अष्टादशोऽध्यायः

Wikibooks इत्यस्मात्
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

अष्टमोऽध्यायः [सम्पाद्यताम्]


(उपसंहारः) [सम्पाद्यताम्]


अध्यायसंबन्धः [सम्पाद्यताम्]


९९७. सर्वस्यैवगीताशास्त्रस्य अर्थः अस्मिन् अध्याये उपसंहृत्य सर्वश्च वेदार्थः वक्तव्यः इत्येवमर्थः अयं अध्यायः आरभ्यते । सर्वो हि अतीतेषु अध्यायेषु उक्तः अर्थः अस्मिन् अध्याये अवगम्यते । अर्जुनस्तु संन्यासत्यागशब्दार्थयोरेव विशेषं बुभुत्सुः उवाच -

संन्यासत्यागशब्दयोः अर्थः
अर्जुन उवाच -
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥१॥