहम् इत्य् अभिमानकर्तृत्वेन । नानात्वजीवादिरूपं नानात्वम् ॥ (मोटी_४,१०.४९ ॥

देहवासनया चेतस् त्व् अन्यानि स्वानि चेद्धया ।
पार्थिवानि शरीराणि सन्तीव परिपश्यति ॥ (मो_४,१०.५० ॥

चेतः इद्धया देहवासनया देहोऽहम् इति वासनया । अन्यानि परकीयानि । स्वानि स्वकीयानि । पार्थिवानि शरीराणि सन्ति इव पश्यति अनुभवति ॥ (मोटी_४,१०.५० ॥

आलोकयति चेत् सत्यं तद् असत्यमयीम् मनः ।
शरीरभावनां त्यक्त्वा परमां याति निर्वृतिम् ॥ (मो_४,१०.५१ ॥

मनः सत्यम् सम्यक् । चेत् आलोकयति । तत् तदा । असत्यमयीम् असत्यस्वरूपाम् । शरीरभावनां त्यक्त्वा । परमां निर्वृतिम् चिन्मात्रमयतारूपम् आनन्दम् । याति ॥ (मोटी_४,१०.५१ ॥

फलितम् आह

तन् मनस् तव पुत्रस्य समाधौ त्वयि संस्थिते ।
स्वमनोरथमार्गेण दुराद् दूरतरं गतम् ॥ (मो_४,१०.५२ ॥

यतः मन एव सर्वत्र कर्तृ अस्ति तत् ततो हेतोः ॥ (मोटी_४,१०.५२ ॥

इदम् औशनसं त्यक्त्वा देहम् मन्दरकन्दरे ।
प्रयातं वैबुधं सद्म नीडोड्डीनः खगो यथा ॥ (मो_४,१०.५३ ॥

औशनसम् शुक्रसम्बन्धि ॥ (मोटी_४,१०.५३ ॥

तत्र मन्दारकुञ्जेषु पारिजातगृहेषु च ।
नन्दनोद्यानषण्डेषु लोकपालपुरीषु च ॥ (मो_४,१०.५४ ॥

स्पष्टम् ॥ (मोटी_४,१०.५४ ॥

मुने चतुर्युगान्य् अष्टौ विश्वाचीं देवसुन्दरीम् ।
सेवत महातेजाः षट्पदः पद्मिनीम् इव ॥ (मो_४,१०.५५ ॥

स्पष्टम् ॥ (मोटी_४,१०.५५ ॥

तीव्रसंवेगसम्पन्नस्वसङ्कल्पोपकल्पिते ।
थ पुण्यक्षये जाते नीहार इव शार्वरे ॥ (मो_४,१०.५६ ॥

स्पष्टम् ॥ (मोटी_४,१०.५६ ॥

प्रम्लानकुसुमोत्तंसः स्विन्नाङ्गावलयालसः ।
स पपात तया साकं कालपक्वम् फलं यथा ॥ (मो_४,१०.५७ ॥
वैबुधं तत् परित्यज्य नभस्य् एव शरीरकम् ।
भूताकाशम् अथासाद्य वसुधायाम् अजायत ॥ (मो_४,१०.५८ ॥

स्पष्टम् ॥ (मो_४,१०.५७-५८ ॥

आसीद् द्विजो दशार्णेषु कोसलेषु महीपतिः ।
धीवरोऽङ्गमहाटव्यां हंसस् त्रिपथगातटे ॥ (मो_४,१०.५९ ॥

स्पष्टम् ॥ (मोटी_४,१०.५९ ॥

सूर्यवंशी नृपः पौण्ड्रे सौरः साल्वेषु दैशिकः ।
कल्पं विद्याधरः श्रीमान् धीमान् अथ मुनेः सुतः ॥ (मो_४,१०.६० ॥

पौण्ड्रे देशे । सूर्यवंशी नृपः जातः । साल्वेषु सौरः सूर्यकुलोत्पन्नः । दैशिकः गुरुः । उत्पन्नः ॥ (मोटी_४,१०.६० ॥

मद्रेष्व् अथ महीपालस् ततस् तापसबालकः ।
वासुदेव इति ख्यातः समङ्गायास् तटे स्थितः ॥ (मो_४,१०.६१ ॥

स्पष्टम् ॥ (मोटी_४,१०.६१ ॥

न्यास्व् अपि विचित्रासु वासनावशतः स्वयम् ।
विषमास्व् एव पुत्रस् ते चचारानन्तयोनिषु ॥ (मो_४,१०.६२ ॥

स्पष्टम् ॥ (मोटी_४,१०.६२ ॥

अन्यपदव्याख्यां कुर्वन् समङ्गातटतापसजन्मनः पूर्वभावीनि जन्मान्तराण्य् अस्य कथयति

भूद् विन्ध्यवने गोपः किरतः केकयेषु च ।
सौवीरेषु च सामन्तस् त्रैगर्तश् चैव दैशिकः ॥ (मो_४,१०.६३ ॥

त्रैगर्तः त्रिगर्तदेशसम्बन्धी ॥ (मोटी_४,१०.६३ ॥

वंशगुल्मः किरातेषु हरिणश् चीरजङ्गले ।
सरीसृपस् तालतले तमाले वनकुक्कुटः ॥ (मो_४,१०.६४ ॥

स्पष्टम् ॥ (मोटी_४,१०.६४ ॥

यं स पुत्रो भवतो भूत्वा मन्त्रविदां वरः ।
प्रजजाप पुरा विद्यां विद्याधरपदप्रदाम् ॥ (मो_४,१०.६५ ॥

प्रजजाप जपितवान् । विद्याम् मन्त्रम् ॥ (मोटी_४,१०.६५ ॥

तेनासौ भगवन् ब्रह्मन् व्योम्नि विद्याधरो महान् ।
हारकुण्डलकेयूरी लीलानिचयलासकः ॥ (मो_४,१०.६६ ॥

भगवन् ब्रह्मन् । असौ ते पुत्रः । तेन जपेन । विद्याधरः अभूत् । कीदृशो विद्याधरः अभूद् इत्य् अपेक्षायां विशेषणाण्य् आह हारेति ॥ (मोटी_४,१०.६६ ॥

नायिकानलिनीभानुः पुष्पचाप इवापरः ।
विद्याधरीणां दयितो गन्धर्वपुरभूषणम् ॥ (मो_४,१०.६७ ॥

स्पष्टम् ॥ (मोटी_४,१०.६७ ॥

स कल्पावधिम् आसाद्य द्वादशादित्यधामनि ।
जगाम भस्मशेषत्वं शलभः पावके यथा ॥ (मो_४,१०.६८ ॥

स्पष्टम् ॥ (मोटी_४,१०.६८ ॥

जगन्निर्माणरहिते स्फारे नभसि सा ततः ।
वासना तस्य बभ्राम निर्नीडा विहगी यथा ॥ (मो_४,१०.६९ ॥

स्पष्टम् ॥ (मोटी_४,१०.६९ ॥

थ कालेन सञ्जाते विचित्रारम्भकारिणि ।
संसाराडम्बरारम्भे ब्राह्मी रात्रिविपर्यये ॥ (मो_४,१०.७० ॥
सा मनोवासना तस्य वातव्यावलिता सती ।
कृते ब्राह्मणताम् एत्य जाताद्य वसुधातले ॥ (मो_४,१०.७१ ॥

कृते कृतयुगे । युग्मम् ॥ (मोटी_४,१०.७०-७१ ॥

वासुदेवाभिधानोऽसौ मुने विप्रकुमारकः ।
जातो मतिमताम् मध्ये समधीताखिलश्रुतिः ॥ (मो_४,१०.७२ ॥

स्पष्टम् ॥ (मोटी_४,१०.७२ ॥

कल्पं विद्याधरो भूत्वा नद्या अद्य महामुने ।
तपश् चरति ते पुत्रः समङ्गायास् तटे स्थितः ॥ (मो_४,१०.७३ ॥

स्पष्टम् ॥ (मोटी_४,१०.७३ ॥

सर्गान्तश्लोकेन जरढयोनिगमनं कथयति

विविधविषमवासनानुवृत्त्या
खदिरकरञ्जकरालकोटरासु ।
जगति जरढयोनिषु प्रयातो
गहनतरासु च काननस्थलीषु ॥ (मो_४,१०.७४ ॥

जरढयोनिपक्षे खदिरकरञ्जकरालासु नानाविधदुःखसङ्कटासु । इति शिवम् ॥ (मोटी_४,१०.७४ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे दशमः सर्गः ॥१०॥




द्योद्दामतरङ्गौघझाङ्काररणितानिले ।
तीरे वरतरङ्गिण्याः तपस् तपति ते सुतः ॥ (मो_४,११.१ ॥

वरतरङ्गिण्याः समङ्गायाः । तपति चरति ॥ (मोटी_४,११.१ ॥

जटावान् अक्षवलयी जितसर्वेन्द्रियभ्रमः ।
तत्र वर्षशतान्य् अष्टौ संस्थितस् तपसि स्थिरे ॥ (मो_४,११.२ ॥

स्पष्टम् ॥ (मोटी_४,११.२ ॥

यदीच्छसि मुने द्रष्टुं तं स्वपुत्रमनोभ्रमम् ।
तत् समुन्मील्य विज्ञाननेत्रम् आशु विलोकय ॥ (मो_४,११.३ ॥

स्वपुत्राकारम् मनोभ्रमम् स्वपुत्रमनोभ्रमम् । स्वपुत्रम् इति यावत् ॥ (मोटी_४,११.३ ॥

इत्य् उक्ते जगदीशेन कालेन समदृष्टिना ।
मुनिः सञ्चिन्तयाम् आस ज्ञानाक्ष्णा तनयेहितम् ॥ (मो_४,११.४ ॥

स्पष्टम् ॥ (मोटी_४,११.४ ॥

ददर्श च मुहूर्तेन प्रतिभासवशाद् असौ ।
पुत्रोदन्तम् अशेषेण बुद्धिदर्पणबिम्बितम् ॥ (मो_४,११.५ ॥

ददर्श ज्ञानदृष्ट्या दृष्टवान् ॥ (मोटी_४,११.५ ॥

पुनर् मन्दरसानुस्थां काले कालाग्रसंस्थिताम् ।
समङ्गायास् तटाद् एत्य विवेश स्वतनुम् भृगुः ॥ (मो_४,११.६ ॥

काले स्वल्पकाले । कालाग्रसंस्थिताम् कालपुरोवर्तिनीम् ॥ (मोटी_४,११.६ ॥

विस्मयस्मेरया दृष्ट्या कालम् आलोक्य कान्तया ।
वीतरागम् उवाचेदं वीतरागो मुनिर् वचः ॥ (मो_४,११.७ ॥

कालस्य समवर्तित्वात् वीतरागित्वम् ॥ (मोटी_४,११.७ ॥

भृगुः कथयति

भगवन् भूतभव्येश बाला वयम् अनाबिला ।
त्वादृशाम् एव धीर् देव त्रिकालामलदर्शिनी ॥ (मो_४,११.८ ॥

बालाः मूर्खाः । अनाविलेत्य् अस्य उत्तरार्धेन सम्बन्धः ॥ (मोटी_४,११.८ ॥

नानाकारं विकाराढ्या सत्येवासत्यरूपिणी ।
विभ्रमं जनयत्य् एषा धीरस्यापि जगद्गतिः ॥ (मो_४,११.९ ॥

जगद्गतिः जगद्रचना ॥ (मोटी_४,११.९ ॥

त्वम् एव देव जानासि त्वदभ्यन्तरवर्ति यत् ।
रूपम् अस्या मनोवृत्तेर् इन्द्रजालविधायकम् ॥ (मो_४,११.१० ॥

त्वदभ्यन्तरवर्ति त्वन्मध्यवर्ति ॥ (मोटी_४,११.१० ॥

मत्पुत्रस्यास्य भगवन् मृत्युः किल न विद्यते ।
तेनेमम् मृतम् आलोक्य जातः सम्भ्रमवान् अहम् ॥ (मो_४,११.११ ॥

शुक्रस्य चिरजीवित्वात् ॥ (मोटी_४,११.११ ॥

क्षीणजीवितम् पुत्रं कालो मे नीतवान् इति ।
नियतेर् वशतो देव त्वच्छापेच्छा ममोदिता ॥ (मो_४,११.१२ ॥

नियतेर् इति । मम या त्वच्छापेच्छा जाता सापि नियतिर् एव । अतो मम न कोऽपि दोष इति भावः ॥ (मोटी_४,११.१२ ॥

न तु विज्ञातसंसारगतयो वयम् आपदम् ।
सम्पदं वापि गच्छामो हर्षामर्षवशं किल ॥ (मो_४,११.१३ ॥

प्राप्येति शेषः । आपदम् प्राप्य । सम्पदं वा प्राप्येति ॥ (मोटी_४,११.१३ ॥

युक्तकारिणि क्रोधः प्रसादो युक्तकारिणि ।
कर्तव्य इति रूढेयं सांसारी भगवन् स्थितिः ॥ (मो_४,११.१४ ॥

अतः त्वय्य् अयुक्तकारित्वम् आशङ्क्य मया क्रोधः कृत इति भावः ॥ (मोटी_४,११.१४ ॥

इदं कार्यम् इदं नेति यावज्जीवं जगत्क्रमः ।
यावद् अग्निः स्थिता तावद् औष्ण्यदाहादिदृष्टयः ॥ (मो_४,११.१५ ॥

स्पष्टम् ॥ (मोटी_४,११.१५ ॥

इदं कार्यम् इदं नेति हेया यस्य जगत्स्थितिः ।
तस्यैतत्सम्परित्यागो हेय एव जगद्गुरो ॥ (मो_४,११.१६ ॥

यस्य । इदं कार्यम् इदं न कार्यम् । इति एवंरूपा । जगत्स्थितिः हेया भवति । तस्य तत्सम्परित्यागोऽपि हेय एव । तत्त्यागस्यापि जगत्स्थितिरूपत्वात् । अतो मया पूर्वस्थितिः न त्यक्तेति भावः ॥ (मोटी_४,११.१६ ॥

केवलं तानयीं चिन्ताम् अनालोक्य यदा वयम् ।
भगवन् भवते क्षुब्धा याताः स्मस् तेन वाच्यताम् ॥ (मो_४,११.१७ ॥

तानयीं तनयसम्बन्धिनीम् । वाच्यताम् त्वत्क्रोधकारित्वरूपनिन्दायोग्यताम् ॥ (मोटी_४,११.१७ ॥

त्वयेदानीम् अहं देव स्मारितस् तनयेहितम् ।
समङ्गायास् तटे तेन दृष्टोऽयं तनयो मया ॥ (मो_४,११.१८ ॥

स्पष्टम् ॥ (मोटी_४,११.१८ ॥

मन्ये जगति भूतानां द्वे शरीरे न सर्वग ।
मन एव शरीरं हि येनेदम् भाव्यते जगत् ॥ (मो_४,११.१९ ॥

हे सर्वग । अहम् मन्ये । इहलोके भूतानां द्वे शरीरे न भवतः । हि यस्मात् । मन एव शरीरम् भवति । येन मनसा । इदं जगत् भाव्यते भावनया प्रकटीक्रियते ॥ (मोटी_४,११.१९ ॥

काल आह

सम्यग् उक्तं त्वया ब्रह्मञ् शरीरम् मन एव नः ।
करोति देहं सङ्कल्प्य कुम्भकारो घटं यथा ॥ (मो_४,११.२० ॥

स्पष्टम् ॥ (मोटी_४,११.२० ॥

करोत्य् अकृतम् आकारं कृतं नाशयति क्षणात् ।
सङ्कल्पेन मनो मोहाद् बालो वेतालकं यथा ॥ (मो_४,११.२१ ॥

मोहात् अज्ञानात् ॥ (मोटी_४,११.२१ ॥

तथा च सम्भ्रमे स्वप्नमिथ्याज्ञानादिभास्वराः ।
गन्धर्वनगराकारा दृष्टा मनसि शक्तयः ॥ (मो_४,११.२२ ॥

स्पष्टम् ॥ (मोटी_४,११.२२ ॥

स्थूलदृष्टिदृशं त्व् एताम् अवलम्ब्य महामुने ।
पुंसो मनः शरीरं च कायौ द्वाव् इति कथ्यते ॥ (मो_४,११.२३ ॥

स्थूलदृष्टिरूपा दृक् स्थूलदृष्टिदृक् । ताम् ॥ (मोटी_४,११.२३ ॥

मनोमनननिर्माणमात्रम् एतज् जगत्त्रयम् ।
न सन् नासद् इव स्फारम् उदितं नेतरन् मुने ॥ (मो_४,११.२४ ॥

एतत् जगत् । मनसः यत् मननम् मननाख्यो धर्मः । तन्मात्रम् एव भवति । कथम्भूतम् । न सत् नासत् अनिर्वचनीयम् इत्य् अर्थः । पुनः कथम्भूतम् । स्फारम् इवोदितम् स्फुरणशीलम् इव प्रादुर्भूतम् । परमार्थतस् तु नोदितम् इतीवशब्दोपादानम् । मात्रशब्दस्यार्थं स्वकण्ठेन कथयति नेतरद् इति ॥ (मोटी_४,११.२४ ॥

चित्तदेहाङ्गलतया भेदवासनयेद्धया ।
द्विचन्द्रत्वम् इवाज्ञानान् नानातेयं समुत्थिता ॥ (मो_४,११.२५ ॥

चित्ताख्यस्य देहस्याङ्गलतया अङ्गलतारूपया । भेदवासनया द्वैतवासनया । इद्धया पुष्टया सत्या । इयं जगद्रूपा । नानाता समुत्थिता प्रादुर्भूता । किम् इव । द्विचन्द्रत्वम् इव । यथा द्विचन्द्रत्वम् अज्ञानात् समुत्तिष्ठति । तथेत्य् अर्थः ॥ (मोटी_४,११.२५ ॥

भेदवासनया बह्व्या पदार्थनिचयम् मनः ।
भिन्नम् पश्यति सर्वत्र घटावटपटादिकम् ॥ (मो_४,११.२६ ॥

बह्व्या विस्तीर्णया । सर्वत्र सर्वेषु देशेषु कालेषु च ॥ (मोटी_४,११.२६ ॥

कृशोऽतिदुःखी मूढोऽहम् एताश् चान्याश् च भावनाः ।
भावयत् स्वविकल्पोत्था याति संसारताम् मनः ॥ (मो_४,११.२७ ॥

संसारताम् संसारभावम् ॥ (मोटी_४,११.२७ ॥

मननं कृत्रिमं रूपम् ममैतन् न पताम्य् अहम् ।
इति तत्त्यागतः शान्तं चेतो ब्रह्म सनातनम् ॥ (मो_४,११.२८ ॥

तत्त्यागतः मननत्यागतः । सनातनम् अनादि ॥ (मोटी_४,११.२८ ॥

यथेत्यादिं निरामया इत्यन्तम् एकं दृष्टान्तं विस्तरेण कथयति

यथा प्रविततेऽम्बोधौ ततेऽनेकतरङ्गिणि ।
सोम्यस्पन्दमयानेककल्लोलावलिशालिनि ॥ (मो_४,११.२९ ॥
वार्यात्मनि समे स्वच्छे शुद्धे स्वादुनि शीतले ।
विनाशिनि विस्तीर्णे महामहिमनि स्फुटे ॥ (मो_४,११.३० ॥
त्र्यश्रस् तरङ्गः स्वं रूपम् भावयन् स स्वभावतः ।
त्र्यश्रोऽस्मीति विकल्पेन करोति स्वेन कल्पनाम् ॥ (मो_४,११.३१ ॥
भ्रश्यंश् चैव परिभ्रष्टरूपोऽस्मीति तलातलम् ।
भावयन् भूतलं याति तादृग्भावनया तया ॥ (मो_४,११.३२ ॥
उत्थितं च बलाद् ऊर्ध्वम् उत्थितोऽस्मीति भावितः ।
तैस् तैर् विकल्पैस् तद्भावं विकल्पयति साभिधम् ॥ (मो_४,११.३३ ॥
ससूर्यप्रतिबिम्बस् तु प्रकाशोऽस्मीति भावितः ।
सरजःपुञ्जपातस् तु मलिनोऽस्मीति भावितः ॥ (मो_४,११.३४ ॥
सरत्नरश्मिजालस् तु शोभते दीप्तया श्रिया ।
तुषारभरविद्धस् तु शीतलोऽस्मीति विन्दति ॥ (मो_४,११.३५ ॥
सतटाचलदावाग्निप्रतिबिम्बोज्ज्वलद्वपुः ।
बिभेति वत दग्धोऽस्मीत्य् आत्तमीनश् च कम्पते ॥ (मो_४,११.३६ ॥
प्रतिबिम्बितवेलाद्रितटपक्षिवनद्रुमः ।
महान् आरम्भसंरम्भसंयुतोऽस्मीति राजते ॥ (मो_४,११.३७ ॥
विमलोल्लसनोत्पन्नध्वस्तलोलशरीरकः ।
खण्डशः परियातोऽस्मीत्य् आत्ताक्रन्द इवारवी ॥ (मो_४,११.३८ ॥
न चोर्मयस् ते जलधेर् व्यतिरिक्ताः पयोरसात् ।
न चैकं रूपम् एतेषां किञ्चित् सन्न् अप्य् असन्मयम् ॥ (मो_४,११.३९ ॥
न च ते न्यूनदैर्घ्याद्या गुणास् तेषु च तेषु च ।
नोर्मयः संस्थिता अब्धौ न च तत्र न संस्थिताः ॥ (मो_४,११.४० ॥
केवलं स्वस्वभावस्थसङ्कल्पविकलीकृताः ।
नष्टानष्टाः पुनर् जाता जाताजाताः पुनः क्षताः ॥ (मो_४,११.४१ ॥
परस्परपरामर्शान् नानाताम् उपयान्त्य् अलम् ।
एकरूपाम्बुसामान्यमया एव निरामयाः ॥ (मो_४,११.४२ ॥

अनेकतरङ्गिणि अनेकतरङ्गयुक्ते । सोम्यस्पन्दमय्यः सोम्यजलस्पन्दरूपाः । अनेककल्लोलावलयः । ताभिः शालिनि । एतादृशे वार्यात्मनि । यथा सः प्रसिद्धः त्र्यश्रः त्र्यश्राकारः तरङ्गः । स्वं रूपम् त्र्यश्ररूपम् स्वं रूपम् । भावयन् प्रमातारम् प्रति प्रकटीकुर्वन् । स्वभावतः उत्थितेन स्वेन स्वस्माद् । अव्यतिरिक्तेन त्र्यश्रोऽस्मीति विकल्पेन कल्पनाम् त्र्यश्राकारकल्पनाम् । करोति । न केवलम् एताम् एव करोति । किं त्व् अन्या अपि क्रियाः करोति इत्य् आह भ्रश्यंश् चेत्यादि । सः त्र्यश्रः तरङ्गः परिभ्रष्टोऽस्मीति भावयन् । अत एव भ्रश्यन् । ततः तलातलम् तलातलाख्यम् । भूतलम् । तया तादृग्भावनया । याति गच्छति । उत्थितम् इति । सः त्र्यश्रः तरङ्गः ऊर्ध्वम् उत्थितोऽस्मीति भावितः । अत एव उत्थितश् च तैः तैः विकल्पैः उत्थानविकल्पैः । साभिधम् अभिधासहितम् । तद्भावम् उत्थानभावम् । विकल्पयति विकल्पेन सम्पादयति । ससूर्येति स्पष्टम् । सरत्नेति स्पष्टम् । सतटेति । आत्तमीनः । मीनैः आत्त आत्तमीनः । प्रतिबिम्बितेति स्पष्टम् । विमल इति । विमलं यत् उल्लसनम् । तेन उत्पन्नं यत् ध्वस्तं ध्वंसः । तेन लोलं शरीरं यस्य । सः । न चोर्मय इति । ते पूर्वोक्ताः । पूर्वम् एकवचनं जात्यपेक्षया ज्ञेयम् । तेनेह बहुवचनप्रयोगः । न चेति । ते च ऊर्मयः । तेषु गुणेषु । न भवन्ति । केवलम् इति । स्वस्वभावस्थः स्वस्वरूपस्थः । यः विकल्पः तरङ्गतासादनरूपः विकल्पः । तेन विकलीकृताः पयसः उच्छिन्नाः कृताः । परस्परेति । परस्परम् अन्योऽन्यम् । यः परामर्शः निकटे अवस्थितिः । तस्मात् । नानाताम् उपयान्ति । कथम्भूताः । एकं रूपम् यत् अम्बुसामान्यम् । तन्मयाः एव । अत एव निरामयाः नाशोत्पादाख्यरोगरहिताः ॥ (मोटी_४,११.२९-४२॥

दृष्टान्तम् उक्त्वा दार्ष्टान्तिकं कथयति द्वाभ्याम्

तथैवास्मिन् प्रवितते सिते शुद्धे निरामये ।
ब्रह्ममात्रैकवपुषि ब्रह्मणि स्फाररूपिणि ॥ (मो_४,११.४३ ॥
सर्वशक्ताव् अनाद्यन्ते पृथग्वद् अपृथक्कृताः ।
संस्थिताः शक्तयश् चित्रा विचित्राचारचञ्चलाः ॥ (मो_४,११.४४ ॥

सितपदस्यार्थं स्वकण्ठेन कथयति शुद्धे इति । निरामये चेत्याख्याद् आमयात् निष्क्रान्ते । ब्रह्ममात्रम् एकम् केवलम् । वपुः स्वरूपं यस्य । तादृशे । स्फारम् स्फुरणशीलम् । वपुर् अस्यास्तीति । तादृशे । एतादृशे ब्रह्मणि । अपृथक्कृताः शक्तयः । तथैव तरङ्गवत् । पृथग्वत् संस्थिताः भवन्ति । युग्मम् ॥ (मोटी_४,११.४३-४४॥

नानाशक्ति हि नानात्वम् एति स्ववपुषि स्थितम् ।
बृंहितम् ब्रह्मणि ब्रह्म पयसीवोर्मिमण्डलम् ॥ (मो_४,११.४५ ॥

ब्रह्म शुद्धं चिन्मात्रतत्त्वम् । ब्रह्मणि स्ववपुषि ब्रह्माख्ये स्वस्वरूपे । बृंहितम् जगद्रूपया बृंहिततया युक्तं सत् । नानात्वम् नानाभावम् । एति गच्छति । कथम्भूतम् । नानाशक्ति । अन्यथा नानात्वगमनं युक्तं न स्याद् इति भावः । ब्रह्म किम् इव बृंहितम् । पयसि ऊर्मिमण्डलम् इव ॥ (मोटी_४,११.४५ ॥

ननु यदि पटादिरूपेण ब्रह्मैव बृंहितम् अस्ति तर्हि पदार्थानाम् प्रत्येकं नियतं रूपं कथम् अस्तीत्य् । अत्राह

नानारूपकरूपत्वाद् वैरूप्यशतकारिणी ।
नियतिर् नियताकारा पदार्थम् अधितिष्ठति ॥ (मो_४,११.४६ ॥

नानारूपकम् यत् रूपम् । तद्युक्तत्वात् वैरूप्यशतकारिणी पदार्थानाम् प्रति नियतरूपाख्यविरूपताशतकारिणी । नियतिः नियत्याख्या शक्तिः । पदार्थम् अधितिष्ठति स्ववशं करोति । ब्रह्मणः उत्पन्नया नियतिशक्त्या एव पदार्थानाम् प्रत्येकं नियतं रूपम् अस्तीति भावः ॥ (मोटी_४,११.४६ ॥

सामान्येनोक्त्वा स्तोकं विशेषेण कथयति

जडा जाड्यम् उपादत्ते चित्त्वम् आयाति चिन्मयी ।
वासनारूपिणी शक्तिः स्वस्वरूपस्थितात्मनः ॥ (मो_४,११.४७ ॥

वासनारूपिणी वासनारूपेण स्थिता । स्वस्वरूपस्थितः यः आत्मा । तस्य । शक्तिः नियतिशक्तिः । जडा जाड्यवासनारूपिणी भूत्वा । जाड्यम् उपादत्ते गृह्णाति । येन स्थावरं रूपम् प्रकटीकरोति । चिन्मयी चेतनत्ववासनारूपिणी भूत्वा । चित्त्वम् आयाति । येन जङ्गमं रूपम् प्रकटीकरोति ॥ (मोटी_४,११.४७ ॥

फलितम् आह

ब्रह्मैवानघ तेनेदं स्फाराकारं विजृम्भते ।
नानारूपैः परिस्पन्दैः परिपूर्ण इवार्णवः ॥ (मो_४,११.४८ ॥

हे अनघ । तेन ततः हेतोः । इदं स्फाराकारम् जगत् । ब्रह्मैव विजृम्भते विलसति । क इव । परिपूर्णः अर्णवः इव । यथा सः नानारूपैः परिस्पन्दैः तरङ्गाख्यैः परिस्पन्दैः । विजृम्भते । तथेत्य् अर्थः ॥ (मोटी_४,११.४८ ॥

नानातां स्वयम् आदत्ते नानाकारविहारतः ।
आत्मैवात्मन्य् आत्मनैव समुद्राम्भ इवाम्भसि ॥ (मो_४,११.४९ ॥

नानाकारार्थम् नानाकारग्रहणार्थम् । यः विहारः क्रीडा । तस्मात् ॥ (मोटी_४,११.४९ ॥

व्यतिरिक्ता न पयसो विचित्रा वीचयो यथा ।
व्यतिरिक्ता न सर्वेशात् समग्राः कलनास् तथा ॥ (मो_४,११.५० ॥

सर्वेशात् सर्वनियामकत्वेन स्थितात् चिन्मात्रतत्त्वात् । कलनाः जगद्रूपाः कलनाः ॥ (मोटी_४,११.५० ॥

स्तम्भपुष्पलतापत्त्रफलकोरकयुक्तयः ।
यथैकस्मिं स्थिता बीजे तथा ब्रह्मणि शक्तयः ॥ (मो_४,११.५१ ॥

शक्तयः जगद्रूपाः शक्तयः ॥ (मोटी_४,११.५१ ॥

नानाकर्तृतया नानाशक्तिता पुरुषे यथा ।
तथैवात्मनि सर्वज्ञे सर्वदा सर्वशक्तिता ॥ (मो_४,११.५२ ॥

सर्वशक्तितायाम् हेतुम् आह सर्वज्ञ इति । यदि हि सर्वशक्तिः न स्यात् तर्हि सर्वज्ञः न स्यात् । सर्वज्ञत्वम् चात्र सर्वकर्तृतायां विश्रान्तम् । न हि यः सर्वं न जानाति सः सर्वं करोति । कुलालादौ घटादिज्ञानस्य नियतत्वेन दर्शनात् ॥ (मोटी_४,११.५२ ॥

विचित्रवर्णता यद्वद् दृश्यते कठिनातपे ।
विचित्रशक्तिता तद्वद् देवेशे सदसन्मयी ॥ (मो_४,११.५३ ॥

स्पष्टम् ॥ (मोटी_४,११.५३ ॥

विचित्ररूपोदेतीयम् अविचित्रात् स्थितिः शिवात् ।
एकवर्णात् पयोवाहाच् छक्रचापलता यथा ॥ (मो_४,११.५४ ॥

स्पष्टम् ॥ (मोटी_४,११.५४ ॥

जडाज् जडतोदेति जाड्यभावनहेतुका ।
ूर्णनाभाद् यथा तन्तुर् यथा पुंसः सुषुप्तता ॥ (मो_४,११.५५ ॥

जाड्यस्य जडत्वस्य । यत् भावनम् सङ्कल्पनम् । तद् एव हेतुः यस्याः । तादृशी ॥ (मोटी_४,११.५५ ॥

चित्तश् चैतसीं शक्तिं स्वबन्धायेच्छया शिवः ।
तनोति तान्तवं कोशं कोशकारक्रिमिर् यथा ॥ (मो_४,११.५६ ॥

अचित्तः अत्यन्तशुद्धत्वेन चित्तरहितः । तान्तवं तन्तुसम्बन्धि ॥ (मोटी_४,११.५६ ॥

स्वेच्छयात्मात्मनो ब्रह्मन् भावयित्वा स्वकं वपुः ।
संसारान् मोक्षम् आयाति स्वालानाद् इव वारणः ॥ (मो_४,११.५७ ॥

आत्मा आत्मनः । आत्मसम्बन्धिन्या स्वेच्छया । स्वकम् निजम् । वपुः चिन्मात्राख्यं स्वरूपम् । भावयित्वा स्वस्वरूपत्वेन भावनाविषयतां नीत्वा । संसारात् देहोऽहम् इति भावनारूपात् संसारात् । मोक्षम् मुक्तिम् । आयति । क इव । वारणः इव । यथासौ स्वालानात् मोक्षम् आयाति । तथेत्य् अर्थः । स्वेच्छाशब्दोऽत्र इच्छामात्रवाचकः ॥ (मोटी_४,११.५७ ॥

यद् एव भावयत्य् आत्मा सततम् भावितः स्वयम् ।
तयैवापूर्यते शक्त्या शीघ्रम् एव महान् अपि ॥ (मो_४,११.५८ ॥

यद् एव याम् एव शक्तिम् । सततम् भावितः सदा वासितः । महान् अपि व्यापकोऽपि सन् ॥ (मोटी_४,११.५८ ॥

भाविता शक्तिर् आत्मानम् आत्मतां नयति क्षणात् ।
नन्तम् अपि खम् प्रावृण्मिहिका महती यथा ॥ (मो_४,११.५९ ॥

भाविता भावनाविषयीकृता । आत्मताम् । शक्तिरूपः यः आत्मा । तत्ताम् । मिहिकापक्षे आत्मताम् मिहिकात्वम् ॥ (मोटी_४,११.५९ ॥

या शक्तिर् उदिता शीघ्रं याति तन्मयताम् अजः ।
याम् एव तु स्थितिं यातस् तन्मयो भवति द्रुमः ॥ (मो_४,११.६० ॥

अजः जन्मरहितः शुद्धं चिन्मात्रतत्त्वम् । स्थितिम् आधाररूपम् भूमिम् । द्रुमस्य आधारभूतभूम्यनुरूपत्वेनारोहणात् ॥ (मोटी_४,११.६० ॥

न मोक्षो मोक्ष ईशस्य न बन्धो बन्ध आत्मनः ।
बन्धमोक्षदृशौ लोके न जाने प्रोत्थिते कुतः ॥ (मो_४,११.६१ ॥

ईशस्यात्मनः । आत्मनः ईशस्य । तर्हि बन्धमोक्षौ कस्य भवत इत्य् । अत्राह बन्धेति । बन्धमोक्षयोर् उत्थानम् एव परमार्थतो नास्तीति का तदाधारचिन्तेति भावः ॥ (मोटी_४,११.६१ ॥

नास्य बन्धो न मोक्सोऽस्ति तन्मयश् चैव लक्ष्यते ।
ग्रस्तं नित्यम् असत्येन मायामयम् अहो जगत् ॥ (मो_४,११.६२ ॥

अस्यात्मनः । परमार्थतः बन्धः नास्ति । मोक्षोऽपि नास्ति । किं तु आमुखतः तन्मयः बन्धमोक्षमयः । लक्ष्यते । ननु तर्हि जगति बन्धमोक्षकलना कथम् अस्तीत्य् । अत्राह । जगच्छब्देनात्र जगद्गताः प्रमातारः लक्ष्यन्ते । अहो आश्चर्ये । जगत् जगद्गताः प्रमातारः । असत्येन असत्यभूतेन बन्धमोक्षाख्येन केनापि । ग्रस्तम् स्वकलनाविष्टं कृतम् । अत्र हेतुं विशेषणद्वारेणाह मायामयम् इति । मायामयत्वाद् एवासत्येन ग्रस्तत्वम् इति भावः ॥ (मोटी_४,११.६२ ॥

ननु कथम् आत्मा बन्धमोक्षादिकलनाग्रस्त इव सम्पन्न इत्य् । अत्राह

यदैव चित्तं कलितम् अकलेन किलात्मना ।
कोशकीटवद् आत्मायम् अनेनावलितस् तदा ॥ (मो_४,११.६३ ॥

अकलेन अखण्डत्वात् कलारहितेन । अनेनात्मना यदैव चित्तं कलितम् कलनया प्रकटीकृतम् । तदानेनात्मना कोशकीटवत् कोशकारक्रिमिवत् । आत्मा स्वस्वरूपम् । आवृतः । बन्धमोक्षादिकलनारूपेण कोशेनावृतः ॥ (मोटी_४,११.६३ ॥

नन्व् एतेनात्मना कलितम् मनः कस्माद् उपादानान् निर्गतम् इत्य् । अत्राह

नन्यरूपास् त्व् अन्यत्वविकल्पितशरीरकाः ।
मनःशक्तय एतस्माद् इमा निर्यान्ति कोटिशः ॥ (मो_४,११.६४ ॥

अनन्यरूपाः अभिन्नाः । इमाः पृथक्त्वेन वर्तमानाः ॥ (मोटी_४,११.६४ ॥

तत्स्थास् तज्जाः पृथग्रूपाः समुद्राद् इव वीचयः ।
तत्स्थास् तज्जाः पृथक्स्थाश् च चन्द्राद् इव मरीचयः ॥ (मो_४,११.६५ ॥

तत्स्थाः तस्मिन् परमात्मनि स्थिताः । तज्जाः तस्मात् परमात्मनः जाताः । एताः मनःशक्तयः पृथग्रूपाः भवन्ति । का इव । वीचय इव । यथा वीचयः समुद्रात् पृथग्रूपाः भवन्ति । तथेत्य् अर्थः । द्वितीयं दृष्टान्तं कथयति तत्स्था इति ॥ (मोटी_४,११.६५ ॥

स्मिन् स्पन्दमये स्फारे परमात्ममहाम्बुधौ ।
चिज्जले वितताभोगे चिन्मात्ररसशालिनि ॥ (मो_४,११.६६ ॥
काश्चित् स्थिता हरिब्रह्मरुद्रचिद्वलनाधिकाः ।
लहर्यः प्रस्फुरन्त्य् एताः स्वभावोद्भावितात्मिकाः ॥ (मो_४,११.६७ ॥

स्पन्दमये अहंविमर्शमये । अहंविमर्शस्यैवात्र स्पन्दत्वात् । स्फारे विस्तीर्णे । चित् चेत्योन्मुखा चित् । सा एव जलम् यस्मिन् । तादृशे । चिन्मात्रम् चेत्यानुन्मुखा चित् । सा एव रसः यस्मिन् । तादृशे । रसः जलस्य सारभूतः आस्वादाख्यो गुणः ज्ञेयः । एतादृशे परमात्ममहाम्बुधौ । काश्चित् एताः लहर्यः चिल्लहर्यः । प्रस्फुरन्ति । लहर्यः कथम्भूताः स्थिताः । हरिब्रह्मरुद्ररूपाः याः चिद्वलना चित्स्पन्दाः । ताः अधिकम् यासाम् । तादृश्यः स्थिताः । पुनः कथम्भूताः । स्वभावात् उद्भावितः प्रकटीभावं गतः । आत्मा यासाम् । ताः । काश्चिल् लहर्यः हरिब्रह्मरुद्ररूपतया स्फुरन्तीति भावः ॥ (मोटी_४,११.६६-६७ ॥

काश्चिद् यममहेन्द्रार्कवह्निवैश्रवणादिकाः ।
घ्नन्ति कुर्वन्ति तिष्ठन्ति लहर्यश् चपलैषणाः ॥ (मो_४,११.६८ ॥

चपलाः एषणाः इच्छाः । यासाम् । ताः ॥ (मोटी_४,११.६८ ॥

काश्चित् किन्नरगन्धर्वविद्याधरसुरादिकाः ।
उत्पतन्ति पतन्त्य् उग्रा लहर्यः परिवल्गिताः ॥ (मो_४,११.६९ ॥

परिवल्गिताः स्पन्दिताह् ॥ (मोटी_४,११.६९ ॥

काश्चित् किञ्चित्स्थिताकारा यथा कमलजादिकाः ।
काश्चिद् उत्पन्नविध्वस्ता यथा सुरनरादिकाः ॥ (मो_४,११.७० ॥

किञ्चित् कालं स्थितः आकारः यासाम् । ताः किञ्चित्स्थिताकाराः ॥ (मोटी_४,११.७० ॥

क्रिमिकीटपतङ्गादिगोनासाजगरादिकाः ।
काश्चित् तस्मिन् महाम्भोधौ स्फुरन्त्य् एतेषु बिन्दुवत् ॥ (मो_४,११.७१ ॥

एतेष्व् इति बहुवचनम् पादपूरणार्थम् । तेनैतस्मिन् महाम्भोधाव् इति योज्यम् ॥ (मोटी_४,११.७१ ॥

काश्चिच् चलाननमृगगृध्रवञ्जुलकादयः ।
स्फुरन्ति गिरिकुञ्जेषु वेलावनतटेष्व् इव ॥ (मो_४,११.७२ ॥

स्पष्टम् ॥ (मोटी_४,११.७२ ॥

सुदीर्घजीविताः काश्चित् काश्चिद् अत्यल्पजीविताः ।
स्वतुच्छभावनात् तुच्छात् काश्चित् तुच्छशरीरिकाः ॥ (मो_४,११.७३ ॥

काश्चित् तुच्छात् असत्यात् । स्वतुच्छभावनात् स्वविषयात् तुच्छविकल्पनात् । तुच्छशरीरिकाः भवन्ति ॥ (मोटी_४,११.७३ ॥

संसारस्वप्नसंरम्भे काश्चित् स्थैर्येण भाविताः ।
स्वविकल्पहताः काश्चिच् छङ्कन्ते सुस्थिरं जगत् ॥ (मो_४,११.७४ ॥

स्थैर्येण स्थिरतया । भाविताः स्थिरोऽयं संसार इति वासनायुक्ताः कृताः ॥ (मोटी_४,११.७४ ॥

ल्पाल्पभावनाः काश्चिद् दैन्यदोषवशीकृताः ।
कृशोऽतिदुःखी मूढोऽहम् इति दुःखैर् दृढीकृताः ॥ (मो_४,११.७५ ॥

अत्र भावनायाः अल्पाल्पत्वम् अतिमौढ्येन ज्ञेयम् ॥ (मोटी_४,११.७५ ॥

काश्चित् स्थावरतां याताः काश्चिद् देवत्वम् आगताः ।
काश्चित् पुरुषताम् प्राप्ताः काश्चिद् दानवतां गताः ॥ (मो_४,११.७६ ॥

स्पष्टम् ॥ (मोटी_४,११.७६ ॥

सर्गान्तश्लोकेन पूर्वोक्तम् एवार्थं सङ्क्षिप्य कथयति

काश्चित् स्थिता जगति कल्पशतान्य् अनल्पाः
काश्चिद् व्रजन्ति परमम् पुरुषं सुशुद्धाः ।
ब्रह्मार्णवात् समुदिता लहरीविलोलाश्
चित्संविदो हि मननापरनामवत्यः ॥ (मो_४,११.७७ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायाम् एकादशः सर्गः ॥११॥



सुरासुरनराकारा इमा याः संविदो मुने ।
ब्रह्मार्णवाद् अभिन्नास् ते सत्यम् एतन् मृषेतरत् ॥ (मो_४,१२.१ ॥

एतत् । सुरासुरनराकारा याः संविदः । ब्रह्मार्णवाद् अभिन्नत्वम् । इतरत् भिन्नत्वम् । सुरासुरनराणाम् प्राधान्यात् ग्रहणम् ॥ (मोटी_४,१२.१ ॥

सुरासुरनराकाराः संविदः विशिनष्टि

मिथ्याभावनया ब्रह्मन् स्वविकल्पकलङ्किताः ।
न ब्रह्म वयम् इत्य् अन्तर्निश्चयेन ह्य् अधोगताः ॥ (मो_४,१२.२ ॥

कलङ्कितत्वे उत्तरार्धेन हेतुं कथयति न ब्रह्मेति । हिशब्दः यस्मादर्थे ॥ (मोटी_४,१२.२ ॥

ब्रह्मणो व्यतिरिक्तत्वम् ब्रह्मार्णवगता अपि ।
भावयन्त्यो विमुह्यन्ति भीमासु भवभूमिषु ॥ (मो_४,१२.३ ॥

भीमासु दुःखदायित्वेनात्यन्तभयानकासु ॥ (मोटी_४,१२.३ ॥

या एताः संविदो ब्राह्म्यो मुने नैककलङ्किताः ।
एतत् तत् कर्मणाम् बीजम् अथ कर्मैव विद्धि वा ॥ (मो_४,१२.४ ॥

एताः सुरासुरनराकारत्वेन पूर्वम् उक्ताः । संविदः परामर्शाः । ब्राह्म्यः ब्रह्मसम्बन्धिन्यः । नैककलङ्किताः न एकेन प्रकारेण कलङ्किताः । बहुप्रकारेण कलङ्किता इत्य् अर्थः । तत् एतत् ता एताः ब्राह्मीः संविदः । कर्मणाम् बीजम् कारणम् । विद्धि । अथ वा कर्मैव विद्धि । कर्मत्वेनेष्टस्य बाह्यकर्मणः एतदनु प्रणीतत्वात् । न हि संवित्परामर्शम् अन्तरेण बाह्यकर्मणः उत्थानं दृष्टं युक्तं वा ॥ (मोटी_४,१२.४ ॥

एतासाम् एव समस्तजगन्निमित्तत्वं कथयति

सङ्कल्परूपयैवान्तर् मुने कलनयैतया ।
कर्मजालकरञ्जानाम् बीजमुष्ट्या करालया ॥ (मो_४,१२.५ ॥
इमा जगति विस्तीर्णे शरीरोपलपङ्क्तयः ।
तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति च ॥ (मो_४,१२.६ ॥
आब्रह्मस्तम्भपर्यन्तं स्पन्दनैः पवनो यथा ।
उल्लसन्ति नियच्छन्ति म्लायन्ति विहसन्ति च ॥ (मो_४,१२.७ ॥

हे मुने । सङ्कल्परूपया सङ्कल्पस्वरूपया । कर्मजालकरञ्जानाम् बीजमुष्ट्या कर्मजालकारणभूतयेति यावत् । अत एव विकरालया भयानकया । एतया कलनया संविद्रूपया कलनया । विस्तीर्णे जगति आब्रह्मस्तम्भपर्यन्तं शरीरोपलपङ्क्तयः शरीरपाषाणपङ्क्तयः । तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति उल्लसन्ति नियच्छन्ति म्लायन्ति विहसन्ति च उपलक्षणं चैतत् । सर्वाः क्रियाः कुर्वन्तीत्य् अर्थः । मृतशरीरेषु पूर्वोक्तक्रियाणाम् अदर्शनात् । को यथा । पवनो यथा । यथा पवनः स्वान्तःस्थैः स्पन्दनैः नानाविधाः क्रियाः करोति । तथेत्य् अर्थः ॥ (मोटी_४,१२.७ ॥

ता एताः काश्चिद् अत्यच्छा यथा हरिहरादयः ।
काश्चिद् अल्पविमोहस्था यथोरगनरामरा ॥ (मो_४,१२.८ ॥

स्पष्टम् ॥ (मोटी_४,१२.८ ॥

काश्चिद् अत्यन्तमोहस्था यथा तरुतृणादयः ।
काश्चिद् अज्ञानसम्मूढाः क्रिमिकीटत्वम् आगताः ॥ (मो_४,१२.९ ॥

स्पष्टम् ॥ (मोटी_४,१२.९ ॥

काश्चित् तृणवद् उह्यन्ते दूरे ब्रह्ममहोदधेः ।
प्राप्तभूमिका एता यथोरगनरादयः ॥ (मो_४,१२.१० ॥

अप्राप्तभूमिकाः अप्राप्तपाराः ॥ (मोटी_४,१२.१० ॥

तटमात्रं समालोक्य काश्चित् खेदम् उपागताः ।
जाताजाता निखन्यन्ते कृतान्तजरदाखुना ॥ (मो_४,१२.११ ॥

तटमात्रं समालोक्य न त्व् आसाद्य । तदासादने हि पुनः पुनः कृतान्तनिखननं न युक्तं स्यात् । तटश् चात्र चिन्मात्रविश्रान्तिरूपो ज्ञेयः ॥ (मोटी_४,१२.११ ॥

काश्चिद् अन्तरम् आसाद्य ब्रह्मतत्त्वमहाम्बुधेः ।
गतास् तत्ताम् अशोकाय हरिब्रह्महरादिकाः ॥ (मो_४,१२.१२ ॥

तत्ताम् ब्रह्मताम् । अशोकाय शोकाभावाय ॥ (मोटी_४,१२.१२ ॥

ल्पमोहान्विताः काश्चित् तम् एव ब्रह्मवारिधिम् ।
दृष्टरागरोगौघम् अवलम्ब्य व्यवस्थिताः ॥ (मो_४,१२.१३ ॥

अवलम्ब्य स्वात्मत्वेनाश्रित्य । काश्चित् जीवन्मुक्तरूपा इत्य् अर्थः ॥ (मोटी_४,१२.१३ ॥

काश्चिद् भोक्तव्यजन्मौघा भुक्तजन्मौघकोटयः ।
वन्ध्याः प्रकाशतामस्यः संस्थिता भूतजातयः ॥ (मो_४,१२.१४ ॥

प्रकाशतामस्यः प्रकृष्टतमसो गूणयुक्तः । अत एव वन्ध्या सम्यग्ज्ञानाख्यफलरहिताः ॥ (मोटी_४,१२.१४ ॥

काश्चिद् ऊर्ध्वाद् अधो यान्ति तथाधस्तान् महत् पदम् ।
ूर्ध्वाद् ऊर्ध्वतरं काश्चिद् अधस्तात् काश्चिद् अप्य् अधः ॥ (मो_४,१२.१५ ॥

अधः पशुयोनिं नरकं वा । महत् पदम् मानुष्यं स्वर्गं वा ॥ (मोटी_४,१२.१५ ॥

सर्गान्तश्लोकेन सिद्धान्तं कथयति

बहुसुखदुःखकसङ्कटा क्रियेयम्
परमपदास्मरणात् समागतेह ।
परमपदावगमात् प्रयाति नाशं
विहगपतिस्मरणाद् विषव्यथेव ॥ (मो_४,१२.१६ ॥

विहगपतेः गारुडिकमन्त्रदेवतारूपस्य गरुडस्येति शिवम् ॥ (मोटी_४,१२.१६ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे द्वादशः सर्गः ॥१२॥





ओं । श्रीवसिष्ठः श्रीरामम् प्रत्य् आह

विचारयन्तस् तत्त्वज्ञा इति ते जागतीर् गतीः ।
समङ्गायास् तटात् तस्मात् प्रचेलुश् चञ्चलांशवः ॥ (मो_४,१५.१ ॥

जागतीः जगत्सम्बन्धिनीः । गतीः रचनाः ॥ (मोटी_४,१५.१ ॥

क्रमाद् आकाशम् आक्रम्य निर्गत्याम्बुदकोटरैः ।
सम्प्रापुः सिद्धमार्गेण मन्दरं हेमकन्दरम् ॥ (मो_४,१५.२ ॥

कोटरैर् इति । कोटरेभ्यः इत्य् अस्यार्थे ॥ (मोटी_४,१५.२ ॥

धित्यकायां तस्याद्रेर् आर्द्रपर्णावगुण्ठिताम् ।
ददर्श भार्गवः शुष्काम् पूर्वजन्मोद्भवां तनुम् ॥ (मो_४,१५.३ ॥

स्पष्टम् ॥ (मोटी_४,१५.३ ॥

उवाच चेदं हे तात तन्वी तनुर् इयं हि सा ।
या त्वया सुखसम्भोगैः पुरा समभिलालिता ॥ (मो_४,१५.४ ॥

स्पष्टम् ॥ (मोटी_४,१५.४ ॥

इयं सा मत्तनुर् यस्या मन्दारकुसुमोत्करैः ।
रचिताः शीतलाः शय्या मेरूपवनभूमिषु ॥ (मो_४,१५.५ ॥

सा इति । न त्व् अन्या ॥ (मोटी_४,१५.५ ॥

इयं सा मत्तनुर् मत्तदेवस्त्रीगणलालिता ।
सरीसृपमुखक्षुण्णा पश्य शेते धरातले ॥ (मो_४,१५.६ ॥

स्पष्टम् ॥ (मोटी_४,१५.६ ॥

नन्दनोद्यानषण्डेषु मम तन्वा ययानया ।
चिरं विलसितं सेयं शुष्ककङ्कालतां गता ॥ (मो_४,१५.७ ॥

विलसितम् इति भावे क्तः ॥ (मोटी_४,१५.७ ॥

सुराङ्गनाङ्गसंसङ्गाद् उत्तुङ्गानङ्गरङ्गया ।
चेतोवृत्त्या रहितया तन्वेह मम शुष्यते ॥ (मो_४,१५.८ ॥

शुष्यते भावे लकारः ॥ (मोटी_४,१५.८ ॥

तेषु तेषु विलासेषु तासु तासु दशासु च ।
तथा ता भावना बद्ध्वा कथं स्वस्थोऽसि देहक ॥ (मो_४,१५.९ ॥

ताः भावनाः सुरस्त्रीविषयाः । स्वस्थोऽसि चञ्चलतारहितत्वात् । अनुकम्पितो देहः देहकः । तस्यामन्त्रणं देहकेति ॥ (मोटी_४,१५.९ ॥

हा तनो क्वावभग्नासि तापसंशोषम् आगता ।
करङ्कताम् प्रयातासि माम् भावयसि दुर्भगे ॥ (मो_४,१५.१० ॥

करङ्कताम् कङ्कलताम् । हे दुर्भगे तनो । त्वम् माम् भावयसि किं स्मरसि । अतिस्नेहाकुलत्वाद् इयम् उक्तिः ॥ (मोटी_४,१५.१० ॥

देहेनाहं विलासेषु येनैव मुदितोऽभवम् ।
कङ्कलताम् उपगतात् तस्माद् एव बिभेम्य् अहम् ॥ (मो_४,१५.११ ॥

येन देहेनाहं विलासेषु मुदितः अभवम् । कङ्कलताम् उपगतात् तस्माद् एव देहात् । अहम् बिभेमि ॥ (मोटी_४,१५.११ ॥

ताराजालसमाकारो यत्र हारोऽभवत् पुरा ।
ममोरसि निलीयन्ते पश्य तत्र पिपीलकाः ॥ (मो_४,१५.१२ ॥

निलीयन्ते लगन्ति ॥ (मोटी_४,१५.१२ ॥

द्रवत्काञ्चनकान्तेन लोभं नीता वराङ्गनाः ।
येन मद्वपुषा तेन पश्य कङ्कलतोह्यते ॥ (मो_४,१५.१३ ॥

उह्यते धार्यते ॥ (मोटी_४,१५.१३ ॥

पश्य मे विततास्येन तापसंशुष्ककृत्तिना ।
मत्कङ्कालकुवक्त्रेण वित्रास्यन्ते वने मृगाः ॥ (मो_४,१५.१४ ॥

वित्रास्यन्ते विकारयुक्तत्वेन त्रासयुक्ताः क्रियन्ते ॥ (मोटी_४,१५.१४ ॥

पश्यातिसंशुष्कतया शवोदरदरी मम ।
प्रकाशार्कांशुजालेन विवेकेनेव शोभते ॥ (मो_४,१५.१५ ॥

शवोदरम् मृतशरीरोदरम् एव दरी ॥ (मोटी_४,१५.१५ ॥

मत्तनुः परिशुष्केयं स्थितोत्ताना वनावनौ ।
वैराग्यं नयतीवात्मतुच्छत्वेनाम्बरस्थितान् ॥ (मो_४,१५.१६ ॥

अम्बरस्थितान् देवान् ॥ (मोटी_४,१५.१६ ॥

शब्दरूपरसस्पर्शगन्धलोभविमुक्तया ।
निर्विकल्पसमाध्येव मम तन्वोष्यते गिरौ ॥ (मो_४,१५.१७ ॥

मम तन्वा कथम्भूतया । निर्विकल्पे विकल्पनिष्क्रान्ते चिन्मात्रे । समाधिः यस्याः । सा । तादृश्या ॥ (मोटी_४,१५.१७ ॥

संशान्ते चित्तवेताले याम् आनन्दकलां तनुः ।
याति ताम् अपि राज्येन जागतेन न गच्छति ॥ (मो_४,१५.१८ ॥

जागतेन जगत्सम्बन्धिना ॥ (मोटी_४,१५.१८ ॥

पश्य विश्रान्तसर्वेहं विगताशेषकौतुकम् ।
निरस्तकल्पनाजालं सुखं शेते कलेवरम् ॥ (मो_४,१५.१९ ॥

स्पष्टम् ॥ (मोटी_४,१५.१९ ॥

चित्तमर्कटसंरम्भसङ्क्षुब्धः कायपादपः ।
तथा वेगेन चलति यथा मूलानि कृन्तति ॥ (मो_४,१५.२० ॥

मूलकृन्तनम् व्यावहारिकक्षोभरूपं ज्ञेयम् ॥ (मोटी_४,१५.२० ॥

चित्तानर्थविमुक्तोऽसौ गजाभ्रहरिविभ्रमम् ।
नायम् पश्यति मे देहः परानन्द इव स्थितः ॥ (मो_४,१५.२१ ॥

गजाभ्रहरीणाम् गजमेघसिंहानाम् । विभ्रमम् विलासम् । चाञ्चल्यम् इति यावत् । न पश्यति नानुभवति ॥ (मोटी_४,१५.२१ ॥

सर्वाशाज्वरसम्मोहमिहिकाशरदागमम् ।
चित्तत्वं विना नान्यच् छ्रेयः पश्यामि जन्तुषु ॥ (मो_४,१५.२२ ॥

स्पष्टम् ॥ (मोटी_४,१५.२२ ॥

त एव सुखसम्भोगसीमान्तं समुपागताः ।
महाधियः शान्तधियो ये याता विमनस्कताम् ॥ (मो_४,१५.२३ ॥

स्पष्टम् ॥ (मोटी_४,१५.२३ ॥

सर्वदुःखदशामुक्तां संशान्तां विगतज्वराम् ।
दिष्ट्या पश्याम्य् अमननां वने तनुम् इमाम् अहम् ॥ (मो_४,१५.२४ ॥

स्पष्टम् ॥ (मोटी_४,१५.२४ ॥

अत्र श्रीरामः पृच्छति

भगवन् सर्वधर्मज्ञ भार्गवेण तदा किल ।
सुबहून्य् उपभुक्तानि शरीराणि पुनः पुनः ॥ (मो_४,१५.२५ ॥
भृगुणोत्पादिते काये तत् तस्मिंस् तस्य किम् मुने ।
महान् अतिशयो जातः परिदेवनम् एव वा ॥ (मो_४,१५.२६ ॥

अतिशयः अतिशयज्ञानम् ॥ (मोटी_४,१५.२५-२६ ॥

श्रीवसिष्ठ उत्तरं कथयति

शुक्रस्य कलना राम यासौ जीवदशां गता ।
कर्मात्मिका समुत्पन्ना भृगोर् भार्गवरूपिणी ॥ (मो_४,१५.२७ ॥

कलना शुक्रजीवप्रादुर्भावकारी सम्विदाख्यः स्पन्दः । शुक्रस्य जीवदशाम् शुक्रसम्बन्धिजीवावस्थाम् । भृगोर् इति पञ्चमी । सेति शेषः ॥ (मोटी_४,१५.२७ ॥

सा हीदम्प्रथमत्वेन समेत्य परमात् पदात् ।
भूताकाशपदम् प्राप्य वातव्यावलिता सती ॥ (मो_४,१५.२८ ॥
प्राणापानप्रवाहेण प्रविश्य हृदयम् भृगोः ।
क्रमेण वीर्यताम् एत्य सम्पन्नौशनसी तनुः ॥ (मो_४,१५.२९ ॥

इदम्प्रथमत्वेन तत्पूर्वत्वेन । समेत्य सम्यक् उत्थाय । औशनसी तनुः शुक्रशरीररूपा । युग्मम् ॥ (मोटी_४,१५.२८-२९॥

विहितब्राह्मसंस्कारा ततः सा पितुर् अग्रगा ।
कालेन महता प्राप्ता शुष्ककङ्कालरूपताम् ॥ (मो_४,१५.३० ॥

स्पष्टम् ॥ (मोटी_४,१५.३० ॥

इदम्प्रथमम् आयाता यदा सा ब्रह्मणस् तनुः ।
तस् ताम् प्रति शुक्रेण तदा तत् परिदेवितम् ॥ (मो_४,१५.३१ ॥

इदम्प्रथमम् तत्पूर्वम् । तत् परिदेवितम् तादृशम् परिदेवनं कृतम् ॥ (मोटी_४,१५.३१ ॥

वीतरागोऽप्य् अनिच्छोऽपि समङ्गाविप्ररूपवान् ।
स्वां शुशोच तनुं शुक्रः स्वभावो ह्य् एष देहजः ॥ (मो_४,१५.३२ ॥

स्पष्टम् ॥ (मोटी_४,१५.३२ ॥

किं तु प्रदर्शितं तेन शोकव्याजेन धीमताम् ।
वैराग्यप्रतिपत्त्यै तत् पृथक्त्वं देहदेहिनोः ॥ (मो_४,१५.३३ ॥

किं त्व् इति पक्षान्तरे । तथा च परोपकारार्थम् एव शुक्रेण परिदेवनं कृतम् इति भावः ॥ (मोटी_४,१५.३३ ॥

ज्ञस्याज्ञस्य च देहस्य यावज्जीवम् अयं क्रमः ।
लोकवद् व्यवहारो यत् सक्त्यासक्त्याथ वा सदा ॥ (मो_४,१५.३४ ॥

अथ वा पक्षान्तरे । देहस्य व्यवहारः इति सम्बन्धः । यद् वा लक्षणया । देहस्य देहिन इत्य् अर्थः । तथा च ज्ञस्य देहस्याज्ञस्य वा देहस्येत्य् अर्थः । ज्ञस्यासक्त्या अज्ञस्य सक्त्येति क्रमो ज्ञेयः ॥ (मोटी_४,१५.३४ ॥

ये परिज्ञातगतयो ये चाज्ञाः पशुधर्मिणः ।
लोकसंव्यवहारेषु ते स्थिता वनजालवत् ॥ (मो_४,१५.३५ ॥

वनजालम् स्थितत्वमात्रे उपमानं ज्ञेयम् ॥ (मोटी_४,१५.३५ ॥

व्यवहारी यथैवाज्ञस् तथैव किल पण्डितः ।
वासनामात्रभेदोऽत्र कारणम् बन्धमोक्षयोः ॥ (मो_४,१५.३६ ॥

वासनामात्रभेदः शुद्धत्वाशुद्धत्वेन ज्ञेयः ॥ (मोटी_४,१५.३६ ॥

यावच् छरीरं तावद् धि दुःखे दुःखं सुखे सुखम् ।
संसक्तधियो धीरा दर्शयन्त्य् अप्रबुद्धवत् ॥ (मो_४,१५.३७ ॥

दर्शयन्ति अन्यान् प्रति दर्शयन्ति । न तु स्वयम् पश्यन्ति ॥ (मोटी_४,१५.३७ ॥

सुखेषु सुखिता नित्यं दुःखिता दुःखवृत्तिषु ।
महात्मानो हि दृश्यन्ते नूनम् अन्तस् तु शीतलाः ॥ (मो_४,१५.३८ ॥

शीतलाः सुखदुःखकृतक्षोभरहिताः ॥ (मोटी_४,१५.३८ ॥

स्तम्भस्य प्रतिबिम्बानि क्षुभ्यन्ति न वपुः स्थिरम् ।
ज्ञस्य कर्मेन्द्रियाण्य् एव क्षुभ्यन्ति न मनः स्थिरम् ॥ (मो_४,१५.३९ ॥

स्थिरं वपुः दृढं स्तम्भाख्यं स्वरूपम् । क्षुभ्यन्तीत्य् अन्तर्गतणिच् । कौ प्रयोगौ । ते न क्षोभयन्तीत्य् अर्थः । कर्मेन्द्रियाण्य् उपलब्ध्याख्यकर्मकारीणि ज्ञानेन्द्रियाणीत्य् अर्थः ॥ (मोटी_४,१५.३९ ॥

चलाचलतया तज्ज्ञो लोकवृत्तिषु तिष्ठति ।
धःस्थितिर् इव स्वच्छम् प्रतिबिम्बेषु भास्करः ॥ (मो_४,१५.४० ॥

चलाचलतया अत्यन्तचाञ्चल्येन । भास्करः कथम्भूतः । अधः अधोदेशे । स्थितिः अवस्थानं यस्य । सः ॥ (मोटी_४,१५.४० ॥

सन्त्यक्तलोककर्मापि बद्ध एवाप्रबुद्धधीः ।
त्यक्तमोहलीलोऽपि मुक्त एव प्रबुद्धधीः ॥ (मो_४,१५.४१ ॥

प्रबुद्धधीत्वाप्रबुद्धधीत्वयोर् एवात्र बन्धमोक्षौ प्रति कारणत्वम् इति भावः ॥ (मोटी_४,१५.४१ ॥

मुक्तबुद्धीन्द्रियो मुक्तो बद्धकर्मेन्द्रियोऽपि हि ।
बद्धबुद्धीन्द्रियो बद्धो मुक्तकर्मेन्द्रियोऽपि हि ॥ (मो_४,१५.४२ ॥

हिशब्दः प्रसिद्धौ ॥ (मोटी_४,१५.४२ ॥

सुखदुःखदृशोर् लोके बन्धमोक्षदृशोस् तथा ।
हेतुर् बुद्धीन्द्रियाण्य् एव तेजांसीव प्रकाशने ॥ (मो_४,१५.४३ ॥

प्रकाशने अर्थप्रकटताकरणे ॥ (मोटी_४,१५.४३ ॥

बहिर् लोकोचिताचारस् त्व् अन्तर् आचारवर्जितः ।
समोऽसन्न् इव तिष्ठ त्वं संशान्तसकलैषणः ॥ (मो_४,१५.४४ ॥

अन्तः मनसि ॥ (मोटी_४,१५.४४ ॥

सर्वैषणाविमुक्तेन स्वात्मनात्मनि तिष्ठता ।
कुरु कर्माणि कार्याणि नूनं सामनसि स्थितिः ॥ (मो_४,१५.४५ ॥

हे राम । त्वम् । सर्वैषणाविमुक्तेन । अत एव आत्मनि न तु अनात्मरूपेषु विषयेषु । तिष्ठता आत्मना मनसा । कार्याणि नियतानि । कर्माणि कुरु । नूनं निश्चयेन । सा अमनसि स्थितिः मनसि स्थितिः न भवति ॥ (मोटी_४,१५.४५ ॥

आधिव्याधिमहावर्ते गर्ते संसारवर्त्मनि ।
ममतोग्रान्धकूपेऽस्मिन् मा पतातपदायिनि ॥ (मो_४,१५.४६ ॥

ममतोग्रान्धकूपे कथम्भूते । संसारवर्त्मनि संसाररूपे मार्गे । गर्ते गर्ततया स्थिते ॥ (मोटी_४,१५.४६ ॥

न त्वम् भावेषु नो भावास् त्वयि तामरसेक्षण ।
शुद्धबुद्धस्वभावस् त्वम् आत्मसंस्थः स्थिरो भव ॥ (मो_४,१५.४७ ॥

त्वम् साक्षिभूतशुद्धचिन्मात्ररूपः त्वम् । आत्मसंस्थः शुद्धबुद्धस्वभावस्वात्मपरः । न तु देहादिपरः ॥ (मोटी_४,१५.४७ ॥

सर्गान्तश्लोकेनोत्तरं समापयति

व्यपगतममतामहान्धकारम्
पदम् अमलं विगतैषणं समेत्य ।
प्रभवसि यदि चेतसो महात्मंस्
तद् अतिधिये महते सते नमस् ते ॥ (मो_४,१५.४८ ॥

व्यपगतम् ममतारूपम् महान्धकारम् यस्य । तत् । तादृशम् । अत एवामलम् विगतैषणम् तृप्ततया समस्ताकाङ्क्षारहितम् । पदम् चिन्मात्राख्यम् पदम् । समेत्य स्वात्मत्वेन विभाव्य । यदि चेतसः प्रभवसि चेतः जेतुं समर्थो भवसि । हे महात्मन् । तत् तदा । ते तुभ्यम् । नमः अस्तु । कथम्भूताय । अतिधिये उत्कृष्टबुद्धये । महते महत्त्वयुक्ताय । सते सन्मात्रस्वरूपाय । इति शिवम् ॥ (मोटी_४,१५.४८ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे पञ्चदशः सर्गः ॥१५॥





थाक्षिप्य वचस् तस्य तनयस्य तदा भृगोः ।
उवाच भगवान् कालो वचो गम्भीरनिःस्वनम् ॥ (मो_४,१६.१ ॥

आक्षिप्य आक्षेपविषयं कृत्वा । भृगोः तनयस्य शुक्रस्य ॥ (मोटी_४,१६.१ ॥

कालः कथयति

समङ्गातापसीम् एतां तनुं सन्त्यज भार्गव ।
प्रविशेमां तनुं साधो नगरीम् इव पार्थिवः ॥ (मो_४,१६.२ ॥

समङ्गातापसीम् समङ्गातापससम्बन्धिनीम् ॥ (मोटी_४,१६.२ ॥

काले पूर्वजया तन्वा तपः कृत्वानया पुनः ।
गुरुत्वम् असुरेन्द्राणां कर्तव्यम् भवतानघ ॥ (मो_४,१६.३ ॥

स्पष्टम् ॥ (मोटी_४,१६.३ ॥

महाकल्पान्त आयाते भवता भार्गवी तनुः ।
पुनर्ग्रहणायैषा त्याज्या प्रम्लानपुष्पवत् ॥ (मो_४,१६.४ ॥

स्पष्टम् ॥ (मोटी_४,१६.४ ॥

जीवन्मुक्तपदम् प्राप्तस् तन्वा प्राक्तनरूपया ।
महासुरेन्द्रगुरुतां कुर्वंस् तिष्ठ महामते ॥ (मो_४,१६.५ ॥

प्राक्तनरूपया शुक्राख्यया ॥ (मोटी_४,१६.५ ॥

कल्याणम् अस्तु वां यामो वयं त्व् अभिमतां दिशम् ।
न किञ्चिद् अपि तच् चित्तं यस्य नाभिमतम् भवेत् ॥ (मो_४,१६.६ ॥

ननु कथं तवाप्य् अभिमतम् अस्तीत्य् । अत्राह न किञ्चिद् इति । तत् किञ्चिद् अपि न भवति । यस्य चित्तस्याभिमतम् नास्ति । अतो ममापि सचित्तत्वाद् अभिमतम् अस्तीति भावः ॥ (मोटी_४,१६.६ ॥

इत्य् उक्त्वा मुञ्चतोः पुष्पं तयोः सोऽन्तरधीयत ।
तप्तांशुर् इव रोदस्योः समम् अंशुभिर् अंशुमान् ॥ (मो_४,१६.७ ॥

तप्तांशुः सूर्यः । रोदस्योः द्यावापृथिव्योः ॥ (मोटी_४,१६.७ ॥

गते तस्मिन् भगवति ताम् उक्त्वा भवितव्यताम् ।
विचार्य भार्गवोऽभेद्यां नियतां नियतेर् गतिम् ॥ (मो_४,१६.८ ॥
कालकारणसंशुष्काम् भाविपुष्पशुभोदयाम् ।
विवेश तां तनुम् बालां सुलताम् इव माधवः ॥ (मो_४,१६.९ ॥

अभेद्याम् भेत्तुम् अशक्याम् । कालाख्यं यत् कारणम् । तेन शुष्काम् । माधवः वसन्तः । लक्षणया वासन्तिकः रसः । भावी पुष्पवत् शुभः उदयः यस्याः । ताम् ॥ (मोटी_४,१६.८-९॥

सा ब्राह्मणतनुर् भूमौ विवर्णवद् अनङ्गिका ।
पपात कम्पिता तूर्णम् छिन्नमूला लता यथा ॥ (मो_४,१६.१० ॥

ब्राह्मणतनुः समङ्गातापसतनुः ॥ (मोटी_४,१६.१० ॥

तस्याम् प्रविष्टजीवायाम् पुत्रतन्वाम् महामुनिः ।
चकाराप्यायनम् मन्त्रैः सकमण्डलुवारिभिः ॥ (मो_४,१६.११ ॥

आप्यायनम् पूरणम् ॥ (मोटी_४,१६.११ ॥

सर्वनाड्यः ततस् तन्व्यास् तस्याः पूर्णा विरेजिरे ।
सरितः प्रावृषीवाम्बुपूरपूरितकोटराः ॥ (मो_४,१६.१२ ॥

स्पष्टम् ॥ (मोटी_४,१६.१२ ॥

नलिनी प्रावृषीवासौ मधाव् इव नवा लता ।
यदा पूर्णा तदा तस्याः प्राणाः पल्लविता बभुः ॥ (मो_४,१६.१३ ॥

असौ भार्गवतनुः । पूर्णा प्राणपूर्णा । तस्याः तन्वाः । पल्लविताः अपानादिरूपेणोच्छूनाः ॥ (मोटी_४,१६.१३ ॥

थ शुक्रः समुत्तस्थौ वहत्प्राणसमीरणः ।
रसमारुतसंयोगाद् आमूलम् इव वारिदः ॥ (मो_४,१६.१४ ॥

आमूलम् मूलाद् आरभ्य ॥ (मोटी_४,१६.१४ ॥

पुरोऽभिवादयाम् आस पितरम् पावनाकृतिः ।
प्रथमोल्लासितो मेघः स्तनितेनेव पर्वतम् ॥ (मो_४,१६.१५ ॥

स्पष्टम् ॥ (मोटी_४,१६.१५ ॥

पिताथ प्राक्तनीं तस्याप्य् आलिलिङ्ग तनुं ततः ।
स्नेहार्द्रवृत्तिर् जलदश् चिराद् गिरितटीम् इव ॥ (मो_४,१६.१६ ॥

स्पष्टम् ॥ (मोटी_४,१६.१६ ॥

भृगुर् ददर्श सस्नेहम् प्राक्तनीं तानयीं तनुम् ।
मत्तो जातोऽयम् इत्य् आस्था हरत्य् अपि महामतिम् ॥ (मो_४,१६.१७ ॥

तानयीम् तनयसम्बन्धिनीम् । ननु तादृग्ज्ञानयुक्तेन तेन कथं तानयी तनुः सस्नेहं दृष्टेत्य् । अत्राह मत्त इति ॥ (मोटी_४,१६.१७ ॥

मत्पुत्रोऽयम् इति स्नेहो भृगुम् अप्य् अहरत् तदा ।
परतात्मीयता चेयं यावदाकृति भाविनी ॥ (मो_४,१६.१८ ॥

परता परभावः । आत्मीयता आत्मीयभावः । यावदाकृति यावच्छरीरम् । भाविनी अपरिहार्या ॥ (मोटी_४,१६.१८ ॥

बभूवतुः पितापुत्रौ ताव् अथान्योऽन्यशोभितौ ।
निशावसानमुदिताव् अर्कपद्माकराव् इव ॥ (मो_४,१६.१९ ॥

निशावसाने प्रभाते । मुदितौ ॥ (मोटी_४,१६.१९ ॥

अत्रैवान्यदृष्टान्तद्वयं कथयति

चिरसङ्गमसम्बद्धाव् इव चक्राह्वदम्पती ।
घनागमघनस्नेहौ मयूरजलदाव् इव ॥ (मो_४,१६.२० ॥
चिरकालदृढोत्कण्ठयोग्यया कथया तया ।
स्थित्वा तत्र मुहूर्तं ताव् अथोत्थाय महामती ॥ (मो_४,१६.२१ ॥
समङ्गाद्विजदेहं तम् भस्मसात् तत्र चक्रतुः ।
को हि नाम जगज्जात आचारं नानुतिष्ठति ॥ (मो_४,१६.२२ ॥

आचारम् लोकाचारम् ॥ (मोटी_४,१६.२०-२२ ॥

एवं तौ कानने तस्मिन् पावने भृगुभार्गवौ ।
संस्थितौ तपसा दीप्तौ दिवीव शशिभास्करौ ॥ (मो_४,१६.२३ ॥

स्पष्टम् ॥ (मोटी_४,१६.२३ ॥

चेरतुर् ज्ञातविज्ञेयौ जीवन्मुक्तौ जगद्गुरू ।
देशकालदशौघेषु सुशमं सुस्थिरं तपः ॥ (मो_४,१६.२४ ॥

तपः कथम्भूतम् । शोभनः शमः यस्मिन् । तत् । तादृशम् ॥ (मोटी_४,१६.२४ ॥

थासुरगुरुत्वं स शुक्रः कालेन लब्धवान् ।
भृगुर् अप्य् आत्मनो योग्ये पदेऽतिष्ठद् अनामये ॥ (मो_४,१६.२५ ॥

आत्मनः योग्ये पदे विदेहमुक्त्याख्ये पदे ॥ (मोटी_४,१६.२५ ॥

सर्गान्तश्लोकेन शुक्रवृत्तान्तं सङ्क्षिप्य कथयति शुक्रोऽसाव् इति ।

शुक्रोऽसौ प्रथमम् इति क्रमेण जात
एतस्मात् परमपदाद् उदारकीर्तिः ।
स्वेनाशु स्मृतिपदविभ्रमेण पश्चाद्
एवं च प्रविलुलितो दशान्तरेषु ॥ (मो_४,१६.२६ ॥

एतस्मात् सर्वेषाम् आत्मत्वेन पुरो वर्तमानात् । परमपदात् चिन्मात्राख्यात् उत्तमात् स्थानात् । दशान्तरेषु समङ्गातापसत्वपर्यन्तेष्व् अवस्थाविशेषेषु । इति शिवम् ॥ (मोटी_४,१६.२६ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे षोडशः सर्गः ॥१६॥





ओं । श्रीरामः पृच्छति

भगवन् भृगुपुत्रस्य प्रतिभा सानुभूतितः ।
यथास्य सफला जाता तथान्यस्य न किम् भवेत् ॥ (मो_४,१७.१ ॥

हे भगवन् । अस्य समनन्तरोक्तेन वृत्तान्तेन वर्णितस्य । भृगुपुत्रस्य । सा प्रतिभा तत् नानायोनिगमनरूपम् प्रतिभानम् । अनुभूतितः अनुभवात् हेतोः । सफला अर्थक्रियाख्यफलयुक्ता । जाता । अन्यथा हि भृगुसम्बन्धी स्वसम्बन्धी वा समङ्गातापसविषयोऽनुभवः न युक्तः स्यात् इति भावः । तथा तद्वत् । अन्यस्य शुक्रव्यतिरिक्तस्य पुरुषस्य । सा प्रतिभा सफला किम् कथम् । न भवेत् । न हि स्वप्ने प्रतिभातं स्वस्मिन् गजादित्वम् प्रत्यक्षम् अनुभूयते ॥ (मोटी_४,१७.१ ॥

श्रीवसिष्ठोऽत्रोत्तरं कथयति

इदम्प्रथमम् उत्पन्ना सा तदा ब्रह्मणः पदात् ।
शुद्धा मतिर् भार्गवस्य नान्यजन्मकलङ्किता ॥ (मो_४,१७.२ ॥

इदम्प्रथमम् तत्पूर्वम् । यतः भार्गवस्य शुक्रस्य । ब्रह्मणः पदात् सद्यः उत्थितत्वात् । सा नानायोनिप्रतिभानविषया । बुद्धिः । शुद्धा पूर्वजन्मवासनानिचयाकलुषिता । आसीत् । ततः तस्य सा नानायोनिगमनरूपा प्रतिभा सफला जाता । अन्ये तु पूर्वतमम् उत्पन्नत्वात् मध्ये नानाजन्मान्तरोत्थवासनाजालकलङ्किताः सन्तः न स्वप्रतिभानम् प्रत्यक्षम् अनुभवन्तीति भावः ॥ (मोटी_४,१७.२ ॥

नन्व् अस्याः शुद्धायाः मतेः स्वरूपं कीदृग् अस्तीत्य् । अत्राह सर्वैषणानाम् इति ।

सर्वैषणानां संशान्तौ शुद्धा चित्तस्य या स्थितिः ।
तत् सत्त्वम् उच्यते सैषा विमला चिद् उदाहृता ॥ (मो_४,१७.३ ॥

सर्वैषणानाम् नानाभोग्यजालविषयाणां समस्तानाम् इच्छानाम् । शान्तौ सुषुप्त्यादिप्रभावेन सम्यग्ज्ञानादिना वा शमने सति । चित्तस्य मनसः । या स्थितिः यत् अवस्थानम् । अस्ति । पण्डितैः तत् सत्त्वम् उच्यते । सा एव विमला चित् विमला मतिः । उदाहृता । किं च इयम् एव शुद्धा मतिः इदम्प्रथमम् उत्पन्नस्य च भवति जीवन्मुक्तस्य च भवति । इदम्प्रथमम् उत्पन्नस्य बाह्योन्मुखा । जीवन्मुक्तस्य तु त्यज्यमानबाह्येति विशेषः ॥ (मोटी_४,१७.३ ॥

विशेषणेनोक्त्वा सामान्येन कथयति

मनो निर्मलसत्त्वात्म यद् भावयति यादृशम् ।
तत् तथाशु भवत्य् एव यथावर्तोऽर्णवेऽम्भसः ॥ (मो_४,१७.४ ॥

निर्मलसत्त्वात्म पूर्वश्लोकोक्तनिर्मलसत्त्वस्वरूपम् । मनः । यत् यादृशम् येन प्रकारेण युक्तम् । भावयति अनुसन्धानविषयतां नयति । तत् वस्तु । आशु तथा तेन प्रकारेण युक्तम् । भवति । तत् वस्तु क इव । आवर्तः इव । यथा अर्णवे स्थितः अम्भसः आवर्तः सद्यः अन्यप्रकारयुक्तो भवति । तथेत्य् अर्थः ॥ (मोटी_४,१७.४ ॥

अनेन वृत्तान्तेन सिद्धं स्वमनीषितं कथयति

यथा भृगुसुतस्यैष विभ्रमः प्रोदितः स्वयम् ।
प्रत्येकम् अप्य् एवम् एव दृष्टान्तोऽत्र भृगोः सुतः ॥ (मो_४,१७.५ ॥

यथा भृगुसुतस्य एषः समनन्तरोक्तः । विभ्रमः नानायोनिप्रतिभासरूपो विभ्रमः । स्वयम् स्वभावेन । प्रोदितः प्रादुर्भूतः । एवम् एव तथैव । प्रत्येकम् प्रतिपुरुषम् । उदेति । सर्वे एव स्वमनःप्रतिभासरूपम् एव जगत् पश्यन्तीति भावः । अस्यार्थस्य दृढीकरणार्थम् पुनर् अपि शुक्रस्य दृष्टान्तत्वं कथयति दृष्टान्तोऽत्रेति ॥ (मोटी_४,१७.५ ॥

एतद् एव नानादृष्टान्तैः सुगमं करोति

बीजस्याङ्कुरपत्त्रादि स्वं चमत्कुरुते यथा ।
सर्वेषाम् भूतसङ्घानाम् भ्रमषण्डस् तथैव हि ॥ (मो_४,१७.६ ॥

यथा बीजस्य स्वम् न त्व् अन्यबीजसाधारणम् । अङ्कुरपत्त्रादि । चमत्कुरुते उच्छूनतारूपम् आनन्दं करोति । हि निश्चये । सर्वेषाम् भूतसङ्घानाम् भूतसमूहानाम् । स्वः अनन्यसाधारणः भ्रमषण्डः जगद्रूपः भ्रमषण्डः । तथैव चमत्कुरुते नानास्वादसौख्यं करोति । साधारणत्वेन भासमानोऽप्य् अयं संसारः प्रत्येकम् भिन्न एवेति भावः ॥ (मोटी_४,१७.६ ॥

यद् इदं दृश्यते विश्वम् एवम् एवाखिलं हि तत् ।
प्रत्येकम् उदितम् मिथ्या मिथ्यैवास्तम् उपैति च ॥ (मो_४,१७.७ ॥

अस्माभिः यद् इदं विश्वम् संसारः । दृश्यते अनुभूयते । हि निश्चये । एवम् एवानेन प्रकारेण । स्थितम् एव तत् । अखिलं विश्वम् । मिथ्या प्रत्येकम् उदितम् उदेति । वर्तमाने क्तः । मिथ्या एवास्तम् उपैति च परचित्स्वरूपत्वेन सर्वदैव तथैव स्थितत्वात् । सत्यभूतोदयास्तमयविषयत्वायोगाद् इति भावः ॥ (मोटी_४,१७.७ ॥

नास्तम् एति न चोदेति जगत् किञ्चन कस्यचित् ।
भ्रान्तिमात्रम् इदम् माया मुधैव परिजृम्भते ॥ (मो_४,१७.८ ॥

इदम् जगत् । माया मायारूपम् ॥ (मोटी_४,१७.८ ॥

यथास्मत्प्रतिभासस्थः सोऽयं संसारषण्डकः ।
तथा तेषां सहस्राणि मिथोऽदृष्टानि सन्ति हि ॥ (मो_४,१७.९ ॥

यथा अस्मत्प्रतिभासस्थः सः अयम् सर्वेन्द्रियातीतचिन्मात्ररूपत्वेनेन्द्रियातीतोऽपि सन् इदन्तया स्फुरितः संसारषण्डः अस्ति । तथा तेषाम् संसारषण्डानाम् । सहस्राणि सन्ति । ननु कथं तानि न दृश्यन्ते इत्य् अपेक्षायां विशेषणम् आह मिथोऽदृष्टानीति । मिथः अन्योऽन्यम् । अदृष्टानि दर्शनविषयतां न नीतानि ॥ (मोटी_४,१७.९ ॥

मिथोऽदर्शनदृष्टान्तं कथयति

स्वप्नसङ्कल्पनगरव्यवहाराः परस्परम् ।
पृथग् यथा न दृश्यन्ते तथैते संसृतिभ्रमाः ॥ (मो_४,१७.१० ॥

यथा अन्यस्य स्वप्नादि अन्यो नानुभवति तथान्यस्य संसारम् अन्यो नानुभवतीति पिण्डार्थः । ननु कथं सर्गानाम् प्रतिपुरुषम् भेदः इति चेत् । न । एकस्मिन्न् एव वस्तुनि पुरुषभेदेन हेयत्वोपादेयत्वदर्शनात् ॥ (मोटी_४,१७.१० ॥

उपसंहारं करोति

एवं नगरवृन्दानि नभःसङ्कल्परूपिणाम् ।
सन्ति तानि न दृश्यन्ते मिथो ज्ञानदृशं विना ॥ (मो_४,१७.११ ॥

एवं सति । नभसि यः सङ्कल्पः पुरादिसङ्कल्पः । तद्वत् रूपं येषाम् । तादृशानां नगराणां वृन्दानि समूहाः । सन्ति । समासे उपसर्जनीभूतस्य नगरपदस्य विशेषणदानम् आर्षम् । तैः नगरवृन्दैः तानि नगरवृन्दानि । ज्ञानदृशं विना चिन्मात्रज्ञानाख्यां दृष्टिं विना । मिथः अन्योऽन्यम् । न दृश्यन्ते नानुभूयन्ते । ज्ञानदृशा तु दृश्यन्ते एव । अत एवाहं तान् पश्यामि त्वं न पश्यसीति भावः ॥ (मोटी_४,१७.११ ॥

सर्वप्रसिद्धानाम् पिशाचादीनाम् अप्य् एतद्रूपत्वं कथयति

पिशाचयक्षरक्षांसि सन्त्य् एवंरूपकाणि हि ।
सङ्कल्पमात्रदेहानि सुखदुःखमयानि च ॥ (मो_४,१७.१२ ॥

स्पष्टम् ॥ (मोटी_४,१७.१२ ॥

स्वस्मिन्न् अप्य् एतद्रूपत्वम् एवातिदिशति

एवम् एव वयं चेमे सम्पन्ना रघुनन्दन ।
स्वसङ्कल्पात्मकाकारा मिथ्यासत्यत्वभाविताः ॥ (मो_४,१७.१३ ॥

मिथ्यासत्यत्वे स्वसत्यतायाम् । भाविताः भावनायुक्ताः ॥ (मोटी_४,१७.१३ ॥

एवं स्तोकं विशेषेणोक्त्वा पुनर् अपि सामान्येन कथयति

एवंरूपैव हि परे वर्तते सर्गसंसृतिः ।
न वास्तवी वस्तुतस् तु संस्थितेयम् अवस्तुनि ॥ (मो_४,१७.१४ ॥

एवंरूपा प्रतिभासरूपा । परे उत्तीर्णे चिन्मात्रे । सर्गेति नामधेया संसृतिः सर्गसंसृतिः । न वास्तवी असत्यरूपा । तु पक्षान्तरे । वस्तुतः परमार्थतः । इयं सर्गसंसृतिः । अवस्तुनि शून्ये । स्थिता भवति । वस्तुत्वेन स्थिते चिन्मात्रे अवस्तुभूतसर्गाधारत्वायोगात् ॥ (मोटी_४,१७.१४ ॥

पूर्वोक्तन्यायेन सिद्धस्य स्वाभीष्टस्योपसंहारं करोति

प्रत्येकम् उदितं विश्वम् एवम् एव मुधैव हि ।
नवगुल्मकरूपेण वासन्तिकरसो यथा ॥ (मो_४,१७.१५ ॥

एवम् पूर्वोक्तप्रकारेण । वासन्तिकरसः वसन्तसम्बन्धी रसः ॥ (मोटी_४,१७.१५ ॥

प्रथमोऽयं स्वसङ्कल्पः सुप्रथाम् आगतस् तथा ।
यथातिपारमार्थ्येन दृढेनेत्थं विभाव्यते ॥ (मो_४,१७.१६ ॥

अयम् प्रथमः ब्रह्मणः तत्पूर्वत्वेनोत्थितः । स्वसङ्कल्प एव । तथा तेन प्रकारेण । सुप्रथाम् अतिरूढिम् । गतः । यथा इत्थम् अनेन प्रकारेण । दृढेनाविचलता । अतिपारमार्थ्येनातिपरमार्थभावेन । विभाव्यते निश्चीयते । जनैर् इति शेषः ॥ (मोटी_४,१७.१६ ॥

प्रत्येकम् उदितं चित्तं स्वस्वभावोदरस्थितम् ।
इदम् इत्थंसमारम्भं जगत् पश्यद् विनश्यति ॥ (मो_४,१७.१७ ॥

स्वः आत्मीयः । स्वभावः चिन्मात्राख्यं स्वरूपम् । तस्योदरे उदर इवोदरे । न तु साक्षाद् उदरे । स्थितम् वर्तमानम् । प्रत्येकम् एकस्मिन् एकस्मिन् प्रत्येकम् । उदितम् उत्पन्नम् । चित्तम् । इत्थंसमारम्भम् दृश्यमानारम्भयुक्तम् । इदं जगत् पश्यत् अनुभवत् । विनश्यति स्वरूपपरामर्शात् भ्रश्यतीत्य् अर्थः ॥ (मोटी_४,१७.१७ ॥

प्रतिभासवशाद् अस्ति नास्ति वस्त्ववलोकनात् ।
दीर्घः स्वप्नो जगज्जालम् आलानं चित्तदन्तिनः ॥ (मो_४,१७.१८ ॥

प्रतिभासवशात् । न हि असतः प्रतिभासः युक्त इति भावः । वस्त्ववलोकनात् परमार्थावलोकनात् । न हि सम्यग्ज्ञानेन जगत् तिष्ठति । जगज्जालम् कः । दीर्घः स्वप्नः ॥ (मोटी_४,१७.१८ ॥

चित्तसत्तैव हि जगज् जगत्सत्तैव चित्तकम् ।
एकाभावे द्वयोर् नाशस् तच् च सत्यविचारणात् ॥ (मो_४,१७.१९ ॥

तत् एकाभावः । सत्यविचारणात् सत्यविचारात् ॥ (मोटी_४,१७.१९ ॥

श्रीरामकृतस्य प्रश्नस्योत्तरम् अनुस्मरति

शुद्धस्य प्रतिभासो हि सत्यो भवति चेतसः ।
निष्कलङ्के हि लगति पटे कुङ्कुमरञ्जना ॥ (मो_४,१७.२० ॥

अत्र दृष्टान्तम् आह निष्कलङ्क इति । निष्कलङ्के मलरहिते ॥ (मोटी_४,१७.२० ॥

न्येनानाहृतस्यान्यो गुणोऽवश्यं विवर्धते ।
नाक्रान्तस्य सङ्कल्पैः प्रतिभोदेति चेतसः ॥ (मो_४,१७.२१ ॥

अनाहृतस्य अनाक्रान्तस्य । दृष्टान्तम् उक्त्वा दार्ष्टान्तिकं कथयति अनाक्रान्तस्येति । प्रतिभा प्रतिभासः । उदेति सफलत्वेन प्रादुर्भवति ॥ (मोटी_४,१७.२१ ॥

सुवर्णो न स्थितिं याति मलवत्य् अंशुके यथा ।
एका दृष्टिः स्थितिं याति न म्लाने चित्तके तथा ॥ (मो_४,१७.२२ ॥

सुवर्णः शोभनः शुक्लादिवर्णः । म्लाने सङ्कल्परूषिते ॥ (मोटी_४,१७.२२ ॥

प्रमार्जनाद् इव मणेस् ताम्रस्येव च युक्तितः ।
चिरम् एकदृढाभ्यासाच् छुद्धिर् भवति चेतसः ॥ (मो_४,१७.२३ ॥

एकस्मिन् सम्यग्ज्ञानादौ । यः दृढाभ्यासः नैरन्तर्येण तच्चिन्तनम् । तस्मात् ॥ (मोटी_४,१७.२३ ॥

श्रीरामः पृच्छति

प्रतिभासात्मनि जगत्य् एते कालक्रियाक्रमाः ।
सोदयास्तमया जाताः कथं शुक्रस्य चेतसः ॥ (मो_४,१७.२४ ॥

प्रतिभासात्मनि जगति स्फुरितानां कालक्रियाक्रमाणां सोदयास्तमयत्वम् न युक्तम् । तच् च शुक्रचेतसः कथं जातम् इति भावः ॥ (मोटी_४,१७.२४ ॥

श्रीवसिष्ठः उत्तरम् आह

यादृग् जगद् इदं दृष्टं शुक्रेण पितृमातृतः ।
तादृक् तस्य स्थितं चित्ते मयूराण्डे मयूरवत् ॥ (मो_४,१७.२५ ॥

पितृमातृतः उत्पन्नेन शुक्रेण यादृक् इदं जगत् दृष्टम् । तत् तस्य शुक्रस्य । चित्ते तादृक् स्थितम् आसीत् । कथम् । मयूरवत् । यथा मयूराण्डे मयूरः अस्ति । तथेत्य् अर्थः ॥ (मोटी_४,१७.२५ ॥

स्वभावकोशात् स्वदितं तद् अनेन क्रमोदितम् ।
बीजेनाङ्कुरपत्त्रादिलतापुष्पफलं यथा ॥ (मो_४,१७.२६ ॥

ततः अनेन शुक्रेण । तत् चित्तस्थं जगत् । स्वभावकोशात् चित्तरूपः यः स्वभावः । तद्रूपात् कोशात् । क्रमोदितम् सत् स्वदितम् आस्वादविषयीकृतम् । अत्र दृष्टान्तम् आह बीजेनेति ॥ (मोटी_४,१७.२६ ॥

जीवो यद्वासनासारस् तद् एवान्तः प्रपश्यति ।
स्वप्न एवात्र दृष्टान्तो दीर्घस्वप्नस् त्व् इदं जगत् ॥ (मो_४,१७.२७ ॥

ननु कथम् अत्र स्वप्नः दृष्टान्तः अस्तीत्य् । अत्राह दीर्घस्वप्न एवेति । दीर्घत्वम् चात्र चिरप्रतिभासवशाज् ज्ञेयम् ॥ (मोटी_४,१७.२७ ॥

प्रत्येकम् उदितो राम ननु संसारषण्डकः ।
रात्रौ सैन्यनरस्वप्नजालवत् स्वात्मनि स्फुटः ॥ (मो_४,१७.२८ ॥

रात्रौ हि सैन्यनरस्वरूपं स्वप्नजालम् प्रत्येकम् पृथग् । उदेति ॥ (मोटी_४,१७.२८ ॥

श्रीरामः पृच्छति

एष संसृतिषण्डौघो मिथः सम्मिलति स्वयम् ।
नो वापि यदि तन् मे त्वं यथावद् वक्तुम् अर्हसि ॥ (मो_४,१७.२९ ॥

एषः संसृतिषण्डौघः स्वयम् स्वभावेन । मिथः अन्योऽन्यम् । यदि मिलति यदि वा नो मिलति अपि । त्वम् एतत् यथावत् सम्यक् । वक्तुम् अर्हसि सम्यक् कथयेति यावत् ॥ (मोटी_४,१७.२९ ॥

श्रीवसिष्ठ उत्तरम् आह

मलिनं हि मनोऽवीर्यं न मिथः श्लेषम् अर्हति ।
योऽयसीवासन्तप्ते शुद्धे तप्ते तु लीयते ॥ (मो_४,१७.३० ॥

हि निश्चये । मलिनम् रागादिमलदूषितम् । अत एवावीर्यम् । मनः मिथः अन्योऽन्यम् । श्लेषम् मेलनम् । नार्हति । किम् इव । अय इव । यथायः असन्तप्ते अयसि श्लेषं नार्हति । तथेत्य् अर्थः । तु पक्षान्तरे । मनः । शुद्धे मनसि । लीयते मिलति । अयश् च सन्तप्तेऽयसि लीयते ॥ (मोटी_४,१७.३० ॥

चित्ततत्त्वानि शुद्धानि सम्मिलन्ति परस्परम् ।
एकरूपाणि तोयानि यान्त्य् ऐक्यं नाबिलानि हि ॥ (मो_४,१७.३१ ॥

स्पष्टम् ॥ (मोटी_४,१७.३१ ॥

सर्गान्तश्लोकेनाप्य् एतद् एव कथयति

शुद्धिर् हि चित्तस्य विवासनत्वम्
भूतसंवेदनरूपम् एकम् ।
तस्याः सुषुप्तात्मपदात् प्रबुध्य
तन्मात्रयुक्त्या परसङ्गम् एति ॥ (मो_४,१७.३२ ॥

हि निश्चये । अभूतसंवेदनात्म असिद्धपदार्थसंवेदनस्वरूपम् । विवासनत्वम् पदार्थविषयभावनाख्यसंस्कारराहित्यम् । एकम् केवलम् । चित्तस्य शुद्धिः भवति । तत् चित्तम् । सुषुप्तात्म सुषुप्तस्वरूपम् । यत् पदम् स्थानम् । तस्मात् । तस्याः शुद्धेः हेतोः । प्रबुध्य तुर्याख्यम् बोधम् प्राप्य । तन्मात्रयुक्त्या सूक्ष्मभूतयोगेन । परसङ्गम् अन्यैः सह श्लेषम् । एति गच्छति । तन्मात्रयुक्त्या मेलनं च स्वेन सह सर्वस्यैकोपादानत्वज्ञानम् एव ज्ञेयम् । इति शिवम् ॥ (मोटी_४,१७.३२ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे सप्तादशः सर्गः ॥१७॥






ओं । ननु कथं तन्मात्रयुक्त्या चेतः अन्यैः सह मिलतीत्य् । अत्राह

सर्वसंसृतिषण्डेषु बीजरूपकलात्मनः ।
तन्मात्रप्रतिभासस्य प्रतिभासे न भिन्नता ॥ (मो_४,१८.१ ॥

बीजरूपा बीजस्वरूपा । या कला । तदात्मनः तत्स्वरूपस्य । स्थूलभूतबीजरूपस्येति यावत् । तन्मात्रप्रतिभासस्य पञ्चतन्मात्राकारस्य प्रतिभासस्य । सर्वसंसृतिषण्डेषु समस्तेषु सर्गरूपेषु षण्डेषु । प्रतिभासे स्फुरणे । भिन्नता नास्ति । मृद इव घटादिषु स्फुरणे । अतः तन्मात्रयुक्त्या चित्तस्यान्यमेलनं युक्तम् एवेति भावः । तन्मात्राणि च स्थूलभूतबीजभूतानि संस्कारमात्रशरीराणि आकाशादिभ्यो बुद्ध्या पृथक्कृतानि पञ्च शब्दादीनि ज्ञेयानि ॥ (मोटी_४,१८.१ ॥

न केवलं सर्गैः सह मेलनम् एव तन्मात्रयुक्त्या भवति किं तु ब्रह्मणि मेलनम् अपि तयैवेत्य् अभिप्रायेणाह

प्रवृत्तिर् वा निवृत्तिर् वा तन्मात्रापत्तिपूर्वकम् ।
सर्वस्य जीवजातस्य सुषुप्तत्वाद् अनन्तरम् ॥ (मो_४,१८.२ ॥

सर्वस्य जीवजातस्य जीवसमूहस्य । सुषुप्तत्वात् सुषुप्तभावात् । अनन्तरम् पश्चात् । प्रवृत्तिः वा अन्यसर्गैः सह मेलनं वा । निवृत्तिर् वा सर्गेभ्यः निवृत्तिरूपम् ब्रह्मणि मेलनं वा । तन्मात्रापत्तिपूर्वकम् तन्मात्रयोगपूर्वकम् एव । भवति । सुषुप्तौ सर्गाणाम् बीजत्वेनावस्थानात् निवृत्त्यसम्भवः सर्गाणाम् प्राकट्येनानवस्थानात् प्रवृत्त्यसम्भव इति सुषुप्तत्वाद् अनन्तरम् इत्य् उक्तम् । अनन्तरम् इति कथनेन च सुषुप्तेर् अत्रावश्यम्भावः सूचितः । ब्रह्मसर्गयोः सेतुत्वेन स्थितायाः सुषुप्तेर् अवश्यम्भावस्य सुस्पष्टत्वात् । अत्र च प्रवृत्तिः जीवन्मुक्तानां निवृत्तिः विदेहमुक्तानाम् इति विषयविभागो द्रष्टव्यः । इतरेषाम् प्रवृत्तिस् तु अज्ञानमूलत्वेन नेह वक्तुं युक्ता ॥ (मोटी_४,१८.२ ॥

प्रकृतत्वात् प्रवृत्तेः तन्मात्रापत्तिपूर्वकत्वम् पृथक् कथयति

प्रवृत्तिभाजो ये जीवास् ते तन्मात्रपदं गताः ।
तन्मात्रैकतया सर्गान् मिथः पश्यन्ति कल्पितान् ॥ (मो_४,१८.३ ॥

ये जीवाः जीवन्मुक्तस्वभावाः जीवाः । प्रवृत्तिभाजः सत्त्वशेषतया प्रवृत्तियुक्ताः भवन्ति । ते तन्मात्रैकतया तन्मात्रयुक्त्या । कल्पितान् परमार्थतया कल्पितस्वरूपान् । सर्गान् । मिथः अन्योऽन्यम् । पश्यन्ति । जीवन्मुक्तानाम् मनांस्य् अन्योऽन्यम् मिलन्तीत्य् अत्र परमं रहस्यम् ॥ (मोटी_४,१८.३ ॥

तन्मात्रैक्यप्रणालेन चित्राः सर्गजलाशयाः ।
परस्परं सम्मिलन्ति घनतां यान्ति चाभितः ॥ (मो_४,१८.४ ॥

तन्मात्राणाम् पञ्चतन्मात्राणाम् । यद् ऐक्यम् । तद् एव प्रणालः जलप्रवाहमार्गः । तेन । घनताम् घनीभावम् ॥ (मोटी_४,१८.४ ॥

ननु सर्वे सर्गौघाः तन्मात्रैक्यप्रणालेन मिलन्त्य् अथ वा कतिपये एवेत्य् । अत्राह

केचित् पृथक् स्थितिम् इताः पृथग् एव लयं गताः ।
केचिन् मिथः सम्मिलिता जगत्षण्डाः स्थिताः कृताः ॥ (मो_४,१८.५ ॥

केचिद् अशुद्धमतयः । उत्तरार्धे केचित् शुद्धमतयः । कृताः कल्पिताः । न तु सहजाः ॥ (मोटी_४,१८.५ ॥

नन्व् एतादृशाः सर्गौघाः कस्मिन्न् आधारे स्थिताः भवन्तीत्य् । अत्राह

जगत्षण्डसहस्राणि यत्रासङ्ख्यान्य् अणाव् अणौ ।
परस्परलग्नानि काननम् ब्रह्म नाम तत् ॥ (मो_४,१८.६ ॥

अपरस्परलग्नानि अन्योऽन्यम् असङ्कीर्णानि । अणौ अणौ प्रत्यंशम् ॥ (मोटी_४,१८.६ ॥

मिथः स मेलनं नैति घनतां समुपागतः ।
यद् यद् यत्र यथा रूढं तत् तत् पश्यति नेतरत् ॥ (मो_४,१८.७ ॥

घनताम् घनीभावम् । गतः सर्गः । मिथः स मेलनं नैति न गच्छति । यतः सः सर्गः । लक्षणया तत्रस्थः प्रमाता । यत् यत् यत्र रूढम् परिचितम् । तत् तत् तत्र पश्यति । न इतरत् । अत्र प्रमातुर् अशुद्धमतित्वं हेतुत्वेन बहुशः उक्तम् ॥ (मोटी_४,१८.७ ॥

वर्तमानमनोराज्यवशाज् जीवपरम्पराः ।
परस्परं सम्मिलिताः सर्गाणां रूढिभावनाः ॥ (मो_४,१८.८ ॥

वर्तमानम् यत् मनोराज्यम् सङ्कल्पः । तद्वशात् । जीवपरम्पराः परस्परं सम्मिलिताः भवन्ति । समानमनोराज्यत्वाज् जीवाः परस्परम् मिलन्तीति भावः । जीवपरम्पराः कथम्भूताः । सर्गाणां रूढौ सत्यतायाम् । भावनाः यासाम् । ताः । अयम् भावः । शुद्धमतीनां सर्गाः तन्मात्रैक्यप्रणालेन सर्वदा मिलन्ति । अशुद्धमतीनां तु कदाचिद् एकसङ्कल्पत्वेनेति ॥ (मोटी_४,१८.८ ॥

ननु कथम् इयं देहसत्ता प्राकट्यं गता यद्वशोदितसङ्कल्पाख्यमलावृतबुद्धीनां तन्मात्रैक्यप्रणालेनान्यसर्गैः सह मेलनं न भवतीत्य् । अत्राह

देहसत्ता भृशं रूढा देहाभावस् तु विस्मृतः ।
देहत्वपरिरूढत्वाच् चिद्व्योम्ना विस्मृतात्मना ॥ (मो_४,१८.९ ॥

चिद्व्योम्ना देहत्वपरिरूढत्वात् चिद्व्योमकर्तृकात् देहभावे परिरूढत्वात् । चिद्व्योम्ना स्वात्मत्वेन भावितात् देहभावात् इति यावत् । देहसत्ता रूढा प्ररोहं गता । तु पक्षान्तरे । देहाभावः परमार्थसन् देहप्रतियोगिकस् त्रैकालिकोऽभावः । चिद्व्योम्ना कथम्भूतेन । विस्मृतात्मना विस्मृतस्वरूपेण । विस्मृतः विस्मृतिं नीतः ॥ (मोटी_४,१८.९ ॥

अथान्येन दृष्टान्तेनान्यसर्गैः सम्मेलनं कथयति

यथा शुद्धप्राणमरुत् परप्राणाभिवेधनात् ।
वेत्ति वेध्यमनोराज्यं तथा सर्गान् नराश्रयी ॥ (मो_४,१८.१० ॥

यथा शुद्धप्राणमरुत् प्राणायामादिना शुद्धप्राणः । प्राणयोगीति यावत् । परप्राणाभिवेधनात् । परप्राणेषु यत् अभिवेधनम् अभिव्याप्तिः । तस्मात् । परपुरप्रवेशाद् इति यावत् । वेध्यमनोराज्यम् । वेध्यस्य अभिव्याप्यस्य पुरुषस्य । मनोराज्यं वेत्ति । तथा तद्वत् । नराश्रयी तन्मात्रप्रणालेनान्यपुरुषाविष्टः जीवन्मुक्तः पुरुषः ब्रह्मणः प्रथमम् उत्थितः पुरुषो वा । सर्गान् आश्रितपुरुषसर्गान् । वेत्ति ॥ (मोटी_४,१८.१० ॥

एवं श्रीरामकृते प्रश्ने उत्तरं सम्यग् उक्त्वा पूर्वत्र यत्र तत्रोक्तानि विशीर्णानि उपदेशवाक्यानि कथयति

सर्वेषां जीवराशीनाम् आत्मावस्थात्रयं श्रितः ।
जग्रत्स्वप्नसुषुप्ताख्यम् अत्र देहो न कारणम् ॥ (मो_४,१८.११ ॥

अत्र अवस्थात्रयाश्रयणे ॥ (मोटी_४,१८.११ ॥

एवम् आत्मनि जीवत्वम् अन्यावस्थात्रयात्मनि ।
तापाम्भसीव वीचित्वम् अस्मिन् कचति देहता ॥ (मो_४,१८.१२ ॥

अन्यावस्थात्रयात्मनि । अन्यत् स्वव्यतिरिक्तत्वेन भासमानम् । यत् अवस्थात्रयम् जाग्रदाद्यवस्थात्रयम् । तत् । आत्मा स्वरूपं यस्य । तादृशे । अस्मिन् जीवत्वावच्छिन्ने । आत्मनि ॥ (मोटी_४,१८.१२ ॥

चित्कलापदम् आसाद्य सुषुप्तान्तपदे स्थितम् ।
बुद्धो निवर्तते जीवो मूढः सर्गे प्रवर्तते ॥ (मो_४,१८.१३ ॥

चित्कलापदम् तुर्याख्यम् पदम् । बुद्धः चित्कलाविमर्शनसमर्थः । निवर्तते पुनः विषयेष्व् आसक्तिं न भजते । प्रवर्तते विषयासक्तिम् भजते ॥ (मोटी_४,१८.१३ ॥

स्वभावशुद्धिर् हि यदा तदा मैत्री प्रवर्तते ।
द्वयोर् एकत्वरूपैव सुसौहार्दनिदर्शना ॥ (मो_४,१८.१४ ॥

मैत्री कथम्भूता एव । द्वयोः एकत्वरूपा एव । द्वयोर् एकत्वम् एव हि मैत्रीशब्दार्थः । पुनः कथम्भूता । सुसौहार्दनिदर्शना । सुसौहार्दम् प्रशस्तमित्रभावः । निदर्शनम् दृष्टान्तः यस्याः । सा । सुसौहार्दे हि द्वयोर् एकत्वम् एव भवति ॥ (मोटी_४,१८.१४ ॥

ज्ञः सुषुप्तात् सम्बुद्धो जीवः कश्चित् स्वसर्गभाक् ।
सर्वगत्वाच् चितः कश्चित् परसर्गेण नीयते ॥ (मो_४,१८.१५ ॥

स्वसर्गभाक् सुषुप्तावस्थायाः पूर्वं यादृक्स्वभाव आसीत् । तादृक्स्वभाव एवेत्य् अर्थः । परसर्गेण नयनम् स्वभावपरिवृत्तिः ज्ञेया । शुक्रादिसर्गदृष्टान्तेन वा परसर्गनयनं योज्यम् ॥ (मोटी_४,१८.१५ ॥

ननु तस्मिन् सर्गेऽन्यः सर्गः कुत्रास्ति येनासौ नीयत इत्य् । अत्राह

सर्गे सर्गे पृथग्रूपं सन्ति सर्गान्तराण्य् अपि ।
तेष्व् अप्य् अन्तःस्थसर्गौघाः कदलीदलपीठवत् ॥ (मो_४,१८.१६ ॥

यथा कदलीदलेष्व् अन्तर् अन्यानि दलानि सन्ति तेष्व् अन्तर् अप्य् अन्यानि तथा सर्गेष्व् अपि सर्गान्तराणि सन्ति । तेष्व् अन्तर् अप्य् अन्यानि सन्तीति पिण्डार्थः ॥ (मोटी_४,१८.१६ ॥

सर्गे सर्गान्तरापूरपत्त्रपीवरवृत्तिमान् ।
स्वभावशीतलो ब्रह्मकदलीदलमण्डपः ॥ (मो_४,१८.१७ ॥

सर्गे एकस्मिन् सर्गे । यः सर्गान्तरापूरः अन्यसर्गसमूहः । स एव पत्त्राणि । तैः पीवरा बृंहणरूपा । वृत्तिः स्थितिः यस्य । सः । तादृशः ॥ (मोटी_४,१८.१७ ॥

कदल्याम् अन्यता नास्ति यथा पत्त्रशतेष्व् अपि ।
ब्रह्मतत्त्वेऽन्यता नास्ति तथा सर्गशतेष्व् अपि ॥ (मो_४,१८.१८ ॥

स्पष्टम् ॥ (मोटी_४,१८.१८ ॥

बीजात् फलं रसाद् भूत्वा यथा बीजम् पुनर् भवेत् ।
तथा ब्रह्म मनो भूत्वा बोधाद् ब्रह्म पुनर् भवेत् ॥ (मो_४,१८.१९ ॥

यथा फलम् बीजात् उपादानभूतात् बीजात् । भूत्वा प्रादुर्भूय । रसात् हेतोः । पुनः बीजम् भवेत् । तथा ब्रह्म मनो भूत्वा बोधात् । पुनः ब्रह्म भवेत् ॥ (मोटी_४,१८.१९ ॥

रसकारणकम् बीजम् फलभावेन जृम्भते ।
ब्रह्मकारणको जीवो जगद्रूपेण जृम्भते ॥ (मो_४,१८.२० ॥

स्पष्टम् ॥ (मोटी_४,१८.२० ॥

रसस्य कारणं किं स्याद् इति वक्तुं न युज्यते ।
स्वभावो निर्विशेषत्वात् परं वक्तुं न युज्यते ॥ (मो_४,१८.२१ ॥

कथं न युज्यत इत्य् । अत्राह स्वभाव इति । स्वभावः परम् केवलम् । निर्विशेषत्वात् । वक्तुम् अभियोगविषयतां नेतुम् । न युज्यते । स्वभावस्याभियोगे क्रियमाणे अविशेषात् सर्वेषु स्वभावेष्व् अभियोगः प्राप्नोतीति निर्विशेषत्वाद् इति पदस्याभिप्रायः ॥ (मोटी_४,१८.२१ ॥

न चासत्ता सर्वमये वक्तुं क्वचन शक्यते ।
नाकारणे कारणादि परे वास्त्य् आदिकारणे ॥ (मो_४,१८.२२ ॥

असतः सर्वमयत्वायोगात् इति भावः । नाकारण इति । अकारणे न विद्यते कारणं यस्य । तादृशे । आदिकारणे परे उत्कृष्टे चिन्मात्रे । कारणादि न अस्ति । आदिकारणत्वापायाद् इति भावः ॥ (मोटी_४,१८.२२ ॥

बीजं जहन् निजवपुः फलीभूतं विलोक्यते ।
ब्रह्माजहन् निजवपुः फलम् बीजं च संस्थितम् ॥ (मो_४,१८.२३ ॥

ब्रह्मणः बीजत्वावस्थाने निजवपुषः अहानम् एव हेतुः ॥ (मोटी_४,१८.२३ ॥

बीजस्याकृतिमत् सर्वं तेनानाकृति तत्पदम् ।
न युज्यते समीकर्तुं तस्मान् नास्त्य् उपमा शिवे ॥ (मो_४,१८.२४ ॥

सर्वम् समस्तम् स्वरूपम् । बीजस्याकृतिमत् भवति । तेन ततो हेतोः । शिवे शुद्धचिन्मात्रतत्त्वे । उपमा नास्ति ॥ (मोटी_४,१८.२४ ॥

खम् एव जायते खाभान् न च तज् जायतेऽन्यदृक् ।
तो न जातं वा जातं विद्धि ब्रह्मनभो जगत् ॥ (मो_४,१८.२५ ॥

खाभात् अत्यन्तनैर्मल्येनाकाशतुल्यात् ब्रह्मणः । खम् एव जायते । ननु कथम् एतद् इत्य् आह । न चेति । चशब्दो हेतौ । यतः तत् जगन्नाम खम् । अन्यदृक् ब्रह्मेतरदृग्रूपम् । न जायते नोत्पद्यते । फलितं कथयति अत इति । अतः परमार्थतो । न जातम् । आभासतः जातं वा । जगत् ब्रह्मनभः ब्रह्माकाशम् । विद्धि ॥ (मोटी_४,१८.२५ ॥

दृश्यम् पश्यन् स्वम् आत्मानं न द्रष्टा सम्प्रपश्यति ।
प्रपञ्चाक्रान्तसंवित्तेः कस्योदेति निजा स्थितिः ॥ (मो_४,१८.२६ ॥

द्रष्टा दृश्यम् दृशिक्रियाविषयीभूतम् भावजातम् । पश्यन् । स्वम् आत्मानम् द्रष्टृरूपम् निजम् आत्मानम् । न पश्यति नानुभवति । प्रपञ्चेनाक्रान्ता स्वोन्मुखतां नीता । संवित्तिः यस्य । तादृशस्य । कस्य पुरुषस्य । निजा स्थितिः स्वं स्वरूपम् । उदेति स्फुरति । न कस्यापीत्य् अर्थः ॥ (मोटी_४,१८.२६ ॥

मृगतृष्णाजलभ्रान्तौ सत्यां केव विदग्धता ।
विदग्धतायां सत्यां तु केवासौ मृगतृष्णिका ॥ (मो_४,१८.२७ ॥

अतो विदग्धता एव सत्सङ्गमादिना पोषणीयेति भावः ॥ (मोटी_४,१८.२७ ॥

आकाशविशदो द्रष्टा सर्वगोऽपि न पश्यति ।
नेत्रं निजम् इवात्मानं दृशीभूतम् अहो भ्रमः ॥ (मो_४,१८.२८ ॥

आकाशवद् विशदः शुद्धचिन्मात्ररूपत्वेनात्यन्तनिर्मलः । द्रष्टा । दृशीभूतम् दृश्यभावं गतम् । आत्मानम् द्रष्टाख्यम् आत्मानम् । न पश्यति । किम् इव । नेत्रम् इव । यथा नेत्रं निजम् आत्मानं न पश्यति । तथेत्य् अर्थः । अहो भ्रमः भवति ॥ (मोटी_४,१८.२८ ॥

आकाशविशदम् ब्रह्म यत्नेनापि न लभ्यते ।
दृश्ये दृश्यतयादृष्टे त्व् अस्य लाभः सुदूरतः ॥ (मो_४,१८.२९ ॥

कुतो न लभ्यते इत्य् । अत्राह दृश्य इति । तेन दृश्ये दृश्यत्वादर्शनम् एव ब्रह्मलब्धिर् इति भावः ॥ (मोटी_४,१८.२९ ॥

त्वादृक्स्थूलोऽवधानेन विना यत्र न दृश्यते ।
तत्रातिदूरोदस्तैव द्रष्टुः सूक्ष्मस्य दृश्यता ॥ (मो_४,१८.३० ॥

यत्र यस्मिन् विषये । अवधानेन विना त्वादृक्स्थूलः न दृश्यते । तत्र तस्मिन् विषये । सूक्ष्मस्य द्रष्टुः दृश्यता अतिदूरोदस्ता एव भवति । त्वादृग् इति देहाभिप्रायेणोक्तिः ॥ (मोटी_४,१८.३० ॥

द्रष्टा द्रष्टैव भवति न तु स्पृशति दृश्यताम् ।
दृश्यं च दृश्यते तेन द्रष्टा राम न दृश्यते ॥ (मो_४,१८.३१ ॥

द्रष्टा दृशिक्रियाकर्ता । द्रष्टा एव भवति । असौ द्रष्टा दृश्यताम् दृश्यभावम् । न स्पृशति । हे राम । तेन द्रष्ट्रा । दृश्यं दृश्यते येन । दृश्यस्य दृश्यत्वम् अस्तीति भावः । तेन द्रष्ट्रा । द्रष्टा द्रष्टृरूपः स्वात्मा । न दृश्यते । अतिसूक्ष्मत्वाद् इति भावः ॥ (मोटी_४,१८.३१ ॥

द्रष्टैव सम्भवत्य् एको न तु दृश्यम् इहास्ति हि ।
द्रष्टा सर्वात्मको दृश्यं स्थितश् चेत् केव दृश्यता ॥ (मो_४,१८.३२ ॥

सम्भवतीति । तस्यैव विचारसहत्वाद् इति भावः । सर्वात्मकः द्रष्टा दृश्यं स्थितः दृश्यतया स्थितः । चेत् भवति । तदा दृश्यता का इव भवति । अवश्यं च स्वप्नन्यायेन द्रष्टुः दृश्यतयावस्थानम् अङ्गीकर्तव्यम् ॥ (मोटी_४,१८.३२ ॥

ननु कथं द्रष्टा दृश्यत्वेन तिष्ठतीत्य् आशङ्क्य दृष्टान्तं कथयति

सर्वशक्तिमता राज्ञा यत् यत् सम्पाद्यते यथा ।
तत् तत् तथा भवत्य् आशु स एवोदेति तत्तया ॥ (मो_४,१८.३३ ॥

यथा सर्वशक्तिमता सम्राट्त्वेन सर्वशक्तियुक्तेन । राज्ञा । यत् यत् वस्तु । यथा सम्पाद्यते सम्पादनक्रियाविषयतां नीयते । तत् तत् वस्तु । आशु तथा भवति सम्पद्यते । विचारे क्रियमाणे स एव राजा एव । तत्तया तत्तद्वस्तुरूपेण । उदेति स्फुरति । अयम् भावः । यथा सर्वशक्तिमान् राजा स्वाव्यतिरिक्तज्ञानद्वारेण ज्ञानविवर्तभूतसम्पद्यमानवस्तुतया स्फुरति । तथा द्रष्टा स्वाव्यतिरिक्तदृशिक्रियाद्वारेण दृशिक्रियाविवर्तभूतदृश्यमानपदार्थतया स्फुरतीति ॥ (मोटी_४,१८.३३ ॥

यथा मधुरसोल्लासः षण्डो भवति भासुरः ।
रसताम् अजहच् चैव फलपुष्पदलोन्नतः ॥ (मो_४,१८.३४ ॥
चिदुल्लासस् तथा जीवो भूत्वा भवति देहकः ।
चिन्मात्रतां ताम् अजहद् एव दर्शनदृङ्मयः ॥ (मो_४,१८.३५ ॥

दर्शनदृङ्मयः कर्मसाधनोऽयं दर्शनशब्दः । तेन दृश्यदृङ्मयः इत्य् अर्थः । युग्मम् ॥ (मोटी_४,१८.३४-३५ ॥

नानाषण्डसहस्रौघैर् अद्वितीयैर् निजात्मनः ।
यथोदेति रसो भौमश् चित् तथोदेत्य् अहम्भ्रमैः ॥ (मो_४,१८.३६ ॥

भौमः भूमिसम्बन्धी ॥ (मोटी_४,१८.३६ ॥

चिद्रसोल्लासवृक्षाणां कचताम् आत्मनात्मनि ।
दृश्यशाखाशताढ्यानाम् इह नान्तोऽवगम्यते ॥ (मो_४,१८.३७ ॥

चिद् एव रसः । तस्य यः उल्लासः । तस्य वृक्षाणाम् जगताम् इति यावत् ॥ (मोटी_४,१८.३७ ॥

षण्डः प्रत्येकम् एवान्तर् यथा रसचमत्कृतिम् ।
स्वादयत्य् एवम् एषा चित् पृथक् पश्यति संसृतीः ॥ (मो_४,१८.३८ ॥

रसेन कृताम् उच्छूनतारूपां चमत्कृतिम् रसचमत्कृतिम् ॥ (मोटी_४,१८.३८ ॥

या योदेति यथा यस्या जीवशक्तेः स्वसंसृतिः ।
ताम् तां तथैति सा स्वान्तश् चिद् भूतभुवनस्थितिम् ॥ (मो_४,१८.३९ ॥

उदेति स्फुरति । चित् चित्स्वरूपा । सा जीवशक्तिः । स्वान्तः स्वमध्ये । तां ताम् भूतभुवनस्थितिम् । भूतानां तदाधारभूतानाम् । भुवनानां च संस्थितिम् संस्थाम् । एति प्राप्नोति ॥ (मोटी_४,१८.३९ ॥

जीवसंसृतयः काश्चित् प्रमिलन्ति परस्परम् ।
स्वयं विहृत्य संसारे शाम्यन्ति चिरकालतः ॥ (मो_४,१८.४० ॥

काश्चित् शुद्धमतियुक्ताः । चिरकालतः देहपातानन्तरम् ॥ (मोटी_४,१८.४० ॥

सूक्ष्मया परया दृष्ट्या स्वम् पश्यस्य् अनया तथा ।
जगज्जालसहस्राणि परमाण्वन्तरेष्व् अपि ॥ (मो_४,१८.४१ ॥

त्वम् । स्वम् चिन्मात्राख्यं स्वात्मानम् । अनया अस्मिन् प्रकरणे प्रोक्तया । परया उत्कृष्टया । सूक्ष्मया सूक्ष्मवस्तुविषयत्वेन सूक्ष्मरूपया । दृष्ट्या सम्यग्ज्ञानेन । पश्यसि अनुभवसि । तथाशब्दः समुच्चये । तथा परमाण्वन्तरेष्व् अपि जगज्जालसहस्राणि पश्यसि । अपिशब्दः परमाण्वन्तरेषु जगज्जालसहस्रदर्शनासम्भवद्योतकः ॥ (मोटी_४,१८.४१ ॥

भित्तौ नभसि पाषाणे ज्वालायाम् अनिले जले ।
सन्ति संसारलक्ष्याणि तिले तैलम् इवाखिले ॥ (मो_४,१८.४२ ॥

जगद्बीजभूतचिन्मात्रसारत्वेनेति भावः ॥ (मोटी_४,१८.४२ ॥

शुद्धम् एति यदा चेतस् तदा जीवो भवेच् चितिः ।
शुद्धा च सा सर्वगता तेन सम्मेलनम् मिथः ॥ (मो_४,१८.४३ ॥

सा चित् । तेन श् (मोटी_४,१८.उद्धत्वेन ॥

४३॥

सर्वेषाम् पद्मजादीनां स्वसत्ताभ्रमपूरकः ।
जगद्दीर्घमहास्वप्नः स्वयम् अन्तः समुत्थितः ॥ (मो_४,१८.४४ ॥

स्वसत्ताभ्रमपूरकः स्वसत्ताभ्रमकारीत्य् अर्थः ॥ (मोटी_४,१८.४४ ॥

स्वप्नात् स्वप्नान्तरं यान्ति काश्चिद् भूतपरम्पराः ।
तेनोपलम्भः कुड्यादाव् आसां दृढतरः स्थितः ॥ (मो_४,१८.४५ ॥

काश्चिद् भूतपरम्पराः भूतपङ्क्तयः । स्वप्नात् एकस्मात् संसृतिरूपात् स्वप्नात् । स्वप्नान्तरम् अन्यसंसृतिरूपं स्वप्नम् । यान्ति । तेन ततः हेतोः । आसाम् स्वप्नात् स्वप्नान्तरं गतानाम् भूतपङ्क्तीनाम् । कुड्यादौ दृढतरः उपलम्भः स्थितः अस्ति । इदं कुड्यम् इत्यादिरूपं ज्ञानम् अस्ति ॥ (मोटी_४,१८.४५ ॥

यद् यत्र चिद् भावयति तत् तत्राशु भवत्य् अलम् ।
तया स्वप्नेऽपि यद् दृष्टं तत्काले सत्यम् एव तत् ॥ (मो_४,१८.४६ ॥

तया चिता ॥ (मोटी_४,१८.४६ ॥

चिदणोर् अन्तरे सन्ति समस्तानुभवाणवः ।
यथा बीजान्तरे पत्त्रलतापुष्पफलाणवः ॥ (मो_४,१८.४७ ॥

समस्ताः समस्तघटपटाद्याकाराः । अनुभवाणवः अनुभवलेशाः ॥ (मोटी_४,१८.४७ ॥

परमाणुं जगद् अन्तर् धत्ते चित्परमाणुकः ।
लीनम् आकाशम् आकाशे द्वैतैक्यभ्रमम् उत्सृज ॥ (मो_४,१८.४८ ॥

चित्परमाणुकः चिद्रूपः परमाणुः । जगत् परमाणुम् जगद्रूपम् परमाणुम् । अन्तः स्वात्मभित्तौ । धत्ते धारयति । फलितम् आह लीनम् इति । अतः आकाशम् जगदाख्यम् आकाशम् । आकाशे चिदाख्य आकाशे । लीनम् भवति । एतस्य फलं कथयति द्वैतैक्यम् इति । अतः त्वम् द्वैतैक्यभ्रमम् उत्सृज त्यज । एकतयापि वक्तुम् अशक्यस्य केवलस्य चिन्मात्रस्य स्थितत्वात् ॥ (मोटी_४,१८.४८ ॥

देशकालक्रियाद्याख्यैः स्वैर् एवाणुभिर् एव चित् ।
णून् अनुभवत्य् अन्तर् इतराणोर् असम्भवात् ॥ (मो_४,१८.४९ ॥

स्वैर् एव स्वरूपभूतैर् एव । अणून् नानाभूतरूपान् अणून् । अन्तः स्वस्मिन् । इतराणोः देशादिरूपस्य चिद्व्यतिरिक्तस्याणोः ॥ (मोटी_४,१८.४९ ॥

स्वयं सर्वस्य कचितः स्वच्छश् चिदणुषण्डकः ।
ब्रह्मादेः कीटनिष्ठस्य देहदृष्ट्यानुभावितः ॥ (मो_४,१८.५० ॥

देहदृष्ट्या अनुभावितः अनुभवविषयतां नीतः । कीटनिष्ठस्य कीटावसानस्य । अनुभावित इत्य् अत्र स्वार्थे णिच् आर्षः ॥ (मोटी_४,१८.५० ॥

कचितं किञ्चिद् एवेह वस्तुतस् तु न किञ्चन ।
स्वयं स्वत्वं स्वादयन्ते द्वैतं चित्परमाणवः ॥ (मो_४,१८.५१ ॥

पुनः किम् एतत् स्फुरतीत्य् । अत्राह स्वयम् इति । चित्परमाणवः चिल्लेशाः । द्वैतम् घटपटादिरूपद्वैतस्वरूपम् । स्वत्वम् स्वभावम् । स्वादयन्ते चमत्कारविषयतां नयन्ति ॥ (मोटी_४,१८.५१ ॥

स्वयम् प्रकचति स्फारदेहश् चिदणुषण्डकः ।
नेत्रादिकुसुमद्वारैः संविदामोदम् उद्गिरन् ॥ (मो_४,१८.५२ ॥

स्फारदेहः स्फारस्वरूपः । संविदामोदम् घटपटादिज्ञानरूपम् आमोदम् ॥ (मोटी_४,१८.५२ ॥

सम्पश्यतीतरान् कश्चिद् बहीरूपेण चिद्घनान् ।
सर्वगत्वाद् अनाशत्वाद् दृश्यबीजस्य वै चितेः ॥ (मो_४,१८.५३ ॥

कश्चित् पुरुषः । जाग्रदवस्थाविष्ट इति यावत् । चितेः दृश्यबीजस्य चिदाख्यस्य दृश्यबीजस्य । सर्वगत्वात् तथा अनाशत्वात् । चिद्घनान् चित्स्वरूपत्वेन चिद्भरितान् । इतरान् स्वतो भिन्नत्वेन भातान् पदार्थान् । बहीरूपेण पश्यति बाह्या एते इति अनुभवति ॥ (मोटी_४,१८.५३ ॥

न्तर् एवाखिलं कश्चित् पश्यत्य् अविकलं जगत् ।
तत्रातिकालं कलनाद् उन्मज्जति निमज्जति ॥ (मो_४,१८.५४ ॥

कश्चित् स्वप्नावस्थाविष्ट इति यावत् । अन्तर् एव स्वस्मिन्न् एव । न तु बाह्ये ॥ (मोटी_४,१८.५४ ॥

स्वप्नात् स्वप्नान्तरं तत्र तथा पश्यन् पुनः पुनः ।
मिथ्यावटेषु लुठितः शिलेव शिखरच्युता ॥ (मो_४,१८.५५ ॥

कश्चित् किं कुर्वन् । स्वप्नात् स्वप्नान्तरम् पुनः पुनः पश्यन् इति पूर्वेणैव सम्बन्धः । कश्चित् कथम्भूतः । मिथ्या व्यर्थम् । अवटेषु भावाभावाख्येष्व् अवटेषु । लुठितः । का इव । शिखरच्युता शिला इव ॥ (मोटी_४,१८.५५ ॥

केचित् सम्मीलिताः केचिद् आत्मन्य् एव भ्रमे स्थिताः ।
मग्नाः स्वसंविद्रसतः स्फुरन्तो देहिषण्डकाः ॥ (मो_४,१८.५६ ॥

केचित् सुषुप्त्यवस्थाविष्टाः । सम्मीलिताः निद्राग्रस्ताः । आत्मनि अज्ञानवलिते स्वात्मनि । देहिषण्डकाः जीवसमूहाः ॥ (मोटी_४,१८.५६ ॥

तुर्यावस्थाविष्टान् कथयति

स्वयम् अन्तः प्रपश्यन्ति ये जगज्जीवसम्भ्रमम् ।
तैः कैश्चित् तत् तथा दृश्यम् असत्स्वप्नवद् आश्रितम् ॥ (मो_४,१८.५७ ॥

ये जीवन्मुक्ताः जीवाः । जगज्जीवसम्भ्रमम् जगदाख्यं जीवसम्भ्रमम् । अन्तः मनसि । पश्यन्ति । न तु बहिः । तैः कैश्चित् तत् दृश्यं तथा आश्रितम् अन्तस्त्वेनैवाश्रितम् । कथम् । असत्स्वप्नवत् । तुर्यावस्थाविष्टा जीवन्मुक्ता हि बाह्यम् अपि जगत् स्वप्नवद् अन्तःस्थम् एवानुभवन्ति भ्रमस्वरूपत्वदर्शनात् ॥ (मोटी_४,१८.५७ ॥

सर्वात्मत्वात् स्वभावस्य तद् दृश्यं सत्यम् आत्मनि ।
सर्वगो विद्यते यत्र तत्र सर्वम् उदेति हि ॥ (मो_४,१८.५८ ॥

तत् दृश्यम् आत्मनि स्वस्मिन् स्वरूपे । सत्यम् भवति । कुतः । स्वभावस्य चिन्मात्राख्यस्य स्वभावस्य । सर्वात्मत्वात् सर्वरूपेण वर्तमानत्वात् । अयम् भावः । दृश्यं द्रष्ट्रपेक्षया सिद्धेन दृश्यत्वेनासत्यम् अपि सत् । सर्वरूपत्वावस्थितचिन्मात्रापरपर्यायस्वभावसारत्वेन स्वस्वरूपे सत्यम् एवेति । ननु कथम् एतद् इत्य् । अत्राह सर्वग इति । हि यस्मात् । सर्वगः सर्वव्यापकं स्वभावापरपर्यायम् चिन्मात्रत्वम् । यत्र विद्यते । तत्र सर्वम् दृश्यम् । उदेति प्रादुर्भवति । अतः स्वभावभूतचिन्मात्रवत् तत्सत्ताविनाभावि दृश्यम् अपि सत्यम् एवेति भावः ॥ (मोटी_४,१८.५८ ॥

जीवान्तः प्रतिभासस्य सर्गस्य पुनर् अन्तरे ।
जीवषण्ड उदेत्य् उच्चैस् तस्यान्तर् इतरोऽपि च ॥ (मो_४,१८.५९ ॥

स्पष्टम् ॥ (मोटी_४,१८.५९ ॥

जीवान्तर् जायते जीवस् तस्यान्तर् अपि जीवकः ।
सर्वत्र रम्भादलवज् जीवबीजम् प्रजीवति ॥ (मो_४,१८.६० ॥

प्रजीवति प्रकृष्टायाः जीवनक्रियायाः कर्तृत्वम् भजति ॥ (मोटी_४,१८.६० ॥

दृश्यबुद्धिपरावृद्धि समम् एतद् अनन्तकम् ।
हेम्नीव कटकादित्वम् परिज्ञप्त्यैव नश्यति ॥ (मो_४,१८.६१ ॥

अनन्तकम् अन्तरहितत्वेन भासमानम् । एतत् दृश्यम् । परिज्ञप्त्यैव चिन्मात्रम् एवेदम् इति ज्ञानेनैव । न त्व् अन्येन केनापि हेतुना । समम् युगपत् । न तु क्रमेण । नश्यति अदर्शनं याति । चिन्मात्ररूपत्वेनानुभूयमानत्वसिद्धेर् इत्य् अर्थः । एतत् कथम्भूतम् । दृश्यबुद्ध्या दृश्यम् इदम् इति बुद्ध्या । परा उत्कृष्टा । आ समन्तात् । वृद्धिः यस्य । तत् । एतत् किम् इव । कटकादित्वम् इव । यथा हेम्नि स्थितं कटकादित्वम् परिज्ञप्त्या हेमैवेदम् इति ज्ञानेन नश्यति । तथेत्य् अर्थः ॥ (मोटी_४,१८.६१ ॥

विचारो यस्य नोदेति कोऽहं किम् इदम् इत्य् अलम् ।
तस्याद्यन्ताविमुक्तोऽसौ दीर्घो जीवज्वरभ्रमः ॥ (मो_४,१८.६२ ॥

आद्यन्ताविमुक्तः अविच्छिन्नप्रवाहः । जीवोऽहम् इति ज्वररूपः भ्रमः जीवज्वरभ्रमः ॥ (मोटी_४,१८.६२ ॥

विचारः फलितस् तस्य विज्ञेयो यस्य सन्मतेः ।
दिनानुदिनम् आयाति तानवम् भोगगृध्नुता ॥ (मो_४,१८.६३ ॥

विज्ञेय इत्य् । अत्र पण्डितैर् इति शेषः । भोगगृध्नुता भोगाकाङ्क्षा ॥ (मोटी_४,१८.६३ ॥

यथा देहोपयुक्तं हि करोत्य् आरोग्यम् औषधम् ।
तथेन्द्रियजये न्यस्तो विवेकः फलितो भवेत् ॥ (मो_४,१८.६४ ॥

देहोपयुक्तम् देहे प्रयुक्तम् । फलितः मोक्षाख्यव्यवहिते फलयुक्तः । इन्द्रियजयस्यैव मोक्षम् प्रति साक्षाद् उपायत्वाद् इति भावः ॥ (मोटी_४,१८.६४ ॥

विवेकोऽस्ति वचस्य् एव चित्रेऽग्निर् इव भास्वरः ।
यस्य तेन परित्यक्ता दुःखायैव विवेकिता ॥ (मो_४,१८.६५ ॥

यस्येत्य् अस्य पूर्वार्धेन सम्बन्धः । परित्यक्तेति चित्ताभिप्रायेणोक्तम् ॥ (मोटी_४,१८.६५ ॥

यथा स्पर्शेन पवनः सत्ताम् आयाति नो गिरा ।
तथेच्छातानवेनैव विवेकोऽस्येति बुध्यते ॥ (मो_४,१८.६६ ॥

स्पष्टम् ॥ (मोटी_४,१८.६६ ॥

चित्रामृतं नामृतम् एव विद्धि
चित्रानलं नानलम् एव विद्धि ।
चित्रेऽङ्गना नूनम् अनङ्गनैव
वाचा विवेकस् त्व् अविवेक एव ॥ (मो_४,१८.६७ ॥

यथा चित्रस्थस्यामृतादेः तृप्त्याद्यर्थक्रियाकारित्वाभावात् अनमृतादिरूपत्वम् एव । तथा केवलं वाचैव कथ्यमानस्य । अत एव इन्द्रियजयासाधकस्य विवेकस्य मोक्षाख्यार्थक्रियाकारित्वाभावाद् अविवेकत्वम् एवेति भावः ॥ (मोटी_४,१८.६७ ॥

पुनः कीदृक् पुरुषो विवेकी अस्त्य् । अत्र सर्गान्तश्लोकेनाह

पूर्वं विवेकेन तनुत्वम् एति
रागोऽथ वैरं च समूलम् एव ।
पश्चात् परिक्षीयत एव यत्र
स पावनस् तत्र विवेकितास्ति ॥ (मो_४,१८.६८ ॥

यत्र यस्मिन् पुरुषे । रागः अथ वैरं च द्वेषः । विवेकेन विचारेण । पूर्वम् प्रथमम् । तनुत्वम् तानवम् । एति गच्छति । पश्चात् तनुत्वानन्तरम् । क्षीयते एव नश्यत्य् एव । सः पुरुषः । पावनः अस्ति । तत्र तस्मिन् पुरुषे । विवेकिता विचारयुक्तत्वम् । अस्ति । न तु वाक्यमात्रेण सदसन्निर्णायके इत्य् अर्थः । इति शिवम् ॥ (मोटी_४,१८.६८ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्सोपायटीकायां स्थितिप्रकरणेऽष्टादशः सर्गः ॥१८॥




अतिदुर्बोधत्वेन पुनर् अपि पूर्वोक्तम् एवार्थं कथयति

जीवबीजम् परम् ब्रह्म सर्वत्र खम् इव स्थितम् ।
तेन जीवोदरजगत्य् अपि जीवोऽस्त्य् अनेकधा ॥ (मो_४,१९.१ ॥

जीवानाम् बीजम् प्रादुर्भवस्थानम् । परम् ब्रह्म खम् इवाकाशवत् । सर्वत्र दृश्यतयाभिमते समस्ते जगज्जाले । स्थितम् स्वरूपसारतया स्थितम् भवति । तेन ततो हेतोः । जीवस्य यत् उदरम् मध्यप्रदेशः । तत्रस्थितं यत् जगत् स्वप्नादिरूपं जगत् । तस्मिन् अपि अनेकधा नानाविधस्थावरजङ्गमात्मकप्रकारेण नानाप्रकारो । जीवोऽस्ति ॥ (मोटी_४,१९.१ ॥

ततः किम् इत्य् अपेक्षायाम् आह

चिद्घनैकघनात्मत्वाज् जीवान्तर् जीवजातयः ।
कदलीदलवत् सन्ति कीटा इव नरोदरे ॥ (मो_४,१९.२ ॥

अतः चिद्घनेन एकम् केवलम् । घनः आत्मा यस्य । सः । तस्य भावः चिद्घनैकात्मत्वम् । तस्मात् हेतोः । जीवान्तः जीवानाम् मध्ये । जीवजातयः कदलीदलवत् सन्ति । कदलीदलेषु ह्य् अन्तर् अन्यानि दलानि सन्ति । जीवजातयः के इव । कीटा इव । यथा नरोदरे कीटाः सन्ति । तथेत्य् अर्थः ॥ (मोटी_४,१९.२ ॥

ननु जीवः कुत उत्पद्यते इत्य् । अत्राह

यो यो राम यथा ग्रीष्मे कल्कस्वेदाद् भवेत् क्रिमिः ।
तत्तन्नाम तथा चित्त्वात् खं जीवीभवति स्वतः ॥ (मो_४,१९.३ ॥

हे राम । ग्रीष्मे ग्रीष्मकाले । कल्कस्वेदात् । कल्को मलम् । स च स्वेदश् च । तत् कल्कस्वेदम् । तस्मात् । यः यः क्रिमिः यथा येन रूपेण । भवेत् जायते । खम् आकाशम् । चित्त्वात् तथा तेन रूपेण । स्वतः जीवीभवति । खम् कथम्भूतम् । तत्तन्नाम तस्य तस्य क्रिमेर् नाम यस्य । तत् । अयम् भावः । ग्रीष्मे तावत् नानाविधाः क्रिमयः कल्कस्वेदात् जायन्ते । तेषां शरीरं तावत् कल्कस्वेदमयम् भवतु । तच्चालकस् तु जीवः जीवत्वान्यथानुपपत्त्या चित्त्वयुक्तम् आकाशम् एव । कल्कस्वेदस्य शरीरमात्रसम्पादने परिसमाप्तत्वात् तदन्यस्यासन्निधानाच् च । अतस् सर्वे जीवाः आकाशारूपा एवेति ॥ (मोटी_४,१९.३ ॥

यथा यथा यतन्ते ते जीवकाः स्वात्मसिद्धये ।
तथा तथा भवन्त्य् आशु विचित्रोपासनक्रमैः ॥ (मो_४,१९.४ ॥

ते आकाशमयाः । जीवकाः । स्वात्मसिद्धये यथा यथा यतन्ते विचित्रोपासनाक्रमैः यतनरूपैः नानाविधैर् उपासनाक्रमैः । तथा तथा भवन्ति ॥ (मोटी_४,१९.४ ॥

सामान्येनोक्त्वा विशेषेण कथयति

देवान् देवयजो यक्षयजो यक्षान् व्रजन्ति हि ।
ब्रह्म ब्रह्मयजो यान्ति यद् अतुच्छं तद् आश्रयेत् ॥ (मो_४,१९.५ ॥

फलितम् आह यद् इति । अत इत्य् अध्याहारः । अतः पुरुषः यत् अतुच्छम् भवति । तत् आश्रयेत् ॥ (मोटी_४,१९.५ ॥

ननु तर्हि शुक्रः कथं स्वयतनं विना नानारूपतां गत इत्य् । अत्राह

स शुक्रो भृगुपुत्रो हि निर्मलत्वात् स्वसंविदः ।
बद्धः प्रथमदृष्टेन दृश्येनाशु स्वभावतः ॥ (मो_४,१९.६ ॥

सः पूर्वप्रकरणोक्तः । भृगुपुत्रः शुक्रः । हि निश्चये । इदम्प्रथमतावरोहेण स्वसंविदः निर्मलत्वात् प्रथमदृष्टेन दृश्येन स्वभावतः प्रयतनं विनाशु बद्धः स्वोन्मुखः कृतः । अतो न विरोध इति भावः ॥ (मोटी_४,१९.६ ॥

भिजातापरिम्लाना बाला यत् प्रथमम् पुरः ।
संवित् प्राप्नोति तद्रूपा भवत्य् अन्या न काचन ॥ (मो_४,१९.७ ॥

अभिजाता शुद्धा । अत एवापरिम्लाना तावत् कालुष्यम् अगता । बाला ब्रह्मणः सद्यः उत्थिता । संवित् । प्रथमम् आदौ । यत् पुरः पश्यति । तद्रूपा भवति । अन्या ब्रह्मणः पूर्वतरम् उत्थिता । काचन संवित् । न भवति यत्नं विना न भवति । यत्नेन तु भवत्य् एव । अन्यथा मोक्षाभावप्रसङ्गात् ॥ (मोटी_४,१९.७ ॥

पूर्वं स्फुरितम् प्रश्नं श्रीरामः अस्मिन् समये पृच्छति

जाग्रत्स्वप्नदशाभेदम् भगवन् वक्तुम् अर्हसि ।
कथं च जाग्रज् जाग्रत् स्यात् स्वप्नोऽजाग्रत् कथम् भवेत् ॥ (मो_४,१९.८ ॥

किं कथयामीत्य् अपेक्षायाम् आह कथम् इति । जाग्रत् जाग्रत् कथं स्यात् । स्वप्नः अजाग्रत् स्वप्नः । कथम् भवेत् । एतद् एव कथय मे इति भावः ॥ (मोटी_४,१९.८ ॥

श्रीवसिष्ठ उत्तरं कथयति

स्थिरप्रत्यययुक्तं यत् तज् जाग्रद् इति कथ्यते ।
स्थिरप्रत्ययं यत् स्यात् स स्वप्नः समुदाहृतः ॥ (मो_४,१९.९ ॥

स्थिरप्रत्ययेन स एवायम् इत्य् एवंरूपप्रत्यभिज्ञायां क्षमेण स्थिरज्ञानेन । युक्तं यत् भवति । पण्डितैः तज् जाग्रद् इति कथ्यते । यत् अस्थिरप्रत्ययम् प्रत्यभिज्ञाक्षमास्थिरज्ञानयुक्तम् । स्यात् । पण्डितैः सः स्वप्नः समुदाहृतः कथितः ॥ (मोटी_४,१९.९ ॥

जाग्रत्स्वप्नयोः कदाचित्सम्भवयुक्तं स्वप्नजाग्रत्त्वं कथयति

जाग्रच् चेत् क्षणदृष्टः स्यात् स्वप्नः कालान्तरस्थितः ।
तज् जाग्रत् स्वप्नताम् एति स्वप्नो जाग्रत्त्वम् ऋच्छति ॥ (मो_४,१९.१० ॥

जाग्रल् लक्षणया जाग्रज्ज्ञानविषयीभूतं वस्तु । चेत् यदि । क्षणदृष्टः क्षणम् एव दृष्टः । स्यात् । अर्थात् ततः नष्टः । तथा स्वप्नः स्वप्नज्ञानविषयीभूतं वस्तु । कालान्तरस्थितः स्वप्नकालाद् अन्यस्मिन् कालेऽपि स्थितः । चेत् स्यात् । कदाचिद् धि स्वप्नदृष्टम् अपि वस्तु प्रभाते प्रत्यक्षं दृश्यते । तत् तदा । जाग्रत् जाग्रद्वस्तुग्राहकं ज्ञानम् । स्वप्नताम् एति अस्थिरप्रत्ययत्वात् । स्वप्नः स्वप्नवस्तुग्राहकं ज्ञानम् । जाग्रत्त्वम् ऋच्छति स्थिरप्रत्ययत्वात् ॥ (मोटी_४,१९.१० ॥

ननु कथम् एतद् इत्य् । अत्राह

जाग्रत्स्वप्नदशाभेदो न स्थिरास्थिरतां विना ।
समः सदैव सर्वत्र समस्तानुभवोऽनयोः ॥ (मो_४,१९.११ ॥

यतः जाग्रत्स्वप्नदशाभेदः स्थिरतास्थिरतां विना न भवति । अतः क्षणिकजाग्रतः स्वप्नत्वं स्थिरस्वप्नस्य जाग्रत्त्वं युक्तम् एवेति भावः । अत्र समस्तानुभवम् प्रमाणत्वेन कथयति सम इति । अनयोः जाग्रत्स्वप्नयोः । समस्तेषु स्थितः अनुभवः समस्तानुभवः । सदा सर्वेषु कालेषु । सर्वत्र सर्वेषु देशेषु । समः एव भवति । स्थिरास्थिरतां विनेति अत्रापि सम्बन्धनीयम् ॥ (मोटी_४,१९.११ ॥

फलितम् आह

यद् एव स्थिरताम् एति तज् जाग्रद् इति कथ्यते ।
क्षणभङ्गात्मकः स्वप्नो यथा भवति तच् छृणु ॥ (मो_४,१९.१२ ॥

अतः यद् एव स्थिरताम् एति पण्डितैः तत् स्वप्नोऽपि सन् जाग्रद् इति कथ्यते । यः क्षणभङ्गात्मकः सः जाग्रद् अपि सन् स्वप्नः भवति । यथैतद् भवति त्वम् तत् शृणु । यथा जाग्रत्स्वप्नयोः स्थिरत्वास्थिरत्वम् अस्ति तथा शृण्व् इत्य् अर्थः ॥ (मोटी_४,१९.१२ ॥

तद् एव कथयति

जीवधातुः शरीरेऽन्तर् विद्यते येन जीव्यते ।
तेजो वीर्यं जीवधातुर् इत्याद्यभिधम् अङ्ग तत् ॥ (मो_४,१९.१३ ॥

जीवाख्यः धातुः जीवधातुः । शरीरेऽन्तः विद्यते । येन जीवधातुना । शरीरं जीव्यते प्राणधारणक्रियां कार्यते । जीव्यत इति णिचन्तः प्रयोगः । हे अङ्ग । तत् सः जीवधातुः । तेजो वीर्यं जीवधातुर् इत्याद्यभिधम् भवति । अत्र च धातुशब्दः मज्जादिवत् शरीरान्तश् चारित्वसादृश्यात् उपचारेण प्रयुक्तः ॥ (मोटी_४,१९.१३ ॥

व्यवहारी यदा कायो मनसा कर्मणा गिरा ।
भवेत् तदा स सम्पन्नो जीवधातुः प्रसर्पति ॥ (मो_४,१९.१४ ॥

यदा यस्मिन् काले । कायः । मनसा कर्मणा स्वाश्रितया क्रियया । गिरा च । व्यवहारी व्यवहारयुक्तो । भवेत् । तदा सः जीवधातुः सम्पन्नः सम्पूर्णः सन् । प्रसर्पति सर्वस्मिञ् शरीरे सञ्चारं करोतीत्य् अर्थः ॥ (मोटी_४,१९.१४ ॥

ततः किम् इत्य् । आह

तस्मिन् प्रसर्पत्य् अङ्गेषु स्पर्शात् संविद् उदेति हि ।
पुष्टत्वात् सैति चित्ताख्याम् अन्तर्लीनजगद्भ्रमा ॥ (मो_४,१९.१५ ॥

तस्मिन् संविन्मये जीवधातौ । प्रसर्पति सति । अङ्गेषु स्पर्शात् जीवधातुस्पर्शात् । हि निश्चये । संवित् जीवधातुस्पन्दभूता शीतोष्णादिसञ्चेतनरूपा संवित् । उदेति प्रादुर्भवति । सा संवित् । अन्तर्लीनजगद्भ्रमा सती । पुष्टत्वात् जीवधातुप्रसर्पणेन पुष्टत्वात् । चित्ताख्याम् एति । ननु अन्तर्लीनजगद्भ्रमत्वं संविदः कथम् इति चेत् । सत्यम् । संवित् तावत् जीवधातोः उत्पद्यते । जीवधातुश् च पितृजीवधातोः उत्थानसमये जगद्भ्रमयुक्त एव उत्तिष्ठति । पितृजीवधातोर् अन्तर्लीनजगद्भ्रमत्वात् । अतः संविदोऽप्य् अन्तर्लीनजगद्भ्रमत्वं सिद्धम् ॥ (मोटी_४,१९.१५ ॥

सेक्षणादिषु रन्ध्रेषु प्रसर्पन्ती बहिर्मयम् ।
नानाकारविकाराढ्यं रूपम् आत्मनि पश्यति ॥ (मो_४,१९.१६ ॥

सा संवित् । ईक्षणादिरन्ध्रेषु प्रसर्पन्ती सती । बहिर्मयम् बहिःस्वरूपम् । नानाकारविकारैः घटपटादिरूपैः आकारविकारैः । आढ्यं रूपम् । आत्मनि पश्यति विमृशति । अन्तर् इव सङ्कल्पसिद्धघटपटादिताम् । न चैतत् कथम् इति वाच्यम् । स्वप्ने दृष्टत्वात् । यथा स्वप्ने संविद् एव नानारूपैर् भाति । तथा बहिर् अपीति न विरोधः ॥ (मोटी_४,१९.१६ ॥

तत् स्थिरत्वात् तयैवाथ जाग्रद् इत्य् अवगम्यते ।
जाग्रत्क्रम इति प्रोक्तः सुषुप्तादिक्रमं शृणु ॥ (मो_४,१९.१७ ॥

तया एव संविदा एव । न त्व् अन्येन देहादिना जडेन । तत् नानाकारविकाराढ्यं निजं स्वरूपम् । स्थिरत्वात् कम् अपि कालम् तथैव स्थितत्वात् । जाग्रद् इत्य् अवगम्यते ज्ञायते । जाग्रत्प्रक्रियोपसंहारपूर्वं सुषुप्तादिप्रक्रियां वक्तुम् प्रतिजानीते जाग्रत्क्रम इति ॥ (मोटी_४,१९.१७ ॥

सुषुप्तादिक्रमम् एव कथयति

मनसा कर्मणा वाचा यदा क्षुभ्यति नो वपुः ।
शान्त आतिष्ठति स्वच्छो जीवधातुस् तदा त्व् असौ ॥ (मो_४,१९.१८ ॥

न क्षुभ्यति श्रान्तत्वात् । व्यवहारं न करोतीत्य् अर्थः । तदा तस्मिन् काले । जीवधातुः स्वच्छः सुप्तप्रसर्पणाख्यमलः । अत एव शान्तः क्षोभरहितः । आ समन्तात् । तिष्ठति । तुशब्दो निश्चये । यद्य् अपि सुषुप्तविषयः श्रीरामकृतः प्रश्नो नास्ति तथापि जाग्रत्स्वप्नयोर् अवश्यम् मध्यवर्तित्वात् सुषुप्तिनिर्णयः । न हि जाग्रतः निर्गत्य सुषुप्तिम् अगत्वा स्वप्नगमनम् पुरुषस्य युक्तम् । सेतुवत् सर्वत्र मर्यादात्वेन सुषुप्तेः स्थितत्वात् । यद्य् अपि शुद्धचिद् अपि सर्वत्र मध्ये सेतुत्वेन वर्तत एव तथापि विद्युद्द्योतरत्नवत् स्थूलदृष्ट्यविषयत्वात् तस्याः सेतुत्वाकथनम् । सूक्ष्मदृष्टीन् प्रति त्व् अनुपयोगात् कथनं न युक्तम् ॥ (मोटी_४,१९.१८ ॥

तदा किं सम्पत्स्यते इत्य् । अत्राह

समताम् आगतैर् वातैः क्षोभ्यते न हृदन्तरे ।
निर्वातसदने दीपो यथालोकैककारकः ॥ (मो_४,१९.१९ ॥

समताम् मनःकृतक्षोभाभावात् समवाहित्वम् । आगतैः वातैः प्राणैः । असौ जीवधातुः हृदन्तरे न क्षोभ्यते क्षोभयुक्तो न क्रियते । अनेन मनोनाशेन प्राणरोधः प्राणरोधेन च मनोनाशः सम्पत्स्यते इति सूचितम् । तत्रापि केषाञ्चित् प्राणरोधेन मनोनाशः मतः । अस्माकं तु सम्यग्ज्ञानसाधितेन मनोनाशेनैव प्राणरोधः । स चेत् तत्र सहकारी तन् न दोषः । ततः सर्वथा मनोनाशः प्राणरोधेन । मनोनाशस् तु मदिरादिप्रयुक्तमनोनाशवन् नात्यन्तिक इति मतम् । अत्र प्रतिभान्विता एव प्रमाणम् इत्य् अलम् बहुना । जीवधातुः क इव । दीप इव । यथा निर्वातसदने वातैः आलोकैककारकः दीपो न क्षोभ्यते । तथेत्य् अर्थः ॥ (मोटी_४,१९.१९ ॥

ततः किं सम्पद्यत इत्य् । अत्राह

ततः सरति नाङ्गेषु संवित् क्षुभ्यति तेन नो ।
न चेक्षणादीन्य् आयाति रन्ध्राण्य् आयाति नो बहिः ॥ (मो_४,१९.२० ॥

ततः स जीवधातुः । अङ्गेषु न सरति सञ्चारं न करोति । तेन जीवधातुसरणेन । संवित् जीवधातुस्पन्दरूपा संवित् । नो क्षुभ्यति न उदेति । सा संवित् ईक्षणादीनि रन्ध्राणि न चायाति बहिः नो आयाति ॥ (मोटी_४,१९.२० ॥

तदासौ कुत्र तिष्ठतीत्य् अपेक्षायाम् आह

जीवेऽन्तर् एव स्फुरति तैलसंविद् यथा तिले ।
शीतसंविद् धिम इव स्नेहसंविद् यथा घृते ॥ (मो_४,१९.२१ ॥

असौ संवित् जीवेऽन्तः स्वधर्मिभूतजीवमध्ये एव । स्फुरति । का इव । तैलसंविद् इव तैलाकारा संवित् । तैलसंवित् तैलम् इति यावत् । यथा सा तिले स्फुरति । तथेत्य् अर्थः । एवम् अन्यस्मिन् दृष्टान्तद्वयेऽपि योज्यम् ॥ (मोटी_४,१९.२१ ॥

ननु तदा जीवः किं करोतीत्य् । अत्राह

जीवः कालकलां काञ्चित् तिष्ठन् शान्ततयात्मनि ।
दशाम् आयाति सौषुप्तीं सौम्यवातां विचेतनाम् ॥ (मो_४,१९.२२ ॥

तदा जीवः काञ्चित् अतिसूक्ष्मतया वक्तुम् अशक्याम् । कालकलां काललेशं तावत् । शान्ततया आत्मनि ज्ञानात्मनि स्वरूपे । तिष्ठन् प्रथमं तिष्ठन् । ततः विचेतनाम् अज्ञानमयीम् । सौम्यवाताम् समवाहिप्राणाम् । सौषुप्तीं दशाम् आयाति । अनेन जाग्रत्सुषुप्तयोर् मध्ये सूक्ष्मदृष्टिभिः वेद्यः मध्यधामप्रवेशः उक्तः । अनेनैव चाभिप्रायेण निद्रादौ जागरस्यान्त इत्याद्य् उक्तम् । इत्य् अलं रहस्योद्घाटनेन ॥ (मोटी_४,१९.२२ ॥

ननु सुषुप्त एव जीवः क्षोभराहित्यात् कथं न तुर्यवान् अस्तीत्य् अपेक्षायाम् आह

ज्ञात्वा चेतस्य् उपरते शाम्यन् व्यवहरन्न् अपि ।
जाग्रत्स्वप्नसुषुप्तेषु प्रबुद्धस् तुर्यवान् स्मृतः ॥ (मो_४,१९.२३ ॥

ज्ञात्वा शुद्धचिन्मात्ररूपं स्वात्मानं सम्यग् ज्ञात्वा । चेतसि विकल्पस्वरूपे मनसि । उपरते लीने सति । व्यवहरन्न् अपि शरीरयात्रानिमित्तं व्यवहारं कुर्वन्न् अपि । शाम्यन् व्यवहारकृतं क्षोभम् अत्यन्तनैपुण्यात् अगच्छन् । तथा जाग्रत्स्वप्नसुषुप्तेषु प्रबुद्धः कीदृग्रूपाण्य् एतानीति सम्यग्ज्ञानयुक्तः । न तु जडः । पण्डितैः तुर्यवान् स्मृतः । सुषुप्तस् तु नैतादृशोऽस्तीति नासौ तुर्यवान् इति भावः ॥ (मोटी_४,१९.२३ ॥

स्वप्नं निरूपयितुम् प्रस्तौति

सौषुप्तात् सोम्यतां यातैः प्राणैः सञ्चाल्यते यदा ।
स जीवधातुस् सा संवित् ततश् चित्ततयोदिता ॥ (मो_४,१९.२४ ॥

सुषुप्तम् एव सौषुप्तम् । तस्मात् । सोम्यतां यातैः वातैः । यदा सुषुप्तपरिणामकाले । स जीवधातुः चाल्यते । ततः तदा । सा संवित् जीवधातुस्पन्दरूपा संवित् । चित्ततया चित्तभावेन । उदिता प्रादुर्भूता । भवति ॥ (मोटी_४,१९.२४ ॥

चित्ततया उदित्य किं करोतीत्य् । अत्राह

स्वान्तःसंस्थं जगज्जालम् भागभागैः क्रमभ्रमैः ।
पश्यति स्वान्तर् एवाशु स्फारम् बीजम् इव द्रुमम् ॥ (मो_४,१९.२५ ॥

ततः सा चित्तरूपा संवित् स्वान्तःसंस्थम् संस्काररूपेण स्वात्मनि स्थितम् । जगज्जालं स्वान्तर् एव न तु बाह्ये । आशु क्रमभ्रमैः न तु सहजक्रमयुक्तैः । भागभागैः पदार्थरूपैः लेशलेशैः । पश्यति अनुभवति । किम् इव । बीजम् इव । यथा स्फारम् अङ्कुरोन्मुखम् । बीजम् । द्रुमम् स्वान्तः पश्यति । अन्यथा तन्निर्गमानुपपत्तेः । तथेत्य् अर्थः ॥ (मोटी_४,१९.२५ ॥

तद् एव विशेषतः कथयति

जीवधातुर् यदा वातैः किञ्चित् सङ्क्षोभ्यते भृशम् ।
तदोह्यतेऽम्बर इव पश्यत्य् आत्मनि खे गतिम् ॥ (मो_४,१९.२६ ॥

वातबाहुल्यस्वभाव एवायं यत् पुरुषः स्वप्ने खे गतिम् पश्यतीति वाक्यार्थः ॥ (मोटी_४,१९.२६ ॥

यदाम्भसा प्लाव्यतेऽसौ तदा वार्यादिसम्भ्रमम् ।
न्तर् एवानुभवति स्वामोदं कुसुमं यथा ॥ (मो_४,१९.२७ ॥

असौ जीवधातुः । अम्भसा कफरूपेण जलेन । प्लाव्यते पूर्यते । वार्यादिसम्भ्रमम् उदकप्लवादिरूपं सम्भ्रमम् ॥ (मोटी_४,१९.२७ ॥

यदा पित्तादिनाक्रान्तस् तदाग्न्यौष्ण्यादिसम्भ्रमम् ।
न्तर् एवानुभवति स्फारम् बहिर् इवाखिलम् ॥ (मो_४,१९.२८ ॥

परमार्थतस् तु न बहिः स्फारम् इति इवशब्दोपादनम् ॥ (मोटी_४,१९.२८ ॥

रक्तापूर्णो रक्तवर्णान् देशकालान् बहिर् यदा ।
पश्यत्य् अनुभवात्मत्वात् तत्रैव च निमज्जति ॥ (मो_४,१९.२९ ॥

यदा रक्तापूर्णः रक्तपूरितः । स्यात् । तदा बहिः रक्तवर्णान् देशकालान् पश्यति । न केवलम् पश्यति । तत्रैव च निमज्जति ॥ (मोटी_४,१९.२९ ॥

ननु नानाव्यवहारान् कथम् पश्यतीत्य् । अत्राह

सेवते वासनां यां तां सोऽन्तः पश्यति निद्रितः ।
पवनक्षोभितै रन्ध्रैर् बहिर् अक्षादिभिर् यथा ॥ (मो_४,१९.३० ॥

सः जीवधातुः । याम् शुभाशुभरूपाम् । वासनां सेवते निद्रितः सन् । ताम् अन्तः पश्यति । कथं तथा । तथा कथम् पवनक्षोभितः अक्षादिभिः रन्ध्रैः नेत्रादिद्वारैः । यथा बहिः पश्यति ॥ (मोटी_४,१९.३० ॥

सङ्गृह्य स्वप्नलक्षणं कथयति

नाक्रन्तेन्द्रियच्छिद्रो यद् अक्षुब्धोऽन्तर् एव सः ।
संविदानुभवत्य् आशु स स्वप्न इति कथ्यते ॥ (मो_४,१९.३१ ॥

सः जीवधातुः । अनाक्रन्तेन्द्रियच्छिद्रः अन्तर् एव अक्षुब्धः बाह्यक्षोभरहितः सन् । संविदा संविदाख्येन धर्मेण । स्वप्ने यत् अनुभवति जगद्विषयम् अनुभवं करोति । पण्डितैः स स्वप्न इति कथ्यते ॥ (मोटी_४,१९.३१ ॥

जाग्रल्लक्षणं कथयति

समाक्रन्तेन्द्रियच्छिद्रो यत् क्षुब्धो बाह्यसंविदा ।
परिपश्यति तज् जाग्रद् इत्य् आहुर् मतिमत्तमाः ॥ (मो_४,१९.३२ ॥

अतिशयेन मतिमन्तः मतिमत्तमाः । जाग्रत्स्वप्नयोर् एव पृष्टत्वात् तयोर् एवेहोपसंहारे सङ्ग्रहेण लक्षणाभिधानम् । न सुषुप्तेः ॥ (मोटी_४,१९.३२ ॥

सर्गान्तश्लोकेनैतद् उपसंहरति

इति विदितवता त्वयाधुनान्तः
प्रथितमहामतिनेह सत्यतास्था ।
सति जगति नैव भावनीया
मृतिहृतिसंसृतिदोषभावनीया ॥ (मो_४,१९.३३ ॥

इति एवम् । विदितवता ज्ञातवता । अत एव प्रथिता विसृतिं गता । महामतिः यस्य । तादृशेन त्वया । असति जगति अधुना अन्तः मनसि । सत्यतास्था सत्यम् इदम् इत्य् एवंरूपा आस्था । न भावनीया भावनाविषयतां न नेया । सत्यतास्था का । या । मृतिश् च हृतिश् च संसृतिश् च ताः मृतिहृतिसंसृतयः । ता एव दोषाः । तान् भावयति सम्पादयतीति तादृशी । भवति । संसारसत्यतास्थायां हि तद्गताः मृत्यादिदोषाः बाधन्ते । तदसत्यतास्थायां तु ता अपि असत्यभूता एव काम् बाधां कर्तुं शक्नुवन्ति । न हि वन्ध्यापुत्रः कञ्चिद् बाधते । इति शिवम् ॥ (मोटी_४,१९.३३ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे एकोनविंशः सर्गः ॥१९॥





ओं । एवं श्रीरामेण मध्ये पृष्टं जाग्रदादिस्वरूपं निर्णीय प्रकृतम् एवानुसन्दधाति

एतत् ते कथितं सर्वम् मनोरूपनिरूपणे ।
मया राघव नान्येन केनचिन् नाम हेतुना ॥ (मो_४,२०.१ ॥

एतत् सर्वम् यो यथा यतते सः तथा भवतीत्य् एतत् समस्तम् । मया । हे राघव । मनोरूपनिरूपणे मनोनिरूपणनिमित्तम् । ते कथितम् । अन्येन हेतुना न कथितम् व्यर्थत्वात् ॥ (मोटी_४,२०.१ ॥

मनोनिरूपणम् एव करोति

दृढनिश्चयवच् चेतो यद् भावयति भूरिशः ।
तत्तां यात्य् अनलाश्लेषाद् अयःपिण्डोऽग्निताम् इव ॥ (मो_४,२०.२ ॥

भूरिशः अभ्यासेन ॥ (मोटी_४,२०.२ ॥

भावाभावग्रहोत्सर्गदृशश् चित्तेन कल्पिताः ।
नासत्या नापि सत्यास् ता मनश्चापलकारणाः ॥ (मो_४,२०.३ ॥

मनश्चापलम् एव कारणं यासाम् । ताः मनश्चापलकारणाः । मनश्चापलकारणं हि रज्जुसर्पादिकम् अर्थक्रियाकारित्वाभावेन न सत्यम् भवति । भासमानत्वेनासत्यं च न भवति ॥ (मोटी_४,२०.३ ॥

मनो हि हेतुः कर्तृ स्यात् कारणं च जगत्स्थितेः ।
विश्वरूपतयैवेदं तनोति मलिनम् मनः ॥ (मो_४,२०.४ ॥

हि निश्चये । मनः जगत्स्थितेः हेतुः निमित्तकारणं कर्तृ । कर्तृ कारकः । कारणम् समवायिकारणम् असमवायिकारणं च । भवति । यतः इदम् मनः मलिनम् वासनामलदूषितं सत् । विश्वरूपतया इदम् जगत् । तनोति । नात्रान्यः कश्चित् कारकत्वं यातीति भावः । स्वप्नस्य चात्र दृष्टान्तत्वं स्फुटम् एव ॥ (मोटी_४,२०.४ ॥

मनो हि पुरुषो राम तन् नियोज्यं शुभे पथि ।
तज्जयैकान्तसाध्या हि सर्वा जगति भूतयः ॥ (मो_४,२०.५ ॥

नियोज्यम् प्रेरणीयम् । शुभे पथि विवेकस्वरूपे । हि यस्मात् । जगति सर्वाः विभूतयः भोगमोक्षरूपाण्य् ऐश्वर्याणि । तस्य मनसः । यः जयः शुभे पथि नियोजनम् । तेन साध्याः भवन्ति ॥ (मोटी_४,२०.५ ॥

ननु शरीरस्य पुरुषत्वेन स्थितत्वात् कथं चक्षुषालभ्यमानस्य मनसः पुरुषत्वं कथयसीत्य् । अत्राह

शरीरं चेत् शरीरं स्यात् कथं शुक्रो महामतिः ।
गमद् विविधम् भेदम् बहुदेहसमुद्भवम् ॥ (मो_४,२०.६ ॥

शरीरम् स्थूलश्रीरम् । शरीरम् लक्षणया पुरुषः । चेत् स्यात् । तदा सः शुक्रः । बहुदेहेभ्यः समुद्भवः यस्य । तादृशम् विविधम् भेदम् । कथम् अगमत् । शरीरस्यैकेनैव रूपेण स्थितत्वात् ॥ (मोटी_४,२०.६ ॥

फलितं कथयति

तस्माच् चित्तं हि पुरुषः पुरुषश् चित्तम् एव हि ।
यन्मयं च भवत्य् एतत् तद् अवाप्नोत्य् असंशयम् ॥ (मो_४,२०.७ ॥

हि निश्चये । एतत् चित्तम् । यन्मयम् यद्विषयानुसन्धानमयम् ॥ (मोटी_४,२०.७ ॥

परमफलितम् आह

यद् अतुच्छम् अनायासम् अनुपाधि गतभ्रमम् ।
यत्नात् तदनुसन्धानं कुरु तत्तां च यास्यसि ॥ (मो_४,२०.८ ॥

अतः यत् वस्तु । अतुच्छम् अनायासम् आयाससाध्यतारहितम् । अनुपाधि तथा गतभ्रमम् । भवति । त्वम् तदनुसन्धानं कुरु । ततः तत्ताम् अतुच्छत्वादिधर्मरहितवस्तुभावम् । यास्यसि ॥ (मोटी_४,२०.८ ॥

सर्गान्तश्लोकेनाप्य् एतद् एव कथयति

भिपतति मनःस्थितिं शरीरं
न तु वपुराचरितम् मनः प्रयाति ।
भिपततु तवात्र तेन सत्यं
सुभग मनः प्रजहात्व् असत्यम् अन्यत् ॥ (मो_४,२०.९ ॥

स्पष्टम् । इति शिवम् ॥ (मोटी_४,२०.९ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे विंशः सर्गः ॥२०॥





अत्र श्रीरामः पृच्छति

भगवन् सर्वधर्मज्ञ संशयो मे महान् अयम् ।
हृदि व्यावर्तते लोलः कल्लोल इव सागरे ॥ (मो_४,२१.१ ॥

व्यावर्तते स्फुरति ॥ (मोटी_४,२१.१ ॥

दिक्कालाद्यनवच्छिन्ने तते नित्ये निरामये ।
म्लाना संविन् मनोनाम्नी कुतः केयम् उपस्थिता ॥ (मो_४,२१.२ ॥

दिक्कालादिभिः अपरिच्छिन्ने स्वपरिच्छेदकस्य परिच्छेदं कर्तुम् अशक्यत्वात् । आदिशब्देन वस्त्वादेः ग्रहणम् । तते व्यापके । नित्ये प्राक्प्रध्वंसात्यन्ताभावरहिते । निरामये कलनाख्यरोगरहिते । म्लाना सङ्कल्पविकल्परूपत्वेन मलिना । मनोनम्नी । इयं संवित् संविदाख्यः स्पन्दः । कुतः उपस्थिता । नैतस्या उपस्थानम् अत्र युक्तम् इति भावः ॥ (मोटी_४,२१.२ ॥

यस्माद् अन्यन् न नामास्ति न भूतं न भविष्यति ।
कुतः कीदृक् कथं तस्य कलङ्कः कुत्र विद्यते ॥ (मो_४,२१.३ ॥

यस्मात् शुद्धचिन्मात्रतत्त्वात् । अन्यत् भिन्नं वस्तु । नाम निश्चये । नास्ति न भूतं न भविष्यति । तस्य कलङ्कः मनोरूपः कलङ्कः । कुतः विद्यते कीदृक् विद्यते कथं विद्यते । कुत्र विद्यते सर्वथा सम्भवानुपपत्तेः न विद्यते इत्य् अर्थः ॥ (मोटी_४,२१.३ ॥

श्रीवसिष्ठः उत्तरं कथयति

साधु राम त्वया प्रोक्तं ज्ञाता ते मोक्षभागिनी ।
मतिर् उत्तमनिःष्यन्दा नन्दनस्येव मञ्जरी ॥ (मो_४,२१.४ ॥

उत्तमनिःष्यन्दा श्रेष्ठप्रवाहा ॥ (मोटी_४,२१.४ ॥

पूर्वापरविचारार्थतत्परेयम् मतिस् तव ।
सम्प्राप्स्यति पदम् प्रोच्चैर् यत् प्राप्तं शङ्करादिभिः ॥ (मो_४,२१.५ ॥

पूर्वापरविचाररूपः यः अर्थः । तत्र परा । प्रोच्चैः पदम् मोक्षाख्यं श्रेष्ठं स्थानम् ॥ (मोटी_४,२१.५ ॥

तर्हि मत्प्रश्नस्योत्तरं कथयेत्य् । अत्राह

प्रश्नस्यास्य तु हे राम न कालस् तव सम्प्रति ।
सिद्धान्तः कथ्यते यत्र तत्रायम् प्रश्न उच्यते ॥ (मो_४,२१.६ ॥

मयायम् प्रश्न उच्यते कृतोत्तरः सम्पाद्यते इति सम्बन्धः ॥ (मोटी_४,२१.६ ॥

ननु यदि सिद्धान्तकालेऽसौ प्रश्नः तव स्मृतिपथं नायास्यति तदा किं कार्यम् इत्य् । अत्राह

सिद्धान्तकाले भवता प्रष्टव्योऽहम् इदम् पदम् ।
करामलकवत् तेन सिद्धान्तस् ते भविष्यति ॥ (मो_४,२१.७ ॥

करामलकवत् प्रयत्नरहितम् ॥ (मोटी_४,२१.७ ॥

नन्व् अस्मिन् समय एव कथं न कथयसीत्य् । अत्राह

सिद्धान्तकाले प्रश्नोक्तिर् एषा तव विराजते ।
प्रावृष्य् एव हि केकोक्तिर् युक्ता शरदि हंसगीः ॥ (मो_४,२१.८ ॥

स्पष्टम् ॥ (मोटी_४,२१.८ ॥

सहजो नीलिमा व्योम्नि शोभते प्रावृषः क्षये ।
प्रावृषि तु दनूदग्रपयोदपटलोत्थितः ॥ (मो_४,२१.९ ॥

प्रावृषः क्षये शरदि । तु पक्षान्तरे । प्रावृषि नीलिमा शोभते । कथम्भूतः । दनुवत् दानवमातृवत् । उदग्रं यत् पयोदपटलम् । तस्माद् उत्थितः जातः ॥ (मोटी_४,२१.९ ॥

एतद् उपसंहृत्य प्रकृतम् एवानुसरति

यम् प्रकृत आरब्धो मनोनिर्णय उत्तमः ।
यद्वशाज् जनताजन्म तद् आकर्णय सुव्रत ॥ (मो_४,२१.१० ॥

अयम् उत्तमः मनोनिर्णयः अस्माभिः आरब्धः । कथम्भूतः । प्रकृतः प्रकरणवशेन प्राप्तः । एनम् एव शृण्व् इति भावः । हे सुव्रत । यद्वशात् जनताजन्म जनसमूहजन्म भवति । त्वम् तद् आकर्णय शृणु । मनोनिर्णयाङ्गभूतत्वाद् इति भावः ॥ (मोटी_४,२१.१० ॥

तद् एव कथयति

एवम् प्रकृतिर् एवेयम् मनोमननधर्मिणी ।
कर्मेति राम निर्णीतं सर्वैर् एव मुमुक्षुभिः ॥ (मो_४,२१.११ ॥

हे राम । एवं सति । पूर्वसर्गोक्ते निश्चये परमार्थतया स्थिते सति । मनसः यत् मननम् अनुसन्धानाख्यो व्यापारः । तद्धर्मिणी तत्स्वरूपिणी । इयम् प्रकृतिः एव जगदुपादानरूपा मूलप्रकृतिर् एव । सर्वैः मुमुक्षुभिः कर्मेति निर्णीतम् । मनोमननम् एव कर्मेति पिण्डार्थः ॥ (मोटी_४,२१.११ ॥

शृणु लक्षणभेदेन तन् नानामततां कथम् ।
वाग्मिनां वदतां यातं चित्राभिः शास्त्रदृष्टिभिः ॥ (मो_४,२१.१२ ॥

त्वं शृणु । तत् मनोमननरूपं कर्म । लक्षणभेदेन । वाग्मिनाम् वादिनाम् । नानामतताम् । कथं यातम् । तद् एव कथयामीति भावः । वाग्मिनाम् कथम्भूतानाम् । चित्राभिः नानाविधाभिः । शास्त्रदृष्टिभिः शास्त्ररूपाभिः दृष्टिभिः । वदतां विवादं कुर्वताम् । अन्यथा मतभेदो न स्यात् ॥ (मोटी_४,२१.१२ ॥

तद् एव कथयति

यं यम् भावम् उपादत्ते मनो मननचञ्चलम् ।
तं तम् एति घनामोदमध्यस्थः पवनो यथा ॥ (मो_४,२१.१३ ॥

मननेन मननाख्येन धर्मेण । चञ्चलम् नानापदार्थयायि । मनः । यं यम् भावम् शुभम् अशुभं वा पदार्थमननोद्भूतं वासनाविशेषम् । उपादत्ते गृह्णाति । तं तम् एति तत्तदनुसन्धानमयो भवतीत्य् अर्थः । को यथा । पवनः यथा । यथा घनामोदमध्यस्थः पवनः आमोदम् एति । तथेत्य् अर्थः ॥ (मोटी_४,२१.१३ ॥

ततस् तम् एव निर्णीय तम् एव च विकल्पयन् ।
न्तस् तया रञ्जनया रञ्जयन् स्वाम् अहङ्कृतिम् ॥ (मो_४,२१.१४ ॥
तन्निश्चयम् उपादाय तत्रैव रसम् ऋच्छति ।
तन्मयत्वं शरीरे तु ततो बुद्धीन्द्रियेष्व् अपि ॥ (मो_४,२१.१५ ॥

ततः तत् मनः । तम् एव भावम् । निर्णीयानुसन्धाय । तथा निश्चित्य । तम् एव च न त्व् अन्यत् । विकल्पयन् पुनः पुनः परामृशन् । तया तद्भावरूपया । रञ्जनया रागद्रव्येण । स्वाम् अहङ्कृतिम् निजाम् अहङ्कारवृत्तिम् । रञ्जयन् उपरक्तां कुर्वन् । मम कदा एतत् स्यात् इति परामृशन्न् इति यावत् । ततः तन्निश्चयम् तस्य भावस्य निश्चयम् । चमत्कारकारि इदम् इत्य् एवंरूपं निश्चयम् । उपादाय । तत्रैव तस्मिन् शुभे अशुभे वा वासनाविशेषे एव । रसम् आस्वादम् । आसक्तिम् इति यावत् । ऋच्छति गच्छति । ततः तदनन्तरम् । तु निश्चये । शरीरे तन्मयत्वम् भवति । अन्यथा तत्स्वरूपे बाह्ये पदार्थे प्रवृत्तिपरिहाररूपायाः चेष्टाया असम्भवात् न केवलं शरीरे एव किं तु बुद्धीन्द्रियेष्व् अपि तन्मयत्वम् भवति । अन्यथा तेषाम् अपि तत्र पुनः पुनः स्वक्रियाकारित्वायोगात् । कर्मेन्द्रियाणां तु शरीरेणैव ग्रहणम् । तथा हि । बाह्ये पुरुषः प्रथमं कपित्थादिकम् भुङ्क्ते । ततः तस्य मनः तस्य फलस्य वासनाम् अन्तः धारयति । ततः वासनारूपस्य तस्यैवानुसन्धानम् पुनः पुनः करोति । ततः वासनारूपेण तेन स्वाम् अहङ्कृतिं रञ्जयति । ततः तदाश्रितानि बुद्धीन्द्रियाण्य् अपि तद् एव प्रतिसम्मुखानि भवन्ति । ततः तदाश्रयं शरीरं तत् प्रत्य् एव चेष्टां करोतीति । युग्मम् ॥ (मोटी_४,२१.१४-१५॥

ननु कुतः एतद् इत्य् । अत्राह

यन्मयं हि मनो राम देहस् तदनु तद्वशात् ।
तत्ताम् आयाति गन्धान्तः पवनो गन्धताम् इव ॥ (मो_४,२१.१६ ॥

यन्मयम् यद्भावमयम् । तत्ताम् तन्मयताम् ॥ (मोटी_४,२१.१६ ॥

बुद्धीन्द्रियेषु वल्गत्सु कर्मेन्द्रियगणस् ततः ।
स्फुरति स्वत एवोर्वीरजो लोल इवानिले ॥ (मो_४,२१.१७ ॥

स्फुरति स्वां क्रियाम् प्रति सम्मुखीभवति । स्वत एव प्रेरणां विना । कर्मेन्द्रियगणः किम् इव । उर्वीरज इव । यथा उर्वीरजः अनिले लोले सति । स्वत एव स्फुरति । तथेत्य् अर्थः ॥ (मोटी_४,२१.१७ ॥

कर्मेन्द्रियगणे क्षुब्धे स्वशक्तिम् प्रथयत्य् अलम् ।
कर्म निष्पद्यते स्फारम् पांसुजालम् इवानिलात् ॥ (मो_४,२१.१८ ॥

स्वशक्तिम् स्वकार्यम् प्रति निजं सामर्थ्यम् । प्रथयति विस्तारयति । कर्म विषयादानरूपं कर्म । निष्पद्यते सम्पद्यते ॥ (मोटी_४,२१.१८ ॥

फलितं कथयति

एवं हि मनसः कर्म कर्मबीजम् मनः स्मृतम् ।
भिन्नैव तयोः सत्ता यथा कुसुमगन्धयोः ॥ (मो_४,२१.१९ ॥

एवं हि सति । मनसः मनःसकाशात् । कर्म उत्पद्यते इति शेषः । पण्डितैः । मनः । कर्मैव बीजम् यस्य । तत् । तादृशम् । स्मृतम् । कर्मणः मनः उत्पद्यते इति भावः । फलितम् आहाभिन्नेति । अतः एतयोः कर्ममनसोः । सत्ता अभिन्नैव भवति । कयोः यथा । कुसुमगन्धयोः यथा । न हि मनोऽनुवृत्तिं विना शरीराश्रयम् बाह्यम् अपि कर्म सम्पद्यते । न च हि कर्मसाधितवासनामात्ररूपतां विना मनो नाम किञ्चिद् अस्तीति भावः ॥ (मोटी_४,२१.१९ ॥

यादृशम् भावम् आदत्ते दृढाभ्यासवशान् मनः ।
तथा स्पन्दोऽस्य कर्माख्यस् तथा शाखा विमुञ्चति ॥ (मो_४,२१.२० ॥

यादृशम् शुभम् अशुभं वा । शाखाः सङ्कल्परूपाः ॥ (मोटी_४,२१.२० ॥

तथा क्रियां तत्फलदां निष्पादयति चादरात् ।
ततस् तद् एव चास्वादम् अनुभूयाशु बध्यते ॥ (मो_४,२१.२१ ॥

शरीरद्वारेणेति शेषः । तद् एव भावविषयीकृतं वस्त्व् एव । बध्यते घनतरं तद्वासनाविष्टो भवतीत्य् अर्थः ॥ (मोटी_४,२१.२१ ॥

पुनर् अप्य् एतद् एव कथयति

यं यम् भावम् उपादत्ते तत् तद् वस्त्व् इति विन्दति ।
तच् छ्रेयोऽन्यत् तु नास्तीति निश्चयोऽस्य प्रजायते ॥ (मो_४,२१.२२ ॥

वस्तु सत्यभूतम् ॥ (मोटी_४,२१.२२ ॥

धर्मार्थकाममोक्षार्थम् प्रयतन्ते सदैव हि ।
मनांसि दृढभावानि प्रतिपत्त्या स्वयैव हि ॥ (मो_४,२१.२३ ॥

स्वया प्रतिपत्त्या न तु परप्रेरणया ॥ (मोटी_४,२१.२३ ॥

यदर्थम् इयम् प्रक्रिया कृता तद् एव कथयति

मनोभिः कापिलानां तु प्रतिपत्तिं निजाम् अलम् ।
उररीकृत्य निर्णीय कल्पिताः शास्त्रदृष्टयः ॥ (मो_४,२१.२४ ॥

कापिलानाम् कपिलानुसारिणाम् । साङ्ख्यानाम् इति यावत् । मनोभिः । निजाम् प्रतिपत्तिम् निश्चयम् । उररीकृत्य ।शास्त्रदृष्टयः प्रकृतिपुरुषप्रतिपादिकाः शास्त्रदृष्टयः । कल्पिताः ॥ (मोटी_४,२१.२४ ॥

कापिलान् एव विशिनष्टि

मोक्षे तु नान्यथा प्राप्तिर् इति भावितचेतसः ।
स्वां दृष्टिम् प्रविवृण्वन्तः स्थिताः स्वनियमभ्रमैः ॥ (मो_४,२१.२५ ॥

भावितम् भावनायुक्तम् । चेतः येषाम् । ते । स्वेन कृता ये नियमभ्रमाः । तैः । एषाम् अपि मनोवशाद् एव मतभेदोऽस्तीति भावः ॥ (मोटी_४,२१.२५ ॥

वेदान्तवादिनो बुद्ध्या ब्रह्मेदम् इति दृढया ।
युक्तिं शमदमोपेतां निर्णीय परिकल्प्य च ॥ (मो_४,२१.२६ ॥
मुक्तौ तु नान्यथा प्राप्तिर् इति भावितचेतसः ।
स्वां दृष्टिम् प्रविवृण्वन्तः स्थिताः स्वनियमभ्रमैः ॥ (मो_४,२१.२७ ॥

युक्तिम् श्रवणादिरूपम् उपायम् ॥ (मोटी_४,२१.२६-२७ ॥

विज्ञानवादिनो बुद्ध्या स्फुरत्स्वभ्रमरूपया ।
स्वां दृष्टिम् प्रविवृण्वन्ति स्वैर् एव नियमभ्रमैः ॥ (मो_४,२१.२८ ॥

विज्ञानवादिनः विज्ञानाद्वैतवादिनः बौद्धाः । स्वां दृष्टिम् विज्ञानम् एवेदम् इतिरूपाम् । प्रविवृण्वन्ति प्रकटीकुर्वन्ति ॥ (मोटी_४,२१.२८ ॥

आर्हतादिभिर् अन्यैश् च स्वयाभिमतयेच्छया ।
चित्राश् चित्रसमाचाराः कल्पिताः शास्त्रदृष्टयः ॥ (मो_४,२१.२९ ॥

आदिशब्देन चार्वाकादीनां ग्रहणम् ॥ (मोटी_४,२१.२९ ॥

निर्निमित्तोत्थसौम्याम्बुबुद्बुदौघैर् इवोत्थितैः ।
स्वनिश्चयैर् इति प्रौढा नानाकारा हि रीतयः ॥ (मो_४,२१.३० ॥

निर्निमित्तोत्थाः ये सौम्याम्बुबुद्बुदौघाः । तैर् इव अकस्माद् । उत्थितैर् । इत्य् अर्थः । रीतयः शास्त्ररीतयः ॥ (मोटी_४,२१.३० ॥

सर्वासाम् एव चैतासां रीतीनाम् एक आकरः ।
मनो नाम महाबाहो मणीनाम् इव सागरः ॥ (मो_४,२१.३१ ॥

सर्वासाम् साङ्ख्यादिप्रणीतानाम् । आकरः उत्पत्तिस्थानम् ॥ (मोटी_४,२१.३१ ॥

न निम्बेक्षू कटुस्वादू शीतोष्णौ नेन्दुपावकौ ।
यद् यथा मनसाभ्यस्तम् उपलब्धं तथैव तत् ॥ (मो_४,२१.३२ ॥

कटुस्वादू तिक्तमधुरौ । अन्यथा चित्तवृत्तिभेदेन हेयोपादेयत्वं न स्यात् । यद् एव हि यस्य हेयत्वेन स्थितं तद् एवान्यस्योपादेयतया ॥ (मोटी_४,२१.३२ ॥

फलितं कथयति

यस् त्व् अकृत्रिम आनन्दस् तदर्थम् प्रयतेत न वै ।
मनस् तन्मयतां नेयं तेनासौ समवाप्यते ॥ (मो_४,२१.३३ ॥

अत इत्य् अध्याहार्यम् । यतः कस्मिंश्चिद् अपि बाह्ये वस्तुनि स्वभावेन स्वादुता नास्ति । अतः यः अकृत्रिमः भोगादिविषयनिरपेक्षत्वेन स्थितत्वात् स्वाभाविकः । आनन्दः स्वात्मरूपः आनन्दः । भवति । पुरुषः तदर्थम् । वै निश्चये । यतेत । ननु केन यत्नेनासौ प्राप्यते इत्य् । अत्राह मन इति । पुरुषेण मनः सङ्कल्पात्मकं चित्तम् । तन्मयताम् स्वात्मभूतानन्दरूपताम् । नेयम् । अध्यात्मशास्त्रोपदिष्टमार्गेण तत्परामर्शैकप्रवणं कार्यम् इत्य् अर्थः । तेन मनसः तन्मयत्वनयनमात्रेण यत्नेनासौ अकृत्रिमः आनन्दः । प्राप्यते ॥ (मोटी_४,२१.३३ ॥

ननु सुखदुःखवशीकृतम् मनः कथं तन्मयतां नेयम् इत्य् । अत्राह

दृश्यं संसारडिम्बस्थं तुच्छम् परिजहन् मनः ।
तज्जाभ्यां सुखदुःखाभ्यां नावशः परिकृष्यते ॥ (मो_४,२१.३४ ॥

संसार एव डिम्बः बालः । तत्र तिष्ठतीति तादृशम् । दृश्यम् दृशिक्रियाविषयम् भावजातम् । जहत् स्वौन्मुख्याविषयतां नयत् । मनः । तज्जाभ्याम् दृश्योत्पन्नाभ्याम् । सुखदुःखाभ्याम् । नावशः परिकृष्यते न बलात्कारेणास्वाधीनीक्रियते । अवश इति आविष्टलिङ्गम् ॥ (मोटी_४,२१.३४ ॥

ननु दृश्ये को दोषोऽस्तीत्य् । अत्राह

पवित्रम् असद्रूपम् मोहनम् भयकारणम् ।
दृश्यम् आभासम् आभोगि बन्धम् मा भावयानघ ॥ (मो_४,२१.३५ ॥

अनघ । दृश्यभावनानर्हत्वं दृश्यम् मा भावय मनोऽनुसन्धानविषयम् मा कुरु । किमर्थं न भावयामीत्य् अपेक्षायां विशेषणान्य् आह अपवित्रम् इत्यादि । अपवित्रम् रागादिरूपपापोत्पादकत्वात् पवित्रतारहितम् । असद्रूपम् किंरूपम् इति विचारासहत्वात् पारमार्थिकसत्तारहितम् । मोहनम् अनात्मन्य् आत्मत्वरूपमोहोत्पादकम् । भयकारणम् मृत्याद्युपादानभयहेतुम् । आभासम् आभासमात्रस्वरूपम् । न तु वस्तुतया स्थितम् । आभोगि विस्तारयुक्तम् । बन्धम् आत्मज्ञानम् प्रति रोधकत्वात् बन्धस्वरूपम् ॥ (मोटी_४,२१.३५ ॥

मायैषा सा ह्य् अविद्यैषा भावनैषा भयावहा ।
संविदस् तन्मयत्वं यत् तत् कर्मेति विदुर् बुधाः ॥ (मो_४,२१.३६ ॥

एषा दृश्यभावना । सा स्वसिद्धा । माया भवति । एषा अविद्या भवति । एषा भयावहा भावना वासना । भवति । ननु तर्हि कर्म किंरूपम् अस्तीत्य् । अत्राह संविद इति । संविदः मनोरूपायाः संविदः । तन्मयत्वम् दृश्यमयत्वम् । यद् भवति । बुधाः तत् कर्मेति विदुः । कर्मापि एषैवेति भावः ॥ (मोटी_४,२१.३६ ॥

ननु मनः किंरूपम् अस्ति येन कृता दृश्यभावना मायादिनामत्वेनोक्तेत्य् । अत्राह

द्रष्टुर् दृश्यैकतानत्वं विद्धि त्वम् मोहनम् मनः ।
भ्रमायैव च तन् मिथ्या महीमक्कोलकर्मवत् ॥ (मो_४,२१.३७ ॥

द्रष्टुः दृशिक्रियाकर्तुः । दृश्यैकतानत्वम् दृश्यम् प्रति सम्मुखताम् । मोहनम् मोहकारि । मनो विद्धि । तत् भ्रमाय भ्रमोत्पादाय सत् । मिथ्या भवति । आभासमात्रत्वेन वस्तुसत् न भवतीत्य् अर्थः । कथम् । मह्याम् मृत्तिकायाम् । मक्कोलकर्म सुधालेपः । तद्वत् । यथा मृत्तिकायां कृतसुधालेपः वस्तुतः सन् नास्ति । मृत्तिकायाः एव तथा स्थितत्वात् सुधायाः लेपतयैव भावात् । तथा चिन्मात्रे भासमानम् मनः वस्तुतः नास्ति चिन्मात्रस्यैव तथा स्थितत्वात् इत्य् अर्थः ॥ (मोटी_४,२१.३७ ॥

ननु कथं द्रष्टृदृश्यैकतानतारूपम् मनः मिथ्यारूपम् अस्तीत्य् । अत्राह

दृश्यतन्मयता यैषा स्वभावस्यानुभूयते ।
संसारमदिरा सेयम् अविद्येत्य् उच्यते बुधैः ॥ (मो_४,२१.३८ ॥

अस्माभिः । स्वभावस्य द्रष्टृरूपस्य स्वभावस्य । या दृश्यतन्मयता दृश्यैकतानता । दृश्यते । बुधैः सा इयम् भ्रमोत्पादकत्वात् संसारमदिरारूपा अविद्येति उच्यते । अतो मनः अविद्यारूपम् एवावस्तुभूतम् इत्य् अर्थः ॥ (मोटी_४,२१.३८ ॥

कोऽनर्थः अनयाविद्यया क्रियते इत्य् । अत्राह

नयोपहतो लोकः कल्याणं नाधिगच्छति ।
भास्वरं तपनालोकम् पटलान्धेक्षणो यथा ॥ (मो_४,२१.३९ ॥

अनया द्रष्टुः दृश्यतन्मयतारूपया । अविद्यया । कल्याणम् स्वात्मनि विश्रान्तिरूपम् । पटलम् नेत्ररोगविशेषः ॥ (मोटी_४,२१.३९ ॥

ननु सा कुत उत्पद्यत इत्य् । अत्राह

स्वयम् उत्पद्यते सा च सङ्कल्पाद् व्योमवृक्षवत् ।
सङ्कल्पनमात्रेण स्वयम् एव विनश्यति ॥ (मो_४,२१.४० ॥

उत्पद्यते प्रादुर्भवति । ननु सा कथं नश्यति इत्य् । अत्राहासङ्कल्पनमात्रेति । असङ्कल्पनमात्रेण सङ्कल्पाकरणमात्रेण । अत एवाह स्वयम् इति । न हि असङ्कल्पनं यत्नः । अपि तु सङ्कल्पनम् एव ॥ (मोटी_४,२१.४० ॥

नन्व् अविद्यानाशेन किं सम्पद्यते इत्य् । अत्राह

सङ्कल्पनमात्रेण भावनायाम् महामते ।
क्षीणायां स्वप्रसादेन विमर्शेन विलासिना ॥ (मो_४,२१.४१ ॥
संसङ्गे पदार्थेषु सर्वेषु स्थिरतां गते ।
सत्यदृष्टौ प्रसन्नायाम् असत्ये क्षयम् आगते ॥ (मो_४,२१.४२ ॥
निर्विकल्पचिद् अच्छात्मा स आत्मा समवाप्यते ।
नासत्ता यस्य नो सत्ता न सुखं नापि दुःखिता ॥ (मो_४,२१.४३ ॥

भावनायाम् अविद्यायाम् । विमर्शेन स्वात्मविचारेण । कथम्भूतेन । स्वप्रसादेन स्वात्मप्रसादेनोत्पन्नेनेति शेषः । पुनः कथम्भूतेन । विलासिना विस्तारयुक्तेन । असंसङ्गे अनासक्तौ । सत्यविषया दृष्टिः सत्यदृष्टिः । तस्याम् प्रसन्नायाम् । सिद्धायाम् इति यावत् । असत्ये असत्यभूते दृश्ये इत्य् अर्थः । आत्मा कथम्भूतः । निर्विकल्पः दृश्यविषयविकल्पनिष्क्रान्ता या चित् तद्रूपः । अच्छः आत्मा स्वरूपं यस्य । तादृशः । न तु अचिद्रूपदेहादिस्वरूप इत्य् अर्थः । अतो नाविद्यानाशस्य वैफल्यम् इति भावः । कीदृशोऽसाव् आत्मेत्य् अपेक्षायाम् आह नासत्तेति । यस्य आत्मनः । असत्ता न भवति । सर्वेषाम् आत्मत्वेन स्फुरणात् । न हि कश्चिन् नाहम् अस्मीति ब्रवीति । ब्रुवाणश् चोपहासपात्रम् एव । तथा सत्ता नो भवति । बाह्यान्तःकरणाविषयत्वात् शशशृङ्गवत् । सुखम् लक्षणया सुखिता । न भवति । सुखादेर् अन्तःकरणाधिकरणत्वाद् । अन्यथा सुषुप्तादाव् अपि भानप्रसङ्गात् । दुःखिता दुःखाधिकरणत्वम् । न भवति । प्रोक्तहेतोः ॥ (मोटी_४,२१.४१-४३ ॥

पुनः किं तत्रास्ति इत्य् । अत्राह

केवलं केवलीभावो यस्यान्तर् उपलभ्यते ।
भव्यया भावनया न चित्तेन्द्रियदृष्टिभिः ॥ (मो_४,२१.४४ ॥

सम्यग्ज्ञानयुक्तेन पुरुषेण । यस्यात्मनः । अन्तः स्वभित्तौ । केवलीभावः शुद्धचिन्मात्रतां विना समस्ताभावः । केवलं लभ्यते । उपचाराल् लभ्यते इत्य् उक्तिः । लब्धैकरूपस्य लभ्यतायोगात् । परमार्थस् तु लभ्यानपेक्षम् । लब्धृत्वम् अपि तत्र न युक्तम् इत्य् अलम् विकल्पापादिकया वाचा । तन्मुव्रणया वा अभव्यया भावनया न लभ्यते । चित्तेन्द्रियदृष्टिभिश् च न लभ्यते ॥ (मोटी_४,२१.४४ ॥

आत्मनोऽनन्यभूताभिर् अपि यः परिवर्जितः ।
वासनाभिर् अनन्ताभिर् व्योमेव वनराजिभिः ॥ (मो_४,२१.४५ ॥

यः आत्मा । आत्मनः अनन्यभूताभिर् अपि स्वस्वरूपभूताभिर् अपि । वासनाभिः परिवर्जितः भवति । शुद्धचिन्मात्रस्वरूपत्वात् । वासनानां चात्मरूपत्वं तद्विषयत्वं विनासिद्धभावप्रयुक्तम् एव ज्ञेयम् । न हि चिन्मात्राविषयीकृता वासना वासना भवति । विषयीकृतिश् च स्वसम्बन्धिन एव युक्ता । सम्बन्धश् च विचारितः सन् एकतायां विश्राम्यति । द्वित्वे तु विरोधलब्धसिद्धेः द्वित्वाद् एव सम्बन्धानुपपत्तेः । न हि विरुद्धयोः तमःप्रकाशयोः सम्बन्धः युक्त इत्य् अलम् बहुना । यः किम् इव । व्योम इव । यथा व्योम वनराजिभिः परिवर्जितः भवति । तथेत्य् अर्थः ॥ (मोटी_४,२१.४५ ॥

ननु यदि केवलः स एवात्मास्ति तर्हि दृश्यरूपः बन्धः कुत आगत इत्य् । अत्राह

सन्दिग्धायां यथा रज्ज्वां सर्पत्वं तद्वद् एव हि ।
चिदाकाशात्मना बन्धस् त्व् अबद्धेनैव कल्पितः ॥ (मो_४,२१.४६ ॥

यथा पुरुषेण सन्दिग्धायां रज्ज्वां सर्पत्वम् कल्प्यते । हि निश्चये । तद्वद् एव चिदाकाशात्मना चिदाकाशस्वरूपेणात्मना । अबद्धेनैव सता । बन्धः दृश्याख्यो बन्धः । कल्पितः कल्पनया सम्पादितः ॥ (मोटी_४,२१.४६ ॥

ननु कल्पित एष बन्धः कथं नश्यतीत्य् । अत्राह

कल्पितं कल्पितं वस्तु प्रतिकल्पनयान्यया ।
तद् एवान्यत्वम् आदत्ते खम् अहोरात्रयोर् इव ॥ (मो_४,२१.४७ ॥

कल्पितं कल्पितं वस्तु सर्वं कल्पितवस्तु । अन्यया स्वस्माद् भिन्नया । प्रतिकल्पनया । तद् एव सत् । अन्यताम् आदत्ते । किम् इव । खम् इव । यथा खम् अहोरात्रयोः तद् एव सत् अन्यताम् आदत्ते । तथेत्य् अर्थः । अतः प्रतिकल्पनयैव कल्पितस्य नाश इति भावः ॥ (मोटी_४,२१.४७ ॥

नन्व् अतुच्छत्वादिगुणविशिष्टः कल्पितो नास्तीति कथं सः कल्प्यते येन तुच्छत्वादिगुणविशिष्टसंसारकल्पना नश्यति । न च कल्पनां विना कल्पनायाः नाशः शक्यक्रियः अयसः इवायो विनेत्य् । अत्राह

यद् अतुच्छम् अनायासम् अनुपाधि गतभ्रमम् ।
तत् तत्कल्पनया तादृक् तत् सुखायैव कल्पते ॥ (मो_४,२१.४८ ॥

यत् वस्तु । अतुच्छम् तुच्छगुणरहितम् । अनायासम् आयाससाध्यत्वरहितम् । अनुपाधि उपाधित्वेनाभिमतस्यापि तत्ताव्यभिचारात् उपाधिरहितम् । गतभ्रमम् शुद्धसत्यबोधस्वरूपत्वात् भ्रमस्पर्शरहितम् । भवति । तत् तद् वस्तु । तत्कल्पनया तस्यातुच्छत्वादेः कल्पनया एव । तादृक् अतुच्छादिरूपम् । भवति । शुद्धे स्वरूपे तुच्छत्वातुच्छत्वादिसापेक्षशब्दावकाशाभावात् । ननु तर्हि तद् अपि हेयम् एवेत्य् । अत्राह तत् सुखायैवेति । तत् अतुच्छत्वादिगुणकं वस्तु कल्पितम् अपि । सुखायैव तुच्छत्वातुच्छत्वरहितशुद्धस्वरूपविश्रान्तय एव । भवति । तथा चातुच्छत्वादिगुणककल्पनया प्रतिपक्षभूतया तुच्छत्वादिगुणककल्पना नाशयितुं शाक्येति भावः ॥ (मोटी_४,२१.४८ ॥

ननु सत्यभूतस्य दृश्यरूपस्य बन्धस्य कथं कल्पनामात्रेण नाशः शक्यक्रियः इत्य् । अत्राह

शून्य एव कुसूलेऽन्तः सिंहोऽस्तीति भयं यथा ।
शून्य एव शरीरेऽन्तर् बद्धोऽस्मीति भयं तथा ॥ (मो_४,२१.४९ ॥

कुसूलः सिंहबन्धनार्थं यन्त्ररूपं कोष्ठकम् । दृश्यरूपो बन्धः सत्योऽपि भवतु । तथापि परमार्थतः शुद्धचिद्रूपस्य भवतः सः बन्धकारी न भवति । न ह्य् अम्बरं रज्जुभिः बध्यते इति भावः ॥ (मोटी_४,२१.४९ ॥

यथा शून्ये कुसूलेऽन्तः प्रेक्ष्य सिंहो न लभ्यते ।
तथा संसारबन्धार्हः प्रेक्षितः सन् न लभ्यते ॥ (मो_४,२१.५० ॥

स्पष्टम् ॥ (मोटी_४,२१.५० ॥

ननु तर्हि इदं जगत् अयम् अहम् इत्य् एवम् बन्धबध्यरूपा प्रतीतिः कथम् अस्तीत्य् । अत्राह

इदं जगद् अयं चाहम् इतीयम् भ्रान्तिर् उत्थिता ।
बालानां श्यामले काले छाया वैतालिकी यथा ॥ (मो_४,२१.५१ ॥

श्यामले काले रात्रौ । इदं जगत् अयम् अहम् इत्य् एवंरूपा प्रतीतिः । भ्रान्तिर् एवोत्थिता भवति इति पिण्डार्थः ॥ (मोटी_४,२१.५१ ॥

ननु एतादृशी भ्रान्तिः कथम् उत्थितेत्य् । अत्राह

कल्पनावशतो जन्तोर् भावाभावाः शुभाशुभाः ।
क्षणाद् असत्ताम् आयान्ति सत्ताम् अपि पुनः पुनः ॥ (मो_४,२१.५२ ॥

कल्पनावशतः स्वविकल्पवशतः ॥ (मोटी_४,२१.५२ ॥

एतद् एव विशेषतः कथयति

मातैव गृहिणीभावगृहीता कण्ठलम्बिनी ।
करोति गृहिणीकार्यं सुरतानन्ददायिनी ॥ (मो_४,२१.५३ ॥

भ्रमेणेति शेषः ॥ (मोटी_४,२१.५३ ॥

कान्तैव मातृभावेन गृहीताकण्ठलम्बिनी ।
दूरं विस्मारयत्य् एव मन्मथोन्मादभावनाम् ॥ (मो_४,२१.५४ ॥

इहापि भ्रमेणेति शेषः । इयं चावस्था मध्यमपापिप्रभृतीनां ज्ञेया । महापापिनां तु अत्रापि रतिर् एव जायते ॥ (मोटी_४,२१.५४ ॥

फलितम् आह

भावानुसारिफलदम् पदार्थौघम् अवेक्ष्य च ।
न ज्ञेनेह पदार्थेषु रूपम् एकम् उदीर्यते ॥ (मो_४,२१.५५ ॥

ज्ञेन पदार्थतत्त्वज्ञेन पुरुषेण । पदार्थौघम् भावानुसारिफलं ददातीति तादृशम् । अवेक्ष्य । इह लोके । पदार्थेष्व् एकं रूपं न उदीर्यते न कथ्यते ॥ (मोटी_४,२१.५५ ॥

दृढभावनया चेतो यद् यथा भावयत्य् अलम् ।
तत् तत्फलं तदाकारं तावत्कालम् प्रपश्यति ॥ (मो_४,२१.५६ ॥

चेतः । यत् वस्तु । दृढभावनया यथा भावयति अनुसन्धत्ते । तत्फलम् भावनाफलभूतम् । तत् । तदाकारम् । तावत्कालम् तस्मिन् समये । प्रपश्यति । स्वप्नश् चात्र दृष्टान्तत्वेन ज्ञेयः ॥ (मोटी_४,२१.५६ ॥

सिद्धान्तं कथयति

न तद् अस्ति न यत् सत्यं न तद् अस्ति न यन् मृषा ।
यद् यथा येन निर्णीतं तत् तथा तेन लक्ष्यते ॥ (मो_४,२१.५७ ॥

निर्णीटम् भावितम् । अन्यथा एकम् एव वस्तु एकस्य हर्षदम् अन्यस्य दुःखदं न स्याद् इति भावः ॥ (मोटी_४,२१.५७ ॥

भाविताकाशमातङ्गं व्योमहस्तितया मनः ।
व्योमकाननमातङ्गीं व्योमस्थाम् अनुधावति ॥ (मो_४,२१.५८ ॥

भाविताकाशमातङ्गम् सत् । मनः । व्योमहस्तितया व्योमहस्तिभावेन । व्योमहस्ती भूत्वेति यावत् । व्योमकाननमातङ्गीम् अनुधावति । कथम्भूताम् । काननाधारभूते व्योम्नि तिष्ठतीति तादृशीम् ॥ (मोटी_४,२१.५८ ॥

परमफलितम् आह

तस्मात् सङ्कल्पम् एव त्वं सर्वभावमयात्मकम् ।
त्यज राघव सुस्वस्थः स्वात्मनैव भवात्मनि ॥ (मो_४,२१.५९ ॥

सर्वभावमयः सर्वपदार्थस्वरूपः । आत्मा यस्य । तत् । सङ्कल्प एव हि बहिः नानाकारैः स्फुरति । त्यज मा प्रादुर्भावय । प्रादुर्भूतेऽपि उपेक्षाम् एव कुर्व् इत्य् अर्थः । न हि सर्वथा त्यागः विदेहमुक्तिं यावत् शक्यक्रियः ॥ (मोटी_४,२१.५९ ॥

ननु कथम् आगच्छन्तं सङ्कल्पं त्यजामीत्य् । अत्राह

मणिर् हि प्रतिबिम्बानाम् प्रतिषेधक्रियाम् प्रति ।
शक्तो जडभावेन न तु राम भवादृशः ॥ (मो_४,२१.६० ॥

जडभावेन जडतया । भवादृशः त्वादृक्चेतनः । सङ्कल्पत्यागो हि संवेदनसाध्यः । तच् च तवास्त्य् एवेति भावः ॥ (मोटी_४,२१.६० ॥

त्यागोपायं कथयति

यद् यन् मनोमणौ राम तवेह प्रतिबिम्बति ।
तद् अवस्त्व् इति निर्णीय मा तेनागच्छ रञ्जनाम् ॥ (मो_४,२१.६१ ॥

रञ्जनाम् उपरक्तत्वम् ॥ (मोटी_४,२१.६१ ॥

उपायान्तरं कथयति

तद् एव सत्यम् इति वाप्य् अभिन्नम् परमात्मनः ।
मन्वानस् त्वम् अनाद्यन्तम् भावयात्मानम् आत्मना ॥ (मो_४,२१.६२ ॥

सर्वस्य परमात्मनः अभिन्नत्वभावनेन हि अनाद्यन्तात्मभावनम् एव सम्पद्यते ॥ (मोटी_४,२१.६२ ॥

चेतसि प्रतिबिम्बन्ति ये भावास् तव राघव ।
रञ्जयन्त्व् अन्यसक्तात्मन् मा ते त्वां स्फटिकं यथा ॥ (मो_४,२१.६३ ॥

हे राघव । कथम्भूत । अन्यस्मिन् भावेभ्यः भिन्नस्वरूपे परमात्मनि । सक्तः आत्मा मनः यस्य । तादृश । अन्यथा प्रतिबिम्बितभावरञ्जनाभावो न युक्त इति भावः । त्वाम् कं यथा । स्फटिकं यथा । यथा अन्यरागयुक्तं स्फटिकम् अन्यरागकृता रञ्जना न रञ्जयति । तथेत्य् अर्थः ॥ (मोटी_४,२१.६३ ॥

ननु कथं रञ्जनाभावो देहं तावत् शक्य इत्य् । अत्र सर्गान्तश्लोकेन कथयति

स्फटिकम् अपमलं यथा विशन्ति
प्रकटतया नवरञ्जना विचित्राः ।
इह हि विमननं तथा विशन्तु
प्रकटतया भुवणैषणा भवन्तम् ॥ (मो_४,२१.६४ ॥

विमननम् मननाख्यमनोधर्मरहितम् । यथा निर्मलं स्फटिकं विचित्राः रञ्जना विशन्ति । तथा मननापरपर्यायानुसन्धानराहित्येन शुद्धम् भवन्तम् अपि पदार्थसङ्कल्पनारूपाः रञ्जना विशन्त्व् इति पिण्डार्थः । लेपाकारिणी रञ्जना यद्य् आयाति तदा न काचिद् धानिर् इति भावः । इति शिवम् ॥ (मोटी_४,२१.६४ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे एकविंशः सर्गः ॥२१॥





पूर्वोक्तम् एवार्थं स्थितिप्रकरणवाच्यतया स्थितत्वात् पुनर् अपि कथयति

जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः ।
मननं त्यजतो ज्ञत्वात् किञ्चित् परिगतात्मनः ॥ (मो_४,२२.१ ॥
दृश्यं सन्त्यजतो हेयम् उपादेयम् उपेयुषः ।
द्रष्टारम् पश्यतो दृश्यम् अद्रष्टारम् अपश्यतः ॥ (मो_४,२२.२ ॥
सुप्तस्य परे तत्त्वे जागरूकस्य जीवतः ।
सुप्तस्य घनसम्मोहमये संसारवर्त्मनि ॥ (मो_४,२२.३ ॥
पर्यन्तात्यन्तवैरस्याद् अरसेषु रसेष्व् अपि ।
भोगेष्व् आभोगरम्येषु नीरसस्य निराशिषः ॥ (मो_४,२२.४ ॥
व्रजत्य् आत्माम्भसैकत्वं जीर्णजाड्ये मनस्य् अलम् ।
गलत्य् अपगतासङ्गे हिमपूर इवातपे ॥ (मो_४,२२.५ ॥
तरङ्गितासु कल्लोलजाललोलान्तरासु च ।
शाम्यन्तीष्व् अथ तृष्णासु नदीष्व् इव घनात्यये ॥ (मो_४,२२.६ ॥
संसारवासनाजाले खगजाल इवाखुना ।
त्रोटिते चादृढग्रन्थिश्लेषे वैरस्यरंहसा ॥ (मो_४,२२.७ ॥
कतकम् फलम् आसाद्य यथा वारि प्रसीदति ।
तथा विज्ञानवशतः स्वभावः सम्प्रसीदति ॥ (मो_४,२२.८ ॥

जन्तोः पुरुषस्य । विज्ञानवशतः शुद्धात्मज्ञानवशेन । स्वभावः स्वस्वरूपम् । तथा प्रसीदति निर्मलीभवति । तथा कथम् । यथा कतकम् फलम् आसाद्य वारि प्रसीदति । केषु सत्सु प्रसीदतीत्य् अपेक्षायाम् आह व्रजत्य् आत्मेत्यादि । अपगतासङ्गे नष्टासक्त्याख्यदोषे । जीर्णजाड्ये जाड्यनिर्गते । अत एव गलति गलनोन्मुखे । मनसि । आत्माम्भसा परमात्माख्यजलेन सह । एकत्वं व्रजति सति । कस्मिन्न् इव । आतपे तापदेशे । स्थिते हिमपूरे इव । पुनः कासु सतीषु । अथ तदनन्तरम् । तृष्णासु शाम्यन्तीषु सतीषु । कथम्भूतासु । तरङ्गितासु वृद्धियुक्तासु । कल्लोलजालैः विकल्पस्वरूपैः कल्लोलसमूहैः । लोलम् अन्तरम् यासाम् । ताः । तादृशीषु । कास्व् इव । नदीष्व् इव । यथा ताः घनात्यये शरदि । शाम्यन्ति । तथेत्य् अर्थः । पुनः कस्मिन् सति । संसारवासनाजाले वैरस्यरंहसा आखुना इव खगजाले त्रोटिते सति । कथम्भूते । अदृढः । ग्रन्थीनाम् कामादिरूपाणां ग्रन्थीनाम् । श्लेषः सम्बन्धः यस्य । तादृशे । जन्तोः कथम्भूतस्य । कृतः विचारः कोऽहं कस्य संसार इत्य् एवंरूपः विवेकः येन । तादृशस्य । विगलद्वृत्तिचेतः यस्य । तादृशस्य । ज्ञस्यैव हि मननत्यागे शक्तिर् अस्तीति ज्ञत्वाद् इत्य् उक्तम् । किञ्चित् परोक्षतया । न त्व् अपरोक्षतयेत्य् अर्थः । उपादेयम् अर्थात् शुद्धद्रष्टृरूपम् । दृश्यम् । द्रष्टारम् द्रष्टृरूपम् । पश्यतः । अद्रष्टारम् द्रष्टृव्यतिरिक्तम् । अपश्यतः । रसेष्व् अपि सुप्तस्येति योज्यम् । निराशिषः आशारहितस्य । कुलकम् ॥ (मोटी_४,२२.१-८॥

अन्यत् किं तस्य सम्पत्स्यते इत्य् । अत्राह

नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् ।
विनिर्याति मनो मोहाद् विहगः पञ्जराद् इव ॥ (मो_४,२२.९ ॥

निरुपासङ्गम् आसक्तिरहितम् । निरुपाश्रयम् निरपेक्षम् । मोहात् अनात्मन्य् आत्माभिमानरूपाद् अविचारात् ॥ (मोटी_४,२२.९ ॥

शान्तसन्देहदौरात्म्यं गतकौतुकविभ्रमम् ।
परिपूर्णान्तरं चेतः पूर्णेन्दुर् इव राजते ॥ (मो_४,२२.१० ॥

कौतुकम् अत्र पदार्थविषयं ज्ञेयम् । परिपूर्णम् सहजानन्दनिर्भरम् । अन्तरम् यस्य । तादृशम् ॥ (मोटी_४,२२.१० ॥

जनितोत्तमसौन्दर्या दूरोदस्तनतोन्नता ।
समतोदेति सर्वत्र शान्तवात इवार्णवे ॥ (मो_४,२२.११ ॥

जनितम् उत्तमं सौन्दर्यम् यया । सा । समतया हि पुरुषः सदैव प्रसन्नवदनो भवति । दूरोदस्ता नतोन्नता भावप्रधानो निर्देशः । नतोन्नतता । यस्याम् । सा ॥ (मोटी_४,२२.११ ॥

न्धकारमयी मूढा जाड्यजर्जरितान्तरा ।
तनुताम् एति संसारवासनेव प्रगे क्षपा ॥ (मो_४,२२.१२ ॥

इवशब्दः क्षपेत्य् अनेन सम्बध्यते ॥ (मोटी_४,२२.१२ ॥

दृष्टचिद्भास्करा प्रज्ञापद्मिनी पुण्यपल्लवा ।
विकसत्य् अमलोद्द्योता प्रातर् द्यौर् इव रूपिणी ॥ (मो_४,२२.१३ ॥

स्पष्टम् ॥ (मोटी_४,२२.१३ ॥

प्रज्ञा हृदयहारिण्यो भुवनाह्लादनक्षमाः ।
सत्त्वलक्ष्म्यः प्रवर्तन्ते सकलेन्दोर् इवांशवः ॥ (मो_४,२२.१४ ॥

सत्त्वलक्ष्म्यः सत्त्वगुणसम्पदः ॥ (मोटी_४,२२.१४ ॥

उपसंहारं करोति

बहुनात्र किम् उक्तेन ज्ञातज्ञेयो महामतिः ।
नोदेति नैव यात्य् अस्तम् अभूताकाशकोशवत् ॥ (मो_४,२२.१५ ॥

न उदेति अस्तं नायाति चिन्मात्राख्यात् स्वस्वरूपान् न च्यवत इत्य् अर्थः । अभूताकाशकोशवत् परमाकाशमध्यवत् ॥ (मोटी_४,२२.१५ ॥

विचारणापरिज्ञातस्वभावस्योदितात्मनः ।
नुकम्प्या भवन्त्य् एते ब्रह्मविष्ण्विन्द्रशङ्कराः ॥ (मो_४,२२.१६ ॥

विचारणया परिज्ञातः स्वभावः स्वस्वरूपं येन । तादृशस्य । अनुकम्प्याः तेष्व् अपि सृष्टिनिर्माणादिक्षोभदर्शनात् अस्य दया जायते इत्य् अर्थः ॥ (मोटी_४,२२.१६ ॥

प्रकटाकारम् अप्य् अन्तर् निरहङ्कारचेतसम् ।
नाप्नुवन्ति विकल्पास् तम् मृगतृष्णाम्ब्व् इवैणकाः ॥ (मो_४,२२.१७ ॥

नाप्नुवन्ति स्ववशं न कुर्वन्ति । प्रकटाकारस्य चाहङ्कारराहित्यम् आश्चर्यकार्य् एव ॥ (मोटी_४,२२.१७ ॥

तरङ्गवद् अमी लोकाः प्रयान्त्य् आयान्ति चाभितः ।
क्रोडीकुरुत आत्मोत्थे न ज्ञम् मरणजन्मनी ॥ (मो_४,२२.१८ ॥

क्रोडीकुरुतः वशीकुरुतः । देहाभिमानाभावेन तत्स्थमृतिजन्माभिमानाभावात् ॥ (मोटी_४,२२.१८ ॥

आविर्भावतिरोभावौ संसारो नेतरः क्रमः ।
इति ताभ्यां समालोके रमते न स खिद्यते ॥ (मो_४,२२.१९ ॥

इति एवंरूपाभ्याम् । ताभ्याम् आविर्भावतिरोभावाभ्याम् । सः । समालोके तत्तत्त्वप्रकाशे सति । रमते । न खिद्यते । ज्ञातवस्तुतत्त्वो हि वस्तुभिः रमत एव न खिद्यते । अज्ञाततत्त्वस्यैव रज्ज्वादिषु सर्पादिभयकृतखेददर्शनात् ॥ (मोटी_४,२२.१९ ॥

न जायते न म्रियते कुम्भे कुम्भनभो यथा ।
भूषिते दूषिते वापि देहे तद्वद् इहात्मवान् ॥ (मो_४,२२.२० ॥

देहाभिमानाभावाद् इति भावः ॥ (मोटी_४,२२.२० ॥

विवेक उदिते शीते मिथ्याभ्रमभरोदिता ।
क्षीयते वासना साभ्रे मृगतृष्णा मराव् इव ॥ (मो_४,२२.२१ ॥

मिथ्यारूपः यः भ्रमभरः । तेनोदिता । साभ्रे हि मरौ मृगतृष्णा क्षीयत एव । ताप एव तस्या उत्थानात् ॥ (मोटी_४,२२.२१ ॥

कोऽहं कथम् इदं वेति यावन् न प्रविचारितम् ।
संसाराडम्बरं तावद् अन्धकारोपमं स्थितम् ॥ (मो_४,२२.२२ ॥

अन्धकारोऽपि किंरूपोऽयम् इति विचारः । तावद् एव तिष्ठति ॥ (मोटी_४,२२.२२ ॥

मिथ्याभ्रमभरोद्भूतं शरीरम् पदम् आपदाम् ।
आत्मभावनया नेदं यः पश्यति स पश्यति ॥ (मो_४,२२.२३ ॥

यः इदं देहम् । आत्मभावनया न पश्यति । सः पश्यति सम्यक् पश्यति इति पिण्डार्थः ॥ (मोटी_४,२२.२३ ॥

देशकालवशोत्थानि न ममेति गतभ्रमम् ।
शरीरसुखदुःखानि यः पश्यति स पश्यति ॥ (मो_४,२२.२४ ॥

मम शुद्धचिन्मात्रस्य मम ॥ (मोटी_४,२२.२४ ॥

आत्मानम् इतरच् चैव दृशा नित्याविभिन्नया ।
सर्वं चिज्ज्योतिर् एवेति यः पश्यति स पश्यति ॥ (मो_४,२२.२५ ॥

चिज्ज्योतिः शुद्धचित्प्रकाशरूपम् ॥ (मोटी_४,२२.२५ ॥

पारपर्यन्तनभोदिक्कालादि क्रियान्वितम् ।
हम् एवेति सर्वत्र यः पश्यति स पश्यति ॥ (मो_४,२२.२६ ॥

नभश् च दिक् च कालश् च । ते आदिः यस्य जगतः । तत् नभोदिक्कालादि अपारपर्यन्तम् पारपर्यन्तरहितं च तत् । नभोदिक्कालादिरूपं जगत् अहम् एवास्मि । अहन्तासारस्य चिन्मात्रतत्त्वस्यैव सर्वमयत्वेन स्थितत्वात् । अन्यथाहम् इति सर्वत्र न स्फुरेत् । जडेष्व् अदर्शनेऽपि चेतनवत् सत्ताभाक्त्वाविशेषात् । तत्रापि तत्स्फुरणानुमानस्य शक्यत्वात् न सर्वत्रेत्य् अस्यानुपपत्तेः । कथम्भूतं तत् । क्रियान्वितम् । आदिशब्दाक्षिप्ताया अपि क्रियायाः पृथक् निर्देशः प्राधान्यख्यापनार्थः । इति एवम् । सर्वत्र सर्वेषु देशेषु कालेषु च । यः पश्यति सः पश्यति । नान्य इत्य् अर्थः ॥ (मोटी_४,२२.२६ ॥

वालाग्रलक्षभागात् तु कोटिशः परिकल्पितः ।
हं सूक्ष्म इति व्यापी यः पश्यति स पश्यति ॥ (मो_४,२२.२७ ॥

सूक्ष्मस्य व्यापित्वम् आश्चर्यावहम् । सूक्ष्मत्वं चात्र बाह्यान्तःकरणातीतत्वेन द्रष्टव्यम् ॥ (मोटी_४,२२.२७ ॥

सर्वशक्तिर् अनन्तात्मा सर्वभावान्तरस्थितः ।
द्वितीयश् चिद् इत्य् अन्तर् यः पश्यति स पश्यति ॥ (मो_४,२२.२८ ॥

चित् चिदात्मा । भवति । कथम्भूतः । सर्वशक्तिः अन्यथा नानारूपं जगत् न प्रादुर्भवेत् । अनन्तात्मा अन्तस्यापि तस्मिन्न् एव निगीर्णत्वात् तद्रहितः । न हि निगीर्ण एव निगरितुः रूपम् आच्छादयितुं शक्तः । सर्वेषाम् भावानाम् अन्तरे स्थितः सर्वभावान्तरस्थितः । अन्यथाहम् इति न स्फुरेत् । अद्वितीयः द्वितीयत्वेन मतस्यापि तद्रूपत्वानपायात् द्वितीयरहितः । इति एवम् । अन्तः मनसि । न तु चक्षुषा । यः पश्यति स पश्यतीति ॥ (मोटी_४,२२.२८ ॥

आधिव्याधिभयोद्विग्नो जरामरणजन्मवान् ।
देहो नाहम् इति प्राज्ञो यः पश्यति स पश्यति ॥ (मो_४,२२.२९ ॥

प्राज्ञः शुद्धचिन्मात्रतत्त्वे आत्मत्वनिश्चयवान् ॥ (मोटी_४,२२.२९ ॥

तिर्यग् ऊर्ध्वम् अधस्ताच् च व्यापको महिमा मम ।
न द्वितीयो ममास्तीति यः पश्यति स पश्यति ॥ (मो_४,२२.३० ॥

मम शुद्धचिन्मात्ररूपस्य मम । न तु देहादिरूपस्य ॥ (मोटी_४,२२.३० ॥

मयि सर्वम् इदम् प्रोतं सूत्रे मणिगणा इव ।
चित्तन्तुर् अहम् एवेति यः पश्यति स पश्यति ॥ (मो_४,२२.३१ ॥

कथं त्वयि सर्वम् प्रोतम् इत्य् । अत्राह चित्तन्तुर् इति । तन्तौ हि मुक्ता प्रोताः भवन्ति । तन्तुत्वं च चितः व्यापकतया सूक्ष्मतया च ज्ञेयम् ॥ (मोटी_४,२२.३१ ॥

नाहं न चान्यद् अस्तीह ब्रह्मैवास्ति न चास्ति तत् ।
इत्थं सदसतोर् मध्यं यः पश्यति स पश्यति ॥ (मो_४,२२.३२ ॥

इह लोके । अहम् परिच्छिन्नदेहादिरूपः अहम् । नास्मि । अन्यत् मत्तो भिन्नत्वेन स्थितं जगत् । न चास्ति । सुषुप्तौ अदर्शनात् । ब्रह्म व्यापकं चिन्मात्रतत्त्वम् । एवास्ति परमार्थतः सत्ताम् भजते । सर्वथाभावस्य वक्तुम् अशक्यत्वात् । न हि निरादिष्टो नो भ्रमः सम्भवति । तत् ब्रह्म । नास्ति च । बाह्यान्तःकरणातीतत्वात् । इत्थम् एवम् । सदसतोः मध्यम् सन्धिभूतं शुद्धचिन्मात्राख्यं वस्तु । यः पश्यति स पश्यति ॥ (मोटी_४,२२.३२ ॥

यन् नाम किञ्चित् त्रैलोक्यं स एकोऽवयवो मम ।
तरङ्गोऽब्धाव् इवेत्य् अन्तर् यः पश्यति स पश्यति ॥ (मो_४,२२.३३ ॥

मम शुद्धचिन्मात्ररूपस्य मम । स्वप्ने हि चिन्मात्रावयवभूतं जगत् सर्वोऽनुभवति ॥ (मोटी_४,२२.३३ ॥

शोच्या पाल्या मयैवेयं स्वसेयम् मे कनीयसी ।
त्रिलोकी पेलवेत्य् उच्चैर् यः पश्यति स पश्यति ॥ (मो_४,२२.३४ ॥

पेलवा नाशभीरुः । कनीयसी स्वसा चेदृश्य् एव भवति ॥ (मोटी_४,२२.३४ ॥

आत्मतापरते त्वत्तामत्ते यस्य महात्मनः ।
भावाद् उपरते नूनं स पश्यति सुलोचनः ॥ (मो_४,२२.३५ ॥

भावात् मनसः । सर्वत्र चिन्मात्रत्वदर्शनाद् इति भावः ॥ (मोटी_४,२२.३५ ॥

चेत्यानुपातरहितं चिद्भैरवमयं वपुः ।
आपूरितजगज्जालं यः पश्यति स पश्यति ॥ (मो_४,२२.३६ ॥

चेत्यानुपातरहितः यः चिद्भैरवः सर्वग्रासकत्वात् चिदाख्यः भैरवः । तन्मयं वपुः स्वरूपम् ॥ (मोटी_४,२२.३६ ॥

सुखं दुःखम् भवोऽभावो विवेककलनाश् च याः ।
हं न वेति नूनं वा पश्यन् न परिहीयते ॥ (मो_४,२२.३७ ॥

सुखं दुःखं भवः अभावः विवेककलनाश् चाहम् अस्मि इति पश्यन् । एतन् न वास्मि इति वा पश्यन् । न परिहीयते न हानिम् प्राप्नोति । उभयथापि शुद्धचिन्मात्रस्वरूपत्वाप्तेः । न हि शुद्धचिन्मात्रं विना कश्चिद् व्यापकः उत्तीर्णो वा भवति ॥ (मोटी_४,२२.३७ ॥

स्वात्मसत्तापरापूर्णे जगत्य् अन्येन वर्जिते ।
किम् मे हेयं किम् आदेयम् इति पश्यन् सदृग् नरः ॥ (मो_४,२२.३८ ॥

स्वात्मनः शुद्धचिन्मात्ररूपस्य स्वात्मनः । या सत्ता स्फूर्तिरूपा सत्ता । तया परापूर्णे सारत्वेन स्थितत्वात् निर्भरिते । अन्यथाहम् इति स्फुरणायोगात् । तथा अन्येन चिन्मात्रव्यतिरिक्तेन । वर्जिते जगति । किं हेयम् भवति । स्वात्मनः हेयत्वायोगात् न किञ्चिद् अपीत्य् अर्थः । किम् आदेयम् भवति । स्वात्मनः सर्वदा प्राप्तत्वात् न किञ्चिद् अपीत्य् अर्थः । इति एवम् । पश्यन् अनुभवन् । नरः । सदृक् दृष्टिसहितो । भवति । अन्येऽन्धा इत्य् अर्थः ॥ (मोटी_४,२२.३८ ॥

प्रतर्क्यम् अनाभासं सन्मात्रम् इदम् इत्य् अलम् ।
हेयोपादेयकलना यस्य क्षीणा नमामि तम् ॥ (मो_४,२२.३९ ॥

इदम् जगत् । अप्रतर्क्यम् तर्कितुम् अशक्यम् । अनाभासम् शान्ते स्वस्वरूपे स्थितत्वाद् आभासरहितम् । सन्मात्रम् एवास्ति । इति अनेन निश्चयेन । यस्य पुरुषस्य । हेयोपादेयकलना क्षीणा । अहं तम् पुरुषम् । नमामि । स एव सर्वेभ्य उत्कृष्ट इति भावः ॥ (मोटी_४,२२.३९ ॥

य आकाशवद् एकात्मा सर्वभावगतोऽपि सन् ।
न भावरञ्जनाम् एति स महात्मा महेश्वरः ॥ (मो_४,२२.४० ॥

यः पुरुषः । आकाशवत् एकात्मा सर्वव्यापकात्मा । सर्वभावगतः अपि सन् शरीरयात्रानिमित्तेषु सर्वेषु पदार्थेषु व्यवहारयुक्तोऽपि सन् । भावरञ्जनाम् । भावे मनसि । रञ्जनाम् हर्षामर्षरूपां रञ्जनाम् । न एति । सः महात्मा महापुरुषः । महेश्वरः भवति महाशक्तियुक्तत्वात् ॥ (मोटी_४,२२.४० ॥

तमःप्रकाशकलनामुक्तः कालात्मतां गतः ।
यः सोम्यः सुसमः स्वस्थस् तं नौमि पदम् आगतम् ॥ (मो_४,२२.४१ ॥

यः । तमःप्रकाशयोः जाड्यचित्त्वयोः । या कलना । तया मुक्तः । कालस्य क्रियावैचित्र्यरूपस्य कालस्य । आत्मताम् सत्तादायकत्वेन स्वरूपताम् । गतः । सोम्यः शीतलः । स्वस्थः स्वस्वरूपे एव स्थितः । भवति । तम् पदम् आगतं नौमि । अपूर्वश् चात्र सूर्य उक्तः ॥ (मोटी_४,२२.४१ ॥

सर्गान्तश्लोकेनाप्य् एतद् एव कथयति

यस्योदयास्तमयसङ्कलनाकलासु
चित्रासु चारुविभवासु जगद्गतासु ।
वृत्तिः समैव सकलैकगतेर् अनन्ता
तस्मै नमः परमबोधवते शिवाय ॥ (मो_४,२२.४२ ॥

सकलैकगतेः समस्तैकशरणस्य । चारुविभवासु प्रशस्तसामर्थ्ययुक्तासु । चित्रासु नानाविधासु । उदयास्तमययोः याः सङ्कलनाः घट्टनाः । तद्रूपासु जगद्गतासु कलासु । अनन्ता नाशरहिता । वृत्तिः मनोवृत्तिः । समैव भवति । अनन्तत्वं चात्र दर्ढ्यतापेक्षम् उक्तम् । तस्मै परमबोधवते परात्मतत्त्वबोधयुक्ताय । शिवाय शिवीभूताय पुरुषाय । नमः अस्तु । शिवश् च समवृत्तिः सकलैकगतिः परमबोधरूपश् च भवतीति शिवम् ॥ (मोटी_४,२२.४२ ॥


इति श्रीभास्करकण्ठविरचितायां मोक्षोपायटीकायां स्थितिप्रकरणे द्वाविंशः सर्गः ॥२२॥




ओं । पुनर् अपि विवेकिन एव माहात्म्यं कथयति

स उत्तमपदालम्बी चक्रभ्रमवद् आस्थितः ।
शरीरनगरे राज्यं कुर्वन्न् अपि न लिप्यते ॥ (मो_४,२३.१ ॥

उत्तमम् पदम् चिन्मात्राख्यं श्रेष्ठं स्थानम् । आलम्बत इत्य् उत्तमपदालम्बी । चक्रभ्रमवत् आस्थितः समन्तात् स्थितः । निरनुसन्धानं चेष्टायां स्थित इति यावत् । सः जीवन्मुक्तः । शरीरनगरे राज्यं कुर्वन्न् अपि न लिप्यते । तज्जैः सुखदुःखैः न गृह्यते इत्य् अर्थः । राजापि उत्तमपदालम्बी सर्वत्र भ्रमन् नगरे राज्यं कुर्वन् भवति ॥ (मोटी_४,२३.१ ॥

तस्येयम् भोगमोक्षार्थं तज्ज्ञस्योपवनोपमा ।
सुखायैव न दुःखाय स्वशरीरमहापुरी ॥ (मो_४,२३.२ ॥

सुखायैव आत्यन्तिकमोक्षरूपसुखसाधनत्वात् । न दुःखाय दुःखलेपाभावात् ॥ (मोटी_४,२३.२ ॥

अत्र श्रीरामः पृच्छति

नगरीत्वं शरीरस्य कथं नाम महामुने ।
एतां चाधिवसन् योगी कथं राज्यसुखैकभाक् ॥ (मो_४,२३.३ ॥

स्पष्टम् ॥ (मोटी_४,२३.३ ॥

श्रीवसिष्ठ उत्तरम् आह

रम्येयं देहनगरी राम सर्वगुणान्विता ।
ज्ञस्यानन्तविलासाढ्या स्वालोकार्कप्रकाशिता ॥ (मो_४,२३.४ ॥

स्वालोकः आत्मप्रकाशः । स एवार्कः । तेन प्रकाशिता परामर्शद्वारेण स्वम् प्रति प्राकट्यं नीता ॥ (मोटी_४,२३.४ ॥

सर्वगुणत्वम् एव कथयति

नेत्रवातायनोद्द्योतप्रकाशभुवनान्तरा ।
करप्रतोलीविस्तारप्राप्तपादोपजङ्गला ॥ (मो_४,२३.५ ॥

नेत्रे एव वातायने । तयोः यः उद्द्योतः प्रकाशः । तेन प्रकाशानि प्रकटानि । भुवनान्तराणि भुवनमध्यानि यस्याम् । सा । नगर्याम् अपि नगरद्वारनिर्मितैः वातायनैः भुवनान्तराणि दृश्यानि भवन्ति । करौ एव प्रतोल्यौ विशिखे । ताभ्याम् प्राप्तौ पादाव् एव उपजङ्गलौ जङ्गलसमीपदेशौ यस्याः । सा । नगर्यश् च उपजङ्गलं तावत् प्रतोली भवति ॥ (मोटी_४,२३.५ ॥

रोमराजिलतागुल्मा त्वगट्टालकमालिता ।
गुल्फगुल्गुलुविश्रान्तजङ्घोरुस्तम्भमण्डला ॥ (मो_४,२३.६ ॥

त्वग् एवाट्टालकम् प्राकारः । तेन भूषिता । गुल्गुलुः स्तम्भाधारभूता शिला ॥ (मोटी_४,२३.६ ॥

रेखाविभक्तपादोग्रशिलाप्रथमनिर्मिता ।
चर्ममर्मसिरासारसन्धिसीमा मनोरमा ॥ (मो_४,२३.७ ॥

रेखाभ्यां विभक्ते ये । पादौ एवोग्रशिले । तयोः प्रथमं निर्मिता । प्रथमनिर्माणे हि कृतविभागाः शिलाः स्थाप्यन्ते । चर्ममर्मसिरासारः चर्ममर्मसिरासमूह एव । सन्धिसीमाः सन्धिमर्यादाः यस्याः । सा ॥ (मोटी_४,२३.७ ॥

ूरुद्वयकवाटाग्रनिर्मितोपस्थनिर्गमा ।
कचत्कचावलीकाचदलप्रच्छादनावृता ॥ (मो_४,२३.८ ॥

ऊरुद्वयम् एव कवाटे । तयोः ये अग्रे । ताभ्यां निर्मितः कवाटरचनायुक्तः कृतः । उपस्थ एव गुदस्थानम् एव । निर्गमः द्वारदेशः यस्याः । सा । कचन्ती या कचावली । सा एव काचदलैः निर्मितम् प्रच्छादनम् । तेनावृता ॥ (मोटी_४,२३.८ ॥

भ्रूललाटास्यसच्छायवदनोद्यानशोभिता ।
दृष्टिपातोत्पलाकीर्णकपोलविपुलस्थला ॥ (मो_४,२३.९ ॥

भ्रूललाटास्यैः सच्छायम् यत् वदनम् । तद् एवोद्यानम् । तेन शोभिता ॥ (मोटी_४,२३.९ ॥

वक्षःस्थलसरःस्यूतकुचपङ्कजकोरका ।
घनरोमावलिच्छन्नस्कन्धक्रीडाशिलोच्चया ॥ (मो_४,२३.१० ॥

घनरोमावलिच्छन्ना चासौ स्कन्धक्रीडाशिलोच्चया च ॥ (मोटी_४,२३.१० ॥

उदरश्वभ्रनिक्षिप्तस्वन्नेष्टभक्ष्यकर्परा ।
दीर्घकण्ठबिलोद्गीर्णवातसंरम्भशब्दिता ॥ (मो_४,२३.११ ॥

उदरश्वभ्रे उदरगर्ते । निक्षिप्तानि यानि स्वन्नानि शोभनान्नानि । तैः । तद्व्याजेनेति यावत् । इष्टभक्ष्यकर्परा इष्टभक्ष्यभग्नपात्रम् यस्याः । सा । राजनगर्याम् अपि इष्टभक्ष्यपात्राणि भवन्ति । दीर्घम् यत् कण्ठबिलम् । तस्मिन् । उद्गीर्णः सञ्चारी । यः वातः । तस्य यः संरम्भः । तेन शब्दिता शब्दयुक्ता कृता । नगर्याम् अपि बिलेषु वातशब्दो भवति ॥ (मोटी_४,२३.११ ॥

हृदयापणनिर्णीतयथाप्राप्तार्थभूषिता ।
नारतं नवद्वारप्रवहत्प्राणनागरा ॥ (मो_४,२३.१२ ॥

हृदयम् एवापणः निषद्या । तस्मिन् निर्णीता उपादेयत्वेन निश्चिताः । ये यथाप्राप्तार्थाः स्वप्रवाहागतार्थाः । तैः भूषिता । नगर्या अपि आपणेषु अर्था निर्णीयन्ते ॥ (मोटी_४,२३.१२ ॥

आस्यस्फारखदादृष्टदन्तास्थिशकलाकुला ।
मुखखदाभ्रमज्जिह्वाचिल्लाचर्वितभोजना ॥ (मो_४,२३.१३ ॥

नगर्याम् अपि खदासु मांसभक्षकैः त्यक्तानि अस्थिशकलानि भवन्ति । चिल्ला पक्षिविशेषः ॥ (मोटी_४,२३.१३ ॥

रोमशष्पभरच्छन्नकर्णकोटरकूपका ।
स्फिक्शृङ्खलाञ्चितोपान्तपृष्टविस्तीर्णजङ्गला ॥ (मो_४,२३.१४ ॥

स्फिजौ एव शृङ्खले । ताभ्याम् अञ्चितोपान्तम् रम्योपान्तम् । पृष्टम् एव विस्तीर्णजङ्गलम् यस्याः । सा । नगर्या अपि जङ्गलसन्धिषु चौरादिप्रतिबन्धार्थं शृङ्गलाः भवन्ति ॥ (मोटी_४,२३.१४ ॥

गुदोच्छिन्नारघट्टान्तरुद्धृतानन्तकर्दमा ।
चित्तोद्यानमहीवल्गदात्मचिन्तावराङ्गना ॥ (मो_४,२३.१५ ॥

गुद एवोच्छिन्नारघट्टः त्रोटितारघट्टयन्त्रः । तेनान्तः अन्तःप्रदेशात् । उद्धृतः निष्कासितः । अनन्तः कर्दमः । अर्थात् शकृद्रूपः कर्दमः यस्याः । सा । नगर्या अपि कर्दमम् उद्धरन्ति । चित्तोद्यानेति । ज्ञचित्ते हि रात्रिन्दिनम् आत्मचिन्ता एव स्फुरति ॥ (मोटी_४,२३.१५ ॥

धीवरत्रादृढाबद्धचपलेन्द्रियमर्कटा ।
वदनोद्यानहसनपुष्पोद्गममनोरमा ॥ (मो_४,२३.१६ ॥

ज्ञो हि धीरज्ज्वा चपलेन्द्रियाणि बध्नाति । वदनोद्यानेति । उद्याने च पुष्पोद्गमो युक्त एव ॥ (मोटी_४,२३.१६ ॥

स्वशरीरपुरी ज्ञस्य सर्वसौभाग्यसुन्दरी ।
सुखायैव न दुःखाय परमाय हिताय च ॥ (मो_४,२३.१७ ॥

स्वशरीरपुरी प्रोक्तसर्वपुरीगुणा निजशरीरनगरी । परमाय हिताय मोक्षरूपायेत्य् अर्थः ॥ (मोटी_४,२३.१७ ॥

अज्ञस्येयं सुखदास्त्य् अथ वा नेत्य् । अत्राह

ज्ञस्येयम् अनन्तानां दुःखानां कोशमालिका ।
ज्ञस्य त्व् इयम् अनन्तानां सुखानां कोशमालिका ॥ (मो_४,२३.१८ ॥

कोशमालिका भाण्डागारमाला । अनन्तदुःखोत्पादिकेत्य् अर्थः । अज्ञातशुद्धतत्त्वस्य तस्यैतदर्थं रात्रिन्दिनं सन्तापभाक्त्वात् इति भावः । ननु तर्हि ज्ञस्यापि ईदृश्य् एव स्याद् इत्य् । अत्राह ज्ञस्य त्व् इति । तुशब्दः व्यतिरेकद्योतकः । ज्ञातशुद्धात्मतत्त्वस्य तस्यैतदर्थं सन्तापभाक्त्वाभावात् । न ह्य् अन्यार्थम् अन्यः सन्तापभाग् भवतीति भावः ॥ (मोटी_४,२३.१८ ॥

ननु तर्हि नाशकाले इयं ज्ञस्य दुःखदा भविष्यतीत्य् । अत्राह

न किञ्चिद् अस्यां नष्टायां ज्ञस्य नष्टम् अरिन्दम ।
स्थितायां संस्थितं सर्वं तेनेयं ज्ञसुखावहा ॥ (मो_४,२३.१९ ॥

एतद्व्यतिरिक्तशुद्धचिन्मात्रस्वरूपत्वाद् इति भावः । ननु तर्हि स्थितिकालेऽप्य् अस्यानया न किञ्चित् प्रयोजनम् इत्य् । अत्राह स्थितायाम् इति । सर्वं संस्थितम् समस्तजीवन्मुक्त्युपयोगिकार्यसाधकत्वाद् इति भावः । उपसंहारं करोति तेनेयम् इति ॥ (मोटी_४,२३.१९ ॥

नन्व् अस्याः कैश्चिद् रथत्वम् अप्य् उक्तम् इत्य् । अत्राह

यद् एनां ज्ञः समारुह्य संसारे विहरत्य् अलम् ।
शेषभोगमोक्षार्थं तेनेयं ज्ञरथः स्मृतः ॥ (मो_४,२३.२० ॥

एनाम् शरीरपुरीम् ॥ (मोटी_४,२३.२० ॥

शब्दरूपरसस्पर्शगन्धबन्धुश्रियो यतः ।
नयैव हि लभ्यन्ते तेनेयं ज्ञस्य लाभदा ॥ (मो_४,२३.२१ ॥

ननु शब्दादिलाभेन ज्ञस्य को लाभोऽस्तीति चेन् । न । शब्दादिद्वारेण परमात्मतत्त्वशक्तिनिचयज्ञानरूपस्य लाभस्य स्थितत्वात् ॥ (मोटी_४,२३.२१ ॥

सुखदुःखक्रियाजालं यदैषोद्वहति स्वयम् ।
तदैषा राम सर्वत्र सर्ववस्तुभरक्षमा ॥ (मो_४,२३.२२ ॥

एषा देहनगरी । ज्ञो हि सुखादिकं शरीरस्यैव जानाति न स्वस्य ॥ (मोटी_४,२३.२२ ॥

तस्यां शरीरपुर्यां हि राज्यं कुर्वन् गतभ्रमः ।
ज्ञस् तिष्ठति गतव्यग्रं स्वपुर्याम् इव वासवः ॥ (मो_४,२३.२३ ॥

गतभ्रमः एताम् प्रति अहमभिमानरहितः । गतव्यग्रम् निराकुलम् ॥ (मोटी_४,२३.२३ ॥

न क्षिपत्य् अवटाटोपे मनोमत्ततुरङ्गमम् ।
न लोभद्वन्द्वरूपाय प्रज्ञापुत्रीम् प्रयच्छति ॥ (मो_४,२३.२४ ॥

अवटाटोपे विषयरूपे श्वभ्राडम्बरे । लोभाख्यो यः द्वन्द्वरूपः । तस्मै । प्रज्ञापुत्रीं न प्रयच्छति । लोभग्रस्ताम् प्रज्ञां न करोतीति भावः ॥ (मोटी_४,२३.२४ ॥

ज्ञानपरराष्ट्रं च न रन्ध्रं त्व् अस्य पश्यति ।
संसारारिभयस्यान्तर्मूलान्य् एष निकृन्तति ॥ (मो_४,२३.२५ ॥

अज्ञानम् एव परराष्ट्रम् लक्षणया रिपुभूतो राजा । न पश्यति । गमनस्य तु का कथा । अस्य अज्ञानराज्ञः । रन्ध्रम् । तु एवशब्दार्थे । न पश्यति । जितत्वात् ॥ (मोटी_४,२३.२५ ॥

तृष्णासारपरावर्ते कामसङ्क्षोभदुर्ग्रहे ।
न निमज्जन्ति पर्यस्तसुखदुःखाक्षदेवने ॥ (मो_४,२३.२६ ॥

तृष्णासारस्य परावर्तः आवृत्तिः यस्मिन् । तादृशे । कामस्य यः सङ्क्षोभः । तेन दुर्ग्रहे । पर्यस्तौ प्रेरितौ । यौ सुखदुःखाक्षौ सुखदुःखे एवाक्षौ । तयोः यत् देवनम् क्रीडनम् । द्यूतम् इति यावत् । तत्र न निमज्जन्ति । राज्ञो हि द्यूतमज्जनं दोष एव । अक्षदेवनम् अपि तृष्णाकामवलितम् एव भवति ॥ (मोटी_४,२३.२६ ॥

करोत्य् अविरतं स्नानम् बहिर् अन्तर् अपि क्षणात् ।
सरित्सङ्गमतीर्थेषु मनोरथगतिः क्रमात् ॥ (मो_४,२३.२७ ॥

बहिः बाह्ये । अन्तः मनसि । मन एव स्वाधीनत्वात् रथः । तेन गतिः यस्य । सः । अन्तः स्नानं तु चिद्ध्रदनिमज्जनम् एव ज्ञेयम् ॥ (मोटी_४,२३.२७ ॥

सकलाक्षिजनादृश्यः पुरप्रेक्षापराङ्मुखः ।
ध्याननाम्नि सुखं नित्यं तिष्ठत्य् अन्तःपुरान्तरे ॥ (मो_४,२३.२८ ॥

पुरस्य शरीरस्य । नगरस्य च राजापि सकलजनादृश्यः पुरप्रेक्षापराङ्मुखश् चरन् पुरे तिष्ठति । ध्यानं चात्र स्वात्मभूतशुद्धचिन्मात्रतत्त्वपरामर्श एव ज्ञेयः ॥ (मोटी_४,२३.२८ ॥

सुखावहैषा नगरी नित्यम् प्रमुदितात्मनः ।
भोगमोक्षप्रदा दिव्या शक्रस्येवामरावती ॥ (मो_४,२३.२९ ॥

ज्ञस्येति शेषः ॥ (मोटी_४,२३.२९ ॥

स्थितया संस्थितं सर्वं किञ्चिन् नष्टं न नष्टया ।
यया पुर्या महीपस्य सा कथं न सुखावहा ॥ (मो_४,२३.३० ॥

स्पष्टम् ॥ (मोटी_४,२३.३० ॥

विनष्टे देहनगरे ज्ञस्य नष्टं न किञ्चन ।
आक्रान्तकुम्भकोशस्य खस्य कुम्भक्षये यथा ॥ (मो_४,२३.३१ ॥

स्पष्टम् ॥ (मोटी_४,२३.३१ ॥

विद्यमानं घटं वायुः किल स्पृशति नास्थितम् ।
यथा तथैव देही स्वां शरीरनगरीम् इमाम् ॥ (मो_४,२३.३२ ॥

अस्थितम् नष्टम् । देही देहाद् व्यतिरिक्तम् आत्मानं जानानः तज्ज्ञः ॥ (मोटी_४,२३.३२ ॥

त्रस्थ एष भगवान् आत्मा सर्वगतोऽपि सन् ।
स्वविकल्पकृताम् भुक्त्वा पुंस्ताम् अधिगतात्मदृक् ॥ (मो_४,२३.३३ ॥
कुर्वन्न् अपि न कुर्वाणः सम्यक् सर्वक्रियोन्मुखः ।
कदाचित् प्रकृतान् सर्वान् कार्यार्थान् अधितिष्ठति ॥ (मो_४,२३.३४ ॥

अत्रस्थः देहस्थः । अपिशब्दः सर्वगतस्य पुंस्ताभोगे विरोधं द्योतयति । अधिगतात्मदृक् तज्ज्ञः । न तु मूर्खः । तस्यैवंविधत्वासम्भवात् । कुर्वन् शरीरादिद्वारेण कुर्वन् । न कुर्वाणः नाहं कर्तेति निश्चयात् । कार्यार्थान् करणीयानि प्रयोजनानि । अधितिष्ठति कर्तव्यत्वेन निश्चिनोति । प्रकृतान् प्रवाहागतान् । न तु स्वविमर्शेन कल्पितान् ॥ (मोटी_४,२३.३३-३४ ॥

ननु यदि कदाचिद् एतत् करोति तर्हि अन्यदा किं करोतीत्य् । अत्राह

कदाचिल् लीलयालोलं विमानम् अधिरोहति ।
नाहतगतिं कान्तं विहर्तुम् अमलम् मनः ॥ (मो_४,२३.३५ ॥

कदाचिद् असौ तज्ज्ञः आत्मलीलया मनः विमानम् मनोरूपं विमानम् । अधिरोहति । किं कर्तुम् । विहर्तुम् आन्तरं विहारं कर्तुम् । मनोविमानं कथम्भूतम् । अलोलम् चञ्चलतारहितम् । पुनः कथम्भूतम् । अनाहता क्वचिद् अप्रतिहता । गतिः यस्य । सः । तम् । विमानशब्दापेक्षया पुंस्त्वम् । अमलम् रागादिमलरहितम् । अत एव कान्तम् ॥ (मोटी_४,२३.३५ ॥

ननु तत्र किं करोतीत्य् । अत्राह

तत्रस्थो लोकसुन्दर्या सततं शीतलाङ्गया ।
रमते नाम यो मैत्र्या नित्यं हृदयसंस्थया ॥ (मो_४,२३.३६ ॥

सः तज्ज्ञः तत्रस्थः मनोविमानस्थः । लोकसुन्दर्या लोकप्रियया । नित्यं हृदयस्थया सततं शीतलाङ्गया मैत्र्या मैत्र्याख्यया स्त्रिया । रमते । कदाचिद् अन्तर्मुखः सन् मैत्रीमय एव भवतीति भावः ॥ (मोटी_४,२३.३६ ॥

न केवलम् मैत्र्य् एव तस्य कान्तास्ति यावद् अन्ये द्वे अपीत्य् आह

द्वे कान्ते तिष्ठतस् तस्य पार्श्वयोः सत्यतैकते ।
इन्दोर् इव विशाखे द्वे समाह्लादितचेतसी ॥ (मो_४,२३.३७ ॥

स्पष्टम् ॥ (मोटी_४,२३.३७ ॥

ज्ञ इमान् अखिलांल् लोकान् दुःखक्रकचदारितान् ।
वाल्मीकान् इव पीठस्थः पृष्ठाद् अर्क इवेक्षते ॥ (मो_४,२३.३८ ॥

लोकान् कथम्भूतान् । दुःखम् एव क्रकचः । तेन दारितान् पीडितान् । वाल्मीकान् पिपीलिकाः । पृष्ठाद् पृष्ठम् आरुह्येत्य् अर्थः ॥ (मोटी_४,२३.३८ ॥

चिरम् पूरितसर्वाशः सर्वसम्पत्तिसुन्दरः ।
पुनःखण्डनायेन्दुः पूर्णाङ्ग इव राजते ॥ (मो_४,२३.३९ ॥

सर्वसम्पत्त्या सर्वसम्पदा । सुन्दरः ॥ (मोटी_४,२३.३९ ॥

सेव्यमानोऽपि भोगौघो न खेदायास्य जायते ।
कालकूटः किलेशस्य कण्ठे प्रत्युत राजते ॥ (मो_४,२३.४० ॥

खेदाय नाशद्वारेणेति भावः ॥ (मोटी_४,२३.४० ॥

ननु कथं नासाव् अस्य खेदाय भवतीत्य् । अत्राह

परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये ।
विज्ञायाश्वासितो मैत्रीम् एति चौरो न शत्रुताम् ॥ (मो_४,२३.४१ ॥

परिज्ञाय सम्यक् निश्चित्यात्मरूपत्वेन ज्ञात्वेत्य् अर्थः । आत्मरूपत्वेन हि ज्ञातो भोगः नष्टोऽपि खेदं न ददाति स्वात्मरूपतया स्थितत्वात् । न चात्मनो नाशः युक्तः । नाशेऽपि नाशसाक्षितया स्थितत्वात् ॥ (मोटी_४,२३.४१ ॥

नरनारीनटौघानां कलहे दूरगामिना ।
ज्ञेन यात्रेव सुभगा भोगश्रीर् अवलोक्यते ॥ (मो_४,२३.४२ ॥

अन्योऽपि निपुणः नटौघानां कलहे दूरं गच्छति । यात्राम् तदारब्धं नाट्यं च पश्यति ॥ (मोटी_४,२३.४२ ॥

शङ्कितोपसम्प्राप्ता ग्रामयात्रा यथाध्वगैः ।
प्रेक्ष्यते तद्वद् एवाज्ञैर् व्यवहारमयी क्रिया ॥ (मो_४,२३.४३ ॥

निरनुसन्धानम् एव प्रेक्षत इति भावः ॥ (मोटी_४,२३.४३ ॥

यत्नोपनतेष्व् अक्षि दिग्द्रव्येषु यथा पुरः ।
नीरागम् एव पतति तद्वत् कार्येषु धीरधीः ॥ (मो_४,२३.४४ ॥

अयत्नोपनतेषु दिग्द्रव्येषु यथा अक्षि नेत्रम् । नीरागम् रागरहितम् । पतति । धीरधीः तज्ज्ञबुद्धिः । कार्येषु तद्वत् पतति । रागरहितम् एवासौ कार्याणि करोतीति भावः ॥ (मोटी_४,२३.४४ ॥

इन्द्रियाणां न हरति प्राप्तम् अर्थं कदाचन ।
न ददाति तथा प्राप्तं सम्पूर्णो ज्ञोऽवतिष्ठते ॥ (मो_४,२३.४५ ॥

सम्पूर्णत्वं ह्य् एतद् एव यत् प्राप्तस्य ग्रहणम् अप्राप्तस्यावाञ्छनम् इति ॥ (मोटी_४,२३.४५ ॥

प्राप्तचिन्ताः सम्प्राप्तसमुपेक्षाश् च सन्मतिम् ।
नाकल्पयन्ति तरला पिञ्छघाता इवाचलम् ॥ (मो_४,२३.४६ ॥

न आकल्पयन्ति न चञ्चलीकुर्वन्ति ॥ (मोटी_४,२३.४६ ॥

संशान्तसर्वसन्देहो गलिताखिलकौतुकः ।
सङ्क्षीणकल्पनाजालो ज्ञः संराड् इव शोभते ॥ (मो_४,२३.४७ ॥

स्पष्टम् ॥ (मोटी_४,२३.४७ ॥

आत्मन्य् एव न मात्य् अन्तः स्वात्मनात्मनि जृम्भते ।
सम्पूर्णापारपर्यन्तः क्षीरार्णव इवात्मवान् ॥ (मो_४,२३.४८ ॥

न माति । आनन्दनिर्भरत्वात् स्वात्मनात्मनि जृम्भते । नान्तः कञ्चिद् अन्यम् पश्यतीति भावः । सम्पूर्णश् चासौ अपारपर्यन्तश् च सम्पूर्णापारपर्यन्तः ॥ (मोटी_४,२३.४८ ॥

भोगेच्छाकृपणाञ् जन्तून् दीनान् दीनेन्द्रियाणि च ।
नुन्मत्तमनाः शान्तो हसत्य् उन्मत्तकान् इव ॥ (मो_४,२३.४९ ॥

तदासक्तौ तु का कथेति भावः ॥ (मोटी_४,२३.४९ ॥

इच्छतोऽन्यनिजां जायां यथैवान्येन हस्यते ।
इन्द्रियस्येच्छतो भोगं तथैव ज्ञेन हस्यते ॥ (मो_४,२३.५० ॥

यथा अन्यस्य निजाम् अन्यनिजाम् । तादृशीम् भाविनीम् भार्याम् इच्छतः । अन्यार्थम् भार्याम् इच्छत इति यावत् । पुरुषस्य । यथा अन्येन हस्यते हासः क्रियते । तथैव इन्द्रियस्य भोगम् इच्छतः अज्ञस्य । ज्ञेन हस्यते ॥ (मोटी_४,२३.५० ॥

त्यजन्तं स्वसुखं साम्यम् मनो विषयविद्रुतम् ।
ङ्कुशेनेव नागेन्द्रं विचारेण वशं नयेत् ॥ (मो_४,२३.५१ ॥

साम्यं स्वसुखम् साम्याख्यम् आत्मानन्दम् । विचारेण किंसारा इमे भोगा इत्य् एवंरूपेण ॥ (मोटी_४,२३.५१ ॥

भोगेषु प्रसरो यस्या मनोवृत्तेः प्रदीयते ।
साप्य् आदाव् एव हन्तव्या विषस्येवाङ्कुरोद्गतिः ॥ (मो_४,२३.५२ ॥

सा मनोवृत्तिः । आदौ प्रसरदानात् प्राक् । यस्याः तु न दीयते तस्याः का कथेत्य् अपिशब्दाभिप्रायः ॥ (मोटी_४,२३.५२ ॥

ननु प्रथमं हतायाः पश्चात् प्रसरदाने किम् फलम् इत्य् । अत्राह

ताडितस्य हि यः पश्चात् सम्मानः सोऽप्य् अनन्तकः ।
शालेर् ग्रीष्मोपतप्तस्य कुसेकोऽप्य् अमृतायते ॥ (मो_४,२३.५३ ॥

सम्मानः आदरः । प्रसरदानम् इति यावत् ॥ (मोटी_४,२३.५३ ॥

ननु कथम् एतद् इत्य् । अत्राह

नार्तेन हि सम्मानो बहुमानो न बुध्यते ।
पूर्णानां सरिताम् प्रावृट्पूरः स्वल्पं विराजते ॥ (मो_४,२३.५४ ॥

हि यस्मात् । अनार्तेनादृष्टपीडनेन । सम्मानः बहुमानः न बुध्यते न ज्ञायते । एतद् दृष्टान्तेन समर्थयति पूर्णानाम् इति । पूर्णानां सरिताम् प्रावृट्पूरः स्वल्पम् तोकम् । विराजते । जनमनआह्लादकारित्वाभावाद् इत्य् अर्थः । जनमनो हि क्षीणानां नदीनाम् प्रावृट्पूरदर्शनेन सानन्दम् भवति ॥ (मोटी_४,२३.५४ ॥

पूर्णस् तूपकृतोऽप्य् अन्यत् पुनर् अप्य् अभिवाञ्छति ।
जगत्पूरणयाप्य् अम्बु गृह्णात्य् एकार्णवोऽखिलम् ॥ (मो_४,२३.५५ ॥

जगत्पूरणया युक्तोऽपीति शेषः ॥ (मोटी_४,२३.५५ ॥

मनसो निगृहीतस्य या पश्चाद् भागमण्डना ।
ताम् एवालब्धविस्तारलब्धत्वाद् बहु मन्यते ॥ (मो_४,२३.५६ ॥

भागमण्डना लेशेन पूरणा । ताम् एव भागमण्डनाम् एव । अलब्धविस्तारश् चासौ लब्धश् च अलब्धविस्तारलब्धः । तस्य भावः तत्त्वम् । तस्मात् । अलब्धविस्तारः लब्धः हि स्वल्पम् अपि बहु मन्यते ॥ (मोटी_४,२३.५६ ॥

बद्धमुक्तो महीपालो ग्राममात्रेण तुष्यति ।
परैर् अबद्धो नाक्रान्तो राज्येनापि न तुष्यति ॥ (मो_४,२३.५७ ॥

आदौ बद्धः पश्चान् मुक्तः बद्धमुक्तः । तथा निगृहीतम् मनः भोगलेशेनैव तुष्यतीति भावः ॥ (मोटी_४,२३.५७ ॥

इन्द्रियनिग्रहद्वारेण मनोनिग्रहस्य साध्यत्वाद् इन्द्रियनिग्रहम् एव कथयति

हस्तं हस्तेन सम्पीड्य दन्तैर् दन्तान् विचूर्ण्य च ।
ङ्गान्य् अङ्गैर् इवाक्रम्य जय स्वेन्द्रियशात्रवान् ॥ (मो_४,२३.५८ ॥

विषयेषु प्रवृत्तानि इन्द्रियाणि सम्यग्ज्ञानबलेन प्रत्याहरणीयानीति भावः ॥ (मोटी_४,२३.५८ ॥

जेतुम् अन्यं कृतोत्साहैः पुरुषैर् उद्बुभूषुभिः ।
पूर्वं हृदयशत्रुत्वाज् ज्ञातव्यानीन्द्रियाण्य् अलम् ॥ (मो_४,२३.५९ ॥

अन्यम् राजादिरूपम् । उद्भवितुम् इच्छुभिः उद्बुभूषुभिः । ज्ञातव्यानि शत्रुत्वेनेति शेषः । हृदयशत्रुत्वम् चेन्द्रियाणाम् भोगान् प्रत्य् आकर्षणकारित्वेन ज्ञेयम् ॥ (मोटी_४,२३.५९ ॥

मनोजययुक्तानाम् प्रशंसां करोति

एतावति धरणितले
सुभगास् ते साधुचेतनाः पुरुषाः ।
पुरुषकथासु च गण्या
न जिता ये न चेतसा स्वेन ॥ (मो_४,२३.६० ॥

स्पष्टम् ॥ (मोटी_४,२३.६० ॥

सर्गान्तश्लोकेनाप्य् एतद् एव कथयति

हृदयबिले कृतकुण्डल
उल्बणकलनाविषो मनोभुजगः ।
यस्योपशान्तिम् आगत
उदितं तम् अरिन्दमं वन्दे ॥ (मो_४,२३.६१ ॥

स एव सर्वोत्कृष्ट इति भावः । इति शिवम् ॥ (मोटी_४,२३.६१ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे त्रयोविंशः सर्गः ॥२३॥





ननु तर्हीन्द्रियजये कः क्लेश इत्य् । अत्राह

महानरकसम्राजो मत्तदुष्कृतवारणाः ।
आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः ॥ (मो_४,२४.१ ॥

मत्तदुष्कृतान्य् एव वारणा येषाम् । ते । आशा एव शरशलाकाः येषाम् । तादृशाः । सम्राजः अपि वारणयुक्ताः शरयुक्ताश् च भवन्ति ॥ (मोटी_४,२४.१ ॥

स्वाश्रयम् प्रथमं देहं कृतघ्ना नाशयन्ति ये ।
ते कुकार्यमहाकोशा दुर्जयाः स्वेन्द्रियारयः ॥ (मो_४,२४.२ ॥

नाशयन्ति असम्भविनो भोगान् प्रति चेष्टां कारयन्ति ॥ (मोटी_४,२४.२ ॥

कलेवरालयम् प्राप्य विषयामिषगर्धतः ।
क्षगृध्रा विवल्गन्ति कार्याकार्योग्रपक्षिणः ॥ (मो_४,२४.३ ॥

कार्याकार्ये एव उग्रौ पक्षौ येषाम् । ते । तादृशाः ॥ (मोटी_४,२४.३ ॥

विवेकतन्तुजालेन गृहीता येन ते शठाः ।
तस्याङ्गानि न लुम्पन्ति पाषाणकवलं यथा ॥ (मो_४,२४.४ ॥

ते अक्षगृध्राः । गृध्रा हि पाषाणकवलं न लुम्पन्ति ॥ (मोटी_४,२४.४ ॥

आपातरमणीयेषु रमन्ते विषयेषु ये ।
त्यन्तविरसान्तेषु पतन्ति नरकेषु ते ॥ (मो_४,२४.५ ॥

अत्यन्तं विरसः अन्तः येषाम् । तेषु । विषयेष्व् इत्य् अस्य विशेषणम् एतत् ॥ (मोटी_४,२४.५ ॥

विवेकधनवान् अस्मिन् कुकलेवरपत्तने ।
इन्द्रियारिभिर् अन्तःस्थैर् अवशो नाभिभूयते ॥ (मो_४,२४.६ ॥

अस्मिन् अनुभूयमाने । कुकलेवरे निन्दिते शरीरे । बलवान् हि अरिभिः नावशोऽभिभूयते ॥ (मोटी_४,२४.६ ॥

न तथा सुखिता भूयो मृण्मयोग्रपुरीजुषः ।
यथा स्वाधीनमनसः स्वशरीरपुरीश्वराः ॥ (मो_४,२४.७ ॥

मृण्मयोग्रपुरीजुषः बाह्यनगरीराजानः । स्वाधीनमनस इति विशेषणद्वारेण हेतुः ॥ (मोटी_४,२४.७ ॥

स्वाक्रान्तेन्द्रियभृत्यस्य सुगृहीतमनोरिपोः ।
वसन्त इव मञ्जर्यो वर्धन्ते बुद्धबुद्धयः ॥ (मो_४,२४.८ ॥

बुद्धानाम् ज्ञानिनाम् । बुद्धयः । बुद्धबुद्धयः ॥ (मोटी_४,२४.८ ॥

प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ।
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ॥ (मो_४,२४.९ ॥

भोगवासनाः भोगसंस्काराः ॥ (मोटी_४,२४.९ ॥

तावन् निशीव वेताल्यो वल्गन्ति हृदि वासनाः ।
एकतत्त्वदृढाभ्यासाद् यावन् न विजितम् मनः ॥ (मो_४,२४.१० ॥

विजिते तु मनसि न वल्गन्तीति भावः । एकतत्त्वम् सर्वव्यापकं शुद्धचिन्मात्रतत्त्वम् ॥ (मोटी_४,२४.१० ॥

भृत्योऽभिमतकर्तृत्वान् मन्त्री सत्कार्यकारणात् ।
सामन्तः स्वेन्द्रियाक्रान्तेर् मनो मन्ये विवेकिनः ॥ (मो_४,२४.११ ॥

सामन्तः शत्रुजये अधिकृतः ॥ (मोटी_४,२४.११ ॥

लालनात् स्निग्धललना पालनात् पावनः पिता ।
सुहृद् उत्तमविश्वासान् मनो मन्ये मनीषिणाम् ॥ (मो_४,२४.१२ ॥

लालनात् लालनाकारित्वात् । स्निग्धललना स्नेहयुक्ता चासौ । ललना स्त्री ॥ (मोटी_४,२४.१२ ॥

स्वालोकितं शास्त्रदृशा सुध्यातं स्वनुनाथितम् ।
प्रयच्छति परां सिद्धिं त्यक्त्वात्मानम् मनःपिता ॥ (मो_४,२४.१३ ॥

सुष्ठुर् अनुनाथितम् याचितम् । आत्मानं त्यक्त्वा नाशयित्वा । मनो हि स्वात्मानं नाशयित्वैव हितं सम्पादयति । पितापि पुत्रस्य स्वप्राणत्यागेन हितं करोतीति तस्योपमानत्वम् ॥ (मोटी_४,२४.१३ ॥

सुघृष्टः सुपरामृष्टः सुधृतः स्वनुबोधितः ।
सुगुणायोजितो भाति हृदि हृद्यो मनोमणिः ॥ (मो_४,२४.१४ ॥

मणिपक्षे स्वनुबोधितः सम्यक्परीक्षितः । सुगुणेषु प्रशस्तेषु गुणेषु तन्तुषु च । आ समन्तात् । योजितः ॥ (मोटी_४,२४.१४ ॥

जन्मवृक्षकुठाराणि तथोदर्कोदयानि च ।
दिशत्य् एष मनोमन्त्री कर्माणि शुभकर्मणः ॥ (मो_४,२४.१५ ॥

उदर्कः उत्तरफलभूतः । उदयः येषाम् । तानि । शुभकर्मणः शुभकर्मकारिणः पुरुषस्य ॥ (मोटी_४,२४.१५ ॥

फलितम् आह

एवम् मनोमणिं राम बहुपङ्ककलङ्कितम् ।
विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान् भव ॥ (मो_४,२४.१६ ॥

सिद्ध्यै चिन्मात्रस्वरूपपरमात्मतत्त्वलाभाख्यायै सिद्ध्यै । आलोकवान् प्रकाशवान् । मणिप्रक्षालकोऽपि तमसि आलोकवान् भवति । रत्नालोकस्य विद्यमानत्वात् ॥ (मोटी_४,२४.१६ ॥

भवभूमिषु भीमासु विवेकविततोऽपि सन् ।
मा पतोत्पातपूर्णासु विवशः प्राकृतो यथा ॥ (मो_४,२४.१७ ॥

भीमासु भयप्रदासु । मा पत मा गच्छ । विवेकवान् अप्य् अहं यदि गच्छाम्य् अपि । किम् मम सेत्स्यतीति निश्चयेऽपि मा गच्छेति द्योतयितुम् अपिशब्दः । प्राकृतः विवेकरहितः । पतने तु त्वम् अपि विवेकवान् नासीति भावः ॥ (मोटी_४,२४.१७ ॥

संसारमायाम् उदिताम् अनर्थशतसङ्कुलाम् ।
मा महामोहमिहिकाम् इमां त्वम् अवधीरय ॥ (मो_४,२४.१८ ॥

मावधीरय किम् माम् इयं करोतीत्य् अवगणनाविषयम् मा कुरु ॥ (मोटी_४,२४.१८ ॥

विवेकम् परम् आश्रित्य बुद्ध्या सत्यम् अवेक्ष्य च ।
इन्द्रियारीन् अलं जित्वा तीर्णो भव भवा[र्णवात्] ॥ (मो_४,२४.१९ ॥



***




***


विशेषणद्वयेऽपि हेतुत्वेन ज्ञेयम् ॥ (मोटी_४,२५.१२ ॥

रत्नयन्त्रमयानन्तदैत्यनिर्जितवासवः ।
हिमशीतानलज्वालानिर्मितोद्यानमण्डपः ॥ (मो_४,२५.१३ ॥

रत्नयन्त्रमयाः मायोद्भाविताः रत्नयन्त्रस्वरूपाः । येऽनन्ता दैत्याः । तैः निर्जितः वासवः । येन । सः ॥ (मोटी_४,२५.१३ ॥

सर्वर्तुकुसुमोद्यानजितनन्दनचन्दनः ।
मायासर्पहृतव्यालमलयाचलचन्दनः ॥ (मो_४,२५.१४ ॥

मायासर्पैः हृतव्यालानि दूरीकृतसहजसर्पाणि । मलयाचलचन्दनानि यस्य । सः ॥ (मोटी_४,२५.१४ ॥

हेमस्त्रीलोकलावण्यजिह्मितान्तःपुराङ्गनः ।
क्रीडार्थस्पर्धयेशानहतचक्रगदाधरः ॥ (मो_४,२५.१५ ॥

हेमस्त्रीलोकेन मायोद्भावितेन सुवर्णाङ्गनालोकेन । लावण्येन जिह्मिताः जिताः । अन्तःपुराङ्गनाः यस्य । सः । क्रीडार्थम् मायया उद्भाविता स्पर्धा क्रीडार्थस्पर्धा । तया । ईशानेन महारुद्रेण । हतः चक्रगदाधरः विष्णुः यस्य । सः ॥ (मोटी_४,२५.१५ ॥

जस्रोड्डीनरत्नौघताराढ्यस्वपुराम्बरः ।
नानाकुसुमसम्भारजानुदघ्नकृताङ्गनः ॥ (मो_४,२५.१६ ॥

स्पष्टम् ॥ (मोटी_४,२५.१६ ॥

निशास्व् अखिलपातालशतचन्द्रनभस्तलः ।
स्वसालभञ्जिकालोकगीतिगीतगुणोत्करः ॥ (मो_४,२५.१७ ॥

स्पष्टम् ॥ (मोटी_४,२५.१७ ॥

मायैरावणनागेन्द्रविद्रुतामरवारणः ।
त्रैलोक्यविभवोत्कर्षपूरितान्तःपुरान्तरः ॥ (मो_४,२५.१८ ॥

स्पष्टम् ॥ (मोटी_४,२५.१८ ॥

सर्वसम्पत्तिसुभगः सर्वैश्वर्यसमन्वितः ।
समस्तदैत्यसामन्तवन्दिताग्र्यानुशासनः ॥ (मो_४,२५.१९ ॥

स्पष्टम् ॥ (मोटी_४,२५.१९ ॥

महाभुजवनच्छायाविश्रान्तासुरमण्डलः ।
सर्वाम्बुधिगुहासाररत्नकुण्डलमण्डितः ॥ (मो_४,२५.२० ॥

सर्वाम्बुधयः एव गुहाः । तासां साराणि यानि रत्नानि । तेषां कुण्डलानि । तैर् मण्डितः ॥ (मोटी_४,२५.२० ॥

तस्योत्सादितदेवस्य कठिनोड्डामराकृतेः ।
बभूव विपुलं सैन्यम् आसुरं सुरनाशनम् ॥ (मो_४,२५.२१ ॥

उत्सादिताः खेदं नीताः देवाः येन । तादृशस्य ॥ (मोटी_४,२५.२१ ॥

तस्मिन् मायाबले सुप्ते देशान्तरगते तथा ।
तत्सैन्यान्तरम् आजग्मुश् छिद्रम् प्राप्य किलामराः ॥ (मो_४,२५.२२ ॥

तस्य शम्बरस्य । यत् सैन्यम् । तस्यान्तरम् मध्यम् । छिद्रम् अवसरम् । प्राप्य । अन्यथा तेषां शक्तिर् नाभूद् इति भावः ॥ (मोटी_४,२५.२२ ॥

थ शम्बरदैत्येन दुद्रिकह्वद्रुमादयः ।
रक्षार्थम् मत्तसामन्ताः स्वसेनासु नियोजिताः ॥ (मो_४,२५.२३ ॥

नियोजिताः प्रेरिताः ॥ (मोटी_४,२५.२३ ॥

तान् अप्य् अन्तरम् आसाद्य जघ्नुर् गीर्वाणनायकाः ।
व्योमान्तरचराः श्येनाः कलविङ्कान् इवाकुलान् ॥ (मो_४,२५.२४ ॥

तान् अपि दुद्रिकह्वद्रुमादीन् अपि । अन्तरम् आसाद्यावकाशं लब्ध्वा । जघ्नुः घ्नन्ति स्म ॥ (मोटी_४,२५.२४ ॥

सेनापतीन् पुनश् चान्यांश् चकारासुरसत्तमः ।
चपलान् उद्भटारावांस् तरङ्गान् इव सागरः ॥ (मो_४,२५.२५ ॥

स्पष्टम् ॥ (मोटी_४,२५.२५ ॥

देवास् तान् अपि तस्याशु जघ्नुस् तेन स कोपवान् ।
जगामामरनाशाय परिपूर्णस् त्रिविष्टपम् ॥ (मो_४,२५.२६ ॥

परिपूर्णः महासैन्ययुक्तः ॥ (मोटी_४,२५.२६ ॥

तत्रास्य मायाभीतास् ते सुरा अन्तर्धिम् आययुः ।
मेरुकाननकुञ्जेषु मृगा गौरीगुरोर् इव ॥ (मो_४,२५.२७ ॥

कुञ्जेष्व् इति निष्कृष्य गौरीगुरोर् इत्य् अनेन सम्बन्धनीयम् ॥ (मोटी_४,२५.२७ ॥

क्रन्दत्क्षुद्रामरगणं वाष्पक्लिन्नसुरीमुखम् ।
शून्यं ददर्श स स्वर्गं कल्पक्षीणजगत्समम् ॥ (मो_४,२५.२८ ॥

सः शम्बरः ॥ (मोटी_४,२५.२८ ॥

विहृत्य कुपितस् तत्र लब्धम् आहृत्य शम्बरः ।
लोकपालपुरीर् दग्ध्वा जगामात्मीयम् आलयम् ॥ (मो_४,२५.२९ ॥

लब्धम् हस्तागतं रत्नजातम् ॥ (मोटी_४,२५.२९ ॥

एवं दृढतरीभूते द्वेषे दानवदेवयोः ।
देवाः स्वर्गम् परित्यज्य दिक्षु जग्मुर् अदर्शनम् ॥ (मो_४,२५.३० ॥

द्वेषे वैरे ॥ (मोटी_४,२५.३० ॥

थ शम्बरदैत्येन ये ये सेनाधिनायकाः ।
क्रियन्ते यत्नतस् तांस् ताञ् जघ्नुर् यत्नपराः सुराः ॥ (मो_४,२५.३१ ॥

स्पष्टम् ॥ (मोटी_४,२५.३१ ॥

यावद् उद्वेगम् आपन्नः शम्बरः कोपवान् भृशम् ।
तार्णोऽभि वातम् अनल इव जज्वाल चोच्छ्वसन् ॥ (मो_४,२५.३२ ॥

क इव जज्वाल । तार्णः तृणोद्भूतः । अनल इव । यथा सः वातम् अभि ज्वलति । तथेत्य् अर्थः ॥ (मोटी_४,२५.३२ ॥

त्रैलोक्यम् अपि चान्विष्य न देवांल् लब्धवान् अथ ।
परेणापि प्रयत्नेन सुकृतानीव दुष्कृती ॥ (मो_४,२५.३३ ॥

स्पष्टम् ॥ (मोटी_४,२५.३३ ॥

ससर्ज मायया घोरान् असुरांस् त्रीन् महाबलान् ।
बलरक्षार्थम् उदितान् कालान् मूर्तिम् इवास्थितान् ॥ (मो_४,२५.३४ ॥

कालान् यमान् ॥ (मोटी_४,२५.३४ ॥

निर्मिता मायया भीमाः कल्पपादपबाहवः ।
उदगुस् ते महाकायाः पक्षक्षुब्धा इवाद्रयः ॥ (मो_४,२५.३५ ॥

उदगुः उत्थिताः ॥ (मोटी_४,२५.३५ ॥

दामो व्यालः कटश् चेति नामभिः परिलाञ्छिताः ।
यथाप्राप्तैककर्तारश् चेतनामात्रधर्मिणः ॥ (मो_४,२५.३६ ॥

यथाप्राप्तैककर्तारः निरनुसन्धाना इत्य् अर्थः ॥ (मोटी_४,२५.३६ ॥

तान् एव विशिनष्टि

भावात् कर्मणां ते च प्राक्तनानाम् अवासनाः ।
निर्विकल्पकचिन्मात्रपरिस्पन्दैककर्मिणः ॥ (मो_४,२५.३७ ॥

ते च त्रय आसन् कथम्भूताः । सद्यः उत्थितत्वेन प्राक्तनानां कर्मणाम् अभावात् अवासनाः वासनारहिताः । पुनः कथम्भूताः । निर्विकल्पकम् विकल्परहितम् । यत् चिन्मात्रम् । तस्य यः परिस्पन्दः । तद्रूपम् एकम् कर्म एषाम् अस्तीति तादृशाः । निर्विकल्पचेष्टा इत्य् अर्थः ॥ (मोटी_४,२५.३७ ॥

कर्मबीजं कलां तन्वीं दधाना मननाभिधाम् ।
पुष्टां कृत्रिमाम् अन्तर् आदायोदयम् आगताः ॥ (मो_४,२५.३८ ॥

पुनः कथम्भूताः । कर्मबीजम् कर्मबीजभूताम् । तन्वीम् अल्पाम् । मननाभिधाम् कलां दधानाः । अत एव अपुष्टां कृत्रिमाम् आहार्याम् । ताम् मननाभिधां कलाम् आदाय । उदयम् प्रादुर्भावम् । आगताः । अन्यथा ब्रह्मणः उत्थानं न स्याद् इति भावः ॥ (मोटी_४,२५.३८ ॥

पारम्पर्येण ते ह्य् अत्र काकतालीयवद् भटाः ।
प्रकृताम् अनुवर्तन्ते क्रियाम् उज्झितवासनाः ॥ (मो_४,२५.३९ ॥

पारम्पर्येण परम्परापेक्षया । न तु प्रयोजनम् अनुसन्धाय ॥ (मोटी_४,२५.३९ ॥

र्धसुप्ता यथा बालाः स्वाङ्गैर् इङ्गन्ति केवलम् ।
वासनात्माभिमानाभ्यां हीनास् ते तद्वद् एव हि ॥ (मो_४,२५.४० ॥

वासना चात्माभिमानम् च । ताभ्याम् ॥ (मोटी_४,२५.४० ॥

नाभिपातं न चापातं विदुस् ते न पलायनम् ।
न जीवितं न मरणं न रणं च जयाजयौ ॥ (मो_४,२५.४१ ॥

अभिमुखम् पातः अभिपातः । तम् । आपतनम् आपातः ॥ (मोटी_४,२५.४१ ॥

केवलं सैनिकान् अग्रे दृष्ट्वाभिहननोद्यतान् ।
भिजघ्नुः परान् आजौ प्रहारदलिताद्रयः ॥ (मो_४,२५.४२ ॥

परान् शत्रुभूतान् ॥ (मोटी_४,२५.४२ ॥

शम्बरश् चिन्तयाम् आस परितुष्टमनाः पुरे ।
विजेष्यते हि मत्सेना मायासुरसुरक्षिता ॥ (मो_४,२५.४३ ॥

किं चिन्तयाम् आसेत्य् । अत्राह विजेष्यते इति । मायया उत्पादिताः असुराः मायासुराः । तैः सुरक्षिता मत्सेना । हि निश्चये । विजेष्यते विजयम् प्राप्स्यति ॥ (मोटी_४,२५.४३ ॥

इष्टानिष्टाभिर् एते हि वासनाभिः समुज्झिताः ।
ततो रणे बिभ्यति नो विद्रवन्ति च न स्थिराः ॥ (मो_४,२५.४४ ॥

इष्टानिष्टवासनायुक्त एव हि शत्रुम् बलयुक्तं ज्ञात्वा बिभेति विद्रवति चेति भावः ॥ (मोटी_४,२५.४४ ॥

यद् एते न पलायन्ते देवैर् अभिहता अपि ।
तद् एषातिबला सेना ममेदानीं व्यवस्थिता ॥ (मो_४,२५.४५ ॥

विशेषेणावस्थिता व्यवस्थिता ॥ (मोटी_४,२५.४५ ॥

सर्गान्तश्लोकेन शम्बरचिन्तां समापयति

तिबलासुरदोर्द्रुमपालिता
मम चमूः स्थिरताम् अलम् एष्यति ।
मरवारणदन्तविघट्टनेष्व्
मरपर्वतहेममही यथा ॥ (मो_४,२५.४६ ॥

अमरपर्वतस्य सुमेरोः । हेममही सुवर्णभूमिः । इति शिवम् ॥ (मोटी_४,२५.४६ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे पञ्चविंशः सर्गः ॥२५॥





शम्बरचिन्ताम् उपसंहरति

इति निर्णीय दैत्येन्द्रो दामव्यालकटान्विताम् ।
सेनां सम्प्रेषयाम् आस भूतलं देवनाशिनीम् ॥ (मो_४,२६.१ ॥

स्पष्टम् ॥ (मोटी_४,२६.१ ॥

दैत्याः सागरकुञ्जेभ्यः कन्दरेभ्यः सुराचलात् ।
उदगुर् भीमनिर्ह्रादाः सपक्षगिरिलीलया ॥ (मो_४,२६.२ ॥

उदगुः उत्थिताः । सपक्षाः पक्षयुक्ताः । ये गिरयः । तेषां या लीला । तया ॥ (मोटी_४,२६.२ ॥

रोदसीकोटरं हस्तप्रहारहतभास्करम् ।
दानवाः पूरयाम् आसुर् दामव्यालकटेरिताः ॥ (मो_४,२६.३ ॥

दामव्यालकटेरिताः दामव्यालकटप्रेरिताः ॥ (मोटी_४,२६.३ ॥

थोत्तस्थुर् निकुञ्जेभ्यः कन्दरेभ्यः सुराचलात् ।
प्रलयान्त इवाक्षुब्धा भीताः स्वर्वासिनां गणाः ॥ (मो_४,२६.४ ॥

आ समन्तात् क्षुब्धाः आक्षुब्धाः । स्वर्वासिनाम् देवानाम् ॥ (मोटी_४,२६.४ ॥

देवासुरपताकिन्योस् तद् युद्धम् अभवत् तयोः ।
कालोल्बणकल्पान्तभीषणम् भुवनान्तरे ॥ (मो_४,२६.५ ॥

तत् प्रसिद्धम् ॥ (मोटी_४,२६.५ ॥

पेतुः प्रलयपर्यस्तसचन्द्रार्काद्रिवद् दिवः ।
शिरांसि कुण्डलोद्वान्ततेजःपीततमांस्य् अधः ॥ (मो_४,२६.६ ॥

प्रलये पर्यस्ताः वातेरिताः । ये सचन्द्रार्काः अद्रयः । तद्वत् । शिरांसि दिवः आकाशात् । अधः भूमौ । पेतुः । शिरांसि कथम्भूतानि । कुण्डलैः उद्वान्तम् उद्वमितम् । यत् तेजः । तेन पीतं तमः । यैः । तानि ॥ (मोटी_४,२६.६ ॥

जुघूर्णुर् भटनिर्मुक्तसिंहनादविराविताः ।
प्रलयानिलसम्पूरैः साट्टहासा इवाद्रयः ॥ (मो_४,२६.७ ॥

अट्टहासयुक्ता अपि घूर्णन्ति ॥ (मोटी_४,२६.७ ॥

रेजुर् आत्मशिलातुल्यहेतिपातार्तवृत्तयः ।
कुलाचलतटा भीतविभ्रान्तहरिमण्डलाः ॥ (मो_४,२६.८ ॥

कुलाचलतटाः रेजुः । कथम्भूताः । आत्मनः आत्मसम्बन्धिन्यः । या शिलाः । ताभिः तुल्याः । या हेतयः । तासां यः पातः । तेनार्ता दीना । वृत्तिः स्थितिः येषाम् । तादृशाः । पुनः कथम्भूताः । भीतानि अत एव विभ्रान्तानि हरिमण्डलानि सिंहमण्डलानि येषाम् । ते ॥ (मोटी_४,२६.८ ॥

चेरुः परस्पराघातहतहेतिसमुत्थिताः ।
लोलानलकणाः कल्पविशीर्णा इव तारकाः ॥ (मो_४,२६.९ ॥

स्पष्टम् ॥ (मोटी_४,२६.९ ॥

विलेसू रक्तमांसौघपूर्णैकार्णवतीरगाः ।
कल्पतालतनूत्ताला वेतालास् तारतालिनः ॥ (मो_४,२६.१० ॥

विलेसुः विलसन्ति स्म । वेतालाः भूतविशेषाः । तारतालिनः उद्भटवाद्ययुक्ताः ॥ (मोटी_४,२६.१० ॥

प्रस्फुरद्रुधिरासारशान्तपांसुपयोधरे ।
व्योम्नि हेतिहतक्षुण्णमौलिकुण्डलकोटयः ॥ (मो_४,२६.११ ॥

हेतिहतानां योधानाम् । क्षुण्णा निपतितानि । यानि मौलिकुण्डलानि । तेषां कोटयः व्योम्नि । विलेसुर् इति पूर्वेण सम्बन्धः ॥ (मोटी_४,२६.११ ॥

बभूवुर् भास्कराकारैः कल्पभूरुहबाहुभिः ।
प्रहारदलिताद्रीन्द्रैर् दैत्यैर् निर्विवरा दिशः ॥ (मो_४,२६.१२ ॥

निर्विवराः नीरन्ध्राः ॥ (मोटी_४,२६.१२ ॥

जग्मुर् ज्वलदसिव्रातपातपातितभित्तयः ।
कणप्रकरतां शैलाः कल्पाग्निवलिता इव ॥ (मो_४,२६.१३ ॥

कल्पाग्निवलिताः कल्पाग्निभ्रमिताः ॥ (मोटी_४,२६.१३ ॥

देवाः तेजः समाजग्मुर् अश्वमेधैधिता इव ।
सुरान् अनुसस्रुस् ताञ् जलदान् इव वायवः ॥ (मो_४,२६.१४ ॥

स्पष्टम् ॥ (मोटी_४,२६.१४ ॥

जगृहुस् तान् अथाक्रम्य जरदाखून् इवोतवः ।
रेजुः सुरासुराः फुल्लवनलोलाद्रिवद् दिवि ॥ (मो_४,२६.१५ ॥

देवाः तान् असुरान् । जगृहुः इति सम्बन्धः । ओतवः विडालाः ॥ (मोटी_४,२६.१५ ॥

तेऽन्योऽन्यम् पूरयाम् आसुः शस्त्रपूरैर् दिशो दश ।
वनानि कुसुमव्रातैः सुमेरोर् इव मारुताः ॥ (मो_४,२६.१६ ॥

स्पष्टम् ॥ (मोटी_४,२६.१६ ॥

घोरं समभवद् युद्धं देवदानवसैन्ययोः ।
रोदोरन्ध्रोडुम्बरान्तर् महामषकसङ्घयोः ॥ (मो_४,२६.१७ ॥

रोदोरन्ध्र एव द्यावापृथिवीरन्ध्र एव उडुम्बरान्तः उडुम्बरफलमध्यम् । तत्र महामषकसङ्घयोः महामषकसमूहयोः । उडुम्बरान्तः हि मषकाः भवन्ति ॥ (मोटी_४,२६.१७ ॥

थोदपतद् उल्लासैर् लोकपालेभमण्डलैः ।
कल्पाभ्रैः पूरिताकारो दारुणः समरारवः ॥ (मो_४,२६.१८ ॥

उल्लासैः ऊर्ध्वगतहस्तैः । कल्पाभ्रैः कल्पाभ्रतुल्यैः । उदपतत् उत्थितः ॥ (मोटी_४,२६.१८ ॥

समरारवं विस्तरेण विशिनष्टि

पिण्डग्रहेण नभसि भूभाग इव कुट्टिमम् ।
मुष्टिग्राह्यो महामेघमन्थरोदरपीवरः ॥ (मो_४,२६.१९ ॥

समरारवः कथम्भूतः । नभसि पिण्डग्रहेण मुष्टिग्राह्यः । किम् इव । कुट्टिमम् इव । यथा कुट्टिमम् भूभागे पिण्डग्रहेण मुष्टिग्राह्यम् भवति । तथेत्य् अर्थः ॥ (मोटी_४,२६.१९ ॥

प्रथमापातसम्पिष्टशस्त्रशैलरटत्तटः ।
स्फुटद्धृदयनिःसत्त्वकर्कशाक्रन्दघर्घरः ॥ (मो_४,२६.२० ॥

प्रथमापात एव सम्पिष्टाः ये शस्त्रभूताः शैलाः । तैः रटन्तः तटाः यस्य । सः । स्फुटद्धृदयाः ये निःसत्त्वाः धैर्यरहिताः । तेषां यः कर्कशाक्रन्दः । तेन घर्घरः घर्घरशब्दयुक्तः ॥ (मोटी_४,२६.२० ॥

प्रलयप्रत्ययोल्लासिकल्पाभ्रारवबृंहणः ।
द्वादशादित्यसङ्घट्टद्रवत्काञ्चनसन्निभः ॥ (मो_४,२६.२१ ॥

प्रलयप्रत्यये प्रलयसमये । उल्लासी यः कल्पाभ्रारवः । तद्वत् बृंहणं यस्य । सः । द्वादशादित्यानां यः सङ्घट्टः कल्पान्ते अन्योऽन्यं सङ्घट्टनम् । तेन द्रवत् यत् काञ्चनम् । तेन सन्निभः । अविच्छिन्नप्रवाहत्वेन तुल्य इत्य् अर्थः ॥ (मोटी_४,२६.२१ ॥

ब्रह्माण्डकुड्यसङ्घट्टात् परावृत्यावनिं गतः ।
महास्रोतःपयःपूरः सेत्वाहत इवाकरम् ॥ (मो_४,२६.२२ ॥

पुनः कथम्भूतः । ब्रह्माण्डकुड्यसङ्घट्टात् परावृत्य अवनिं गतः । क इव । महास्रोतःपयःपूर इव । यथा सः सेत्वाहतः सन् आकरम् उत्पत्तिस्थानं गच्छति । तथेत्य् अर्थः ॥ (मोटी_४,२६.२२ ॥

चलत्सपक्षशैलेन्द्रपक्षवातबलध्वनिः ।
कठिनापूरणोड्डीनस्फुटशैलेन्द्रकन्धरः ॥ (मो_४,२६.२३ ॥

चलन्तः ये सपक्षाः शैलेन्द्राः । तेषां यः पक्षवातः । तेन यः बलध्वनिः बलयुक्तः शब्दः । तद्रूपः । कठिनैः काठिन्ययुक्तैर् आयुधैर् । आपूरणेन उड्डीनाः स्फुटं शैलेन्द्रकन्धराः यस्य । सः ॥ (मोटी_४,२६.२३ ॥

मन्दरोद्धूतदुग्धाब्धिसङ्क्षोभसदृशांशकः ।
प्रतिश्रुद्घुङ्घुमास्फोटघटितद्वीपजन्तुभूः ॥ (मो_४,२६.२४ ॥

मन्दरोद्धूतश् चासौ दुग्धाब्धिः च । तस्य यः सङ्क्षोभः । तेन सदृशाः अंशाः भागाः यस्य । सः । प्रतिश्रुद्रूपो यः घुङ्घुमशब्दानुवेधः । तेन घटिताः मेलिताः । द्वीपाश् च जन्तुभुवश् च । येन । सः ॥ (मोटी_४,२६.२४ ॥

सेनयोः क्रुद्धयोर् आसीद् युद्धम् उद्धतदानवम् ।
निष्पिष्टनगरग्रामगिरिकाननमानवम् ॥ (मो_४,२६.२५ ॥

तयोः सेनयोः युद्धम् आसीत् । कथम्भूतम् इत्य् अपेक्षायां युद्धं विस्तरेण विशिनष्टि उद्धतेत्यादि ॥ (मोटी_४,२६.२५ ॥

महाहेतिशतच्छिन्नदानवाचलपूर्णदिक् ।
न्योऽन्यहतहेत्यद्रिचूर्णपूर्णाम्बरोदरम् ॥ (मो_४,२६.२६ ॥

महाहेतीनां यानि शतानि । तैः छिन्नाः ये दानवाचलाः । तैः पूर्णाः दिशः यस्य । तत् ॥ (मोटी_४,२६.२६ ॥

भुसुण्डीमण्डलास्फोटस्फुटन्मेरुशिरःशतम् ।
शरमारुतनिर्लूनदैत्यदेवासुराम्बुजम् ॥ (मो_४,२६.२७ ॥

आस्फोटः ताडनम् । शरेति । मारुतेन च अम्बुजानि लूयन्ते ॥ (मोटी_४,२६.२७ ॥

चक्रावर्तशतभ्रान्तदेवदैत्यजरत्तृणम् ।
सेनाप्रवाहकल्लोलवलनावलिताम्बरम् ॥ (मो_४,२६.२८ ॥

चक्राणाम् आयुधविशेषाणाम् । ये आवर्ताः भ्रमणानि । तेषां यानि शतानि । तेषु भ्रान्ताः चक्रभ्रमयुक्ताः । देवदैत्या एव जरत्तृणं यत्र । तत् । सेनाप्रवाहानां ये कल्लोलाः व्यूहरूपाः कल्लोलाः । तेषां या वलनाः वल्गनाः । ताभिः वलितं वृत्तम् । अम्बरं यस्य । तत् ॥ (मोटी_४,२६.२८ ॥

हेत्यद्रिपातनिष्पिष्टपतद्वैमानिकव्रजम् ।
हस्तानीताब्धिवार्योघप्लावितव्योमपत्तनम् ॥ (मो_४,२६.२९ ॥

प्लावितम् ईरितम् ॥ (मोटी_४,२६.२९ ॥

वहन्महास्त्रावर्तासिशूलशक्तिनदीशतम् ।
शैलपक्षोद्भटास्फोटजडब्रह्माण्डमण्डलम् ॥ (मो_४,२६.३० ॥

महास्त्राण्य् एव चक्राण्य् एवावर्ताः येषाम् । तानि महास्त्रावर्तानि । वहन्ति महास्त्रावर्तानि असिशूलशक्तिनदीशतानि यस्मिन् । तत् । आस्फोटः सशब्दं ताडनम् । तेन जडम् शब्दश्रवणशक्तिरहितम् ॥ (मोटी_४,२६.३० ॥

दैत्यपार्ष्णिप्रहारौघपतल्लोकेशपत्तनम् ।
नारीहलहलारावरवत्कनकमन्दिरम् ॥ (मो_४,२६.३१ ॥

हलहलेति शब्दानुकरणम् ॥ (मोटी_४,२६.३१ ॥

लुठद्दैत्याचलोद्धूतमत्तार्णवजलाद्रिभिः ।
धौतरक्तनभो योधमुक्तनादद्रवद्व्रजम् ॥ (मो_४,२६.३२ ॥

लुठन्तः पतन्तः । ये दैत्या एवाचलाः । तैर् उद्धूताः ये मत्तार्णवाः । तेषां ये जलाद्रयः महोर्मयः । तैः कृत्वा धौतं रक्तनभः रक्तयुक्तं नभः यस्य । तत् । योधैः मुक्तः यः महानादः सिंहनादः । तेन द्रवन्तः धावन्तः । व्रजाः अर्थात् दीनसमूहाः यत्र । तत् ॥ (मोटी_४,२६.३२ ॥

लोकपानेकपाम्भोदच्छन्नच्छन्नार्यमान्वितम् ।
पुनः सुरासुरोद्द्योतैर् दृष्टसैन्यकुलाकुलम् ॥ (मो_४,२६.३३ ॥

लोकपानाम् लोकेशानाम् । ये अनेकपाः हस्तिनः । ते एवाम्भोदाः मेघाः । तैः छन्नच्छन्नः अतिशयेनावृतः । यः अर्यमा सूर्यः । तेनान्वितम् । तर्हि तत्र तैर् अन्योऽन्यं कथं दृष्टम् इत्य् । अत्राह पुनर् इति । पुनः पक्षान्तरे । सुरासुराणां ये उद्द्योताः शरीरप्रकाशाः । तैः कृत्वा दृष्टं यत् सैन्यकुलम् सैन्यसमूहः । तेनाकुलम् निर्भरम् ॥ (मोटी_४,२६.३३ ॥

सपक्षपर्वताकारदानवाद्रिगमागमैः ।
वहत्पचपचाशब्दभूरिभाक्करभीषणम् ॥ (मो_४,२६.३४ ॥

पचपचेति शब्दानुकरणम् । भाक्करेति च ॥ (मोटी_४,२६.३४ ॥

आयुधाद्रिविभिन्नोग्रदैत्यपर्वतनिर्झरैः ।
रक्तैर् अरुणिताशेषवसुधार्णवपर्वतम् ॥ (मो_४,२६.३५ ॥

स्पष्टम् ॥ (मोटी_४,२६.३५ ॥

उत्सन्नराष्ट्रनगरविपिनग्रामगह्वरैः ।
धृतासङ्ख्यासुरेभाश्वमनुष्यरथपर्वतम् ॥ (मो_४,२६.३६ ॥

उत्सन्नाः विनष्टाः । ये राष्ट्रनगरविपिनग्रामाः । तेषां गह्वरैः रन्ध्ररूपैः मध्यभागैः । धृताः असङ्ख्याः असुरेभाश्वमनुष्यरथपर्वताः यस्य । तत् ॥ (मोटी_४,२६.३६ ॥

सुतालोत्तालनाराचराजिरेचितचारणम् ।
मुष्टिप्रहारपिष्टांसमत्तैरावणवारणम् ॥ (मो_४,२६.३७ ॥

सुतालवत् उत्तालाः ये नाराचाः । तेषां या राजिः । तया रेचिताः रहिताः । चारणाः देवविशेषाः यस्य । तत् ॥ (मोटी_४,२६.३७ ॥

कल्पाभ्रपटलासारधारादलितपर्वतम् ।
महाशनिविनिष्पेषपिष्टोड्डीनकुलाचलम् ॥ (मो_४,२६.३८ ॥

आसारः शिलामयोऽत्र ज्ञेयः ॥ (मोटी_४,२६.३८ ॥

कुपिताग्निज्वलज्ज्वालाजालैर् ज्वलितदानवम् ।
एकाञ्जलिपुटानीतसमुद्रोत्सादितानलम् ॥ (मो_४,२६.३९ ॥

उत्सादितः निर्वापितः ॥ (मोटी_४,२६.३९ ॥

चान्द्रशैत्यादिसम्भारशिलीकृतमहाजलम् ।
वनव्यूहेन्धनाग्न्यर्चिर्द्राविताम्बुशिलोच्चयम् ॥ (मो_४,२६.४० ॥

शीतेन हि जलम् पाषाणीभवति । वनेति पर्वताः अपि विगलन्ति स्मेत्य् अर्थः ॥ (मोटी_४,२६.४० ॥

स्त्रनिर्मितदुर्वारतमःकल्पान्तरात्रिकम् ।
मायासूर्यगणोद्द्योतपीतातनुतमःपटम् ॥ (मो_४,२६.४१ ॥

स्पष्टम् ॥ (मोटी_४,२६.४१ ॥

मायाग्निवर्षनिपतत्कल्पान्तगणवर्षणम् ।
सशीकाराग्निपवनशस्त्रसङ्घट्टकर्षणम् ॥ (मो_४,२६.४२ ॥

मायाग्निवर्षेण निपतत्कल्पान्तगणवत् वर्षणम् यत्र । तत् । सशीकारौ शीकारशब्दयुक्तौ । अग्निपवनौ यत्र । तत् । तादृशः यः शस्त्रसङ्घट्टः । तेन कर्षणम् देवासुरकर्षणम् यत्र । तत् ॥ (मोटी_४,२६.४२ ॥

वज्रवर्षविनिर्धूतशैलवर्षास्त्रसम्भवम् ।
निद्राबोधास्त्रयुद्धाढ्यं सवर्षावग्रहास्त्रकम् ॥ (मो_४,२६.४३ ॥

वज्रवर्षेण विनिर्धूतः शैलवर्षरूपाणाम् अस्त्राणां सम्भवः यत्र । तत् । निद्राबोधकारीणि अस्त्राणि निद्राबोधास्त्राणि । तैः यद् युद्धम् । तेनाढ्यम् । वर्षावग्रहकारीणि अस्त्राणि वर्षावग्रहास्त्राणि । सह तैः वर्तते इति तादृशम् ॥ (मोटी_४,२६.४३ ॥

वहत्क्रकचवृक्षास्त्रं जलाग्न्यस्त्ररणान्वितम् ।
ब्रह्मास्त्रयुद्धविषमं तमस्तेजोऽस्त्रशारितम् ॥ (मो_४,२६.४४ ॥

शारितम् चित्रीकृतम् ॥ (मोटी_४,२६.४४ ॥

स्त्रोद्गीर्णायुधानेकनीरन्ध्रसकलाम्बरम् ।
शिलावर्षास्त्रवलितं वह्निवर्षास्त्रभासुरम् ॥ (मो_४,२६.४५ ॥

अस्त्रार्थम् ब्रह्मास्त्राद्यर्थम् । उद्गीर्णानि त्यक्तानि । यानि आयुधानेकानि आयुधसमूहाः । तैः नीरन्ध्रं सकलाम्बरं यत् । तत् ॥ (मोटी_४,२६.४५ ॥

पताकामृष्टशशकैश् चक्रचीत्कारगर्जितैः ।
मुहूर्तेन रथैर् लङ्घितोदयास्तमयाचलम् ॥ (मो_४,२६.४६ ॥

पताकाभिः मृष्टः शशकः अर्थात् चन्द्रशशः यैस् । तैः ॥ (मोटी_४,२६.४६ ॥

वज्रप्रहाराविरतम्रियमाणमहासुरम् ।
शुक्रामरमहाविद्याजायमानापरासुरम् ॥ (मो_४,२६.४७ ॥

अमरमहाविद्या सञ्जीविनी विद्या । देवानां तु स्वयम् एव मरणं नास्ति । अमरत्वात् इति तेषाम् मरणं व्यथा एव ज्ञेयम् ॥ (मोटी_४,२६.४७ ॥

शुभग्रहमहाकेतुपालितानाम् इतस् ततः ।
उत्पातमङ्गलौघानां युद्धैर् उद्धतकन्धरम् ॥ (मो_४,२६.४८ ॥

शुभग्रहाः मङ्गलानि पालयन्ति । केतुः उपलक्षणम् पापग्रहाणाम् । पापग्रहाः हि उत्पातान् पालयन्ति ॥ (मोटी_४,२६.४८ ॥

साद्रिखोर्वीसमुद्रद्यु जगद् रुधिरवारिभिः ।
फुल्लैककिंशुकवनं कुर्वद् दुर्वारवैरतः ॥ (मो_४,२६.४९ ॥

पुनः कथम्भूतम् । दुर्वारवैरतः जगत् रुधिरवारिभिः कृत्वा फुल्लैककिंशुकवनं कुर्वत् । जगत् कथम्भूतम् । साद्रिखोर्वीसमुद्रद्यु पर्वताकाशभूमिसमुद्रस्वर्गसहितम् ॥ (मोटी_४,२६.४९ ॥

पर्वतप्रतिमासङ्ख्यशवपूर्णमहार्णवम् ।
समग्रतरुशाखांसलम्बलोलमहाशवम् ॥ (मो_४,२६.५० ॥

महार्णवा अत्र रक्तस्य ज्ञेयाः ॥ (मोटी_४,२६.५० ॥

नीयमानैः स्ववाताक्तैः पक्षपुष्पलसत्फलैः ।
तालोत्तालैः शरव्रातवनैर् व्याप्तनभस्तलम् ॥ (मो_४,२६.५१ ॥

वातेनाक्तैः प्रेरितैः । पक्षपुष्पाणि च तानि लसत्फलानि च । फलम् अत्र शल्यं ज्ञेयम् ॥ (मोटी_४,२६.५१ ॥

पर्वतप्रतिमासङ्ख्यकबन्धवनबाहुभिः ।
नृत्यद्भिः पतिताम्भोदविमानसुरतारकम् ॥ (मो_४,२६.५२ ॥

पतिताः अम्भोदविमानसुरतारकाः यस्य । तत् ॥ (मोटी_४,२६.५२ ॥

शरशक्तिगदाप्रासपट्टिसप्रोतपर्वतम् ।
लोकसप्तकविभ्रष्टकुड्यखण्डाचिताम्बरम् ॥ (मो_४,२६.५३ ॥

लोकसप्तकस्य कुड्यान्य् अपतन्न् इति भावः ॥ (मोटी_४,२६.५३ ॥

नारतरसन्मत्तकल्पाभ्रदृढदुन्दुभि ।
पृष्ठशब्दश्रवोन्नादपातालतलवारणम् ॥ (मो_४,२६.५४ ॥

पृष्ठशब्दस्य यः श्रवः श्रवणम् । तेनोन्नादाः पातालतलवारणाः यत्र । तत् ॥ (मोटी_४,२६.५४ ॥

विनायककराकृष्टदीर्घदानवपर्वतम् ।
एकदिक्तटनिःस्पन्दसिद्धसाध्यमरुद्गणम् ॥ (मो_४,२६.५५ ॥

स्पष्टम् ॥ (मोटी_४,२६.५५ ॥

पलायमानगन्धर्वकिन्नरामरचारणम् ।
शवीभूतक्षतक्षीणपतद्गन्धर्वनायकम् ॥ (मो_४,२६.५६ ॥

स्पष्टम् ॥ (मोटी_४,२६.५६ ॥

किञ्चिल्लब्धजयप्रायदैत्यदानवमण्डलम् ।
दूयमानसुरानीकम् एकान्तोद्विग्नवासवम् ॥ (मो_४,२६.५७ ॥

स्पष्टम् ॥ (मोटी_४,२६.५७ ॥

उत्तराशामिलद्वह्निरक्तहेतिवृहत्प्रभम् ।
प्रतिक्षणं लसद्दाहप्रकाशतिमिरोल्बणम् ॥ (मो_४,२६.५८ ॥

उत्तराशया उत्तरदिशा । मिलन् यः वह्निः । तेन रक्ता हेतीनां वृहत्यः प्रभाः यत्र । तत् । देवमन्दिरदाहोत्थोऽत्र वह्निर् ज्ञेयः । प्रतिक्षणम् क्षणे क्षणे । लसन् यः दाहः गृहदाहः । तेन ये प्रकाशतिमिरे । ताभ्याम् उल्बणम् । तिमिरम् अत्र धूमकृतं ज्ञेयम् ॥ (मोटी_४,२६.५८ ॥

सर्गान्तश्लोकेन समीरचलनं कथयति

ववुर् अशनिनिपातपिण्डिताङ्गा
दलितशिलाशकला दिशाम् मुखेषु ।
प्रलयसमयसूचकाः सुराणाम्
उरुतरघर्घरघस्मराः समीराः ॥ (मो_४,२६.५९ ॥

समीराः वाताः । दिशाम् मुखेषु ववुः वान्ति स्म । कथम्भूताः । अशनीनां यः निपातः । तेन पिण्डितान्य् अङ्गानि येषाम् । तादृशाः । अशनिनिपातेनैकत्र मिलिता इत्य् अर्थः । अत एव दलिताः शिलाशकलाः यैः । ते तादृशाः । उरुतरः यः घर्घरः घर्घरशब्दः । तेन घस्मराः शब्दान्तरग्रासकारिण इत्य् अर्थः । इति शिवम् ॥ (मोटी_४,२६.५९ ॥


इति भास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे षड्विंशः सर्गः ॥२६॥




ततः किं सम्पन्नम् इत्य् । अत्राह

तस्मिंस् तदा वर्तमाने घोरे समरसम्भ्रमे ।
देवासुरशरीरेषु पतत्स्व् अद्रिदलेष्व् इव ॥ (मो_४,२७.१ ॥
वहत्स्व् अभ्रप्रवाहेषु गङ्गापूरेष्व् इवाम्बरात् ।
दाम्नि वेष्टितदेवौघे मुक्तक्ष्वेडाघनारवे ॥ (मो_४,२७.२ ॥
व्याले निजकराकृष्टिपिष्टसर्वसुरालये ।
कटे कठिनसंरम्भसङ्गराच्छादितामरे ॥ (मो_४,२७.३ ॥
ऐरावणे क्षीणमदे पलायनपरायणे ।
प्रवृद्धे दानवानीके मध्याह्न इव भास्करे ॥ (मो_४,२७.४ ॥
पातिताङ्गायुधार्धानि प्रस्रवद्रुधिराणि च ।
पयांसीव विसेतूनि देवसैन्यानि दुद्रुवुः ॥ (मो_४,२७.५ ॥

पातितानि अर्थात् असुरैः भूमौ पातितानि । अङ्गानाम् आयुधानां चार्धानि येषाम् । तानि च्छिन्नाङ्गानि च्छिन्नायुधानि चेति यावत् । अत एव प्रस्रवत् रुधिरं येषाम् । तानीति तादृशानि देवसैन्यानि दुद्रुवुः भयेन द्रुतानि । कानीव । विसेतूनि पयांसीव । कस्मिन् सति । तस्मिन्न् इत्यादि । दाम्नि दामाख्ये महासुरे । कठिनसंरम्भं यत् सङ्गरम् सङ्ग्रामः । तत्र आच्छादिताः अमराः येन । तादृशे सति । कुलकम् ॥ (मोटी_४,२७.१-५॥

दामव्यालकटास् तानि चिरम् अन्तर्हितान्य् अपि ।
नुजग्मुर् लसन्नादम् इन्धनानीव पावकाः ॥ (मो_४,२७.६ ॥

तानि देवसैन्यानि । अनुजग्मुः पश्चाद् धावन्ति स्म । अन्तर्हितानाम् अनुगमनं न युक्तम् इत्य् अपिशब्दो द्योतयति ॥ (मोटी_४,२७.६ ॥

न्विष्टान् अपि यत्नेन नालभन्तासुराः सुरान् ।
घनजालवनोड्डीनान् सिंहा हरिणकान् इव ॥ (मो_४,२७.७ ॥

स्पष्टम् ॥ (मोटी_४,२७.७ ॥

लब्धेष्व् अमरौघेषु दामव्यालकटास् तदा ।
जग्मुः पातालकोशस्थं प्रभुम् प्रमुदिताशयाः ॥ (मो_४,२७.८ ॥

प्रभुं शम्बरम् ॥ (मोटी_४,२७.८ ॥

थ देवा विषण्णास् ते क्षणम् आश्वस्य वै ययुः ।
जयोपायाय विजिता ब्रह्माणम् अमितौजसम् ॥ (मो_४,२७.९ ॥

विषण्णाः मूर्छिताः । आश्वस्य चेतनां लब्ध्वा ॥ (मोटी_४,२७.९ ॥

तेषाम् आविरभूद् ब्रह्मा रक्तरक्ताननश्रियाम् ।
सायं रक्तीकृताम्बूनाम् अब्धीनाम् इव चन्द्रमाः ॥ (मो_४,२७.१० ॥

रक्तेन रुधिरेण । रक्तम् आननं येषाम् । ते । तादृशानाम् । सायम् सायंसन्ध्ययेत्य् अर्थः । चन्द्रमसो वा रक्तीकरणे कर्तृत्वं ज्ञेयम् । उदयकाले तस्य रक्तत्वात् । तदा सायम् सायंसमय इत्य् अर्थः ॥ (मोटी_४,२७.१० ॥

प्रणम्य ते सुरास् तस्मै तम् अर्थं शम्बरेरितम् ।
सम्यक् प्रकथयाम् आसुर् दामव्यालकटक्रमम् ॥ (मो_४,२७.११ ॥

ते सुराः शम्बरेरितम् शम्बरप्रादुर्भावितम् । तम् दामव्यालकटक्रमम् अर्थम् दामादिक्रमाख्यं वस्तु । प्रणम्य तस्मै । सम्यक् प्रकथयाम् आसुः ॥ (मोटी_४,२७.११ ॥

तम् आकर्ण्याखिलम् ब्रह्मा विचार्य च विचारवित् ।
उवाचेदं सुरानीकम् आश्वासनकरं वचः ॥ (मो_४,२७.१२ ॥

तम् दामव्यालकटक्रमम् । सुरानीकम् देवसैन्यम् ॥ (मोटी_४,२७.१२ ॥

ब्रह्मा कथयति

हन्त वर्षसहस्रान्ते शम्बरेण हरेः क्रमात् ।
मर्तव्यम् अमरेशस्य तावत् कालम् प्रतीक्ष्यताम् ॥ (मो_४,२७.१३ ॥

हन्त कष्टे । शम्बरेण कर्त्रा । वर्षसहस्रान्ते अमरेशस्य हरेः विष्णोः । क्रमात् युद्धाख्यात् क्रमात् । मर्तव्यम् मरणीयम् । तावत् कालम् असौ न मरिष्यतीति भावः । युष्माभिः तावत् कालम् प्रतीक्ष्यताम् ॥ (मोटी_४,२७.१३ ॥

ननु तर्हि तावत् कालम् बाधां कुर्वतः दामादीन् किं कुर्म इत्य् । अत्राह

दामव्यालकटान् एतान् अद्य त्व् अमरसत्तमाः ।
योधयन्तः पलायध्वम् मायायुद्धेन दानवान् ॥ (मो_४,२७.१४ ॥

हे अमरसत्तमाः । यूयम् एतान् दामव्यालकटान् दानवान् मायायुद्धेन योधयन्तः युद्धं कारयन्तः सन्तः । पलायध्वम् ॥ (मोटी_४,२७.१४ ॥

ननु अस्मत्पलायनेन किम् एषां सेत्स्यतीत्य् । अत्राह

युद्धाभ्यासवशाद् एषाम् मकुराणाम् इवाशये ।
हङ्कारचमत्कारः प्रतिबिम्बम् उपैष्यति ॥ (मो_४,२७.१५ ॥

एषाम् दामादीनाम् । अहङ्कारचमत्कारः वयं युद्धे जयिनः स्मः इत्य् एवंरूपोऽहम्भावास्वादः । आशये मनसि । प्रतिबिम्बम् उपैष्यति ॥ (मोटी_४,२७.१५ ॥

ननु ततोऽपि किं सेत्स्यतीत्य् । अत्राह

गृहीतवासनास् त्व् एते दामव्यालकटाः सुराः ।
सुजया वो भविष्यन्ति जाललग्नाः खगा इव ॥ (मो_४,२७.१६ ॥

वासनाया एव वक्ष्यमाननयेन वैवश्यकारित्वात् ॥ (मोटी_४,२७.१६ ॥

नन्व् अद्य कथं न जेतुं शक्या एते इत्य् । अत्राह

द्य त्व् अवासना एते सुखदुःखविवर्जिताः ।
धैर्येणारीन् विनिघ्नन्तो देवदुर्जयतां गताः ॥ (मो_४,२७.१७ ॥

तु पक्षान्तरे । अद्य अवासनाः अहंवासनारहिताः । अत एव सुखदुःखविवर्जिताः । अत एव धैर्येण अरीन् विनिघ्नन्तः । देवदुर्जयताम् युष्मद्दुर्जयताम् इति यावत् । गताः । सुखादिरहितो हि भीतिरहितत्वाद् दुर्जयो भवति ॥ (मोटी_४,२७.१७ ॥

ननु वासनया कथम् एते वश्या भविष्यन्तीत्य् । अत्राह

वासनातन्तुबद्धा ये आशापाशवशीकृताः ।
वश्यतां यान्ति ते लोके रज्जुबद्धाः खगा इव ॥ (मो_४,२७.१८ ॥

ये वासनातन्तुबद्धा अहंवासनातन्तुबद्धाः । भवन्ति । ते आशापाशवशीकृताः सन्तः । लोके वश्या भवन्ति । ते के इव । रज्जुबद्धाः खगा इव । अयम् भावः । पुरुषः अन्तःस्थितयाहंवासनया ममेदम् भवत्व् एतन् मा भवत्व् इत्य् एवंरूपयाशयाविष्टो भवति । तया च दैन्यं गच्छति । तेन परस्य वश्यो भवतीति ॥ (मोटी_४,२७.१८ ॥

ननु वासनारहिताः कथं दुर्जया भवन्तीत्य् । अत्राह

ये हि निर्वासना धीराः सर्वत्रासक्तबुद्धयः ।
न हृष्यन्ति न कुप्यन्ति दुर्जयास् ते महाधियः ॥ (मो_४,२७.१९ ॥

सर्वत्र हेये उपादेये वा । असक्ता रागद्वेषरूपया आसक्त्या रहिता । बुद्धिः येषाम् । तादृशाः । उपादेयरागेन हेयद्वेषेणैव च पुरुषः जेयो भवति । अन्यथा विदितनयाः राजानः द्रव्यदानेन शत्रून् जेतुं न यतेरन् । तदभावे तु स्वशरीरेऽपि रागरहितः पुरुषः न केनापि जेतुं शक्यते इति भावः । द्वेषस्यासक्तित्वम् आसक्त्युत्पादकत्वेन ज्ञेयम् । द्वेषेण हि हेयान् निवृत्तः पुरुषः उपादेये दृढतरं रागापरपर्यायासक्तियुक्तो भवति ॥ (मोटी_४,२७.१९ ॥

यस्यान्तर्वासनारज्ज्वा ग्रन्थिबन्धः शरीरिणः ।
महान् अपि बहुज्ञोऽपि स बालेनापि जीयते ॥ (मो_४,२७.२० ॥

अन्यथा बालेष्व् अपि धनाढ्येषु विद्यावयोवृद्धाः प्रणामं न कुर्युर् इति भावः ॥ (मोटी_४,२७.२० ॥

यं सोऽहम् इदं मे तद् इत्य् आकलितकल्पनः ।
आपदाम् पात्रताम् एति पयसाम् इव सागरः ॥ (मो_४,२७.२१ ॥

आकलिता आ समन्तात् धृता । कल्पना सङ्कल्पः येन । सः । आपदाम् ममैतद् भवत्व् एतन् मा भवत्व् इत्य् एवंरूपाणाम् ॥ (मोटी_४,२७.२१ ॥

इयन्मात्रपरिच्छिन्नो येनात्मा भव्य भावितः ।
स सर्वज्ञोऽपि सर्वत्र परां कृपणतां गतः ॥ (मो_४,२७.२२ ॥

हे भव्य हे इन्द्र । येन आत्मा स्वस्वरूपम् । इयन्मात्रपरिच्छिन्नः । इयन्मात्रं चासौ देहादिमात्ररूपश् चासौ । अत एव परिच्छिन्नश् चेति तादृशः । भावितः भावनाविषयीकृतः । सः पुरुषः । सर्वज्ञः अपि सर्वत्र परां निरतिशयाम् । कृपणताम् दीनताम् । गतः गच्छतीत्य् अर्थः । देहनिष्ठो हि देहहितम् इच्छन्न् अवश्यम् एव कृपणताम् एति ॥ (मोटी_४,२७.२२ ॥

नन्तस्याप्रमेयस्य येनेयत्ता प्रकल्पिता ।
आत्मतत्त्वस्य तेनात्मा स्वात्मनैवावशीकृतः ॥ (मो_४,२७.२३ ॥

अनन्तस्यान्तसाक्षित्वेन स्थितत्वात् तद्रहितस्य । अप्रमेयस्य केवलम् प्रमातृरूपेण स्थितत्वात् प्रमेयताम् अस्पृशमानस्य । आत्मतत्त्वस्य । येन इयत्ता देहावच्छिन्नत्वाख्यम् इयन्मात्रत्वम् । प्रकल्पिता कल्पनया भाविता । तेनाज्ञानिना । स्वात्मनैव आत्मावशीकृतः । अवश्यम्भावि हि देहावच्छिन्नस्य भोगवैवश्यम् ॥ (मोटी_४,२७.२३ ॥

ननु कथम् एतद् अस्तीत्य् । अत्राह

आत्मनो व्यतिरिक्तं यत् किञ्चिद् अस्ति जगत्त्रये ।
तत्रोपादेयभावेन बद्धा भवति भावना ॥ (मो_४,२७.२४ ॥

आत्मनः परिच्छिन्नत्वेन भावितस्यात्मनः । यत् किञ्चित् व्यतिरिक्तम् । भावितम् इति शेषः । भावितम् अस्ति । तत्र अप्राप्तत्वाभिमानेन उत्पन्नेन उपादेयभावेन उपादेयतया । भावना बद्धा भवति । भावनाबन्धस्यैव च वैवश्यम् इति नामेति भावः ॥ (मोटी_४,२७.२४ ॥

भावनाबन्धस्य वैवश्येति नामयुक्तताकारि दुःखकारणत्वं कथयति

आस्थामात्रम् अनन्तानां दुःखानां कारणं विदुः ।
नास्थामात्रम् अभितः सुखानां कारणं विदुः ॥ (मो_४,२७.२५ ॥

आस्थामात्रम् भावनाबन्धमात्रम् ॥ (मोटी_४,२७.२५ ॥

सामान्येन समर्थनं कृत्वा विशेषं स्मरति

दामव्यालकटा यावद् अनास्था भावसंस्थितौ ।
तावन् न नाम जेया वो मषकाणाम् इवानिलाः ॥ (मो_४,२७.२६ ॥

अनास्थाः आस्थारहिताः । भावसंस्थितौ देहादिपदार्थसंस्थितौ ॥ (मोटी_४,२७.२६ ॥

न्तर्वासनया जन्तुर् दीनताम् अनुयातया ।
जितो भवत्य् अन्यथा तु मषकोऽप्य् अमराचलः ॥ (मो_४,२७.२७ ॥

अन्यथा वासनाराहित्ये ॥ (मोटी_४,२७.२७ ॥

विद्यते वासना यत्र तत्र चायाति दीनता ।
गुणागुणानुविद्धत्वं सतो दृष्टं हि नासतः ॥ (मो_४,२७.२८ ॥

यत्र च वासना विद्यते तत्र दीनता आयाति । पादपूरणार्थः चशब्दः । हि यस्मात् । गुणागुणानुविद्धत्वम् दीनतापादकं हिताहितानुबन्धित्वम् । सतः वासनयाहितदेहसत्ताकस्य । दृष्टम् । असतः वासनाराहित्येन शुद्धचिन्मात्ररूपतयासत्कल्पस्य । न दृष्टम् ॥ (मोटी_४,२७.२८ ॥

फलितम् आह

यं सोऽहम् ममेदं चेत्य् एवम् अन्तः स्ववासनाम् ।
यथा दामादयः शक्र भावयन्ति तथा कुरु ॥ (मो_४,२७.२९ ॥

अत इति शेषः । हे शक्र । यथा दामादयः अयं सोऽहम् ममेदं चेत्य् एवंरूपां स्ववासनाम् अहङ्कारवासनाम् । अन्तः मनसि । भावयन्ति विकल्पयन्ति । तथा कुरु । ततः जेया भविष्यन्तीति भावः ॥ (मोटी_४,२७.२९ ॥

ननु कथं न ते मम जेया भविष्यन्तीत्य् । अत्राह

या या जनस्य विपदो भावाभावदशाश् च याः ।
तृष्णाकरञ्जवल्ल्यास् ता मञ्जर्यः कटुकोमलाः ॥ (मो_४,२७.३० ॥

तृष्णा एव दुःखकारित्वात् कण्टकवल्ली । तस्याः ॥ (मोटी_४,२७.३० ॥

वासनातन्तुबद्धोऽयं लोको विपरिवर्तते ।
सा सुवृद्धातिदुःखाय सुखायोच्छेदम् आगता ॥ (मो_४,२७.३१ ॥

विपरिवर्तते वैपरीत्यम् भजति । सा वासना । उच्छेदम् नाशम् ॥ (मोटी_४,२७.३१ ॥

धीरोऽप्य् अतिबहुज्ञोऽपि कुलजोऽपि महान् अपि ।
तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा ॥ (मो_४,२७.३२ ॥

बध्यते विवशः क्रियते । तृष्णाग्रस्तो हि स्फुटम् एव विवशो भवति ॥ (मोटी_४,२७.३२ ॥

देहपादपसंस्थस्य हृदयालयशायिनः ।
तृष्णाचित्तखगस्यास्य वागुरा परिकल्पिता ॥ (मो_४,२७.३३ ॥

स्पष्टम् ॥ (मोटी_४,२७.३३ ॥

दीनो वासनया लोकः कृतान्तेनापकृष्यते ।
रज्ज्वेव बालेन खगो विवशोऽनिशम् उच्छ्वसन् ॥ (मो_४,२७.३४ ॥

कृतान्तेन ममतारूपेण यमेन । ममताया एव श्रीव्यासेन कृतान्तत्वाभिधानात् ॥ (मोटी_४,२७.३४ ॥

लम् आयुधभारेण सङ्गरभ्रमणेन च ।
वासनां सविपर्यासां युक्त्यैव त्वं रिपोः कुरु ॥ (मो_४,२७.३५ ॥

सविपर्यासाम् विपर्यासयुक्ताम् । रिपोः दामादित्रयरूपस्य । आयुधादिभिः तव न किञ्चिद् अपि सेत्स्यतीति भावः ॥ (मोटी_४,२७.३५ ॥

न्तर् अक्षुभिते धैर्ये रिपोर् अमरनायकाः ।
न शस्त्राणि न शास्त्राणि न चास्त्राणि जयन्ति वः ॥ (मो_४,२७.३६ ॥

अक्षुभिते वासनाराहित्येन क्षोभरहिते सति ॥ (मोटी_४,२७.३६ ॥

दामव्यालकटास् त्व् एते युद्धाभ्यासवशेन च ।
हङ्कारमयीम् अन्तस् ते ग्रहीष्यन्ति वासनाम् ॥ (मो_४,२७.३७ ॥

अहङ्कारमयीम् वयं योत्स्याम इत्य् एवंरूपाम् ॥ (मोटी_४,२७.३७ ॥

यदि ते यन्त्रपुरुषाः शम्बरेण विनिर्मिताः ।
वासनां नाश्रयिष्यन्ति यास्यन्ति तद् अजय्यताम् ॥ (मो_४,२७.३८ ॥

यन्त्रपुरुषाः अनुसन्धानरहिता इति यावत् ॥ (मोटी_४,२७.३८ ॥

तत् तावद् युक्तियुद्धेन तान् प्रबोधयतामराः ।
यावद् अभ्यासवशतो भविष्यन्ति सवासनाः ॥ (मो_४,२७.३९ ॥

प्रबोधयत वासनायुक्तान् कुरुत ॥ (मोटी_४,२७.३९ ॥

ततो वध्या भविष्यन्ति भवताम् बद्धभावनाः ।
तृष्णाप्रोताशया लोके न केचन नपेलवाः ॥ (मो_४,२७.४० ॥

ननु यदि कदाचित् ततोऽपि वध्या न भविष्यन्ति ततः किं कार्यम् इत्य् । अत्राह तृष्णेति । तृष्णाप्रोताशयाः तृष्णानुविद्धमनसः । पेलवाः दीनाः । तृष्णाग्रस्ताः सर्वे एव पेलवा भवन्ति । अतः तेऽपि भविष्यन्त्य् एवेति भावः ॥ (मोटी_४,२७.४० ॥

सर्गान्तश्लोकेन ब्रह्मवाक्यं समापयति

समविषमम् इदं जगत् समग्रं
समुपगतं स्थिरतां स्ववासनातः ।
चलति च लहरीभरो यथाब्धाव्
त इह सैव चिकित्स्यताम् प्रयाता ॥ (मो_४,२७.४१ ॥

समविषमम् सुखदुःखमयम् । इदम् अनुभूयमानम् । समग्रं जगत् । स्ववासनातः अहङ्कारवासनातः । स्थिरतां समुपागतम् । सा वासना । इह लोके । चलति च स्फुलति च । क इव । लहरीभर इव । यथा लहरीभरः अब्धौ समुद्रे । चलति । तथेत्य् अर्थः । अतः सा वासना एव । चिकित्स्यताम् चिकित्सायोग्यताम् । प्रयाता भवतीति शिवम् ॥ (मोटी_४,२७.४१ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे सप्तविंशः सर्गः ॥२७॥




ब्रह्मणः अन्तर्धानं कथयति

इत्य् उक्त्वा भगवान् देवस् तत्रैवान्तर्धिम् आययौ ।
वेलावनतटे शब्दं कृत्वेवाम्बुतरङ्गकः ॥ (मो_४,२८.१ ॥

तत्रैव तस्मिन् स्थान एव । न त्व् अन्यत्र गत्वा । अन्तर्धिम् व्यवधानम् ॥ (मोटी_४,२८.१ ॥

सुरास् त्व् आकर्ण्य तद्वाक्यं जग्मुः स्वाम् अभितो दिशम् ।
कमलामोदम् आदाय वनमालाम् इवानिलाः ॥ (मो_४,२८.२ ॥

स्पष्टम् ॥ (मोटी_४,२८.२ ॥

दिनानि कतिचित् स्वेषु कान्तेषु स्थिरकान्तिषु ।
द्विरेफा इव पद्मेषु मन्दिरेषु विशश्रमुः ॥ (मो_४,२८.३ ॥

स्पष्टम् ॥ (मोटी_४,२८.३ ॥

कञ्चित् कालं समासाद्य स्वात्मोदयकरं शुभम् ।
चक्रुर् दुन्दुभिनिर्घोषम् प्रलयाभ्ररवोपमम् ॥ (मो_४,२८.४ ॥

स्पष्टम् ॥ (मोटी_४,२८.४ ॥

थ दैत्यैः सह व्योम्नि तैः पातालतलोत्थितैः ।
कालक्षेपकरं घोरम् पुनर् युद्धम् अवर्तत ॥ (मो_४,२८.५ ॥

कालक्षेपकरम् न तु शम्बरवधकारि । तन्मरणस्य वर्षसहस्रान्ते ब्रह्मणा प्रोक्तत्वात् इत्य् अर्थः । देवानाम् इति शेषः । समवर्तत समभवत् ॥ (मोटी_४,२८.५ ॥

ववुर् असिशरशक्तिमुद्गरौघा
मुसुलगदापरशूग्रचक्रसङ्घाः ।
शनिगिरिशिलाहुताशवृक्षा
हिगरुडादिमुखानि चायुधानि ॥ (मो_४,२८.६ ॥

कीदृशं युद्धं समवर्ततेत्य् अपेक्षायाम् आह ववुर् इति । ववुः वान्ति स्म । देवदैत्यविसृष्टा इति शेषः ॥ (मोटी_४,२८.६ ॥

मायाकृतायुधमहाम्बुघनप्रवाहा
क्षिप्रम् प्रति प्रतिदिशम् परिनिर्जगाम ।
पाषाणपर्वतमहीतटवृक्षलक्ष-
क्षुब्धाम्बुपूरघनघोषवती नदी द्राक् ॥ (मो_४,२८.७ ॥

मायाकृतः राक्षसैः मायया सम्पादितः । आयुधमहाम्बुनः आयुधयुक्तस्य महाजलस्य । घनः प्रवाहः यस्याः । सा । तथा पाषाणपर्वतं क्षिप्रम् प्रति क्षिप्रं क्षिप्रम् । महीतटवृक्षाणां लक्षेषु क्षुब्धः सञ्चरणशीलः । यः अम्बुपूरः आयुधयुक्तः अम्बुपूरः । तेन घनः घोषः विद्यते यस्याः । सा । तादृशी नदी आयुधमयी नदी । द्राक् शीघ्रम् । प्रतिदिशं निर्जगाम निर्गता ॥ (मोटी_४,२८.७ ॥

केन प्रतिदिशं निर्जगामेति करणापेक्षायां सविशेषणम् आह

मध्यप्रवाहवहदुल्मुकशूलशैल-
प्रासासिकुन्तशरतोमरमुद्गरेण ।
गङ्गोपमाम्बुवलितामरमन्दिरेण
सर्वासु दिक्ष्व् अशनिवर्षणकर्षणेन ॥ (मो_४,२८.८ ॥

अशनियुक्तं वर्षणम् अशनिवर्षणम् । तेन यत् कर्षणम् दिशः प्रति नयनम् । तेन कृत्वा निर्जगामेति पूर्वेण सम्बन्धः । वर्षेण हि नद्यः दिशः व्याप्नुवन्ति । अशनिवर्षणकर्षणेन कथम्भूतेन । मध्ये प्रवाहेण वहन्ति उल्मुकशूलशैलप्रासासिकुन्तशरतोमरमुद्गराणि यत्र । तत् । तादृशेन । पुनः कथम्भूतेन । सर्वासु दिक्षु गङ्गोपमं यत् अम्बु । तेन वलितानि अमरमन्दिराणि येन । तत् । तादृशेन ॥ (मोटी_४,२८.८ ॥

पृथ्व्यादिदारुणशरीरमयी प्रहार-
दानग्रहे गगनरश्मिशरीरिकैव ।
या योपशाम्यति सुरासुरसिद्धसेना
मायाकृता पुनर् उदेति रसेन सैव ॥ (मो_४,२८.९ ॥

या या । प्रहाराणां दानग्रहे पृथ्व्यादिवत् दारुणं यत् शरीरम् । तन्मयी अपि । प्रहाराणां दाने ग्रहणे च समर्थापीति यावत् । परमार्थतः मायारूपत्वात् गगनस्य या रश्मिः । शून्यम् इति यावत् । तद्रूपं शरीरम् यस्याः । सा । तादृशी एव सती । उपशाम्यति म्रियते । सा सुरासुरसिद्धसेना पुनः उदेति एव । कथम्भूता । रसेन इच्छया । मायाकृता मायया कृतेति तादृशी । अर्थात् इन्द्रशम्बराभ्याम् ॥ (मोटी_४,२८.९ ॥

शैलोपमायुधविघट्टितभूधराणि
रक्ताम्बुपूरपरिपूर्णमहार्णवानि ।
देवासुरेन्द्रसुरशैलविरूढकुन्त-
तालीवनानि ककुभां वदनान्य् अथासन् ॥ (मो_४,२८.१० ॥

देवासुरेन्द्रा एव सुरशैलाः सुमेरवः । तेषु रूढानि । कुन्ता एव तालीवनानि । येषाम् । तानि ॥ (मोटी_४,२८.१० ॥

उद्गीर्णकुन्तशरशक्तिगदासिचक्रा
हेलानिगीर्णसुरदानवमुक्तशैला ।
काषक्वणत्क्रकचदन्तनखोग्रमाला
जीवान्वितापतद् अथायससिंहवृष्टिः ॥ (मो_४,२८.११ ॥

अथ आयससिंहवृष्टिः अयोमयानां सिंहानां वर्षणम् । अपतत् । कथम्भूता । उद्गीर्णम् सहपतितम् । कुन्तशरशक्तिगदासिचक्रम् यस्याः । सा । पुनः कथम्भूता । हेलया निगीर्णाः ग्रस्ताः । सुरदानवैः मुक्ताः प्रहरणभूताः । शैलाः यया । सा । काषे काषपाषाणे । क्वणन् घर्षणवशेन शब्दायमानः । यः क्रकचः । तद्वत् ये दन्तनखाः । तेषाम् उग्रा माला यस्याः । सा । तथा जीवान्विता जीवयुक्ता ॥ (मोटी_४,२८.११ ॥

उज्ज्वाललोचनविषज्वलनातपोद्यद्-
दिग्दाहदर्शितयुगान्तदिनेशसेना ।
उड्डीयमानपरिदीर्घमहीमहीध्रा
मत्ताब्धिवद् विषधरावलिर् उल्ललास ॥ (मो_४,२८.१२ ॥

विषधराणाम् सर्पाणाम् । आवलिः पङ्क्तिः । मत्ताब्धिवत् मत्तसमुद्रवत् । उल्ललास उल्लसति स्म । कथम्भूता । उज्ज्वालः उद्गतज्वालः । यः लोचनविषज्वलनः । तस्य यः आतपः । तेनोद्यन् । यः दिग्दाहः । तेन दर्शिता युगान्तदिनेशानाम् कल्पान्तसूर्याणाम् । सेना पङ्क्तिः । यया । सा । उड्डीयमानाः उड्डयनशीलाः । परिदीर्घाः । मह्याः सम्बन्धिनः महीध्राः पर्वताः । यस्याः । सा ॥ (मोटी_४,२८.१२ ॥

उन्नादवज्रमकरोत्करकर्करान्तर्-
इक्षाब्धिवीचिवलयैर् वलिताचलेन्द्रैः ।
आसीज् जगत् सकलम् एव सुसङ्कटाङ्गम्
आवर्तिभिर् विविधहेतिनदीप्रवाहैः ॥ (मो_४,२८.१३ ॥

उन्नादानि यानि वज्राणि । तान्य् एव मकराः । तेषां य उत्करः । तेन कर्करः कर्कराख्यः शब्दविशेषः यस्य । तत् । तादृशं यत् अन्तरिक्षम् । तद् एवाब्धिः समुद्रः । तस्य वीचिवलयैः वीचिमण्डलरूपैः । तथा वलिताः आवृताः । अचलेन्द्राः यैः । ते । तादृशैः । तथा आवर्तिभिः भ्रमयुक्तैः । विविधहेतयः एव नदीप्रवाहाः । तैः । सुसङ्कटाङ्गम् अत्यन्तपूर्णस्वरूपम् । सकलम् एव जगत् आसीत् ॥ (मोटी_४,२८.१३ ॥

शैलास्त्रशस्त्रगरुडाचलमालितोच्च-
नागाङ्गनासुरगणाङ्गनम् अन्तरिक्षम् ।
आसीत् क्षणं जलधिभिः क्षणम् अग्निपूरैः
पूर्णं क्षणं दिनकरैः क्षणम् अन्धकारैः ॥ (मो_४,२८.१४ ॥

क्षणं क्षणम् इत्य् अनेन जलध्यादीनाम् मायाकृतत्वम् उक्तम् । अन्तरिक्षम् कथम्भूतम् । शैलरूपाणि अस्त्रशस्त्राणि शैलास्त्रशस्त्राणि । तेषाम् मध्ये ये गरुडाचलाः माणिक्यपर्वताः । तैः मालिताः धृताः । उच्चा नागाङ्गनाश् चासुरगणाङ्गनाश् च येन । तत् । सुराङ्गनानां तु साक्षाद् एवाकाशे स्थितिर् इति तासाम् अकथनम् । गरुडेति गकारस्य दीर्घाभावः आर्षः । मन्त्रोद्भावितास् तु शैलाः अस्त्ररूपाः साक्षात् प्रहिताः शस्त्ररूपाः ॥ (मोटी_४,२८.१४ ॥

गरुडगुडगुडाकुलान्तरिक्ष-
प्रविसृतहेतिहुताशपर्वतौघैः ।
जगद् अभवद् असह्यकल्पकाल-
ज्वलितसुरालयभूतलान्तरालम् ॥ (मो_४,२८.१५ ॥

गरुडानाम् यः गुडगुडः गुडगुडाशब्दः । तेनाकुलम् यद् अन्तरिक्षम् । तत्र प्रविसृताः ये हेतिहुताशपर्वतौघाः । तैः कृत्वा । जगत् । असह्यः यः कल्पकालः प्रलयकालः । तत्रैव ज्वलितानि सुरालयभूतलान्तराणि यस्य । तत् । तादृशम् अभवत् ॥ (मोटी_४,२८.१५ ॥

उदपतन् वसुधातलतोऽसुरा
गगनम् अद्रितटाद् इव पक्षिणः ।
तिबलाद् अपतन् विबुधा भुवि
प्रलयचालितशैलशिला इव ॥ (मो_४,२८.१६ ॥

अतिबलाद् इत्य् अस्य पूर्वार्धेन सम्बन्धः ॥ (मोटी_४,२८.१६ ॥

शरीररूढोन्नतहेतिवृक्ष-
वनावलीलग्नमहाग्निदाहाः ।
सुरासुराः प्रापुर् अथाम्बरान्तः
कल्पानिलान्दोलितशैलशोभाम् ॥ (मो_४,२८.१७ ॥

अथ सुरासुराः अम्बरान्तः आकाशमध्ये । कल्पानिलेनान्दोलिताः ये शैलाः । तेषां शोभाम् प्रापुः । कथम्भूताः । शरीररूढाः याः उन्नतहेतयः । ता एव वृक्षवनावली । तस्यां लग्नाः । महाग्नेः तत्सङ्घट्टोत्थस्य महतः अग्नेः । दाहः येषाम् । ते । तादृशाः ॥ (मोटी_४,२८.१७ ॥

सुरासुराद्रीन्द्रशरीरमुक्तै
रक्तप्रवाहैर् अभितो भ्रमद्भिः ।
बभार पूर्णम् परितोऽम्बराब्धिः
सन्ध्यारुणोद्यच्छतगङ्गम् अङ्गम् ॥ (मो_४,२८.१८ ॥

सुरासुरा एवाद्रीन्द्राः । तेषां यानि शरीराणि । तेभ्यः मुक्तैः । अत एवाभितः भ्रमद्भिः रक्तप्रवाहैः कृत्वा । अम्बराब्धिः आकाशाख्यः समुद्रः । सन्ध्यारुणाः उद्यत्यः शतं गङ्गा यस्य । तादृशम् अङ्गम् पूर्णम् सम्यक् । बभार ॥ (मोटी_४,२८.१८ ॥

गिरिवर्षणम् अम्बुवर्षणं
विविधोग्रायुधवर्षणं तथा ।
विषमाशनिवर्षणं च ते
शमम् अन्योऽन्यम् अथाग्निवर्षणम् ॥ (मो_४,२८.१९ ॥
नयन् नयमार्गकोविदा
दलिताशेषगिरीन्द्रभित्तयः ।
ससृजुश् च समं समन्ततः
ककुबङ्गेष्व् इव पुष्पवर्षणम् ॥ (मो_४,२८.२० ॥

अथ नये अस्त्रशान्तिशास्त्रे । कोविदाः निपुणाः । ते देवासुराः । एतानि वर्षणानि समन्ततः शमम् अनयन् । एतानि कानि । गिरिवर्षणम् इत्यादि । न केवलं शमम् अनयन् । किं तु ककुबङ्गेषु ससृजुश् च । किम् इव । पुष्पवर्षणम् इव । ते कथम्भूताः । दलिता अशेषगिरीन्द्राणाम् भित्तयः यैः । ते । तादृशाः । युग्मम् ॥ (मोटी_४,२८.१९-२० ॥

देवासुराः सरससङ्गरसम्भ्रमार्ता
न्योऽन्यम् अङ्गदलनाकुलहेतिहस्ताः ।
दामेन्द्रडिम्बदहनाः पृथुपीठपीठैः
कीर्णासृजो नभसि बभ्रमुर् आक्षिपन्तः ॥ (मो_४,२८.२१ ॥

देवासुराः नभसि बभ्रमुः । कथम्भूताः । सरसम् वीररससहितम् । यत् सङ्गरम् सङ्ग्रामः । तत्र यः संरम्भः उद्योगः । तेनार्ताः व्याकुलाः । अन्योऽन्यम् अङ्गदलनार्थम् आकुलहेतयः हस्ताः येषाम् । ते । तादृशाः । दामेन्द्रयोः डिम्बदहनाः मनःसन्तापकारित्वात् चञ्चलाग्नयः । तत्रापि दाम्नः देवाः इन्द्रस्यासुराः इति विभागः । पृथुपीठाः पृथुसंस्थानाः । ये पीठाः अंसादिपीठाः । तैः कीर्णासृजः विक्षिप्तरुधिराः । तथा आक्षिपन्तः अन्योऽन्यम् आक्षेपं कुर्वन्तः ॥ (मोटी_४,२८.२१ ॥

छिन्नैः शिरःकरभुजोरुभरैर् भ्रमद्भिर्
आकाशकोशशलभैर् अशिवैस् तदानीम् ।
आसीज् जगज्जठरम् अभ्रवरैर् इवोग्रैर्
आभास्करं स्थगितदिक्तटशैलजालम् ॥ (मो_४,२८.२२ ॥

छिन्नैः । अत एव भ्रमद्भिः । अत एव च आकाशे शलभैः शलभरूपैः । अशिवैः अमङ्गलकारिभिः । शिरःकरभुजोरुभरैः । जगज्जठरम् आभास्करम् सूर्यं तावत् । स्थगितानि दिक्तटानि शैलजालानि च यस्य । तत् । तादृशम् आसीत् । तैः कैर् इव । अभ्रवरैर् इव उत्तममेघैर् इव ॥ (मोटी_४,२८.२२ ॥

मत्तानलं क्षुब्धजलानिलार्कं
दलद्वनं शीर्णसुरासुरौघम् ।
ब्रह्माण्डम् आखण्डितकुड्यकोणम्
कालकल्पान्तकरालम् आसीत् ॥ (मो_४,२८.२३ ॥

आ समन्तात् । खण्डिताः कुड्यकोणाः यस्य । तत् । तादृशम् ॥ (मोटी_४,२८.२३ ॥

भ्रान्तम् भृशम् भ्रमितदिक्तटम् अद्रिकूटैर्
आत्मप्रमाणघनहेतिहतै रणद्भिः ।
कूजद्भिर् आर्तिभिर् इवाग्रगुहौघवातैः
क्रन्दद्भिर् आपतितसिंहरवैर् अदभ्रैः ॥ (मो_४,२८.२४ ॥

अद्रिकूटैः कर्तृभिः । भृशम् भ्रान्तम् भ्रमयुक्तैः ज्ञातम् । कथम् भ्रान्तम् । भ्रमितानि भ्रमयुक्तानि कृतानि । दिक्तटानि यत्र । तत् । अद्रिकूटैः कथम्भूतैः । आत्मप्रमाणा अद्रिकूटप्रमाणाः । याः घनहेतयः । ताभिः हताः । तैः । अत एव रणद्भिः । पुनः कथम्भूतैः । गुहौघाग्राणां वाताः अग्रगुहौघवाताः । तैः । तद्व्याजेनेति यावत् । आर्तिभिर् इव कूजद्भिः । आर्त्या युक्तो हि कूजति । पुनः कथम्भूतैः । आपतिताः ये सिंहाः । तेषां ये रवाः । तैः । तद्व्याजेनेति यावत् । क्रन्दद्भिः रवैः कथम्भूतैः । अदभ्रैः उत्कटैः ॥ (मोटी_४,२८.२४ ॥

मायानदीजलधियोधघनाग्निदाहैर्
वृक्षैः सुरासुरशवैर् अचलैः शिलौघैः ।
भ्रान्तं शिरस्त्रशरशक्तिगदास्त्रवर्षैर्
वातावकीर्णवनपर्णवद् अम्बरान्तः ॥ (मो_४,२८.२५ ॥

अम्बरान्तः आकाशमध्यम् । वातेनावकीर्णम् वलितम् । यत् वनपर्णम् । तद्वत् । भ्रान्तम् भ्रमयुक्तम् आसीत् । कैः भ्रान्तम् आसीत् । न हि अम्बरमध्यस्य भ्रमो युक्त इत्य् अपेक्षायाम् आह मायानदीत्यादि । अम्बरान्तश् चारिणाम् मायानद्यादीनाम् एव भ्रमः अम्बरान्तः भ्रमत्वेनारोपितः ॥ (मोटी_४,२८.२५ ॥

द्रीन्द्रपक्षपरिमाणगमागमैक-
दुर्वारहस्ततलदारुणताडनैर् द्राक् ।
आसीत् पतद्भटशरीरगिरीन्द्रघात-
विभ्रष्टदेवपुरपूर्णजलार्णवौघः ॥ (मो_४,२८.२६ ॥

अद्रीन्द्रपक्षपरिमाणाश् च ते गमागमैकदुर्वाराश् च । तादृशाः ये हस्ताः । तेषां यानि तलानि । तैः यानि ताडनानि । तैः कृत्वा । द्राक् शीघ्रम् । पतन्तः ये भटशरीराण्य् एव गिरीन्द्राः । तेषां ये घाताः । तैः भ्रष्टानि यानि देवपुराणि । तैः पूर्णजलश् चासौ अर्णवौघः समुद्रसप्तकम् । सः । आसीत् जात इत्य् अर्थः ॥ (मोटी_४,२८.२६ ॥

घनघुङ्घुमपूरितान्तरिक्षा
क्षतजाक्षालितभूधरान्तराला ।
रुधिरह्रदवृत्तिवर्तिनी वा
भुवनाभोगगुहा तदाकुलाभूत् ॥ (मो_४,२८.२७ ॥

भुवनाभोगः भुवनविस्तारः । स एव गुहा । तदा तस्मिन् समये । आकुला अभूत् । कथम्भूता । घनः यः घुङ्घुमः युद्धकोलाहलः । तेनापूरितम् अन्तरिक्षम् यस्याः । सा । तादृशी । क्षतजैः रुधिरैः । आ समन्तात् । क्षालितानि भूधरान्तरालानि यस्याः । सा । रुधिरह्रदरूपा या वृत्तिः स्थानम् । तत्र वर्तत इति तादृशी । स्थितौ स्थितिमतीतिवत् प्रयोगः । गुहा च मषकघुङ्घुमपूरितान्तरिक्षा वृष्टिक्षालितभूधरान्तराला ह्रदवर्तिनी च भवति ॥ (मोटी_४,२८.२७ ॥

सर्गान्तश्लोकेन अस्य रणस्य संसारसाम्यं कथयति

नन्तदिक्प्रसरविकारकारिणी
क्षयोदयोन्मुखसुखदुःखदायिनी ।
रणक्रियासुरसुरसङ्घसङ्कटा
तदाभवत् खलु सदृशीह संसृतेः ॥ (मो_४,२८.२८ ॥

खलु निश्चये । सा रणक्रिया इह सम्सृतिसदृशी अभवत् । कथम्भूता । अनन्तदिक्षु यः प्रसरः । तेन विकारम् हिंसाख्यं विकारम् । करोतीति तादृशी । क्षयोदयोन्मुखे ये सुखदुःखे । ते ददातीति तादृशी । असुरसुरसङ्घेन सङ्कटा सम्बाधा । संसृतिर् अपि प्रसरेण बन्धाख्यं विकारं करोति । सुखदुःखदायिनी नानापदार्थसङ्कटा च भवति । इति शिवम् ॥ (मोटी_४,२८.२८ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे अष्टाविंशः सर्गः ॥२८॥




युद्धम् उपसंहरति

एवम्प्रायाकुलारम्भैर् असुरैर् असुहारिभिः ।
महासाहससंरब्धैर् आरब्धमरणै रणैः ॥ (मो_४,२९.१ ॥
माययाथ विवादेन सन्धिना विग्रहेण च ।
पलायनेन धैर्येण च्छद्मनोपायनेन च ॥ (मो_४,२९.२ ॥
कार्पण्येनास्त्रयुद्धेन स्वान्तर्धानैश् च भूरिशः ।
कृतः स समरो देवैस् त्रिंशद् वर्षाणि पञ्च च ॥ (मो_४,२९.३ ॥

देवैः त्रिंशत् पञ्च च वर्षाणि पञ्चत्रिंशद्वर्षाणि । असुरैः सह । सः समरः कृतः । केन केन प्रकारेण कृत इत्य् अपेक्षायाम् माययेत्यादि । उपायनेन समीपगमनेन । कार्पण्येन दीनतया । स्वान्तर्धानैः मायोद्भावितैः निजगोपनैः । असुरैः कथम्भूतैः । एवम्प्रायः बाहुल्येनैतादृशः । समारम्भः येषाम् । तैः । असुहारिभिः जीवहारिभिः । महासाहसे संरब्धाः संरम्भयुक्ताः । तैः । पुनः कथम्भूतैः । रणैः कृत्वा आरब्धम् मरणम् यैः । ते । तादृशैः । तिलकम् ॥ (मोटी_४,२९.१-३ ॥

वर्षाणि दिवसान् मासान् दशाष्टौ पञ्च सप्त च ।
वर्षाणि पेतुर् वृक्षाग्निहेत्यम्ब्वशनिभूभृताम् ॥ (मो_४,२९.४ ॥

वृक्षाग्निहेत्यम्ब्वशनिभूभृताम् वर्षाणि वृष्टयः । पेतुः । कियन्तं कालम् । दश वर्षाणि । अष्टौ मासान् । पञ्च सप्त च द्वादशेति यावत् । दिवसान् । अर्थात् अन्यस्मिन् काले सन्ध्यादिर् एवाभूत् इति ज्ञेयम् ॥ (मोटी_४,२९.४ ॥

एतावता तु कालेन दृढाभ्यासाद् अहङ्कृतेः ।
दामादयोऽहम् इत्य् आस्थां जगृहुर् ग्रस्तचेतसः ॥ (मो_४,२९.५ ॥

अहङ्कृतेः वयं योत्स्याम इत्य् एवंरूपस्याहङ्कारस्य । ग्रस्तम् अहङ्कारग्रस्तम् । चेतः येषाम् । ते । तादृशाः ॥ (मोटी_४,२९.५ ॥

नैकट्यातिशयाद् यद्वद् दर्पणम् बिम्बवद् भवेत् ।
भ्यासातिशयात् तद्वत् तेऽप्य् अहङ्कारितां गताः ॥ (मो_४,२९.६ ॥

नैकट्यातिशयात् सान्निध्योद्रेकात् । बिम्बवत् प्रतिबिम्बयुक्तम् ॥ (मोटी_४,२९.६ ॥

यद्वद् दूरतरं वस्तु नादर्शे प्रतिबिम्बते ।
पदार्थवासना तद्वद् अनभ्यासान् न जायते ॥ (मो_४,२९.७ ॥

दूरतरम् बहुदूरात् । पदार्थेषु युद्धादिभावेषु । वासना मयेदं कृतम् इत्य् एवंरूपः संस्कारः ॥ (मोटी_४,२९.७ ॥

यदा दामादयो जाता जाताहङ्कारवासनाः ।
तदा मे जीवितम् मेऽर्थ इति दैन्यम् उपागमन् ॥ (मो_४,२९.८ ॥

यदा दामादयः दामव्यालकटाः । जाता उत्पन्ना । अहङ्कारवासना येषाम् । ते । तादृशाः । जाताः सम्पन्नाः । तदा मे जीवितम् मे अर्थ इति एवंरूपम् । दैन्यम् दीनताम् । उपागमन् उपागताः । अहङ्काराभावे हि भित्तिरहितम् ममतारूपं दैन्यं न स्यात् एव । तत्सत्तायां तु प्राप्ताधारत्वेन तद् दुर्निवारम् एवेति भावः ॥ (मोटी_४,२९.८ ॥

भयवासनया ग्रस्ता मोहवासनया हताः ।
आशापाशनिबद्धास् ते ततः कृपणतां गताः ॥ (मो_४,२९.९ ॥

ततः दैन्योपागमनानन्तरम् । ते दामादयः । भयस्य देहनाशशङ्काद्युत्पन्नाया भीतेः । या वासना संस्कारः । तया ग्रस्ताः वशीकृताः । तथा मोहस्य अनात्मनि शरीरादौ आत्मत्वभावनारूपस्याज्ञानस्य । या वासना । तया हताः बाधिताः । आशापाशैः स्वात्मत्वाभिमानविषयीकृतशरीराद्यर्थं धनादिविषयैः आशापाशैः । निबद्धाः स्वाधिनीकृताः । कृपणताम् दैन्यस्य परां काष्ठाम् । गताः ॥ (मोटी_४,२९.९ ॥

ननु ततः किं तेषां सम्पन्नम् इत्य् । अत्राह

मुधैव ह्य् अनहङ्कारैर् ममत्वम् उपकल्पितम् ।
रज्ज्वाम् भुजङ्गत्वम् इव दामव्यालकटैस् ततः ॥ (मो_४,२९.१० ॥

हि निश्चये । अनहङ्कारैः अहङ्काररहितैः । दामव्यालकटैः । ततः अहङ्कारवशेन दैन्यगमनानन्तरम् । ममत्वम् ममता । मुधा एव व्यर्थम् एव । उपकल्पितम् कल्पनया दृढीकृतम् । किम् इव । रज्ज्वाम् भुजङ्गत्वम् इव । अत्यन्तम् मिथ्याभूतम् इत्य् अर्थः ॥ (मोटी_४,२९.१० ॥

ममत्वम् एव कथयति

आपादमस्तकं देहलतेयम् भवतु स्थिरा ।
ममेति तृष्णाकृपणा दीनतां ते समाययुः ॥ (मो_४,२९.११ ॥

स्पष्टम् ॥ (मोटी_४,२९.११ ॥

स्थिरीभवतु मे देहः सुखायास्तु धनम् मम ।
इति बद्धधियां तेषां धैर्यम् अन्तर्धिम् आययौ ॥ (मो_४,२९.१२ ॥

स्पष्टम् ॥ (मोटी_४,२९.१२ ॥

वासनत्वाद् वपुषाम् अनास्थत्वात् सुरद्विषाम् ।
याभूत् प्रहारपरता मार्जितैवाशु साभवत् ॥ (मो_४,२९.१३ ॥

सुरद्विषाम् दामव्यालकटानाम् । अवासनत्वात् वासनाराहित्यात् । तथा वपुषाम् अनास्थत्वात् शरीरास्थारहितत्वात् । या प्रहारपरता अभूत् पूर्वम् आसीत् । सा आशु मार्जिता नष्टा । अभवत् । अहङ्कारप्रभावेन देहनाशादिभयोत्पादात् इत्य् अर्थः ॥ (मोटी_४,२९.१३ ॥

कथं स्थिरा जगत्य् अस्मिन् भवेम इति चिन्तया ।
वेधिता दीनतां जग्मुः पद्मा इव निरम्भसः ॥ (मो_४,२९.१४ ॥

वेधिताः व्याप्ताः ॥ (मोटी_४,२९.१४ ॥

तेषां त्व् अर्थान्नपानेषु स्वाहङ्कृतिमतां रतिः ।
बभूव भवभावस्था भीषणा भवभागिनी ॥ (मो_४,२९.१५ ॥

स्वा अहङ्कृतिर् देहविषयः अहङ्कारः विद्यते येषाम् । ते । तादृशाः । तेषां रतिः आसक्तिः । राग इति यावत् । भवभावस्था संसारिकपदार्थविषया । भवभागिनी संसारप्रदा ॥ (मोटी_४,२९.१५ ॥

थ तस्मिन् रणे भीत्या सापेक्षत्वम् उपाययुः ।
मत्तेभगणसंरब्धा वने हरिणका इव ॥ (मो_४,२९.१६ ॥

सापेक्षत्वम् मा मरिष्याम इत्य् एवंरूपापेक्षासहितत्वम् । भीत्या मरणभयेन । हरिणकाः कथम्भूताः । मत्तेभानाम् यः गणः । तेन संरब्धाः क्षोभयुक्ताः कृताः ॥ (मोटी_४,२९.१६ ॥

सापेक्षत्वम् एव स्पष्टयति

मरिष्यामो मरिष्याम इति चिन्ताहताशयाः ।
मन्दम् मन्दं किल भ्रेमुः कुपितैरावणे रणे ॥ (मो_४,२९.१७ ॥

भ्रेमुः भ्रमन्ति स्म ॥ (मोटी_४,२९.१७ ॥

शरीरैकार्थिनां तेषाम् भीतानाम् मरणाद् इति ।
ल्पसत्त्वतया मूर्ध्नि कृतम् आपत्प्रदम् पदम् ॥ (मो_४,२९.१८ ॥

शरीरम् एकम् केवलम् । अर्थयन्ते इति तादृशानाम् । तथा मरणाद् भीतानाम् । तेषाम् मूर्ध्नि । इति पूर्वोक्तप्रकारेण । अल्पसत्त्वतया कर्त्र्या । पदं कृतम् । अल्पसत्त्वास् ते जाता इति भावः । पदं कथम्भूतम् । आपत्प्रदम् विपत्प्रदम् इत्य् अर्थः ॥ (मोटी_४,२९.१८ ॥

थ प्रम्लानसत्त्वास् ते हन्तुम् अग्रगतम् भटम् ।
न शेकुर् इन्धनक्षीणा हविर् दग्धुम् इवाग्नयः ॥ (मो_४,२९.१९ ॥

प्रम्लानसत्त्वाः नष्टधैर्याः । न शेकुः न समर्थाः जाताः । क्षीणम् इन्धनं येषाम् । ते इन्धनक्षीणाः ॥ (मोटी_४,२९.१९ ॥

विबुधानाम् प्रहरतां सुदम्यताम् उपागताः ।
क्षतविक्षतसर्वाङ्गास् तस्थुः सामान्यवद् भटाः ॥ (मो_४,२९.२० ॥

विबुधानाम् देवानाम् । सुदम्यताम् सुनिग्राह्यताम् ॥ (मोटी_४,२९.२० ॥

बहुनात्र किम् उक्तेन मरणाद् भीतचेतसः ।
दैत्या देवेषु वल्गत्सु दुद्रुवुः समराजिरात् ॥ (मो_४,२९.२१ ॥

स्पष्टम् ॥ (मोटी_४,२९.२१ ॥

तेषु द्रवत्सु सर्वेषु सर्वतो दानवाद्रिषु ।
दामव्यालकटाख्येषु विख्यातेष्व् असुरालये ॥ (मो_४,२९.२२ ॥
तद्दैत्यसैन्यम् अपतत् खाद् विद्रुतम् इतस् ततः ।
कल्पान्तपवनाधूतं ताराजालम् इवाभितः ॥ (मो_४,२९.२३ ॥

स्पष्टम् ॥ (मोटी_४,२९.२२-२३ ॥

कुत्रापतद् इत्य् अपेक्षायाम् आह

मराचलकुञ्जेषु शिखराणां शिलासु च ।
तटेषु वारिराशीनाम् पयोदपटलेषु च ॥ (मो_४,२९.२४ ॥

स्पष्टम् ॥ (मोटी_४,२९.२४ ॥

सागरावर्तगर्तेषु श्वभ्रेष्व् अथ सरित्सु च ।
जङ्गलेषु दिगन्तेषु ज्वलत्सु विपिनेषु च ॥ (मो_४,२९.२५ ॥

स्पष्टम् ॥ (मोटी_४,२९.२५ ॥

तद्रणोत्सन्नकोशेषु ग्रामेषु नगरेषु च ।
टवीषूग्रयक्षासु मरुषूद्यद्दवाग्निषु ॥ (मो_४,२९.२६ ॥

तेषाम् असुराणाम् । रणेन उत्सन्नः विशीर्णः । कोशः मध्यं येषाम् । तेषु ॥ (मोटी_४,२९.२६ ॥

लोकालोकाचलान्तेषु पर्वतेषु ह्रदेषु च ।
न्ध्रद्रमिडकाश्मीरपारसीकपुरेषु च ॥ (मो_४,२९.२७ ॥

स्पष्टम् ॥ (मोटी_४,२९.२७ ॥

नानाम्भोधितरङ्गासु गङ्गाजलघटासु च ।
द्वीपान्तरेषु दूरेषु जम्बुषण्डलतासु च ॥ (मो_४,२९.२८ ॥

दूरेषु दूरवर्तिषु ॥ (मोटी_४,२९.२८ ॥

सर्वतः पर्वताकाराः पतितास् तेऽसुरालयः ।
विस्फोटिताङ्गचरणा वं हसन्तीत्य् । अत्राह
क्षीबक्षीबयोर् ऐक्यं क्व किलेहाज्ञतज्ज्ञयोः ।
आन्ध्यप्रकाशयोर् बोधे स्याच् छायातपयोर् इव ॥ (मो_४,३१.२२ ॥

अक्षीबक्षीबयोः स्वात्मानन्दाख्यमधुपानेन तदपानेन च संसारम् प्रति विस्मरणाविस्मरणशीलयोः । तज्ज्ञाज्ञयोर् बोधे अनुभवे । ऐक्यम् परस्परसम्मतिरूपम् ऐक्यम् । क्व स्यात् । न स्याद् इत्य् अर्थः । न हि क्षीबाक्षीबयोर् इह बोधे सम्मतिः दृश्यत इति भावः । अतः एते हसन्तीत्य् आशयः । तयोः कयोर् इव । छायातपयोर् इव । यथा आन्ध्यप्रकाशरूपयोः छायातपयोः बोधे पदार्थप्रकटनाख्ये बोधे । ऐक्यं नास्ति । तथेत्य् अर्थः ॥ (मोटी_४,३१.२२ ॥

ननु किमर्थं तयोः बोधे ऐक्यं नास्तीत्य् । अत्राह

यत्नेनाप्य् अनुभूतेऽर्थे सत्ये कर्तुम् अपह्नवम् ।
तज्ज्ञोऽज्ञश् च न शक्नोति शव आक्रमणं यथा ॥ (मो_४,३१.२३ ॥

अनुभूते । अत एव सत्ये सत्यतया ज्ञाते । अर्थे चिन्मात्राख्ये जगदाख्ये च वस्तुनि । तज्ज्ञः अज्ञः च यत्नेनापि अपह्नवं कर्तुं न शक्नोति । पुरःस्फुरत्त्वात् । न हि पुरः स्फुरत् वस्तु कश्चिद् अपह्नोतुं शक्नोति । अत एव तयोः बोधे ऐक्यं नास्तीति भावः । कः यथा न शक्नोति । शवो यथा । यथा शवः आक्रमणम् पदार्थाक्रमणम् । न शक्नोति । तथेत्य् अर्थः ॥ (मोटी_४,३१.२३ ॥

ननु तर्हि अज्ञोऽप्य् एतद् एव कथयत्व् इत्य् । अत्राह

ब्रह्म सर्वं जगद् इति वक्तुं तज्ज्ञस्य युज्यते ।
यतोऽविद्याननुभवे स तद् एवानुभूतवान् ॥ (मो_४,३१.२४ ॥

सर्वं जगद् ब्रह्म भवति । इति एवम् । वक्तुम् तज्ज्ञस्य चिन्मात्राख्यब्रह्मस्वरूपज्ञस्य । युज्यते । यतः स एव तज्ज्ञः एव । तत् ब्रह्म । अनुभूतवान् दृष्टवान् । कस्मिन् सति । अविद्यायाः अननुभवे जगत्पदार्थरूपैः भावाभावैः उपलक्षितायाः अविद्यायाः अदर्शने सति ॥ (मोटी_४,३१.२४ ॥

पुनर् अपि एतद् एव कथयति

प्रबुद्धविषये ह्य् एषा राम वाक् प्रविराजते ।
बुद्धस्यास्मीति रूपेण किल नास्त्य् एव किञ्चन ॥ (मो_४,३१.२५ ॥

हे राम । एषा वाक् सर्वम् ब्रह्मेति वाक् । प्रबुद्धाख्यो यः विषयः योग्यो देशः । तत्र प्रविराजते । अर्थात् अबुद्धविषये न राजते इति ज्ञेयम् । ननु कथं तत्रैव राजते इत्य् । अत्राह बुद्धस्येति । यतः इति शेषः । यतः बुद्धस्य किञ्चन किञ्चिद् अपि शरीरादिकम् । अस्मीति रूपेण नास्ति अस्मीति ज्ञानविषयं नास्ति । अयम् भावः । अज्ञः देहोऽहम् इति निश्चितः तदुपयोगीनि वस्तून्य् अपि सत्यानीति जानाति । अन्यथा तदर्थं रात्रिन्दिनम् प्रयत्नपरत्वायोगात् । ज्ञस् तु देहाभिमानाभावात् तदुपयोगिषु सत्यतां न जानाति । अन्यथा तद्विषयाया उपेक्षाया अयोगात् । इति तज्ज्ञस्यैव सर्वम् ब्रह्मेति वक्तुं युक्तं नाज्ञस्येति ॥ (मोटी_४,३१.२५ ॥

ननु तज्ज्ञस्यास्या अनुभूतेः कदाचिद् अपह्नवोऽस्ति न वेत्य् । अत्राह

ब्रह्मैवेदम् परं शान्तम् इत्य् एवानुभवन् सुधीः ।
पह्नवः स्वानुभूतेः कर्तुं तस्य न युज्यते ॥ (मो_४,३१.२६ ॥

सुधीः ज्ञः । इदम् जगत् । शान्तम् परम् ब्रह्मैव भवति । इत्य् एव एवम् एव । अनुभवन् भवति । अतः तस्य ज्ञस्य । अस्याः स्वानुभूतेः अपह्नवः कर्तुं न युज्यते युक्तो न भवति ॥ (मोटी_४,३१.२६ ॥

ननु तर्हि त्वं कथं श्रीवसिष्ठ इति नामयोग्योऽसीत्य् । अत्राह

परस्माद् व्यतिरेकेण नाहम् आत्मनि किञ्चन ।
हेमनीवोर्मिकादित्वं न मय्य् अस्ति वसिष्ठता ॥ (मो_४,३१.२७ ॥

अहम् वसिष्ठाख्यः अहम् । आत्मनि स्वस्मिन् । परस्मात् उत्तीर्णात् चिन्मात्रात् । व्यतिरेकेण नास्मि । त्वं तु यत् पश्यसि तत् पश्येति भावः । अतो मयि वसिष्ठता वसिष्ठेति नामयोग्यता । नास्ति । किम् इव । ऊर्मिकादित्वम् इव । यथा ऊर्मिकादित्वं हेमनि नास्ति । तथेत्य् अर्थः । अतोऽहम् अपि वसिष्ठो नास्मीति भावः ॥ (मोटी_४,३१.२७ ॥

ननु यदि त्वं स्वात्मनीदृशोऽसि तर्हि मूढः कीदृशोऽस्तीत्य् । अत्राह

भूतत्वव्यतिरेकेण मूढो नात्मनि किञ्चन ।
ूर्म्यादिबुद्धौ हेमेव नाज्ञेऽस्ति परमार्थता ॥ (मो_४,३१.२८ ॥

मूढः चिन्मात्रस्वरूपपरमात्मज्ञानहीनः । आत्मनि । भूतत्वव्यतिरेकेण देहभावाद् ऋते । किञ्चन किञ्चिद् अपि । नास्ति । तज्ज्ञस् तु तं यद्रूपम् पश्यति तद्रूपम् पश्यत्व् इति भावः । यतः अज्ञे परमार्थता परमार्थभूतचिन्मात्रभावः । नास्ति । स हि स्वं चिन्मात्ररूपं न पश्यति । किम् इव । हेमेव । यथा ऊर्म्यादिबुद्धौ ऊर्मिकादिबुद्धौ सति । हेम नास्ति । तथेत्य् अर्थः ॥ (मोटी_४,३१.२८ ॥

सङ्गृह्य कथयति

मिथ्याहन्तामयो मूढः सत्यैकात्ममयः सुधीः ।
युज्यते न क्वचिन् नाम स्वभावापह्नवोऽनयोः ॥ (मो_४,३१.२९ ॥

मूढः अज्ञः । मिथ्याभूता या अहन्ता देहविषयः अहङ्कारः । तन्मयः भवति । सुधीः तज्ज्ञः । सत्यः सत्यभूतः । यः एकात्मा सर्वव्यापकः परमात्मा । तन्मयः भवति । नाम निश्चये । अनयोः मूढसुधियोः । स्वभावस्य मिथ्याहङ्काराख्यस्य परमार्थाख्यस्य च स्वरूपस्य । अपह्नवः अपलापः । क्वचित् न युज्यते । न हि पुरः स्फुरत् स्वस्वरूपं कश्चिद् अपह्नोतुं शक्नोति ॥ (मोटी_४,३१.२९ ॥

एतद् एव सदृष्टान्तम् आह

यो यन्मयस् तस्य तस्मिन् युज्यतेऽपह्नवः कथम् ।
पुरुषस्य घटोऽस्मीति वाक्यम् उन्मत्ततैव हि ॥ (मो_४,३१.३० ॥

यः पुरुषः । यन्मयः निश्चयद्वारेण यत्स्वरूपः स्यात् । तस्य पुरुषस्य । तस्मिन् स्वरूपे । अपह्नवः कथम् स्यात् । हि यस्मात् । पुरुषस्य घटोऽस्मीति वाक्यम् उन्मत्तता एव भवति । अतः ब्रह्मात्मत्वे निश्चितस्य ज्ञस्य स्थूलदेहात्मत्वे निश्चितस्याज्ञस्य च स्वानुभूतेर् अपह्नवः न युक्त इति भावः ॥ (मोटी_४,३१.३० ॥

प्रकृतम् फलितत्वेनानुस्मरति

तस्मान् नेमे वयं सत्या न च दामादयः क्वचित् ।
सत्यास् ते वयं चेमे नास्ति नः खलु सम्भवः ॥ (मो_४,३१.३१ ॥

यतः स्वप्रतीतिसिद्धम् एवास्माकं दामादीनां च स्वरूपं तस्मात् ततो हेतोः । इमे वयं सत्याः न भवामः । दामादयश् च सत्याः न भवन्ति । प्रत्युत ते दामादयः । असत्याः भवन्ति । इमे वयं चासत्या भवामः । यतः नः स्थूलरूपाणाम् अस्माकम् । सम्भवः सत्तायोग्यता । नास्ति । न हि प्रतीतिमात्रेणासद् वस्तु सद् भवितुम् अर्हति । शशशृङ्गादेर् अपि सत्त्वप्रसङ्गाद् इति भावः ॥ (मोटी_४,३१.३१ ॥

ननु तर्हि तज्ज्ञस्यापि चिन्मात्राख्यं स्वरूपम् अस्मदादिवत् प्रतीतिसिद्धम् एवास्तीति सोऽपि असद् एव स्याद् इत्य् । अत्राह

सत्यसंवेदनं शुद्धम् बोधालाशं निरञ्जनम् ।
सत्यं सर्वगतं शान्तम् अस्त्य् अनस्तमितोदयम् ॥ (मो_४,३१.३२ ॥

सत्यम् यत् संवेदनम् । तद्रूपं घटादिसंवेद्यादूषितसंवेदनरूपम् इति यावत् । न हि घटादिसंवेद्योपहितस्य संवेदनस्य सत्यत्वं युक्तम् । संवेद्यनाशेन तस्यापि नष्टकल्पत्वात् । नापि संवेद्यस्य सत्यत्वं युक्तम् । प्रतीतिमात्रसारत्वात् । शुद्धम् चेत्याख्यमलादूषितम् । अत एव निरञ्जनम् निर्लेपम् । सत्यम् सर्वसारत्वेन स्थितत्वात् सत्यं रूपं । सर्वगतम् साक्षितया सारत्वेन च स्थितत्वात् सर्वव्यापकम् । शान्तम् स्वस्वरूपे विश्रान्तम् । अनस्तमितोदयम् बोधाकाशम् चिन्मात्राकाशम् । अस्ति परमार्थतः सत्ताम् भजति । अतः प्रतीतिमात्रसिद्धत्वाभावात् परमार्थसति चिन्मात्रस्वरूपे स्वतया निश्चितस्य ज्ञस्य नासत्यत्वम् इति भावः ॥ (मोटी_४,३१.३२ ॥

चिदात्मानम् एव पुनः पुनः विशिनष्टि

सर्वं सत् तच् च निःशून्यं नकिञ्चिद् इव संस्थितम् ।
तत्र व्योम्नि विभान्तीमा निजा भासोऽङ्ग दृष्टयः ॥ (मो_४,३१.३३ ॥

सत् सर्वोपादनत्वेन स्थितत्वात् सत्स्वरूपम् । न हि असत् उपादानीभवितुम् अर्हति । अत एव निःशून्यम् शून्येतरस्वरूपम् । तथापि नकिञ्चित् इव स्थितम् बाह्यान्तःकरणागोचरत्वात् शून्यवत् तिष्ठत् । तत् चिन्मात्राख्यं वस्तु । सर्वम् समस्तं जगत् । भवति । अत्र हेतुत्वेनोत्तरार्धं कथयति तत्रेति । यत इति शेषः । यतः तत्र व्योम्नि चिन्मात्राकाशे । इमाः पुरः स्फुरन्त्यः । दृष्टयः जगद्रूपाः प्रतीतयः । विभान्ति स्फुरन्ति । दृष्टयः काः । निजाः भासः निजानि कचकानि । न तु स्वव्यतिरिक्ता इत्य् अर्थः । सर्वसंवित्साक्षिकेण स्वप्नदृष्टान्ते एतत् स्वसिद्धम् एवेति नात्रायस्तम् ॥ (मोटी_४,३१.३३ ॥

एतद् एव सदृष्टान्तं कथयति

यथा तैमिरिकाक्षस्य सहजा एव दृष्टयः ।
केशोण्डुकादिवद् भान्ति तथेमास् तत्र सृष्टयः ॥ (मो_४,३१.३४ ॥

यथा तैमिरिकाक्षस्य तिमिररोगोपहतनेत्रस्य पुरुषस्य । सहजाः एव । न त्व् आगन्तुकाः । दृष्टयः नेत्ररश्मयः । केशोण्डुकादिवत् केशकूर्चादिवत् । भान्ति स्फुरन्ति । तथा तत्र चिन्मात्राख्य आकाशे । इमाः सृष्टयः भान्ति । एता अपि चिन्मात्ररश्मिरूपा एवेति भावः । आदिशब्देन द्विचन्द्रादेः ग्रहणम् ॥ (मोटी_४,३१.३४ ॥

ननु केन यत्नेन निजरश्मिरूपं जगद् असौ करोतीत्य् । अत्राह

स आत्मानं यथा वेत्ति तथानुभवति क्षणात् ।
चिदाकाशस् ततोऽसत्यम् अपि सत्यं तदीक्षणात् ॥ (मो_४,३१.३५ ॥

सः चिदाकाशः । आत्मानम् स्वस्वरूपम् । यथा येन प्रकारेण युक्तम् । वेत्ति जानाति । तथा तेन प्रकारेण युक्तम् । अनुभवति साक्षात् पश्यति । अतः असत्यम् अपि जगत् । तदीक्षणात् चिदाकाशस्य वीक्षणात् । सत्यम् भवति । स्वप्नजगद् इव स्वप्नद्रष्ट्रा वीक्षणात् । अतो यत्नरहितम् एवासौ एतत् करोतीति भावः ॥ (मोटी_४,३१.३५ ॥

फलितं सिद्धान्तं कथयति

न सत्यम् अस्ति नासत्यम् इह तस्माज् जगत्त्रये ।
यद् यथा वेत्ति चिद्रूपं तत् तथोदेत्य् असंशयम् ॥ (मो_४,३१.३६ ॥

तस्मात् ततो हेतोः । इह जगत्त्रये किञ्चित् न सत्यम् अस्ति नापि असत्यम् अस्ति । चिद्रूपम् चिदात्म । यत् वस्तु । यथा वेत्ति । तत् तथा असंशयम् उदेति । स्वप्नवद् इति शेषः ॥ (मोटी_४,३१.३६ ॥

अनेन फलितं दामादिसाम्यं स्वस्य कथयति

यथा दामादयस् तद्वद् एवेमेऽभ्युदिता वयम् ।
सत्यासत्याः किम् अत्राङ्ग तान् प्रत्य् अपि विकल्पना ॥ (मो_४,३१.३७ ॥

अत इति शेषः । अतः यथा दामादयः सत्यासत्याः भासमानत्वेन सत्याः परमार्थतस् त्व् असत्याः । अभ्युदिताः प्रादुर्भूताः भवन्ति । इमे वयं तद्वद् एव सत्यासत्याः अभ्युदिताः भवामः । तुल्यन्यायात् इति भावः । हे अङ्ग । अतः अत्र इहलोके । तान् प्रत्य् अपि तान् प्रत्य् एव । विकल्पना सत्यत्वकल्पना । किम् अस्ति । यदि स्वसत्यं कल्पयसि तर्हि तान् अपि कुर्व् इति भावः ॥ (मोटी_४,३१.३७ ॥

ननु कथं दामादीनाम् अस्माकं च परस्परं साम्यम् अस्तीत्य् । अत्राह

स्यानन्तस्य चिद्व्योम्नः सर्वगस्य निराकृतेः ।
चिद् उदेति यथा यान्तस् तथा सा तत्र भात्य् अलम् ॥ (मो_४,३१.३८ ॥

अस्यात्मत्वेन स्फुरतः । अनन्तस्य अन्तसाक्षित्वेनापि स्थितत्वाद् अन्तरहितस्य । सर्वगस्य सर्वव्यापकस्य । निराकृतेः परिच्छिन्नाकाररहितस्य । चिद्व्योम्नः चिदाकाशस्य । सम्बन्धिनी या चित् चिदाख्यः स्पन्दः । अन्तः स्वभित्तौ । यथा येन रूपेण । उदेति स्फुरति । सा चित् । तत्र तस्यां चिन्मात्रभित्तौ । तथा तेन रूपेण । भाति कचति । स्वप्नवत् इति शेषः ॥ (मोटी_४,३१.३८ ॥

ननु तथापि किम् प्रकृते आयातम् इत्य् । अत्राह

यत्र दामादिरूपेण संवित् प्रकचते स्वयम् ।
तथासौ तत्र सम्पन्ना तथाकारानुभूतितः ॥ (मो_४,३१.३९ ॥

तथाकारस्य दामाद्याकारस्य यानुभूतिः । ततः ॥ (मोटी_४,३१.३९ ॥

स्मदादिस्वरूपेण संविद् यत्रोदिता स्वयम् ।
तथासौ तत्र सम्पन्ना तथाकारानुभूतितः ॥ (मो_४,३१.४० ॥

तथाकारस्यास्मदाद्याकारस्य । या अनुभूतिः । ततः । तथा च दामादिभिः सहास्माकं साम्यम् एवेति भावः ॥ (मोटी_४,३१.४० ॥

स्वस्वप्नप्रतिभासस्य जगद् इत्य् अभिधा कृता ।
चिद्व्योम्नो व्योमवपुषस् तापस्येव मृगाम्बुता ॥ (मो_४,३१.४१ ॥

व्योमवपुषः अत्यन्तशुद्धत्वाद् व्योमस्वरूपस्य । चिद्व्योम्नः सम्बन्धिनः । स्वः यः स्वप्नप्रतिभासः । तस्य जगद् इति अभिधा जगद् इति नाम । कृता । चिद्व्योम्नेति भावः । का इव । मृगाम्बुता इव । यथा तापस्य मृगाम्बुताम्बु इति नाम क्रियते । तथेत्य् अर्थः ॥ (मोटी_४,३१.४१ ॥

ननु तर्हि सर्वं चिद्व्योम जगन्मयम् एव किम् अस्तीत्य् । अत्राह

यत्र प्रबुद्धं चिद्व्योम तत्र दृश्याभिधा कृता ।
यत्र सुप्तं तु तेनैव तत्र मोक्षाभिधा कृता ॥ (मो_४,३१.४२ ॥

चिद्व्योम यत्र यस्मिन्न् अंशे । प्रबुद्धम् जगद्रूपस्वपरामर्शयुक्तम् । भवति । तत्र तेनैव चिद्व्योम्नैव । दृश्याभिधा कृता । यत्र यस्मिन् भागे । सुप्तम् जगद्रूपस्वरूपामर्शरहितम् । भवति । तत्र तेनैव मोक्षाभिधा कृता । तथा च न सर्वं चिद्व्योम जगत्समयेवास्तीति भावः ॥ (मोटी_४,३१.४२ ॥

ननु तर्हि चिद्व्योम्नः सांशत्वम् आगतम् इत्य् । अत्राह

न च तत् क्वचिद् आसुप्तं न प्रबुद्धं कदाचन ।
चिद्व्योम केवलं दृश्यं जगद् इत्य् अवगम्यताम् ॥ (मो_४,३१.४३ ॥

परमार्थविचारे क्रियमाणे तत् चिद्व्योम । क्वचित् कुत्राप्य् अंशे । कदाचन जातु । आसुप्तं न भवति । प्रबुद्धं च न भवति । तत्साक्षिकयोः स्वापप्रबोधयोः तद्व्यतिरेकेण सत्ताया अयोगात् । न च तद् एव तस्य विशेषकम् भवति । घटस्यापि घटविशेषकत्वप्रसङ्गात् । अतः परमार्थविचारयुक्तेन त्वया दृश्यं जगत् केवलम् स्वापबोधादिधर्मरहितम् । चिद्व्योमेति अवगम्यताम् ज्ञायताम् । प्रोक्तन्यायेन मोक्षजगत्त्वापादकयोः चिन्मात्राश्रययोः स्वापबोधयोर् असम्भवात् ॥ (मोटी_४,३१.४३ ॥

अत्यन्तरहस्यत्वात् पुनः पूर्वश्लोकपूर्वार्धोक्तम् एवार्थं कथयति

निर्वाणम् एव सर्गश्रीः सर्गश्रीर् एव निर्वृतिः ।
नानयोः शब्दयोर् अर्थभेदः पर्याययोर् इव ॥ (मो_४,३१.४४ ॥

निर्वाणम् अचेत्यचिन्मात्रम् । निर्वृतिः निर्वाणम् । यथा तरङ्गजलयोः भेदो न युक्तः । तथा सर्गनिर्वाणयोर् अपि भेदो न युक्त इति भावः ॥ (मोटी_४,३१.४४ ॥

ननु तर्हि जगद् इति शब्दज्ञानयोः का गतिर् इत्य् । अत्राह

परमार्थे जगद् इति रूपं वेत्ति स्वयं स्वकम् ।
यथा तैमिरिकं चक्षुः केशोण्डुकम् इवेक्षितम् ॥ (मो_४,३१.४५ ॥

असौ अचेत्यचिदात्मा परमार्थे परमार्थभूते स्वस्वरूपे । स्वयं जगद् इति रूपं वेत्ति । जगद्रूपताम् पश्यतीति यावत् । किम् इव । चक्षुर् इव । यथा तैमिरिकम् तैमिरिकसम्बन्धि चक्षुः स्वकम् रश्मिरूपं स्वात्मानम् । केशोण्डुकम् इव वेत्ति । तथेत्य् अर्थः । स्वकं कथम्भूतम् । ईक्षितम् स्वस्माद् बहिःप्रसरणेन दृष्टम् । अन्यथा अतीन्द्रियत्वहानेः । अतीन्द्रियं हि इन्द्रियं सर्वैर् उक्तम् ॥ (मोटी_४,३१.४५ ॥

ननु तर्हि केशोण्डुकवत् भासमानत्वात् जगत् किञ्चिद् अस्ति । तत् कथम् अस्य निर्वाणरूपत्वम् उक्तम् इत्य् । अत्राह

न तत् केशोण्डुकं किञ्चित् सा हि दृष्टिस् तथा स्थिता ।
नैवं दृश्यम् इदं किञ्चिद् इत्थं चिद्व्योम संस्थितम् ॥ (मो_४,३१.४६ ॥

तत् भासमानम् । केशोण्डुकं किञ्चिद् अपि न भवति । हि यस्मात् । सा दृष्टिः तैमिरिकदृष्टिः । तथा केशोण्डुकरूपेण । स्थिता भवति । यतः सहस्रशः अन्विष्यमाणम् अपि केशोण्डुकं हस्तग्राह्यं न भवति । न चान्यत् तत्र तदधिष्ठानत्वयोग्यं वस्त्व् अस्ति । अतो ज्ञायते दृष्टिर् एव तथात्वेन भासते इति भावः । प्रोक्तं न्यायम् प्रकृतेऽपि सङ्घटयति नैवम् इति । एवम् इदम् जगत् । किञ्चित् न भवति । चिद्व्योम चिदाकाशम् । इत्थम् जगद्रूपेण । संस्थितम् भवति । स्वप्ने हि चिद्व्योम्नः जगद्रूपेण संस्थितिर् दृष्टा । अतो न विरोध इति भावः ॥ (मोटी_४,३१.४६ ॥

सिद्धान्तं कथयति

सर्वत्र सर्वम् इदम् अस्ति यथानुभूतं
नो किञ्चन क्वचिद् इहास्ति च नानुभूतम् ।
शान्तं सद् एकम् इदम् आततम् इत्थम् आस्ते
सन्त्यक्तशङ्कम् अपभेदम् अतस् त्वम् आस्स्व ॥ (मो_४,३१.४७ ॥

यथानुभूतम् एवम् एव नानात्वेनानुभूतम् । इदम् सर्वम् सर्वत्रास्ति । भासमानत्वात् । नानुभूतम् अनुभवविषयताम् अगतं सत् । क्वचित् कुत्रचिद् अपि देशे । किञ्चित् लेशेनापि । नो अस्ति । अभासमानत्वात् । अनुभूतत्वम् अननुभूतत्वं च जगतः जाग्रदादौ सुषुप्तादौ च सर्वेषां स्वप्रतीतिसाक्षिकम् एवेति । नात्रायासो युक्तः । ननु तर्हि सर्वदा सत् किम् अस्तीत्य् । अत्राह शान्तम् इति । शान्तम् अनुभवितृत्वेन स्थितत्वात् अनुभूतत्वाननुभूतत्वाख्यविकाररहितम् । एकम् अद्वितीयम् । आततम् समन्तात् व्यापकम् । इदम् आत्मत्वेन पुरः स्फुरत् । इत्थम् अनुभूतत्वाननुभूतत्वविकारग्रस्तजगद्रूपत्वेन स्फुरद् इति शेषः । सत् सन्मात्राख्यं वस्तु । आस्ते सर्वदा तिष्ठति । अननुभूतत्वावस्थायाम् अपि स्वाननुभूत्यनुभवितृत्वेन स्थितत्वात् । फलितं कथयति सन्त्यक्तेति । अतः त्वम् सन्त्यक्तशङ्कम् जगत्सत्यत्वशङ्कारहितम् । अभेदम् भेदबुद्धिरहितम् । आस्स्व तिष्ठ ॥ (मोटी_४,३१.४७ ॥

सर्गान्तश्लोकेनाप्य् एतद् एव कथयति

शिलोदराकारघनम् प्रशान्तम्
महाचितो रूपम् इदं खम् अच्छम् ।
नैवास्ति नास्तीति दृशौ क्वचित् स्तो
यच् चास्ति तत् साधु तद् एव भाति ॥ (मो_४,३१.४८ ॥

इदम् अच्छम् खम् नकिञ्चिद्रूपत्वात् निर्मलं जगदाख्यम् आकाशम् । महाचितः रूपम् स्वरूपम् । भवति । महाचितः रूपं कथम्भूतम् । शिलोदरस्य यः आकारः । तद्वद् घनम् । चिद्घनम् इत्य् अर्थः । अत एव प्रशान्तम् चेत्याख्यक्षोभरहितम् । स्वप्नजगतः स्फुटं चिन्मात्ररूपत्वदर्शनाद् इति भावः । ननु तर्हि भावाभावबुद्धिः कथम् अस्तीत्य् । अत्राह नैवास्तीति । अस्ति नास्तीति दृशौ भावाभावबुद्धी । क्वचित् नैव स्तः । आभासमात्ररूपत्वाद् इत्य् अर्थः । ननु तथापि कथम् भासमानयोः भावाभावयोः अपह्नवः कर्तुं शक्यत इत्य् । अत्राह यच् चास्तीति । यच् च भावाभावरूपं किञ्चित् त्वद्दृष्ट्या अस्ति । तत् साधु सम्यक् । तद् एव महाचिद्रूपम् एव । अस्ति । तद् विना साक्षिरहितस्य तस्यासत्कल्पत्वात् । तत्प्रतीतिसिद्धत्वे तु स्वप्नपदार्थवत् तत्त्वानपायाच् चेति शिवम् ॥ (मोटी_४,३१.४८ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरण एकत्रिंशः सर्गः ॥३१॥




ओं । श्रीरामः पृच्छति

सताम् अप्य् असताम् एव बालयक्षपिशाचवत् ।
दामव्यालकटादीनां दुःखस्यान्तः कथम् भवेत् ॥ (मो_४,३२.१ ॥

दुःखस्य नानायोनिभ्रमणरूपस्य ॥ (मोटी_४,३२.१ ॥

श्रीवसिष्ठ उत्तरं कथयति

दामव्यालकटार्थं तैस् तदैव यमकिङ्करैः ।
प्रार्थितेन यमेनोक्तम् इदं शृणु रघूद्वह ॥ (मो_४,३२.२ ॥

स्पष्टम् ॥ (मोटी_४,३२.२ ॥

यमवाक्यं कथयति

यदा वियोगम् एष्यन्ति श्रोष्यन्ति च निजां कथाम् ।
दामादयस् तदा मुक्ता भविष्यन्तीत्य् असंशयम् ॥ (मो_४,३२.३ ॥

इतिशब्दः यमवाक्यसमाप्तौ ॥ (मोटी_४,३२.३ ॥

अत्र श्रीरामः पृच्छति

स्ववृत्तान्तम् इमं कुत्र कदा कथय ते कथम् ।
श्रोष्यन्ति भगवन् केन वर्ण्यमानं यथाक्रमम् ॥ (मो_४,३२.४ ॥

हे भगवन् । त्वं यथाक्रमं कथय । ते दामादयः । इमं स्ववृत्तान्तं कुत्र देशे । कदा काले । केन वर्ण्यमाणम् । कथम् केन प्रकारेण । श्रोष्यन्ति ॥ (मोटी_४,३२.४ ॥

श्रीवसिष्ठ उत्तरं कथयति

कश्मीरेषु महापद्मसरसीतीरपल्वले ।
भूयो भूयोऽनुभूयैते मत्स्ययोनिपरम्पराम् ॥ (मो_४,३२.५ ॥
आलानिताशया लोलाः कालेन लयम् आगताः ।
तत्रैव पद्मसरसि ते भविष्यन्ति सारसाः ॥ (मो_४,३२.६ ॥

आलानिताशयाः बद्धमनसः ॥५-६॥

तत्र कल्हारमालासु सरोजपटलीषु च ।
शेवालवरवल्लीषु तरङ्गवलनासु च ॥ (मो_४,३२.७ ॥
ललत्कुमुददोलासु नीलोत्पललतासु च ।
शीकरौघाभ्रलेखासु शीतलावर्तवृत्तिषु ॥ (मो_४,३२.८ ॥
सरःसारससम्भोगान् भुक्त्वा भुवनभूषणाः ।
विहृत्य सुचिरं कालम् अलम् आगतशुद्धयः ॥ (मो_४,३२.९ ॥
ते वियुक्ता भविष्यन्ति मुक्तये लब्धयुक्तयः ।
रजःसत्त्वतमांसीव भेदप्राप्त्या यदृच्छया ॥ (मो_४,३२.१० ॥

तरङ्गरूपाः याः वलनाः दोलाविशेषाः । तासु । सरःसारसानां सम्भोगाः । तान् । सारसोचितान् भोगान् इत्य् अर्थः । आगतशुद्धयः प्राप्तकाषायपाकाः । अत एव भुवनभूषणाः आर्षम् पुंस्त्वम् । लब्धा युक्तिः वियोगरूपा युक्तिः यैः । ते । तादृशाः । यदृच्छया न तु प्रयत्नेन । ते कानीव । रजःसत्त्वतमांसीव । यथा तानि यदृच्छया सिद्धया । भेदप्राप्त्या वियुक्तानि भविष्यन्ति । तथेत्य् अर्थः ॥ (मोटी_४,३२.७-१० ॥

कश्मीरमण्डलस्यान्तर् नगरं नगशोभितम् ।
नाम्नाधिष्ठानम् इत्य् एतच् छ्रीमत् तत्र भविष्यति ॥ (मो_४,३२.११ ॥

स्पष्टम् ॥ (मोटी_४,३२.११ ॥

प्रद्युम्नशिखरं नाम तस्य मध्ये भविष्यति ।
शृङ्गं लघु सरोजस्य कोशचक्रम् इवोदरे ॥ (मो_४,३२.१२ ॥

कोशचक्रम् कर्णिका ॥ (मोटी_४,३२.१२ ॥

तस्य मूर्ध्नि गिरेर् गेहं कोऽपि राजा करिष्यति ।
भ्रङ्कषमहासालं शृङ्गे शृङ्गम् इवापरम् ॥ (मो_४,३२.१३ ॥

स्पष्टम् ॥ (मोटी_४,३२.१३ ॥

गृहस्येशानकोणाद्रिशिरोभित्तिव्रणोदरे ।
तस्यानिशम् अविश्रान्तवातोद्धूततृणाङ्किते ॥ (मो_४,३२.१४ ॥
आलये दानवो व्यालः कलविङ्को भविष्यति ।
प्रथमाल्पश्रुतच्छात्त्र इवार्थरहितारटिः ॥ (मो_४,३२.१५ ॥

कलविङ्कः कथम्भूतः । अर्थरहितम् आरटति कूजतीति अर्थरहितारटिः । क इव । प्रथमम् अल्पश्रुतः छात्त्रः प्रथमाल्पश्रुतच्छात्त्रः । स इव । अल्पश्रुतः छात्त्रो हि अर्थरहितम् एव रटति । ततः कालेन तु सार्थम् अपि रटतीति प्रथमग्रहणम् ॥ (मोटी_४,३२.१४-१५ ॥

तस्मिन्न् एव तदा काले तत्र राजा भविष्यति ।
श्रीयशस्करदेवाख्यः शक्रः स्वर्ग इवापरः ॥ (मो_४,३२.१६ ॥

स्पष्टम् ॥ (मोटी_४,३२.१६ ॥

दानवो दामनामा तु मषकस् तस्य सद्मनि ।
भविष्यति बृहत्स्तम्भपृष्ठच्छिद्रे मृदुध्वनिः ॥ (मो_४,३२.१७ ॥

स्पष्टम् ॥ (मोटी_४,३२.१७ ॥

कटावस्थाम् प्रस्तौति

धिष्ठानाभिधे तस्मिन्न् एवोग्रनगरे तदा ।
रत्नावलीविहाराख्यो विहारोऽपि भविष्यति ॥ (मो_४,३२.१८ ॥

विहारः क्रीडाप्रदेशः ॥ (मोटी_४,३२.१८ ॥

तस्मिंस् तद्भूमिपामात्यो नरसिंह इति श्रुतः ।
करामलकवद् दृष्टबन्धमोक्षो भविष्यति ॥ (मो_४,३२.१९ ॥

तस्मिन् तत्र विहारे । तस्य भूमिपस्यामात्यः तद्भूमिपामात्यः ॥ (मोटी_४,३२.१९ ॥

भविष्यति गृहे तस्य क्रीडनक्रकरः खगः ।
कटो मायासुरो नाम कृतहिञ्जीरपञ्जरः ॥ (मो_४,३२.२० ॥

कृतः हिञ्जीरपञ्जरः लोहपञ्जरः यस्य । तादृशः ॥ (मोटी_४,३२.२० ॥

स नृसिंहो नृपामात्यः श्लोकैर् विरचिताम् इमाम् ।
दामव्यालकटादीनां कथयिष्यति सङ्कथाम् ॥ (मो_४,३२.२१ ॥

नृसिंहः नरसिंहः । दामव्यालकटादीनाम् सम्बन्धिनीं कथाम् । आदिशब्देन शम्बरादीनां ग्रहणम् ॥ (मोटी_४,३२.२१ ॥

स कटः क्रकरः श्रुत्वा तां कथां संस्मृतात्मभूः ।
शान्तमिथ्याहमंशोऽन्तः परं निर्वाणम् एष्यति ॥ (मो_४,३२.२२ ॥

क्रकरः पक्षविशेषरूपः । स कटः ताम् स्वसम्बन्धिनीं कथां श्रुत्वा । संस्मृता आत्मभूः स्वोत्पत्तिः येन । तादृशः । अत एव शान्तः मिथ्यारूपः अहमंशः यस्य । तादृशः सन् । परम् उत्कृष्टम् । निर्वाणम् ब्रह्मण्य् आत्यन्तिकं लयम् । एष्यति गमिष्यति ॥ (मोटी_४,३२.२२ ॥

प्रद्युम्नशिखरप्रान्तवास्तव्यः कलविङ्ककः ।
तथैव स्वकथां श्रुत्वा परं निर्वाणम् एष्यति ॥ (मो_४,३२.२३ ॥

तथैव कटवत् एव ॥ (मोटी_४,३२.२३ ॥

राजमन्दिरदार्वन्तर् व्रणवास्तव्यतां गतः ।
मषकोऽपि प्रसङ्गेन श्रुत्वा शान्तिम् उपैष्यति ॥ (मो_४,३२.२४ ॥

प्रसङ्गेन कथाप्रसङ्गेन ॥ (मोटी_४,३२.२४ ॥

सङ्गृह्य कथयति

प्रद्युम्नशृङ्गाच् चटको मषको राजमन्दिरात् ।
विहारात् क्रकरश् चेति मोक्षम् एष्यन्ति राघव ॥ (मो_४,३२.२५ ॥

स्पष्टम् ॥ (मोटी_४,३२.२५ ॥

उपसंहारं करोति

एष ते कथितः सर्वो दामव्यालकटक्रमः ।
मायेयम् एव सांसारी शून्यैवात्यन्तभासुरा ॥ (मो_४,३२.२६ ॥
भ्रमयत्य् अपरिज्ञाता मृगतृष्णाम्बुधीर् इव ।
संशाम्यति परिज्ञाता मृगतृष्णाम्बुधीर् इव ॥ (मो_४,३२.२७ ॥

एवम् दामादिवत् । अपरिज्ञाता किंरूपेयम् इत्य् अविचारिता ॥ (मोटी_४,३२.२६-२७ ॥

महतोऽपि पदाद् एवं रामाज्ञानवशाद् अधः ।
पतन्ति मोहिता मूढा दामव्यालकटा इव ॥ (मो_४,३२.२८ ॥

एवम् दामादिवत् ॥ (मोटी_४,३२.२८ ॥

पदाद् अधःपातम् एव कथयति

क्व भ्रूक्षेपविनिष्पिष्टमेरुमन्दरसह्यता ।
क्व राजगृहदार्वन्तर् व्रणे मषकरूपता ॥ (मो_४,३२.२९ ॥

स्पष्टम् ॥ (मोटी_४,३२.२९ ॥

क्व चपेटच्छटामात्रपातितार्केन्दुबिम्बता ।
क्व प्रद्युम्नगिरौ गेहे भित्तिव्रणविहङ्गता ॥ (मो_४,३२.३० ॥

स्पष्टम् ॥ (मोटी_४,३२.३० ॥

क्व पुष्पलीलयालोलकरतोलितमेरुता ।
क्वार्ष्यशृङ्गे नृसिंहस्य गृहे क्रकरपोतता ॥ (मो_४,३२.३१ ॥

अर्ष्यशृङ्गे प्रद्युम्नशृङ्गे ॥ (मोटी_४,३२.३१ ॥

ननु कथम् आपततः सत्यभूतस्याधःपातस्य निवृत्तिः शक्यक्रियेत्य् । अत्राह

चिदाकाशो हि मिथ्यैव रजसारञ्जितप्रभः ।
स्वरूपम् अत्यजन्न् एव विरूपम् इव बुध्यते ॥ (मो_४,३२.३२ ॥

हि यस्मात् । चिदाकाशः मिथ्या रजसा रजोगुणाख्यदूल्या । आरञ्जितप्रभः रूषितप्रकाशः । स्वरूपम् चित्त्वाख्यं स्वरूपम् । अत्यजन्न् एव । विरूपम् इव । भावप्रधाने निर्देशः । विरूपत्वम् इव । स्वरूपविरुद्धं जडत्वम् इव । बुध्यते अनुभवति । परमार्थतस् तु न बुध्यते इतीवशब्दोपादानम् । अतः रज्जुसर्पापातवत् विरूपत्वापरपर्यायाधःच्युत्यापातः न दुर्वार इति भावः ॥ (मोटी_४,३२.३२ ॥

पुनर् अप्य् एतद् एव कथयति

स्वयैव वासनाभ्रान्त्या सत्ययेवाप्य् असत्यया ।
मृगतृष्णाम्बुबुद्ध्येव याति जन्तुर् अवान्तरम् ॥ (मो_४,३२.३३ ॥

जन्तुः चिदेकसारः देहाभिमानी जीवः । स्वया स्वाव्यतिरिक्तया । वासनाभ्रान्त्या शरीरे आत्मत्ववासनारूपेण भ्रमेण । अवान्तरम् विश्रान्तिप्रदेशाद् भिन्नं शरीराहम्भावाख्यम् अवान्तरम् प्रदेशं । याति । कथम्भूतया । परमार्थतः असत्ययापि भासमानत्वात् सत्यया । अयम् भावः । यथा पुरुषः कञ्चिद् देशं गन्तुकामः तद्देशवासनाकृतया भ्रान्त्यावान्तरप्रदेशान् याति । तथा जीवः चित्स्वरूपं स्वात्मानं गन्तुकामः तद्वासनाकृतया भ्रान्त्या देहरूपे आत्मनि तिष्ठतीति । अतः वासनाकृत एवाधःपातोऽस्तीति । वासनया कयेव । मृगतृष्णाम्बुबुद्ध्या इव । यथा मृगः विश्रान्तिस्थानभूतं जलदेशं गन्तुकामः मृगतृष्णाम्बुबुद्ध्या मरुदेशे तिष्ठति । तथेत्य् अर्थः ॥ (मोटी_४,३२.३३ ॥

ननु केनोपायेनाधःपातो निवर्तते इत्य् । अत्राह

तरन्ति ते भवाम्भोधिं स्वप्रवाहधियैव ये ।
शास्त्रेणासद् इदं दृश्यम् इति निर्वासनं स्थिताः ॥ (मो_४,३२.३४ ॥

ते पुरुषाः । स्वप्रवाहबुद्ध्या एव स्वप्रवाहेन स्थिताः । न तु गुर्वादिप्रेरिता या बुद्धिः । तया एव । भवाम्भोधिम् तरन्ति ते । के ये । शास्त्रेणोपायभूतेनाध्यात्मशास्त्रेण इति । निर्वासनम् दृश्यसंस्काररहितम् । स्थिता इति । किम् इति । इदम् अनुभूयमानम् । दृश्यम् । असत् सत्तारहितम् । भवति । प्रतीतिमात्रसारत्वात् इत्य् अर्थः । अतः शास्त्रस्यैवात्र मुख्यम् उपायत्वम् इति भावः ॥ (मोटी_४,३२.३४ ॥

शुष्कतर्काणाम् एतदुपायत्वं निर्वारयति

तारारावविकारीणि शुष्कतर्कमतानि ये ।
यान्ति श्वभ्रजलान्य् आशु नाशुभं नाशयन्ति ते ॥ (मो_४,३२.३५ ॥

ये पुरुषाः । तारः उद्भटः । यः आरावः कथनम् । स एव विकारः । तद्युक्तानि तारारावविकारीणि । शुष्काः परमात्मतत्त्वनिर्णयाख्यरसराहित्येन मुखशोषकारिघटपटादिनिर्णयाख्यपारुष्येण च शुष्कतुल्याः । ये तर्काः तर्काभासाः । तद्युक्तानि मतानि शुष्कतर्कमतानि । यान्ति । तान्य् एवोपायत्वेनाश्रयम् । ते पुरुषाः । अशुभम् संसाराख्यम् अनर्थम् । न नाशयन्ति । अपि तु नानाविकल्पग्रस्तत्वाद् वर्धयन्त्य् एवेति भावः । शुष्कतर्कमतानि कानि । श्वभ्रजलानि श्वभ्रजलतुल्यानीति यावत् । श्वभ्रजलान्य् अपि तारारावविकारीणि शुष्कानि दुष्प्रापत्वात् मलानाशकानि च भवन्ति ॥ (मोटी_४,३२.३५ ॥

ननु तर्हि केषाम् अशुभनाशः सम्पद्यत इत्य् । अत्राह

स्वानुभूतिप्रसिद्धेन मार्गेणागमगामिना ।
न विनाशो भवत्य् अङ्ग गच्छताम् पतताम् इव ॥ (मो_४,३२.३६ ॥

हे अङ्ग । स्वा निजा । या अनुभूतिः अनुभवः । तेन प्रसिद्धेन स्वानुभवसिद्धेनेति यावत् । तथा आगमम् सच्छास्त्रम् । अनुगच्छतीति तादृशेन मार्गेण गच्छताम् विनाशः अशुभनाशरूपः विनाशः । न भवति । तेषाम् अशुभं न नश्यतीत्य् अर्थः । तेषां केषाम् इव । पतताम् इव । यथा पतताम् कुमार्गलुठितानाम् । विनाशो भवति । तथैषां न भवतीति व्यतिरेकदृष्टान्तः । स्वमतविरुद्धनिवर्तनाय स्वानुभूतिप्रसिद्धेनेत्य् उक्तम् [...] ॥ (मोटी_४,३२.३६ ॥

ननु यदि तर्कमताश्रयणेनानर्थप्राप्तिः स्यात् तर्हि तदपेक्षया सांसारिको व्यवहार एव श्रेयान् इत्य् । अत्राह

इदम् मे स्याद् इदम् मे स्याद् इति बुद्धिमताम् मतिः ।
स्वेन दौर्भाग्यदैन्येन न भस्माप्य् उपतिष्ठते ॥ (मो_४,३२.३७ ॥

इदम् वस्तु । मे मम । स्यात् भवतु । इदम् मे स्याद् इति एवम् । बुद्धिमताम् बुद्धियुक्तानाम् । मतिः बुद्धिः । स्वेन दौर्भाग्यदैन्येन निजेन ममताख्यदारिद्र्यकृतेन दीनत्वेन । भस्मापि नोपतिष्ठते न प्राप्नोति । अनेकार्थत्वात् धातूनाम् उपपूर्वः तिष्ठतिर् अत्र प्राप्त्यर्थे वर्तते । आशामयस्य सांसारिकव्यवहारस्यात्मप्राप्त्युपायत्वे नामापि ग्रहीतुं न योग्यम् इति । का कथा शुष्कतर्कात् श्रैष्ठ्यस्येति भावः ॥ (मोटी_४,३२.३७ ॥

प्रोक्तसांसारिकव्यवहाररहितस्य शुभप्राप्तिं कथयति

वेत्ति नित्यम् उदारात्मा त्रैलोक्यम् अपि यस् तृणम् ।
तं त्यजन्त्य् आपदः सर्वा रसतेव जरत्तृणम् ॥ (मो_४,३२.३८ ॥

यः उदारात्मा ममताख्यदारिद्र्यरहितः । नित्यम् न तु अभिमतवस्तुप्राप्तिकाल एव । त्रैलोक्यम् अपि तृणं वेत्ति । तम् पुरुषम् । सर्वाः आपदः त्यजन्ति । अतृप्तेर् एवापच्छब्दप्रवृत्तिनिमित्तत्वात् । आपदः का इव । रसता इव । पादपूरणार्थो भावप्रत्ययः । रसः इव । यथा रसः जरत्तृणं त्यजति । तथेत्य् अर्थः ॥ (मोटी_४,३२.३८ ॥

ननु सर्वं त्यजतः कथं शरीरयात्रा सिध्यतीत्य् । अत्राह

परिस्फुरति यस्यान्तर् नित्यं सत्त्वचमत्कृतिः ।
ब्राह्मम् अण्डम् इवाखण्डं लोकेशाः पालयन्ति तम् ॥ (मो_४,३२.३९ ॥

यस्य पुरुषस्य । सत्त्वचमत्कृतिः । सत्त्वस्य सर्वत्यागरूपस्य धैर्यस्य । चमत्कृतिः चमत्कारः । अन्तः मनसि । स्फुरति । न तु दम्भालस्यादिना वचनमात्रे एव स्फुरति । तं लोकेशाः अखण्डम् सम्यक् । पालयन्ति । किम् इव । ब्रह्माण्डम् इव । अत्यन्तनिर्लोभस्य कार्यम् ब्रह्माण्डकार्यम् इव स्वयम् एव सम्पद्यत इति भावः ॥ (मोटी_४,३२.३९ ॥

ननु यदि कदाचित् तस्य दुरन्ता विपत् स्यात् तदा किं कार्यम् इत्य् । अत्राह

प्य् आपदि दुरन्तायां नैव रन्तव्यम् अक्रमे ।
राहुर् अप्य् अक्रमेणैव पिबन्न् अप्य् अमृतम् मृतः ॥ (मो_४,३२.४० ॥

दुरन्तायाम् अपि अन्तरहितायाम् । बह्व्याम् अपीति यावत् । आपदि विचारयुक्तेन पुरुषेण । अक्रमे शास्त्रादिविरुद्धे क्रमे । न रन्तव्यम् न लगनीयम् । अर्थात् स्वप्रवाहागते क्रमे रन्तव्यम् इति ज्ञेयम् [...] । अतः क्रम एव कार्य इति भावः ॥ (मोटी_४,३२.४० ॥

क्रमप्रदर्शकं सच्छास्त्रादिकम् प्रशंसति

सच्छास्त्रसाधुसम्पर्कम् अर्कम् उग्रप्रकाशदम् ।
ये श्रयन्ति न ते यान्ति मोहान्ध्यस्य पुनर् वशम् ॥ (मो_४,३२.४१ ॥

मोहान्ध्यस्याक्रमरूपस्येत्य् अर्थः ॥ (मोटी_४,३२.४१ ॥

सच्छास्त्रादिसेवनाद् उत्पन्नान् मैत्र्यादिगुणान् प्रशंसति

वश्या वश्यम् आयान्ति यान्ति सर्वापदः क्षयम् ।
वश्यम् भवति श्रेयः क्रेयं यस्य गुणैर् यशः ॥ (मो_४,३२.४२ ॥

अवश्याः शत्रवः । श्रेयः मोक्षाख्यम् परमकल्याणम् । क्रेयम् ग्राह्यम् । उत्पाद्यम् इति यावत् । गुणैः सच्छास्त्रादिसेवनोत्पादितैः मैत्र्यादिगुणैः । तस्मात् यशüत्पादकान् गुणान् एवाश्रयेद् इति भावः ॥ (मोटी_४,३२.४२ ॥

गुणलुब्धत्वम् प्रशंसति

येषां गुणेष्व् असन्तोषो रागो येषां श्रुतम् प्रति ।
सत्ये व्यसनिनो ये च ते नराः पशवोऽपरे ॥ (मो_४,३२.४३ ॥

असन्तोषः अपूर्णता । श्रुतम् अध्यात्मशास्त्रम् । अपरे एतेभ्यः व्यतिरिक्ताः ॥ (मोटी_४,३२.४३ ॥

गुणोत्पादितं यशः प्रशंसति

यशश्चन्द्रिकया येषाम् भासितं जनहृन्नभः ।
तेषां क्षीरसमुद्राणां नूनम् मूर्तौ स्थितो हरिः ॥ (मो_४,३२.४४ ॥

येषाम् पुरुषाणाम् । सम्बन्धिन्या यशश्चन्द्रिकया मैत्र्यादिगुणोत्पादितया यशश्चन्द्रिकया । जनहृन्नभः जनहृदयः आकाशः । भासितम् । तेषां क्षीरसमुद्राणाम् चन्द्रिकोत्पादकत्वसाम्यात् क्षीरसमुद्रतुल्यानाम् । नूनम् निश्चयेन । मूर्तौ हरिः श्रीनारायणः । स्थितः भवति । तेषाम् मनसि भगवान् सततम् एव स्फुरतीति भावः । युक्तं च क्षीरसमुद्रमूर्तौ श्रीहर्यवस्थानम् ॥ (मोटी_४,३२.४४ ॥

भुक्तम् भोक्तव्यम् अखिलं दृष्टा द्रष्टव्यदृष्टयः ।
किम् अन्यद् भवभङ्गाय भूयो भोगेष्व् अलुब्धता ॥ (मो_४,३२.४५ ॥

युष्माभिः अखिलम् भोक्तव्यम् भुक्तम् । किञ्चिद्भोगद्वारेण तत्समानयोगक्षेमाः सर्वे भोगा भुक्ता इत्य् अर्थः । द्रष्टव्याः दर्शनीयाः । दृष्टयः दृष्टाः । अत्रापि पूर्ववत् एव योज्यम् । भूयः पुनः । अन्यत् इतरत् भोक्तव्यं द्रष्टव्यं वा । किम् अस्ति । किञ्चिद् अपि नास्तीत्य् अर्थः । अतः भवभङ्गाय संसारनाशाय । अलुब्धता लोभराहित्यम् । धार्यताम् इति शेषः ॥ (मोटी_४,३२.४५ ॥

यथाक्रमं यथाशास्त्रं यथाचारं यथास्थिति ।
स्थीयताम् मुच्यताम् अन्तर् भोगगार्ध्यम् अवास्तवम् ॥ (मो_४,३२.४६ ॥

यथाचारम् स्वाचारसदृशम् । न त्व् आचारान्तरनिष्ठतया । तत्त्वे हि अयुक्तं कारित्वं स्यात् । यथास्थिति । न तु गृहस्थः सन् वनस्थतया वनस्थो वा सन् गृहस्थतयेत्य् अर्थः । अन्तः मनसि । भोगगार्ध्यम् भोगेषु गर्धः लोभः यस्य । सः भोगगर्धः । तस्य भावः । तत् ॥ (मोटी_४,३२.४६ ॥

संस्तवः क्रियतां कीर्त्या गुणैर् गगनगामिभिः ।
त्रायन्ते मृत्युनोपेतं न कदाचन भोगकाः ॥ (मो_४,३२.४७ ॥

युष्माभिः । गगनगामिभिः गुणैः मैत्र्यादिगुणैः । उत्पन्नया कीर्त्या सह । संस्तवः परिचयः । क्रियताम् । ननु भोगैः सह संस्तवं त्यक्त्वा कीर्त्या सह किमर्थं कुर्म इत्य् । अत्राह त्रायन्त इति । ये तादृश्याम् मरणावस्थायां नोपयुज्यन्ते किं तैः सह संस्तवेनेति भावः ॥ (मोटी_४,३२.४७ ॥

गुणोत्पादितयशोयुक्तान् प्रशंसति

गायन्ति सिद्धसुन्दर्यो येषाम् इन्दुसितं यशः ।
गीतिभिर् गगनाभोगे ते जीवन्ति मृताः परे ॥ (मो_४,३२.४८ ॥

परे प्रोक्तयशोरहिताः ॥ (मोटी_४,३२.४८ ॥

ननु यदि प्रोक्तगुणार्जनेनापि न किञ्चित् सेत्स्यति तदा किं कार्यम् इत्य् । अत्राह

परमम् पौरुषं यत्नम् आस्थायादाय सूद्यमम् ।
यथाशास्त्रम् अनुद्वेगम् आचारात् को न सिद्धिभाक् ॥ (मो_४,३२.४९ ॥

आचारात् गुणार्जनरूपात् आचारात् ॥ (मोटी_४,३२.४९ ॥

ननु यदा कदाचिन् मया गुणार्जने यत्नः कृत एव किं तेन सम्पन्नम् इत्य् । अत्राह

यथाशास्त्रं विहरता त्वरा कार्या न सिद्धिषु ।
चिरकालपरापक्वा सिद्धिः पुष्टफला भवेत् ॥ (मो_४,३२.५० ॥

स्पष्टम् ॥ (मोटी_४,३२.५० ॥

फलितं कथयति

वीतशोकभयायासम् अगर्धम् अपयन्त्रणम् ।
व्यवहारो यथाशास्त्रं क्रियताम् मा विनश्यताम् ॥ (मो_४,३२.५१ ॥

अगर्धम् लोभरहितम् । अपयन्त्रणम् बन्धनरहितम् ॥ (मोटी_४,३२.५१ ॥

जीवो जीर्णान्धकूपेषु भवेष्व् अन्तर्धिम् आगतः ।
भवताम् भूरिभङ्गानाम् अधुनोद्ध्रियताम् अतः ॥ (मो_४,३२.५२ ॥

भूरिभङ्गानाम् बहुनाशयुक्तानाम् । भवताम् । जीवः जीर्णान्धकूपेषु दुःखदत्वेन जीर्णान्धकूपरूपेषु । भवेषु । अन्तर्धिम् गतः । क्षीण इति यावत् । भवति । अतः युष्माभिः अधुना सः जीवः उद्ध्रियताम् । अन्धकूपमग्नस्य हि उद्धरणम् अवश्यम् एव कार्यम् इति भावः ॥ (मोटी_४,३२.५२ ॥

इतः प्रभृति मा भूयो गम्यताम् अधराद् अधः ।
इदं निर्धार्यतां शास्त्रम् अस्त्रम् आपन्निवारणे ॥ (मो_४,३२.५३ ॥

युष्माभिः । इतः प्रभृति अस्मान् मदुपदेशात् प्रभृति । भूयः पुनः । अधराद् अधःस्थानाद् । अधः मा गम्यताम् । युष्माभिः । इदम् मदुक्तम् । एतच् छास्त्रम् । निर्धार्यताम् निश्चीयताम् । इदम् किम् । आपन्निवारणे अस्त्रम् अस्त्रभूतम् आपन्निवारकम् इत्य् अर्थः ॥ (मोटी_४,३२.५३ ॥

रणे रभसनिर्लूनवारणे प्राणम् उज्झताम् ।
किम् अर्थमात्रया कार्यम् आर्याः शास्त्रम् अवेक्ष्यताम् ॥ (मो_४,३२.५४ ॥

अर्थमात्रया धनलेशेन अर्थमात्रार्थम् । रणादिकार्यं त्यक्त्वा इदम् एव शास्त्रम् अवेक्ष्यताम् इति पिण्डार्थः ॥ (मोटी_४,३२.५४ ॥

इदम् बिम्बम् इदं निम्बम् इति मत्या विचार्यताम् ।
स्वया परप्रेरणया यात मा पशवो यथा ॥ (मो_४,३२.५५ ॥

इदम् बिम्बम् बिम्बफलम् भवति । इदं निम्बम् निम्बफलम् भवति । इति एवम् । स्वया मत्या बुद्ध्या । विचार्यताम् । परप्रेरणया मा यात मा गच्छत । के यथा । पशवो यथा । यथा पशवः परप्रेरणया यान्ति तथा यूयम् मा यातेत्य् अर्थः ॥ (मोटी_४,३२.५५ ॥

दौर्भाग्यदायिनी दीना शुभहीनाविचारणा ।
घनदीर्घमहानिद्रा त्यज्यतां सम्प्रबुध्यताम् ॥ (मो_४,३२.५६ ॥

युष्माभिः । अविचारणा अविचाराख्या घनदीर्घा चासौ महानिद्रा । सा त्यज्यताम् । कथम्भूता सा । दौर्भाग्यदायिनी आशारूपदारिद्र्यदायिनी । तां त्यक्त्वा सम्प्रबुध्यताम् । युक्तश् च निद्रात्यागानन्तरम् प्रबोधः ॥ (मोटी_४,३२.५६ ॥

सुप्तैः मा स्थीयतां वृद्धमन्दकच्छपवच् छनैः ।
उत्थानम् अङ्गीक्रियतां जरामरणशान्तये ॥ (मो_४,३२.५७ ॥

युष्माभिः । वृद्धमन्दकच्छपवत् सुप्तैः स्वात्मविचारे विमुखैः । मा स्थीयताम् । वृद्धमन्दकच्छपो हि सुप्तः तिष्ठति । शनैः क्रमेण । जरामरणशान्तये मोक्षाय । उत्थानम् उद्योगः । अङ्गीक्रियताम् निर्वाणमुख्योपायभूतं सच्छास्त्रविचारादि क्रियताम् इत्य् अर्थः ॥ (मोटी_४,३२.५७ ॥

ननु सुखसाधनधनाद्यर्जनम् अपहाय किमर्थम् अन्यत् कुर्म इत्य् । अत्राह

नर्थायार्थसम्पत्तिर् भोगौघो भवरोगदः ।
आपदे सम्पदः सर्वाः सर्वत्रानादरो जयः ॥ (मो_४,३२.५८ ॥

अर्थसम्पत्तिः अनर्थाय दुःखाय भवति । अर्जनादौ क्लेशहेतुत्वात् । भोगौघः भवरोगदः भवति । रागाद्युत्पादकत्वात् । सम्पदः श्रियः । आपदे भवन्ति । तापकारिदर्पादिदोषोत्पादकत्वात् । सर्वत्र समस्ते धनादौ भावजाते । अनादरः त्यागादानव्यतिरिक्तस्वरूपा उपेक्षा । जयः भवति ॥ (मोटी_४,३२.५८ ॥

लोकतन्त्रानुसारेण विचाराद् व्यवहारिणाम् ।
शास्त्राचाराविरुद्धेन कर्मणा शर्म सिध्यति ॥ (मो_४,३२.५९ ॥

लोकतन्त्रानुसारेण लोकाचारानुसारेण । विचारात् इति ल्यप्लोपे पञ्चमी । तेन विचारं कृत्वेत्य् अर्थः ॥ (मोटी_४,३२.५९ ॥

सर्गान्तश्लोकेनाप्य् एतद् एव कथयति

स्वाचारचारुचरितस्य विविक्तवृत्तेः
संसारदुःखलवसौख्यदशास्व् अगृध्नोः ।
आयुर् यशांसि च गुणाश् च सहैव लक्ष्म्या
फुल्लन्ति माधवलता इव सत्फलाय ॥ (मो_४,३२.६० ॥

स्वाचारेण शोभनाचारेण । चारुचरितम् यस्य । सः । तादृशस्य । विविक्ता विशिष्टा । वृत्तिः व्यापारो यस्य । सः । तादृशस्य । तथा दुःखलवरूपाः च ताः सौख्यदशाः दुःखलवसौख्यदशाः । संसारस्य याः दुःखलवसौख्यदशाः । तासु अगृध्नोः लोभरहितस्य पुरुषस्य । आयुः यशांसि गुणाश् चेत्य् एतानि वस्तूनि । लक्ष्म्या सहैव सत्फलाय मोक्षाख्याय शोभनाय फलाय । फुल्लन्ति विकसन्ति । मोक्षम् उत्पादयन्तीत्य् अर्थः । एतानि वस्तूनि का इव । माधवलताः इव । यथा माधवलताः वसन्तलताः । सत्फलाय फुल्लन्ति । तथेत्य् अर्थः । इति शिवम् ॥ (मोटी_४,३२.६० ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे द्वात्रिंशः सर्गः ॥३२॥




पुनर् अपि पूर्वोक्तम् एवार्थं कथयति

सर्वातिशयसाफल्यात् सर्वं सर्वत्र सर्वदा ।
सम्भवत्य् एव तस्मात् स्वं शुभोद्योगं न सन्त्यजेत् ॥ (मो_४,३३.१ ॥

सर्वेषाम् अतिशयानाम् यत् साफल्यम् सफलता । ततो हेतोः । सर्वत्र सर्वेषु देशेषु । सर्वदा सर्वेषु कालेषु । सर्वं सम्भवत्य् एव । यतः अतिशयप्रयुक्तानां सर्वेषां यत्नानां साफल्यम् अस्ति । अतः सर्वत्र सर्वदा सर्वं सम्भवत्य् एवेति यावत् । फलितं कथयति तस्माद् इति । तस्मात् ततो हेतोः । पुरुषः स्वं शुभोद्योगं न सन्त्यजेत् ॥ (मोटी_४,३३.१ ॥

विशेषेण उद्योगस्य साफल्यं कथयति

मित्रस्वजनबन्धूनां नन्दिनानन्ददायिना ।
सरसीश्वरम् आराध्य मृत्युर् अप्य् उपनिर्जितः ॥ (मो_४,३३.२ ॥

नन्दिना नन्दिरुद्रेण ॥ (मोटी_४,३३.२ ॥

सर्वोत्कर्षेण वर्तन्ते देवा अपि विमर्दिताः ।
दानवैर् दानवार्याढ्यैर् गजैः पद्माकरा इव ॥ (मो_४,३३.३ ॥

गजैः कथम्भूतैः । दानवारिणा मदजलेनाढ्यैः युक्तैः ॥ (मोटी_४,३३.३ ॥

मरुत्तनृपतेर् यज्ञे संवर्तेन महर्षिणा ।
ब्रह्मणेवापरः सर्गो रचितः ससुरासुरः ॥ (मो_४,३३.४ ॥

स्पष्टम् ॥ (मोटी_४,३३.४ ॥

महातिशययुक्तेन विश्वामित्रेण विप्रता ।
भूयो भूयः प्रयुक्तेन दुष्प्रापा तपसार्जिता ॥ (मो_४,३३.५ ॥

स्पष्टम् ॥ (मोटी_४,३३.५ ॥

पिष्टातकाम्बु दुष्प्रापं रसायनम् इवाश्नता ।
दुर्भगेनेदृशेनाप्तः क्षीरोद उपमन्युना ॥ (मो_४,३३.६ ॥

पिष्टातकाम्बु । पिष्टमिश्रितं जलम् । ईदृशेन दुर्भगेन एतादृशेन दरिद्रेण । आप्तः । ईश्वराराधनयेति शेषः ॥ (मोटी_४,३३.६ ॥

त्रैलोक्यमल्लांस् तृणवन् निघ्नन् विष्ण्वब्जजादिकान् ।
युक्त्यातिशयदार्ढ्येन कालः श्वेतेन कालितः ॥ (मो_४,३३.७ ॥

युक्त्या ईश्वराराधनरूपेणोपायेन । श्वेतेन राजविशेषेण । कथम्भूतेन । अतिशये यत्नातिशये । दार्ढ्यम् दृढता यस्य । तादृशेन ॥ (मोटी_४,३३.७ ॥

प्रणयेन यमं जित्वा कृत्वा वचनसङ्गरम् ।
परलोकाद् उपानीतः सावित्र्या सत्यवान् पतिः ॥ (मो_४,३३.८ ॥

प्रणयेन स्नेहेन । उपानीत इत्य् अनेन सम्बन्धः । वचनसङ्गरम् वचनसङ्ग्रामम् ॥ (मोटी_४,३३.८ ॥

विशेषेणोक्त्वा सामान्येन कथयति

न सोऽस्त्य् अतिशयो लोके यस्यास्ति न फलं स्फुटम् ।
भवितव्यं विचार्यातः सर्वातिशयशालिना ॥ (मो_४,३३.९ ॥

अतिशयः यत्नातिशयः । फलितं कथयति भवितव्यम् इति । अतः सर्वेभ्यः यः अतिशयः उद्योगाख्यः । तेन शालतीति तादृशेन पुरुषेण । विचार्य भवितव्यम् । अशुभफलसम्पादकत्वाद् अशुभो यत्नः न कार्य इति भावः ॥ (मोटी_४,३३.९ ॥

ननु को यत्नः शुभोऽस्ति । यत्नातिशयवान् भवामीत्य् अपेक्षायाम् आह

आत्मज्ञानम् अशेषाणां सुखदुःखदशादृशाम् ।
मूलं कषकरं तस्माद् भाव्यं तत्रातिशायिना ॥ (मो_४,३३.१० ॥

आत्मज्ञानम् कोऽहम् इत्य् एवम् आत्मविचारः । अशेषाणाम् समस्तानाम् । सुखदुःखदशादृशाम् । मूलं कषकरं मूलतः नाशकरम् । भवति । आत्मविचारेण हि चिदात्मनि आत्मत्वेन प्राप्ते शरीरानास्थायां च जातायां शरीरानुबद्धसुखदुःखादिस्पर्शो न भवति । तस्मात् ततो हेतोः । पुरुषेण । तत्र आत्मज्ञाने । अतिशयिना अतिशययुक्तेन । भाव्यम् ॥ (मोटी_४,३३.१० ॥

ननु दृश्यकृतं सुखं त्यक्त्वा किमर्थम् अत्यन्तभोगत्यागसाध्ये आत्मज्ञाने पुरुषो लगतीत्य् । अत्राह

नानयोपहतार्थिन्या दृश्यदृष्ट्यातिदुष्टया ।
दुःखाद् ऋते निराबाधं सुखं किञ्चिद् अवाप्यते ॥ (मो_४,३३.११ ॥

उपहतः नष्टः । अर्थः पुरुषार्थः । अस्याम् अस्तीति तादृश्या । अत एवातिदुष्टया दृश्यरूपया दृष्ट्या दृश्यदृष्ट्या । दृश्येनेति यावत् । दुःखाद् ऋते दुःखामिश्रम् । अत एव निराबाधम् बाधरहितम् । किञ्चित् सुखं न अवाप्यते । यदि किञ्चित् प्राप्यतेऽपि दुःखमिश्रम् एवेत्य् अर्थः ॥ (मोटी_४,३३.११ ॥

ननु सर्वस्य ब्रह्ममयत्वात् दृश्यदृष्टिरूपस्याशमस्य तन्नाशरूपस्य शमस्य च को भेदः येनैवं कथयसीत्य् । अत्राह

शमः परमम् ब्रह्म शमश् च परमम् पदम् ।
यद्य् अप्य् एवं तथाप्य् एनम् प्रशमं विद्धि शङ्करम् ॥ (मो_४,३३.१२ ॥

यद्य् अप्य् एवम् भवति । एवम् कथम् । अशमः दृश्यक्षोभः । परमम् ब्रह्म भवति । शमश् च दृश्यनाशश् च । परमम् पदम् भवति । तत्सारत्वात् । तथापि त्वम् एनम् प्रशमम् दृश्यनाशम् । शङ्करम् कल्याणकारिणम् । विद्धि । शमाशमरूपब्रह्मप्राप्तिम् प्रत्य् उपायत्वात् । नन्व् अशमस्य ब्रह्मत्वं न सिध्यति । सत्यम् । ब्रह्मत्वं त्वया किं ज्ञातम् । सुखकारित्वम् इति चेन् । न । सुखदुःखकारित्वव्यतिरिक्तस्य ब्रह्मत्वयोगात् । अतः सुखकारिवत् दुःखकारिणोऽपि स्वरूपमात्रप्राधान्येन ब्रह्मत्वानपायान् न त्वच्चोद्यावकाशः । ननु तर्हि आनन्दैकरूपत्वं कथम् ब्रह्मणः कथयन्तीति चेत् । तत्रत्य आनन्दः न त्वदनुभूत[ ]त्तिरूपानन्दरूपो भवति । किं तु अपेक्षाराहित्यमात्ररूप एवासौ । सर्वम् ब्रह्मेति ज्ञानेन हि सर्वत्र हेयोपादेयताव्यतिरिक्ता महानन्दरूपा तृप्त्यपरपर्याया उपेक्षा जायते । सा च सर्वत्र सम्भवतीति अलं चोद्येन ॥ (मोटी_४,३३.१२ ॥

कर्तव्यम् उपदिशति

भिमानम् परित्यज्य शमम् आश्रित्य शाश्वतम् ।
विचार्य प्रज्ञयार्यत्वं कुर्यात् सज्जनसेवनम् ॥ (मो_४,३३.१३ ॥

अभिमानम् मयेदृशः शमः कृत इत्य् एवंरूपं दर्पम् । शमम् दृश्यक्षोभराहित्यम् । आर्यत्वम् साधुत्वम् । विचार्य केनेदं सिध्यतीति विचारविषयं कृत्वा ॥ (मोटी_४,३३.१३ ॥

ननु आर्यत्वसाधनम् प्रसिद्धं तपस्तीर्थादिकं त्यक्त्वा किम् इत्य् अप्रसिद्धं सज्जनसेवनं कर्तव्यत्वेनोपदिशसीत्य् । अत्राह

न तपांसि न तीर्थानि न शास्त्राणि जयन्ति वः ।
संसारसागरोत्तारे सज्जनासेवनं यथा ॥ (मो_४,३३.१४ ॥

संसारसागरात् यः आर्यत्वकरणद्वारेण उत्तारः । तस्मिन् न जयन्ति न प्रभवन्ति ॥ (मोटी_४,३३.१४ ॥

ननु किंलक्षणोऽसौ सज्जनः यस्य सेवनं कर्तव्यत्वेनोपदिशसीत्य् । अत्राह

लोभमोहरुषां यस्य तनुतानुदिनम् भवेत् ।
यथाशास्त्रं विहरतः स्वकर्मसु स सज्जनः ॥ (मो_४,३३.१५ ॥

यथाशास्त्रं स्वकर्मसु शरीरयात्रानिमित्तेषु निजेषु कर्मसु । विहरतः क्रीडया यत्नं कुर्वतः । यस्य पुरुषस्य । अनुदिनम् लोभमोहरुषां तनुता भवेत् । सः सज्जनः भवति ॥ (मोटी_४,३३.१५ ॥

ननु मूर्खश्रोत्रिया अपि लोभादितानवयुक्ता दृश्यन्ते । तेषां सङ्गेनापि किञ्चित् सेत्स्यत्य् अथ वा नेत्य् । अत्राह

ध्यात्मविदुषः सङ्गात् तस्य सा धीः प्रवर्तते ।
त्यन्ताभाव एवास्य यया दृश्यस्य दृश्यते ॥ (मो_४,३३.१६ ॥

अध्यात्मविदुषः अध्यात्मशास्त्रज्ञस्य । तस्य लोभादितानववतः सज्जनस्य । सङ्गात् । पुरुषस्य सा धीः प्रवर्तते । सा का । यया धिया कारणभूतया । पुरुषेण । अस्य पुरःस्फुरतः । दृश्यस्यात्यन्ताभावः त्रैकालिकः अभावः । दृश्यते । अत इन्द्रियासामर्थ्यादिना लोभादितानववतोऽपि मूर्खस्य सङ्गान् न किञ्चिद् अपि सेत्स्यतीति भावः ॥ (मोटी_४,३३.१६ ॥

ननु दृश्यात्यन्ताभावदर्शनेन किं सेत्स्यतीत्य् । अत्राह

दृश्यात्यन्ताभावतस् तु परम् एवावशिष्यते ।
न्याभाववशाद् आशु जीवस् तत्रैव लीयते ॥ (मो_४,३३.१७ ॥

तु निश्चये । दृश्यात्यन्ताभावतः लक्षणया दृश्यात्यन्ताभावदर्शनाद् धेतोः । परम् दृश्याधिष्ठानत्वान् मुक्तम् उत्तीर्णं चिन्मात्राख्यं वस्तु । एव । अवशिष्यते अवशेषत्वेन दृश्यते । ननु ततोऽपि किं स्याद् इत्य् । अत्राहान्याभावेति । ततः अन्यस्य परवस्तुव्यतिरिक्तस्य । अभावात् । जीवः द्रष्टृत्वेन स्थितः जीवः । तत्रैव परस्मिन् वस्तुन्य् एव । लीयते । सोऽपि तद्रूपत्वेन दृश्यते इति यावत् । जीवन्मुक्ताभिप्रायेणैवमर्थः कृतः । विदेहमुक्ताभिप्रायेण तु दृश्यात्यन्ताभावः जीवलयः च[ ]शेनोपाधिमुक्त एव ज्ञेयः ॥ (मोटी_४,३३.१७ ॥

अत्यन्ताभावस्वरूपं कथयति

न चोत्पन्नं न चैवासीद् दृश्यं न च भविष्यति ।
वर्तमानेऽपि नैवास्ति परम् एवास्त्य् अवेदितम् ॥ (मो_४,३३.१८ ॥

वर्तमाने वर्तमानकाले । ननु यदि दृश्यं नासीत् नास्ति न भविष्यति तर्हि किम् अस्ति । न हि अभावस्य एतादृक् प्रपञ्चाधिष्ठानत्वं युक्तम् इत्य् । अत्राह परम् एवेति । परम् साक्षित्वेन स्थितत्वात् सर्वोत्तीर्णं चिन्मात्रम् । एव । अस्ति । स्वप्ने तस्यैव प्रपञ्चाधिष्ठानत्वेन दृष्टत्वात् । तत् कथम्भूतम् । अवेदितम् वेद्यरहितम् । अवेदितम् इति कर्मणि क्तः ॥ (मोटी_४,३३.१८ ॥

ननु कथम् एतद् अस्तीत्य् । अत्राह

एतद् युक्तिसहस्रेण दर्शितं दर्श्यतेऽपि च ।
सर्वैर् एवानुभूतं हि दर्शयिष्यामि चाधुना ॥ (मो_४,३३.१९ ॥

एतत् दृश्यं नासीत् नास्ति न भविष्यतीत्य् एतत् । ननु कथम् अप्रसिद्धम् एतत् दर्शितम् दर्श्यते दर्शयिष्यसि चेत्य् । अत्राह सर्वैर् इति । हि यस्मात् । एतत् सर्वैर् अनुभूतम् वर्तमाने क्तः । अनुभूयते इत्य् अर्थः । सुषुप्ताव् इति शेषः । सुषुप्तौ हि सर्वे दृश्यात्यन्ताभावम् अनुभवन्ति ॥ (मोटी_४,३३.१९ ॥

अभ्यासार्थम् पुनः एतद् एव कथयति

यथेदम् अखिलं शान्तं त्रिजगत् संविदम्बरम् ।
इदं तत्त्वं त्व् असत्त्वादि कुतोऽत्र स्यात् कथञ्चन ॥ (मो_४,३३.२० ॥

इदम् अनुभूयमानम् । अखिलं त्रिजगत् । शान्तम् संवेद्याख्यक्षोभरहितम् । संविदम्बरम् चिदाकाशम् भवतीति यथा इति यत् भवति । इदम् तत् । तत्त्वम् परमार्थः भवति । तु व्यतिरेके । अत्र संविदाकाशरूपे जगति । असत्त्वादि । असत्त्वम् अचिन्मयत्वं चेत्य् एवमादि । कथञ्चन कुतः स्यात् कथञ्चनापि न स्याद् इत्य् अर्थः । दृष्टं च स्वप्नजगतः संविदाकाशात्मकत्वम् इति न विरोधः ॥ (मोटी_४,३३.२० ॥

ननु तर्हि जगद् इति शब्दप्रत्ययौ कथं रूढिं गताव् इत्य् । अत्राह

चिच् चमत्कुरुते चारु चञ्चलाचञ्चलात्मनि ।
यत् तयैव तद् एवेदं जगद् इत्य् अवबुध्यते ॥ (मो_४,३३.२१ ॥

चञ्चला बाह्योन्मुखत्वे स्पन्दानुविद्धा । चित् । अचञ्चलात्मनि परमार्थतः तथास्थितत्वात् अचञ्चले स्वस्वरूपे । चारु सम्यक् । यत् चमत्कुरुते स्वरूपामर्शरूपम् आस्वादं करोति । तया एव न त्व् अन्येन । तद् एव चमत्करणम् एव । जगद् इति अवबुध्यते ज्ञायते । न जगन्नाम किञ्चिद् अपरं वस्तु अस्ति । चिदाश्रयविषयस्य स्वात्मपरामर्शस्यैव जगत्त्वाद् इति भावः ॥ (मोटी_४,३३.२१ ॥

ननु तथापि कथम् भेद इव दृश्यत इत्य् । अत्राह

त्रैलोक्यरूपोऽनुभवश् चिदादित्यांशुमण्डलम् ।
क्व वेन्द्वंशुमतोर् भेदो निर्विकत्थन कथ्यताम् ॥ (मो_४,३३.२२ ॥

त्रैलोक्यरूपः त्रैलोक्याकारः । अनुभवः । त्रैलोक्यम् इति यावत् । चिद् एवादित्यः । तस्यांशुमण्डलम् । भवति । हे निर्विकत्थन हे अमृषावादिन् । त्वया कथ्यताम् । किम् इत्य् अपेक्षायाम् आह । क्वेति । इन्द्वंशुमतोः जलमण्डलप्रतिबिम्बितसूर्यांशुमण्डलरूपस्य इन्दोः सूर्यस्य च । भेदः क्व भवति । कस्मिन् काले देशे वा भवति । यथा जलप्रतिबिम्बितसूर्यांशुमण्डलरूपस्य चन्द्रस्य सूर्यस्य च भासमानोऽपि भेदः परमार्थतः नास्ति । तथा बाह्यान्तःकरणप्रतिबिम्बितचिदादित्यांशुमण्डलरूपस्य जगतः चिदादित्यस्य च भासमानोऽपि भेदः नास्त्य् एवेत्य् अर्थः ॥ (मोटी_४,३३.२२ ॥

सर्वथा भेदाभावं कथयति

स्वभावतोऽस्याश् चिद्दृष्टेर् ये उन्मेषनिमेषणे ।
जगद्रूपानुभूतेस् ताव् एताव् अस्तमयोदयौ ॥ (मो_४,३३.२३ ॥

स्वभावतः यत्नरहितम् । अस्याः आत्मत्वेन पुरःस्थायाः । चिद्दृष्टेः चिदाख्यायाः दृष्टेः । ये उन्मेषणनिमेषणे स्वव्यतिरिक्तपरामर्शरूपम् उन्मेषणं स्वमात्रपरामर्शरूपं निमेषणं च भवतः । तौ एव उन्मेषनिमेषौ एव । जगद्रूपा या अनुभूतिः । जगद् इति यावत् । तस्याः अस्तमयोदयौ भवतः । निमेषणम् अस्तमयः । उन्मेषणम् उदयः । अथ वा उन्मेषणम् स्वरूपप्रसारः । निमेषणम् स्वरूपसङ्कोचः । इति कृत्वा उन्मेषणम् अस्तमयः । निमेषणम् उदय इति योज्यम् । तथा च भेदगन्धोऽपि नास्ति । न हि उन्मेषनिमेषवतः उन्मेषनिमेषौ भिन्नौ इति भावः । एतच् च स्वप्ने सुषुप्तौ च सर्वप्रतीतिसाक्षिकम् एवेति नात्रायस्तम् ॥ (मोटी_४,३३.२३ ॥

कारणत्वेन समस्तजगत्प्रधानभूताहङ्कारवर्णनम् प्रस्तौति

हमर्थोऽपरिज्ञातः परमार्थाम्बरे मलः ।
परिज्ञातोऽहमर्थस् तु परमार्थाम्बरम् भवेत् ॥ (मो_४,३३.२४ ॥

अहमर्थः अहम् इति शब्दाभिधेयं वस्तु । अपरिज्ञातः परमार्थतः किंरूपोऽयम् इत्य् अज्ञातः सन् । परमार्थाम्बरे चिन्मात्राकाशे । मलः भवति । देहरूपतयावस्थानेन तदाच्छादकत्वात् । आच्छादकत्वम् एव हि मलस्य स्वरूपम् । तु व्यतिरेके । परिज्ञातः परमार्थतः एवंरूपोऽसाव् इति ज्ञातः सन् । परमार्थाम्बरम् चिन्मात्राकाश एव भवति । तद्रूपतायाम् एव विश्रामात् ॥ (मोटी_४,३३.२४ ॥

अभ्यासार्थम् पुनः पुनः एतद् एव कथयति

हम्भावः परिज्ञातो नाहम्भावे भवत्य् अलम् ।
एकताम् अम्बुनेवाम्बु याति चिन्नभसात्मना ॥ (मो_४,३३.२५ ॥

परिज्ञातः परमार्थतः किंनिष्ठोऽयम् इति ज्ञातः । अहम्भावः अहङ्कारः । अहम्भावे निमित्तसप्तमी । स्थूलाहम्भावनिमित्तं न भवति । कुत एतद् इत्य् । अत्राहैकताम् इति । यतः सः अहम्भावः चिन्नभसा चिदाकाशरूपेण । आत्मना एकतां याति । किम् इव । अम्बु इव । यथाम्बु अम्बुना एकतां याति । तथेत्य् अर्थः । परमार्थतः किंनिष्ठोऽयम् इति अहङ्कारपरमार्थस्वरूपे ज्ञाते सति अहङ्कारः परमात्मनिष्ठो भवति । ततः शरीरनिष्ठतारूपाम् परिमिततां नायातीति भावः ॥ (मोटी_४,३३.२५ ॥

ननु कथम् परिज्ञातः अहम्भावः चिदात्मना एकत्वं याति इत्य् । अत्राह

हमादिजगद्दृश्यं किल नास्त्य् एव वस्तुतः ।
वश्यम् एव तत् कस्माच् छिष्यतेऽहंविचारिणः ॥ (मो_४,३३.२६ ॥

किल निश्चये । अहमादि

'