द्वित्वम्

विकिपुस्तकानि तः

केषाञ्चित् पदानां लेखनावसरे केचन वर्णाः द्विवारं लेखनीयाः भवन्ति । उच्चारणश्रवणात् एतत् द्वित्वं यद्यपि न अनुभवगोचरतां याति, तथापि लेखनावसरे तु तत् लेखनीयम् एव । कानिचन उदाहरणानि अधः दत्तानि सन्ति -

द्वित्वम् (सामान्यम् - १)[सम्पाद्यताम्]

अशुद्धानि शुद्धानि
महत्वम् महत्त्वम् (महत् + त्वम्)
सत्वम् सत्त्वम् (सत् + त्वम्)
तत्वम् तत्त्वम् (तत् + त्वम्)
सात्विकम् सात्त्विकम्
उज्वलः उज्ज्वलः (उत् + ज्वल)
पाश्चात्यः पाश्चात्त्यः (पश्चात् + त्यक्)
कार्तिकमासः कार्त्तिकमासः
तज्ञः तज्ज्ञः (तत् + ज्ञः)
कित्वम् कित्त्वम् (कित् + त्वम्)
छित्वा छित्त्वा ‌(छिद् + त्वा)
भित्वा भित्त्वा (भिद् + त्वा)
उध्वस्तः उद्ध्वस्तः (उत् + ध्वस्तः)
"https://sa.wikibooks.org/w/index.php?title=द्वित्वम्&oldid=4722" इत्यस्माद् प्रतिप्राप्तम्