वाक्यशेष:

विकिपुस्तकानि तः

सन्दर्भाः[सम्पाद्यताम्]

१ वाक्यशेषो नाम यस्मिन सूत्रे लाघविकेन अर्थात् गम्यमानम् अनुक्तपूरणार्थम् अध्याह्रियते । यथा (अ.हृ.शा. ३/३) ’तत्र खात् खानि देहेऽस्मिन्’ भवन्ति इति वाक्यशेष: । "आप्या जिह्वारसक्लेदा:" (अ.हृ.शा. ३/४) इत्युत्तरत्र भवार्थे तद्भितश्रवणात् ।- सर्वाङ्गसुन्दरा (अ.हृ.उ. ४०/७८)

२ ’वाक्यशेषो नाम यल्लाघवार्थम् आचार्येण पदम् अकृतं गम्यमानतया पूर्यते । यथा प्रवृत्तिहेतु: भावानाम् (च.सू.१/६) इत्यत्र ’अस्ति’ इति पदं पूर्यते । तथा ’जाङ्गलजै रसै: इत्यत्र मांस शब्द: पूर्यते । वाक्येषु चैत एव शब्दा: शेषा: क्रियन्ते ये अनिवेशिता अपि प्रतीयन्ते ।’ - चक्र.-( च. सि. १२/४२)

स्वरूपम् उदाहरणं च[सम्पाद्यताम्]

सूत्रस्य अर्थं पूरयितुं किमपि सूत्रे अविद्यमानं पदं सूत्रे गृह्यते इति अस्या: तन्त्रयुक्ते: स्वरूपम्।अस्य एकमुदाहरणम्-
प्राग्रूपं येन लक्ष्यते। उत्पित्सुरामयो दोषविशेषेणानधिष्ठित:॥ अ.हृ. नि.१.

अत्र दोषविशेषेण इत्यस्य ‘व्यक्तरूपेण’ इति एकं विशेषणं देयम्।अन्यथा केवलं दोषविशेषेण अनधिष्ठित: रोग: उत्पिसु: भवितुं नार्हति।यदि उत्पित्सा अस्ति तर्हि दोषविशेषस्य अधिष्ठानम् अङ्गीकर्तव्यमेव।अत: व्यक्तरूपेण दोषविशेषेण अनधिष्ठित: इति वक्तव्यम्।अत्र व्यक्तरूपेण इति पदं सूत्रे नास्ति परं स्वीकृतम्। तदर्थं वाक्यशेष: इति तन्त्रयुक्ते: आधार: ।

अन्येषु शास्रेनाषु वाक्यशेष-तन्र् युक्तेः प्रयोगः -[सम्पाद्यताम्]

वाक्यशेषाख्यतन्त्रयुक्ते: प्रयोग: अन्यत्रापि दृश्यते यथा –
१ उत्तरमीमांसायाम् अथातो ब्रह्मजिज्ञासा।ब्र.सू.१.१.१
अत्र शाङ्करभाष्यमेवम्- ...यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या।
जन्माद्यस्य यत:।ब्र.सू.१.१.२
अत्र शाङ्करभाष्यमेवम्- ...तद् ब्रह्म इति वाक्यशेष:।

२ पूर्वमीमांसायाम् – अथातो धर्मजिज्ञासा।जै.सू.१.१.१

३ साङ्ख्यकारिकायाम्-
दु:खत्रयाभिघाताद् जिज्ञासा तदपघातके हेतौ।१
अत्र ‘जायते’ इति वाक्यशेष:।

४ योगशास्त्रे- तदा द्रष्टु: स्वरूपेऽवस्थानम्।१.२
‘भवति’ इति वाक्यशेष:।

मैत्रीकरुणामुदितोपेक्षाणां सुखदु:खपुण्यापुण्यविषयाणां भावनात: चित्तप्रसादनम्।१.
‘कार्यम्’ इति शेष:।

५ अष्टाध्याय्याम्- सह सुपा।
समस्यते इति वाक्यशेष:।

6 न्याये –
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नव एव।
अत्र ‘सन्ति’ इति वाक्यशेष:।

7 स्तोत्रवाङ्मये-
ध्रुवं कर्तु:श्रद्धाविधुरमभिचाराय हि मखा:।शिवमहिम्नस्तोत्रम् २१
अत्र भवन्ति इति वाक्यशेष:।

आयुर्वेदोक्ता: तन्त्रयुक्तय:
"https://sa.wikibooks.org/w/index.php?title=वाक्यशेष:&oldid=6016" इत्यस्माद् प्रतिप्राप्तम्