वृत्तरत्नाकर

Wikibooks तः
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

[श्रीः][सम्पाद्यताम्]

वृत्तरत्नाकरः

प्रथमोऽध्यायः[सम्पाद्यताम्]

सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्मा ऽच्युता ऽर्चितम् ।
गौरीविनायकोपेतं शङ्करं लोकशङ्करम् ॥ केवृ१.१ ॥

वेदार्थशैवशास्त्रज्ञः पव्येको ऽभूद् लोकशङ्करम् ।
तस्य पुत्रो ऽस्ति केदारः शिवपादार्चने रतः ॥ केवृ१.२ ॥

तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् ।
वृत्तरत्नाकरं नाम बालानां सुखसिद्ध्ये ॥ केवृ१.३ ॥


पिङ्गलादिभ्राचार्यैर्यदुक्तं लौकिकं द्विधा ।
मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते ॥ केवृ१.४ ॥

षडध्यायनिबद्धस्य च्छन्दसो ऽस्य परिस्फुटम् ।
प्रमाणमपि विज्ञेयं षड्त्रिंशदधिकं शतम् ॥ केवृ१.५ ॥

म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः ।
समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥ केवृ१.६ ॥

सर्वगुर्मो मुखान्तर्लौ यरावन्तगलौ सतौ ।
ग्मध्याद्यौ ज्मौ त्रिलो नो ऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥ केवृ१.७ ॥

ज्ञेयाः सर्वान्तमध्यादिगुरवो ऽत्र चतुष्कलाः ।
गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥ केवृ१.८ ॥

सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः ।
वा पादान्ते त्वसौ ग्वक्रो ज्ञेयो ऽन्यो मात्रिको लृजुः ॥ केवृ१.९ ॥

पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः ।
पुरःस्थितेन तेन स्याल्लघुता ऽपि क्वचिद् गुरोः ॥ केवृ१.१० ॥

तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि ।
अल्पव्ययेन सुन्दरि (!) ग्राम्यजनो मिष्टमिश्नाति ॥ केवृ१.११ ॥

अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः ।
ज्ञेयः पादश्चतुर्थाशो यतिर्विच्छेदसंज्ञितः ॥ केवृ१.१२ ॥

युक्समं विषमं चालूक्स्थानं सद्भिर्निगद्यते ।
सममर्धसमं वृत्तं विषमं च तथापरम् ॥ केवृ१.१३ ॥

अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः ।
तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥ केवृ१.१४ ॥

प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् ।
द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते ॥ केवृ१.१५ ॥

यस्य पादचतुष्के ऽपि लक्ष्म भिन्नं परस्परम् ।
तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥ केवृ१.१६ ॥

आरभ्यैकाक्षारात्पादादेकैकक्षरवद्धितैः ।
पृथक्छन्दो भवेत्पादैर्यावत्षड्विंशतिं गतम् ॥ केवृ१.१७ ॥

तदूर्ध्वं चण्डवृष्ट्यादिदण्डकाः परिकीर्तिताः ।
शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥ केवृ१.१८ ॥

उक्ता ऽत्युक्ता तथा मध्या प्रतिष्ठा ऽन्या सुपूर्विका ।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ केवृ१.१९ ॥

त्रिष्टुप् च जगती चैव तथा ऽतिजगती मता ।
शक्वरी सा ऽतिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृते ॥ केवृ१.२० ॥

धृतिश्चा ऽतिधृतिश्चैव क्र्टिः प्रकृतिराकृतिः ।
विकृतिः सङ्कृतिश्चैव तथा ऽतिकृतिरुत्कृतिः ॥ केवृ१.२१ ॥

इत्युक्ताश्छन्दसां संज्ञाः क्रमतो वच्मि साम्प्रतम् ।
लक्षणं सर्ववृत्तानां मात्रावृत्ता ऽनुपूर्वकम् ॥ केवृ१.२२ ॥

इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ञाभिधानो नाम प्रथमो ऽध्यायः ।


द्वितीयोऽध्यायः[सम्पाद्यताम्]

[ आर्या-प्रकरणम् (१-७) ][सम्पाद्यताम्]

लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ।
षष्ठो ऽयं नलघू वा प्रथमे ऽर्धे नियतमार्यायाः ॥ केवृ२.१ ॥

षष्थे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः ।
चरमे ऽर्धे पञ्चके तस्मादिह भवति षष्ठो लः ॥ केवृ२.२ ॥

त्रिष्वङ्केषु पादो दलयोराद्येषु दृश्यते यस्याः ।
पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥ केवृ२.३ ॥

संलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः । === [सं(अनुनासिक)-लङ्घ्य] === यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥ केवृ२.४ ॥

उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ तस्याः ।
चपलेति नाम तस्या प्रकीर्तितं नागराजेन ॥ केवृ२.५ ॥

आद्यं दलं समस्तं भजेय लक्ष्म चपलागतं यस्याः ।
शेषे पूर्वजलक्ष्मा मुखचपलासोदिता मुनिना ॥ केवृ२.६ ॥

प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः ।
लक्ष्माश्रयते सोक्ता विशुद्धधीभिर्जघनचपला ॥ केवृ२.७ ॥

[ गीति-प्रकरणम् (८-११) ][सम्पाद्यताम्]

आर्याओरथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः क्र्टयतिशोभां तां गीतिं गीतवान्भुजङ्गेशः ॥ केवृ२.८ ॥

आर्याद्वितीयके ऽर्धे यद्गदितं लक्षणं तत्स्यात् ।
यद्युभयोरपि दलयोरुपगीतिं ता मुनिर्ब्रूते ॥ केवृ२.९ ॥

आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः ।
सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता ॥ केवृ२.१० ॥

आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् ।
इतरत्तद्वन्निखिलं भवति यदीयमर्द्धमुदितार्यागीतिः ॥ केवृ२.११ ॥

[ वैतालीय-प्रकरणम् (१२-२०) ][सम्पाद्यताम्]

षड्विषमे ऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ।
न समात्र पराश्रिता कला वैतालीये ऽन्ते रला गुरुः ॥ केवृ२.१२ ॥

पर्यन्ते र्यौ तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम् ॥ केवृ२.१३ ॥

आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥ केवृ२.१४ ॥

तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः ॥ केवृ२.१५ ॥

उदीच्यवृत्तिर्द्वितीयलः सक्तो ऽग्रेण भवेदयुग्मयोः ॥ केवृ२.१६ ॥

पूर्वेण युतो ऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥ केवृ२.१७ ॥

यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम् ॥ केवृ२.१८ ॥

अस्य युग्मरचिता ऽपरान्तिका ॥ केवृ२.१९ ॥

अयुग्भवा चारुहासिनी ॥ केवृ२.२० ॥

[ वक्त्र-प्रकरणम् (२१-३०) ][सम्पाद्यताम्]

वक्त्रं नाद्यान्नसौ स्यातामब्धेर्यो ऽनुष्टुभि ख्यातम् ॥ केवृ२.२१ ॥

युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम् ॥ केवृ२.२२ ॥

ओजयोर्जेन वारिधेस्तदेव विपरीतादि ॥ केवृ२.२३ ॥

चपलावक्त्रमयुजोर्नकारश्वेत्पयोराशेः ॥ केवृ२.२४ ॥

यस्या लः सप्तमो युग्मे सा युग्मविपुला मता ॥ केवृ२.२५ ॥

सौतवस्या ऽखिलेष्वपि ॥ केवृ२.२६ ॥

भेना ऽब्धितो भाद्विपुला ॥ केवृ२.२७ ॥

इत्थमन्या रश्चतुर्थात् ॥ केवृ२.२८ ॥

नो ऽम्बुधेश्चेन्नविपुला ॥ केवृ२.२९ ॥

तो ऽब्धेस्तत्पूर्वान्या भवेत् ॥ केवृ२.३० ॥

[ मात्रासमक-प्रकरणम् (३१-३८) ][सम्पाद्यताम्]

द्विगुणितवसुलधुरचलधृतिरिति ॥ केवृ२.३१ ॥

मात्रासमकं नवमो ल्गान्तम् ॥ केवृ२.३२ ॥

जो न्लावथाम्बुधेर्विश्लोकः ॥ केवृ२.३३ ॥

तद्युगलाद्वानवासिका स्यात् ॥ केवृ२.३४ ॥

बाणाष्टनवसु यदि लश्चिता ॥ केवृ२.३५ ॥

उपचित्रा नवमे परयुक्ते ॥ केवृ२.३६ ॥

यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् ।
अनियतवृत्तपरिमाणयुक्तं प्रथितं जगत्सु पादाकुलकम् ॥ केवृ२.३७ ॥

वृत्तस्य ला विना वर्णैर्गा वर्णा गुरुभिस्तथा ।
गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ केवृ२.३८ ॥

शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् ।
सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा ॥ केवृ२.३९ ॥

विनिमयविनिहितशकलयुगलकलितपदविततिविरचितगुणनिचया ।
श्रुतिसुखकृदियमपि जगति ञि जशिर उपगतवति सति भवति खजा ॥ केवृ२.४० ॥

अष्टावर्धे गा द्वयभ्यस्ता यस्याः सा ऽनङ्गक्रीडोक्ता ।
दलमपरमपि वसुगुणितसलिलनिधिलघु कविरचितं पदवितति भवति ॥ केवृ२.४१ ॥

त्रिगुणनवलघुरंवसितिगुरुरितिदलयुगकृततनुरतिरुचिरा ॥ केवृ२.४२ ॥

इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां मात्रावृत्ताधिकारो नाम द्वितीयो ऽध्यायः ॥


तृतीयोऽध्यायः[सम्पाद्यताम्]

गुः श्त्रीः ॥ केवृ३.१ ॥

गौ स्त्री ॥ केवृ३.२ ॥

मो नारी ॥ केवृ३.३ ॥

रो मृगी ॥ केवृ३.४ ॥

म्गौ चेत्कन्या ॥ केवृ३.५ ॥

भ्गौ गिति पङ्क्तिः ॥ केवृ३.६ ॥

त्यौ स्तस्तनुमध्या ॥ केवृ३.७ ॥

शशिवदना न्यौ ॥ केवृ३.८ ॥

विद्युल्लेखा मो मः ॥ केवृ३.९ ॥

त्सा चेद्वसुमती ॥ केवृ३.१० ॥

म्सौ गः स्यान्मदलेखाः ॥ केवृ३.११ ॥

भौ गिति चित्रपदा गः ॥ केवृ३.१२ ॥

मो मो गो गो विद्युन्माला ॥ केवृ३.१३ ॥

माणवकं भात्तलगा ॥ केवृ३.१४ ॥

म्नौ गौ हंसरुतमेतत् ॥ केवृ३.१५ ॥

र्जौ समानिका गलौ च ॥ केवृ३.१६ ॥

प्रमाणिका जरौ लगौ ॥ केवृ३.१७ ॥

वितानमाभ्यां यदन्यत् ॥ केवृ३.१८ ॥

राम्नसाविह हलमुखी ॥ केवृ३.१९ ॥

भुजगशिशुभृतां नौ मः ॥ केवृ३.२० ॥

म्सा ज्गौ शुद्धविराडिदं मतम् ॥ केवृ३.२१ ॥

म्नौ ज्गौ चेति पणवनामकम् ॥ केवृ३.२२ ॥

र्जौ रगौ मयूरसारिणी स्यात् ॥ केवृ३.२३ ॥

भ्मौ सगयुक्तौ रुक्मवतीयम् ॥ केवृ३.२४ ॥

मत्ता ज्ञेया मभसगयुक्ता ॥ केवृ३.२५ ॥

नरजगौर्भवेन्मनोरमा ॥ केवृ३.२६ ॥

त्जौ जो गुरुणेयमुपस्थिता ॥ केवृ३.२७ ॥

स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥ केवृ३.२८ ॥

उपेन्द्रवज्रा जतजास्ततो गौ ॥ केवृ३.२९ ॥

पादौ यदीयावुपजातयस्ताः ॥ केवृ३.३० ॥

स्मरन्ति जातिष्विदमेव नाम मे ॥ केवृ३.३१ ॥

नजजलगैर्गदिता सुमुखी ॥ केवृ३.३२ ॥

दोधकवृत्तमिदं भभभाद्गौ ॥ केवृ३.३३ ॥

शालिन्युक्ता म्तौ तगौ गो ऽब्धिलोकैः ॥ केवृ३.३४ ॥

वातोर्मीयं कथिता म्भौ तगौ गः ॥ केवृ३.३५ ॥

वाणरसैः स्याद्भतनगगैः श्रीः ॥ केवृ३.३६ ॥

म्भौ न्लौ गः स्याद् भ्रमरविलसितम् ॥ केवृ३.३७ ॥

रान्नराविह रथोद्धता लगौ ॥ केवृ३.३८ ॥

स्वागतेति रनभाद्गुरुयुग्मम् ॥ केवृ३.३९ ॥

ननरलगुरुरचिता वृन्ता ॥ केवृ३.४० ॥

ननरमगुरुभिश्च भद्रिका ॥ केवृ३.४१ ॥

श्येनिका रजौ रलौ गुरुर्पदा ॥ केवृ३.४२ ॥

मौक्तिकमाला यदि भतनाद्गौ ॥ केवृ३.४३ ॥

उपस्थितमिदं ज्सौ ताद्गकारौ ॥ केवृ३.४४ ॥

चन्द्रवर्त्म निगदन्ति रनभसैः ॥ केवृ३.४५ ॥

जतौ तु वंशस्थमुदीरितं जरौ ॥ केवृ३.४६ ॥

स्यादिन्द्रवंशा ततजै रसंयुतैः ॥ केवृ३.४७ ॥

इह तोटकमम्बुधिसैः प्रथितम् ॥ केवृ३.४८ ॥

द्रुतविलम्बितमाह नभौ भरौ ॥ केवृ३.४९ ॥

मिनुशरविरतिर्नौ म्यौ पुटो ऽयम् ॥ केवृ३.५० ॥

प्रमुदितवदना भवेन्नौ च रौ ॥ केवृ३.५१ ॥

नयसहितौ न्यौ कुसुमवचित्रा ॥ केवृ३.५२ ॥

रसैर्जसजसा जलोद्धतगतिः ॥ केवृ३.५३ ॥

चतुर्जगणं वद मौक्तिकदाम ॥ केवृ३.५४ ॥

भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः ॥ केवृ३.५५ ॥

रैश्चतुर्भिर्युता स्रग्विणी सम्मता ॥ केवृ३.५६ ॥

भुवि भवेन्नभजरैः प्रियंवदा ॥ केवृ३.५७ ॥

त्यौ त्यौ मणिमाला च्छिन्ना गुहवक्त्रैः ॥ केवृ३.५८ ॥

धीरैरभाणि ललिता तभौजरौ ॥ केवृ३.५९ ॥

प्रमिताक्षरा सजससैरुदिता ॥ केवृ३.६० ॥

ननभरसहिता महितोज्ज्वला ॥ केवृ३.६१ ॥

पञ्चाश्वैश्छिन्ना वैश्यदेवी ममौ यौ ॥ केवृ३.६२ ॥

अब्ध्यष्टाभिर्जलधरमाला म्भौ स्मौ ॥ केवृ३.६३ ॥

इह नवमालिका नजभयैः स्यात् ॥ केवृ३.६४ ॥

स्वरशरविरतिर्ननौ रौ प्रभा ॥ केवृ३.६५ ॥

भवति नजावथ मालती जरौ ॥ केवृ३.६६ ॥

जभौ जरौ वदति पञ्चामरम् ॥ केवृ३.६७ ॥

अभिनवतामरसं नजजाद्यः ॥ केवृ३.६८ ॥

तुरगरसयतिर्नौ ततौ गः क्षमा ॥ केवृ३.६९ ॥

म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीअम् ॥ केवृ३.७० ॥

चतुर्ग्रहैरतिरुचिरा जभस्जगाः ॥ केवृ३.७१ ॥

वेदै रन्ध्रैर्म्तौ यसगा मत्तमयूरम् ॥ केवृ३.७२ ॥

( उपस्थितमिदं ज्सौ त्सौ सगुरुकं चेत् ) ॥ केवृ३.७३ ॥

सजसा जगौ भवति मञ्जुभाषिणी ॥ केवृ३.७४ ॥

ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥ केवृ३.७५ ॥

म्तौ न्सौ गावक्षग्रहविरतिसम्बाधा ॥ केवृ३.७६ ॥

ननरसलघुगैः स्वरैरपराजिता ॥ केवृ३.७७ ॥

ननभनलघुगैः प्रहरणकलिता ॥ केवृ३.७८ ॥

उक्ता वसन्ततिलका तभजा जगौ गः ॥ केवृ३.७९ ॥

सिंहोन्नतेयमुदिता मुनिकाश्यपेन ॥ केवृ३.८० ॥

उद्धर्षिणीयमुदिता मुनिसैतवेन ॥ केवृ३.८१ ॥

इन्दुवदना भजसनैः सगुरुयुग्मैः ॥ केवृ३.८२ ॥

द्विःसप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत् ॥ केवृ३.८३ ॥

द्विहतहयलघुरथ गिति शशिकला ॥ केवृ३.८४ ॥

स्रगिति भवति रसनवकयतिरियम् ॥ केवृ३.८५ ॥

वसुहययतिरिह मणिगुणनिकरः ॥ केवृ३.८६ ॥

ननमयययुतेयं मालिनी भोगिलोकैः ॥ केवृ३.८७ ॥

भवति नजौ भजौ रसहितौ प्रभद्रकम् ॥ केवृ३.८८ ॥

सजना नयौ शरदशयतिरियमेला ॥ केवृ३.८९ ॥

म्रौ म्यौ यान्तौ भवेतां सप्ताष्टभिश्चन्द्रलेखा ॥ केवृ३.९० ॥

भ्रत्रिनगैः स्वरात्खमृषभगजविलसितम् ॥ केवृ३.९१ ॥

नजभजरैः सदा भवति वाणिनी गयुक्तैः ॥ केवृ३.९२ ॥

रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी ॥ केवृ३.९३ ॥

जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥ केवृ३.९४ ॥

दिङ्मुनि वंशपत्रपतितं भरनभनलगैः ॥ केवृ३.९५ ॥

रसयुगहयैर्न्सौ म्रौ स्लौ गौ यदा हरिणी तदा ॥ केवृ३.९६ ॥

मन्दाक्रान्ता जलधिषडगैर्म्भौनतौ ताद् गुरू चेत् ॥ केवृ३.९७ ॥

हयदशभिर्नजौ भजजला गुरु नर्कुटकम् ॥ केवृ३.९८ ॥

मुनिगुहकार्ंअवैः कृतयति वद कोकिलकम् ॥ केवृ३.९९ ॥

स्याद् भूतर्त्वश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ ॥ केवृ३.१०० ॥

सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥ केवृ३.१०१ ॥

ज्ञेया सप्ताश्वषड्भ्र्मरभनययुता भ्लो गः सुवदना ॥ केवृ३.१०२ ॥

त्री रजौ गलौ भवेदिहेदृशेन लक्षणेन वृत्तनाम ॥ केवृ३.१०३ ॥

म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ॥ केवृ३.१०४ ॥

भ्रौ नरना रनावथ गुरुर्दिगर्कविरमं हि भद्रकमिति ॥ केवृ३.१०५ ॥

यदिह नजौ भजौ भ्जभलगास्तदश्वललितं हरार्कयतिमम् ॥ केवृ३.१०६ ॥

मताक्रीडा मौ त्नौ नौ नल्गिति भवति वसुशरदशयतियुता ॥ केवृ३.१०७ ॥

भूतमुनिनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी ॥ केवृ३.१०८ ॥

क्रौञ्जपदा भमौ स्मौ ननना न्गाविषशरवसुमुनिविरतिरिह भवेत् ॥ केवृ३.१०९ ॥

वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजङ्गविजृम्भितम् ॥ केवृ३.११० ॥

मो नाः षट् सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम् ॥ केवृ३.१११ ॥

यदि ह नयुगलं ततः सप्तरेफा स्तदा चण्डवृष्टिप्रपातो भवेद्दण्डकः ॥ केवृ३.११२ ॥

प्रतिचरणविवृद्धरेफाः स्युर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ॥ केवृ३.११३ ॥

प्रचितकसमभिधो धीरधीभिः स्मृतोदण्डको नद्वयादुत्तरैः सप्तभिर्यैः ॥ केवृ३.११४ ॥


इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां समवृत्ताध्यायस्तृतीयः ॥


चतुर्थोऽध्यायः[सम्पाद्यताम्]

विषमे यदि सौ सलगा दले भौ युजि भाद् गुरुकावुपचित्रम् ॥ केवृ४.१ ॥ भत्रयमोजगतं गुरुणी चेद्युजि च नजौ ज्ययुता द्रुतमध्या ॥ केवृ४.२ ॥ सयुगात्सगुरू विषमे चेद्भाविह वेगवती युजि भाद्गौ ॥ केवृ४.३ ॥ ओजे तपरौ जरौ गुरुश्चेन्मसौ ज्गौग्भद्रविराङ् भवेदनोजे ॥ केवृ४.४ ॥ असमे सजो सगुरुयुक्तौ केतुमती समे भरनगाद्गः ॥ केवृ४.५ ॥ आख्यानकीं तौ जगुरू ग ओजे जतावनोजे जगुरू गुरुश्चेत् ॥ केवृ४.६ ॥ जतौ जगौ गो विषमे समे चेत्तौ ज्गौ ग एषा विपरीतपूर्वा ॥ केवृ४.७ ॥ सयुगात्सलघू विषमे गुरुर्युजि नभौ भरकौ हरिणप्लुता ॥ केवृ४.८ ॥ अयुजि ननरला गुरुः समेन्जमपरवक्त्रमिदं ततो जरौ ॥ केवृ४.९ ॥ अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा ॥ केवृ४.१० ॥

वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः ।
पुष्पताग्राभिधं केचिदौपच्छन्दसिकं तथा ॥ केवृ४.११ ॥

स्याअयुग्मके रजौ रयौ समे चेज्जरौ जरौ गुरुर्यवात्परा मतीयम् ॥ केवृ४.१२ ॥

इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायामर्धसमाध्यायश्चतुर्थः ॥


पञ्चमोऽध्यायः[सम्पाद्यताम्]

[पदचतुरूर्ध्व-प्रकरणम् (१-५)][सम्पाद्यताम्]

मुखवादो ऽष्टभिर्वर्णैः परे स्युर्मकरालयैः क्रमाद् वृद्धैः ॥ सततं यस्य विचित्रैः पादैः सम्पन्नसौन्दर्यं तदुदितममलमतिभिः पदचतुरूर्ध्वाभिधं वृत्तम् ॥ केवृ५.१ ॥

प्रथममुदितवृत्ते विरचितविषमचरणभाजि ॥ गुरुकयुगलनिधन इह सहित आङा लघुविरतपदविततियतिरिति भवति पीडः ॥ केवृ५.२ ॥

प्रथममितरचरणसमुत्थं श्रयति स यदि लक्ष्म ।
इतरदितरगतितमपि यदि च तुर्यं चरणयुगलकमिति कलिका सा ॥ केवृ५.३ ॥

द्विगुरुयुतसमलचरणान्ता मुखचरणगतमनुभवति च तृतीयः ।
अपरमिह लक्ष्म प्रकृतमखिलमपि यदिदमनुभवति लवली सा ॥ केवृ५.४ ॥

प्रथमधिवसति यदि तुर्यं, चरमचरणपदमवसितगुरुयुग्मम् ।
निखिलमपरमुपरिगतमिति ललितपदयुक्ता, तदिदममृतधारा ॥ केवृ५.५ ॥

[उद्गता-प्रकरणम् (६-८)][सम्पाद्यताम्]

सजादिमे सलघुकौ च नसजगुरुकैरथोद्गता ।
त्र्यङ्घ्रिगतभनजला गयुताः सजसा अगौ चरणमेकतः पठेत् ॥ केवृ५.६ ॥

चरणत्रयं व्रजति लक्ष्म यदि सकलमुद्गतागतम् ।
ना भगौ भवति सौरभकं चरणे यदीह भवतस्तृतीयके ॥ केवृ५.७ ॥

नयुगं सकारयुगलं च भवति चरणे तृतीयके ।
तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य खलु पूर्वतुल्यकम् ॥ केवृ५.८ ॥

[उपस्थितप्रचुपित-प्रकरणम् (९-११)][सम्पाद्यताम्]

म्सौ ज्भौ गौ प्रथमाङ्घ्रिरेकतः पृथगन्यत्त्रितयं सनजरगास्ततो ननौ सः ।
त्रिनपरिकलितजयौ प्रचुपितमिदमुदितमुपस्थितपूर्वम् ॥ केवृ५.९ ॥

नौ पादे ऽथ तृतीयके सनौ नसयुक्तौ प्रथमाङ्घ्रिकृतयतिस्तु वर्धमानम् ।
त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरिति गदितं लघु वृत्तम् ॥ केवृ५.१० ॥

प्रथमे च विरतिरार्षभं ब्रुवन्ति ॥ तच्छुद्धविराट् पुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥ केवृ५.११ ॥

विषमाक्षरपादं वा पादैरसमं दशध्र्मवत् ।
यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥ केवृ५.१२ ॥

इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां पञ्चमो ऽध्यायः ॥


षष्ठोऽध्यायः[सम्पाद्यताम्]

[प्रस्तारः][सम्पाद्यताम्]

प्रस्तारो नष्टमुद्दिष्टमेकद्वयादिलगक्रिया ।
सङ्ख्यानमध्वयोगश्च षडेते प्रत्ययाः स्मृताः ॥ केवृ६.१ ॥

पादे सर्वगुरावाद्याल्लघुं न्यस्य गुरोरधः ।
यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ केवृ६.२ ॥

ऊने दद्याद् गुरूनेव यावत्सर्वलघुर्भवेत् ।
प्रस्तारो ऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥ केवृ६.३ ॥

[नष्टम्][सम्पाद्यताम्]

नष्टस्य यो भवेदङ्कस्तस्यार्धे ऽर्धे समे च लः ॥ विषमे चैकमाधाय स्यादर्धे ऽर्धे गुरुभवेत् ॥ केवृ६.४ ॥

[उद्दिष्टम्][सम्पाद्यताम्]

उद्दिष्टं द्विगुणानाद्यादुपर्यङ्कान्समालिखेत् ।
लघुस्था ये च तत्राङ्कास्तैः सैकैर्मिश्रितैर्भवेत् ॥ केवृ६.५ ॥

[एकद्वयादिलगक्रिया][सम्पाद्यताम्]

वर्णान्वृत्तभवान्सैकानौत्तराधर्यतः स्थितान् ।
एकादिक्रमतश्चैतानुपर्युपरि निक्षिपेत् ॥ केवृ६.६ ॥

उपान्त्यतो निवर्तेत त्यजन्नेकैकमूर्ध्वतः ।
उपर्याद्याद् गुरोरेकमेकद्व्यादिलगक्रिया ॥ केवृ६.७ ॥

[सङ्ख्यानम्][सम्पाद्यताम्]

लगक्रियाङ्कसन्दोहे भवेत्सङ्ख्या विमिश्रिते ।
उद्दिष्टाङ्कसमाहारः सैका वा जनयेदिमाम् ॥ केवृ६.८ ॥

[अध्वयोगः][सम्पाद्यताम्]

सङ्ख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ॥ वृत्तस्याङ्गुलिका व्याप्तिरधः कुर्यात्तथाङ्गुलिम् ॥ केवृ६.९ ॥

वंशे ऽभूत्कश्यपस्य प्रकटगुणगणः शैवसिद्धान्तवेत्ता विप्रः पव्येकनामा विमलतरमतिर्वेदतत्त्वार्थबोधे ।
केदारस्तस्य सूनुः शिवचरणयुगाराधनैकाग्रचित्तश्छन्दस्तेनाभिरामं वृत्तरत्नाकराख्यम् ॥ केवृ६.१० ॥

इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां प्रस्ताराध्यायः षष्ठः समाप्तः ॥

सन्दर्भ[सम्पाद्यताम्]

श्रेणी:संस्कृत[सम्पाद्यताम्]

श्रेणी:छन्द[सम्पाद्यताम्]

"http://sa.wikibooks.org/w/index.php?title=वृत्तरत्नाकर&oldid=5124" इत्यस्माद् पुनः प्राप्तिः