संस्कृतभाषा/वाक्यानि
शिष्टाचारः [सम्पाद्यताम्]
| Sanskrit | Malayalam | English | Notes |
|---|---|---|---|
| नमस्ते | നമസ്തേ | Namaste | I bow to thee (lit.) |
| नमस्कारः | നമസ്കാരം | Namaskara | |
| हरिः ॐ ! | ഹരിഃ ഓം ! | Hari Om ! | like Hello! |
| स्वागतम् | സ്വാഗതം | Welcome | |
| सुप्रभातम् | സുപ്രഭാതം | Good morning | |
| कः विशेषः? | എന്തുണ്ട് വിശേഷം? | ||
| विशेषतः किमपि नास्ति। | വിശേഷിച്ചൊന്നുമില്ല. | ||
| सुखं अस्ति वा (किम्)? | സുഖമല്ലേ? | ||
| आम्, सुखं एव। | അതെ, സുഖം തന്നെ. | ||
| शुभरात्रिः | ശുഭരാത്രി | Good night | |
| धन्यवादः | നന്ദി | Thank you | |
| धन्योस्मि | നന്ദിയുണ്ട് | I am thankful | |
| कृपया | ദയവായി | Please | |
| क्षम्यताम् | ക്ഷമിച്ചാലും | Excuse me / Pardon me | |
| चिन्ता मास्तु | വിഷമിക്കണ്ട | Dont worry | |
| पुनः मिलामः / पुनर्मिलामः | വീണ്ടും കാണാം | Let us meet again | |
| अस्तु | All right / O.K. | ||
| आम् | Yes | ||
| श्रीमन् | Sir | ||
| मान्ये | Madam | ||
| साधु साधु | Fine | ||
| समीचीनम् | Fine | ||
| उत्तमम् / शोभनम् | Good | ||
| बहु उत्तमम् / अत्युत्तमम् | Very good! / Excellent |
मङ्गलवाचकानि / शुभाशयाः / शुभाशंसाः / Greetings [सम्पाद्यताम्]
| Sanskrit | Malayalam | English | Notes |
|---|---|---|---|
| नववर्षस्य शुभाशयाः | നവവത്സരശുഭാശംസകള് | New year good-wishes | |
| नववत्सराशंसाः | നവവത്സരാശംസകള് | New year wishes | |
| शुभं नववत्सरम् | ശുഭ നവവത്സരം | Happy new year | |
| नववर्षं नवचैतन्यं ददातु | നവവര്ഷം നവചൈതന്യം നല്കട്ടെ | Let the new year give a new energy | |
| नववर्षं नवचैतन्यं प्रददातु | നവവര്ഷം നവചൈതന്യം നല്കട്ടെ | Let the new year give a new energy | |
| भवतः वैवाहिकजीवनं शुभमयं भवतु | ഭവാന്റെ വൈവാഹിക ജീവിതം ശുഭമയം ആകട്ടെ | Wish you a happy married life | |
| अभिनन्दनम् | അഭിനന്ദനം | Congratulation | |
| चिरञ्जीवी भव। | ചിരഞ്ജീവിയായിരിക്കട്ടെ. | ||
| दीर्घसुमङ्गला भव। | ദീർഘസുമംഗലിയാകട്ടെ. | ||
| कार्यक्रमाः सम्यग् भवन्तु। | പരിപാടികൾ നന്നാവട്ടെ |
मिलनम् ( Meeting ) [सम्पाद्यताम्]
| संस्कृतम् | മലയാളം मलयाळम् |
English आङ्गलेयम् |
|---|---|---|
| भवतः नाम किम्? | നിങ്ങളുടെ പേരെന്താണ്?(ഏ.വ., ബഹുമാനദ്യോതകം,പുരുഷനോട്) | What is your name? (masc.) |
| भवत्याः नाम किम ? | നിങ്ങളുടെ പേരെന്താണ്?(ഏ.വ., ബഹുമാനദ്യോതകം,സ്ത്രീയോട്) | What is your name? (fem.) |
| तव नाम किम्? | നിന്റെ പേരെന്താണ്? | What is your name? |
| मम नाम शङ्करः/पार्वती | എന്റെ പേര് ശങ്കരൻ/പാർവതി എന്നാകുന്നു. | My name is Sankara/Parvati |
| एषः कः? | ഇവൻ ആരാണ്? | Who is this? (masc.) |
| सः कः? | അവൻ ആരാണ്? | Who is that? (masc.) |
| एषः मम मित्रं रमेशः | ഇവൻ എന്റെ സുഹൃത്ത് രമേശൻ (+ആണ്) | He (near)/This (masc.) is my friend Ramesa |
| सः मम मित्रं रमेशः | അവൻ എന്റെ സുഹൃത്ത് രമേശൻ (+ആണ്) | He (at a distance)/ That (masc.) is my friend Ramesa |
| एषा का? | ഇവൾ ആരാണ്? | Who is this? (fem.) |
| सा का? | അവൾ ആരാണ്? | Who is that? (fem.) |
| एषा मम सखी 'अनुराधा' | ഇവൾ എന്റെ കൂട്ടുകാരി അനുരാധ (+ആണ്) | She (near)/This (fem.) is my friend 'Anuradha' |
| सा मम सखी 'अनुराधा' | അവൾ എന്റെ കൂട്ടുകാരി അനുരാധ (+ആണ്) | She (at a distance)/That (fem.) is my friend 'Anuradha' |
एतेषां विषये श्रुतवान् = [[I have heard of them
एषा मम सखी {\rm `}\hrulefill{\rm '}| = [[This is my friend `\hrulefill' (fem.).
भवान् किं (उद्योगं) करोति ? = [[What do you do? (masc.)
भवती किं (उद्योगं) करोति? = [[What do you do? (fem.)
अहम् अध्यापकः अस्मि | = [[I am a teacher (masc.)
अहम् अध्यापिका अस्मि | = [[I am a teacher.(fem.)
अधिकारी = [[Officer;
उट्टङ्ककः = [[Typist
तंत्रज्ञः = [[Engineer;
प्राध्यापकः = [[Professor
लिपिकः = [[Clerk
न्यायवादी = [[lawyer
विक्रयिकः = [[Salesman;
उपन्यासकः = [[Lecturer
अहं यन्त्रागारे कार्यं करोमि | = [[I work in a factory.
कार्यालये = [[in an office;
महाविद्यालये = [[in a college
वित्तकोषे = [[in a bank;
चिकित्सालये = [[in a hospital
उच्चविद्यालये = [[in a high school;
यन्त्रागारे = [[in a factory
भवान्/भवती कस्यां कक्षायां पठति ? = [[Which class are you in?
अहं नवमकक्षायां पठामि | = [[I am in Std.IX.
भवतः ग्रामः ? = [[Where are you from?
मम ग्रामः {\rm `}\hrulefill{\rm '}| = [[I am from \hrulefill
कुशलं वा ? = [[How are you ?
कथमस्ति भवान् ? = [[How are you ?
गृहे सर्वे कुशलिनः वा ? = [[Are all well at home?
सर्वं कुशलम् | = [[All is well.
कः विशेषः ? ( का वार्ता ?) = [[What news?
भवता एव वक्तव्यम् | = [[You have to say.
कोऽपि विशेषः ? = [[Anything special?
भवान् (भवती) कुतः आगच्छति ? = [[Where are you coming from?
अहं शालातः, गृहतः, ...तः = [[I am coming from school/house/....
भवान्/भवती कुत्र गच्छति ? = Where are you going?
भवति वा इति पश्यामः | = Let us see if it can be done.
ज्ञातं वा ? = Understand ?
कथं आसीत् ? = How was it?
अङ्गीकृतं किल ? = Agreed?
कति अपेक्षितानि ? = How many do you want?
अद्य एव वा ? = Is it today?
इदानीं एव वा ? = Is it going to be now?
आगन्तव्यं भोः | = Please do come.
तदर्थं वा ? = Is it for that ?
तत् किमपि मास्तु | = Don't want that.
न दृश्यते ? = Can't you see?
समाप्तं वा ? = Is it over?
कस्मिन् समये ? = At what time?
तथापि = even then
आवश्यकं न आसीत् | = It was not necessary.
तिष्ठतु भोः | = Be here for some more time.
स्मरति किल ? = Remember, don't you?
तथा किमपि नास्ति | = No, it is not so.
कथं अस्ति भवान् ? = How are you?
न विस्मरतु | = Don't forget.
अन्यच्च = besides
तदनन्तरम् = then
तावदेव किल ? = Is it only so much?
महान् सन्तोषः | = Very happy about it.
तत् तथा न ? = Is it not so?
तस्य कः अर्थः ? = What does it mean?
आं भोः | = Yes, Dear, Sir.
एवमेव = just
अहं देवालयं/कार्यालयं/विपणिं गच्छामि = I am going to temple/office/market.
किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days.
भवन्तं कुत्रापि दृष्टवान् |= I remember to have seen you somewhere.
भवान् सम्भाषणशिविरं आगतवान् वा ? = Have you come to the conversation camp ?\footnote{Note:In the place of {\rm `}yushhmad.h shabdaH{\rm '}(tvam.h), here {\rm `}bhavat.h
shabdaH{\rm '}(bhavAn.h/bhavatI) is used for the convenience of Samskrita
conversation learning. (The verb used for {\rm `}bhavAn.h/bhavatI{\rm '}is III Person
Singular instead of II Person singular).}
तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?
तर्हि तत्रैव दृष्टवान् |= I must have seen you there in that case.
सरल वाक्यानि ( Simple sentenes ) [सम्पाद्यताम्]
तथैव अस्तु | = Let it be so/so be it. जानामि भोः | = I know it. आम्, तत् सत्यम् | = Yes,that is right. समीचीना सूचना | = A good suggestion indeed. किंचित् एव | = A little. किमर्थं तद् न भवति ? = Why can't that be done ? भवतु नाम | = Leave it at that. ओहो ! तथा वा ? = Oh! Is that so ? एवमपि अस्ति वा ? = Is it like this ? अथ किम् ? = Then ? नैव किल ! = No भवतु ! = Yes आगच्छन्तु | = Come in. उपविशन्तु | = Please sit down. सर्वथा मास्तु | = Definitely no. अस्तु वा ? = Can that be so ? किमर्थं भोः ? = Why ? प्राप्तं किल ? = You have got it, haven't you ?
सामान्य वाक्यानि ( Ordinary sentences) [सम्पाद्यताम्]
प्रयत्नं करोमि | = I will try.
न शक्यते भोः | = No, I can't.
तथा न वदतु | = Don't say that.
तत्र कोऽपि सन्देहः नास्ति | = There is no doubt about it.
तद् अहं न ज्ञातवान् | = I didn't know that.
कदा ददाति ? = When are you going to give me ?
अहं कथं वदामि {\rm `}कदा इति{\rm '} ? = How can I say when ?
तथा भवति वा ? = Can that be so ?
भवतः समयावकाशः अस्ति वा ? = Are you free ?
अद्य भवतः कार्यक्रमः कः ? = What are your programmes for today ?
अरे ! पादौ / हस्तौ किं अभवत् ? = Oh! What happened to your legs/arms?
बहुदिनेभ्यः ते परिचिताः | = I have known him for long ( shouldn't be'them' for 'him'? May be plural'te' is used for a VVIP))
तस्य कियद् धैर्यं/धार्ष्ट्यम् ? = How dare he is ?
भवान् न उक्तवान् एव | = You have not told me..
अहं किं करोमि ? = What can I do ?
अहं न जानामि | = I don't know.
यथा भवान् इच्छति तथा | = As you wish/say.
भवतु, चिन्तां न करोतु = Yes, don't bother.
तेन किमपि न सिध्यति | = There is no use/nothing hppenns on account of that.
सः सर्वथा अप्रयोजकः | = He is good for nothing.
पुनरपि एकवारं प्रयत्नं कुर्मः | = Let us try once more.
मौनमेव उचितम् | = Better be quiet.
तत्र अहं किमपि न वदामि | = I do not want to say anything in this regard/No comments, please/I must think before I say anything.
तर्हि समीचीनम् | = O.K. if that is so.
एवं चेत् कथम् ? = How to get on, if it is so ?
मां किञ्चित् स्मारयतु | = Please remind me.
तं अहं सम्यक् जानामि | = I know him well.
तदानीमेव उक्तवान् किल ? = Haven't I told you already ?
कदा उक्तवान् भोः ? = When did you say so ?
यत्किमपि भवतु | = Happen what may.
सः बहु समीचीनः = He is a good fellow.
सः बहु रूक्षः | = He is very rough.
तद्विषये चिन्ता मास्तु | = Don't worry about that.
तथैव इति न नियमः | = It is not like that.
कर्तुं शक्यं, किञ्चित् समयः अपेक्षते | = I/We can do it, but require time.
एतावत् अपि कृतवान् ! = At least he has done this much !
द्रष्टुं एव न शक्यते | = Can't see it.
तत्रैव कुत्रापि स्यात् | = It may be somewhere there.
यथार्थं वदामि | = I am telling the truth.
एवं भवितुं अर्हति | = This is O.K./all right.
कदाचित् एवमपि स्यात् | = It may be like this sometimes.
अहं तावदपि न जानामि वा ? = Don't I know that much ?
तत्र गत्वा किं करोति ? = What are you going to do there ?
पुनः आगच्छन्तु | = Come again.
मम किमपि क्लेशः नास्ति | = It is no trouble (to me).
एतद् कष्टं न | = This is not difficult.
भोः, आनीतवान् वा ? = Have you brought it ?
भवतः कृते कः उक्तवान् ? = Who told you this ?
किञ्चिदनन्तरं आगच्छेत् | = He/It may come sometime later.
प्रायः तथा न स्यात् | = By and large, it may not be so.
चिन्ता मास्तु, श्वः ददातु | = It is no bother, return it tomorrow. अहं पुनः सूचयामि | = I will let you know. अद्य आसीत् वा ? = Was it today ? अवश्यं आगच्छामि | = Certainly, I will come. नागराजः अस्ति वा ? = Is Nagaraj in ? किमर्थं तत् एवं अभवत् ? = Why did it happen so ? तत्र आसीत् वा ? = Was it there ? किमपि उक्तवान् वा ? = Did you say anything ? कुतः आनीतवान् ? = Where did you bring it from ? अन्यत् कार्यं किमपि नास्ति | = Don't have any other work. मम वचनं शृणोतु | = Please listen to me. एतत् सत्यं किल ? = It is true, isn't it ? तद् अहं अपि जानामि | = I know it myself. तावद् आवश्यकं न | = It is not needed so badly. भवतः का हानिः ? = What loss is it to you ? किमर्थं एतावान् विलम्बः ? = Why are you late ? यथेष्टं अस्ति | = Available in plenty. भवतः अभिप्रायः कः ? = What do you say about it ?/What is your opinion ? अस्य किं कारणम् ? = What is the reason for this ? स्वयमेव करोति वा ? = Do you do it yourself ? तत् न रोचते ? = I don't like it. उक्तं एव वदति सः | = He has been repeating the same thing. अन्यथा बहु कष्टम् | = It will be a big botheration if it is not so. किमर्थं पूर्वं न उक्तवान् ? = Why didn't you say it earlier ? स्पष्टं न जानामि | = Don't know exactly. निश्चयः नास्ति | = Not sure. कुत्र आसीत् भवान् ? = Where were you ? भीतिः मास्तु | = Don't get frightened. भयस्य कारणं नास्ति | = Not to fear. तदहं बहु इच्छामि = I like that very much. कियत् लज्जास्पदम् ? = What a shame ? सः मम दोषः न | = It is not my fault. मम तु आक्षेपः नास्ति | = I have no objection. सः शीघ्रकोपी | = He is short-tempered. तीव्रं मा परिगणयतु | = Don't take it seriously. आगतः एषः वराकः | = Here comes the miserable. युक्ते समये आगतवान् | = you have come at the right time. बहु जल्पति भोः | = He talks too much. एषा केवलं किंवदन्ती | = It is just gossip. किमपि न भवति | = Nothing happens. एवमेव आगतवान् | = Just came to call on you. विना कारणं किमर्थं गन्तव्यम् ? = Why go there unnecessarily ? भवतः वचनं सत्यम् | = You are right. मम वचनं कः शृणोति ? = Who listens to me ? तदा तद् न स्फुरितम् | = It did not flash me then. किमर्थं तावती चिन्ता ? = Why so much botheration ? भवतः किं कष्टं अस्ति ? = Tell me, what your trouble is ? न, एवं न भवितव्यं आसीत् | = No, it should not have happened. अन्यथा न चिन्तयतु | = Don't mistake / misunderstand.
मित्र मिलनम् ( Meeting the friends ) [सम्पाद्यताम्]
नमोनमः | = Good morning/afternoon/evening
किं भोः, दर्शनमेव नास्ति ! = Hello, didn't see you for long !
न, अत्रैव सञ्चरामि किल ! = No, I have been moving about right here !
किं भोः, वार्ता एव नास्ति ? = Hello, not to be seen for a long time !
किं भोः, एकं पत्रं अपि नास्ति ? = Hey, You haven't even written a letter !
वयं सर्वे विस्मृताः वा ? = You have forgotten us all, Haven't you ?
कथं विस्मरणं भवति भोः ? = How can I forget you ?
भवतः सङ्केतं एव न जानामि स्म| = I didn't know your address.
महाजनः संवृत्तः भवान् ! = you have become a big man !
भवान् एव वा ! दूरतः न ज्ञातम् | = Is it you ? I couldn't recognise you from a distance.
ह्यः भवन्तं स्मृतवान् | = I remembered you yesterday.
किं अत्र आगमनम् ? = What made you come here ?
अत्रैव किञ्चित् कार्यं अस्ति | = I have some work here.
त्वरितं कार्यं आसीत् | अतः आगतवान् | = I am here as I have some urgent work.
बहुकालतः प्रतीक्षां करोमि | = I have been waiting for you for a long time.
यानं न प्राप्तं, अत एव विलम्बः | = Could not get the bus,hence late.
आगच्छतु भोः, गृहं गच्छामः | = Come, let us go home.
इदानीं वा, समयः नास्ति भोः | = Now? No time, you know.
श्वः सायं मिलामः वा ? = Shall we meet tomorrow evening ?
अवश्यं तत्रैव आगच्छामि | = I'll come there without fail.
इदानीं कुत्र उद्योगः ? = Where do you work now ?
यन्त्राकारे उद्योगः | = I work in a factory.
ग्रामे अध्यापकः अस्मि | = I am a teacher in a village.
इदानीं कुत्र वासः ? = Where are you put up ?
एषः मम गृहसङ्केतः | = This is my address.
यानं आगतं, आगच्छामि | = Bus has come, bye, bye.
अस्तु, पुनः पश्यामः | = OK. Let us meet again.
पुनः अस्माकं मिलनं कदा ? = When shall we meet again ?
पुनः कदा मिलति भवान् ? = When are you going to meet me ? (again)
तद्दिने किमर्थं भवान् न आगतवान् ? = Why didn't you come that day ?
वयं आगतवन्तः एव | = We have already arrived.
भवतः समीपे संभाषणीयं अस्ति | = I have something to talk to you about.
भवान् अन्यथा गृहीतवान् | = You have mistaken me.
भवन्तं बहु प्रतीक्षितवान् | = I very much expected you.
बहुकालतः तस्य वार्ता एव नास्ति | = No news from him for days.
भवतः पत्रं इदानीं एव लब्धम् | = I have just received your letter.
किञ्चिद्दूरं अहमपि आगच्छामि | = I will walk with you for some distance.
मिलित्वा गच्छामः | = Let us go together.
तिष्ठतु भोः, अर्धार्धं काफी पिबामः | = Wait, let's have a by-two [cutting] coffee (It appears to mean sharing one cup of coffee between two persons)
अस्तु, पिबामः | = Fine, let us have it.
स्थातुं समयः नास्ति | = No time to stay.
गमनात् अनुक्षणमेव पत्रं लिखतु | = Write as soon as you reach there.
पुनः कदाचित् पश्यामि | = Meet you again.
यदा कदा वा भवतु, अहं सिद्धः | = I am ready any day.
तेषां कृते मम शुभाशयान् निवेदयतु | = Convey my good wishes to them/*him(Only if that person is a VIP).
किं भोः, एवं वदति ? = Hey, why do you say so ?
किञ्चित् कालं तिष्ठतु | = Please wait for some time.
भवान् एव परिशीलयतु | = Think about it, yourself.
अत्र पत्रालयः कुत्र अस्ति ? = Where is the post office, here ?
कियद्दूरे अस्ति ? = How far is it ?
वित्तकोषः कियद्दूरे अस्ति ? = How far is the bank ?
किमर्थं एवं त्वरा (संभ्रमः) ? = Why so much of confusion ?
इतोऽपि समयः अस्ति किल ? = There is still time, isn't it ?
सर्वस्य अपि मितिः भवेत् | = There should be some limit for everything.
कियद् इति दातुं शक्यम् ? = How much can I give him ?
कस्मिन् समये प्रतीक्षणीयम् ? = When shall I expect ?
गृहे उपविश्य किं करोति ? = What are you going to do by sitting at home ? भवतः परिचयः एव न लब्धः | = Could not recognize you. किं भोः, बहु कृशः जातः ? = Hey, You have become very weak. अवश्यं मम गृहम् आगन्तव्यम् | = Please do call on us. सः सर्वत्र दर्वीं चालयति | = He pokes his nose everywhere. यथा भवान् इच्छति | = I am game for whatever you say. परिहासाय उक्तवान् भोः | = I said it in fun, You know. एषः भवतः अपराधः न | = It is not your fault. नैव, चिन्ता नास्ति | = No, no trouble/botheration. वयं इदानीं अन्यद्गृहे स्मः | = We live in a different home now/Changed our residence. भवान् मम अपेक्षया ज्येष्ठः वा ? = Are you elder to me ? ओहो, मम अपेक्षया कनिष्ठः वा ? = Younger to me, is it ? भवान् विवाहितः वा ? = Are you married ? नैव, इदानीमपि एकाकी | = No, still a bachelor. भवतः पिता कुत्र कार्यं करोति ? = Where does your father work ? सः वर्षद्वयात् पूर्वमेव निवृत्तः | = He retired two years ago. सः वृद्धः इव भाति | = He looks aged. भवन्तः सर्वे सहैव वसन्ति वा ? = Do all of you live together ? नैव, सर्वे विभक्ताः = No, we live separately. भवतः वयः कियत् ? = How old are you ? भवन्तः कति सहोदराः ? = How many brothers are you ? वयं आहत्य अष्टजनाः | = We are eight. भवान् एव ज्येष्ठः वा ? = Are you the eldest ? मम एकः अग्रजः अस्ति | = I have an elder brother. सः इदानीमपि बालः | = He is still a boy. भवतः अनुजायाः कति वर्षाणि ? = How old is your younger sister ? भवान् मा ददातु, मा स्वीकरोतु | = Neither give, nor take anything. अन्यं कमपि न पृच्छतु | = Don't ask anyone except me. तर्हि सर्वं दायित्वं भवतः एव | = In that case the entire responsibility is yours. सर्वत्र अग्रे सरति | = He takes the initiative in everything. भवन्तं गृहे एव पश्यामि | = I will see you in your house. सः निष्ठावान् | = He is very orthodox. यावदहं प्रत्यागच्छामि, तावद् प्रतीक्षां करोतु | = Wait till I come. द्वयोः एकः आगच्छतु | = Either of the two come. तस्य कृते विषयः निवेदितः वा ? = Have you informed him about the news? तस्य कृते सः अत्यन्तं प्रीतिपात्रम् | = He is closely related to him. भवता एतद् न कर्तव्यम् | = You should not do this. यदि सः स्यात्\.\.\. | = Had he been here... अवश्यं आगन्तव्यं, न विस्मर्तव्यम् | = Don't forget, please do come. कियत् कालं तिष्ठति ? = How long will you be here? एषा वार्ता मम कर्णमपि आगता | = I have heard of this news. सः स्तोकात् मुक्तः | = He escaped narrowly. भवन्तं द्रष्टुं सः पुनः आगच्छति किल ? = He is going to come back to see you. Isn't he ? अहं किमर्थं असत्यं वदामि ? = Why should I tell a lie ? भवान् अपि एवं वदति वा ? = Of all the people are you going to say this ? भवान् एवं कर्तुं अर्हति वा ? = Can you do this ? भवान् गच्छतु, मम किञ्चित् कार्यं अस्ति | = You proceed, I have some work. वृथा भवान् चिन्तां करोति | = You just worry unnecessarily. दैवेच्छा तदा आसीत्, किं कुर्मः ? = It was God's will. What shall we do ? अहं अन्यद् उक्तवान्, भवान् अन्यद् गृहीतवान् | = I told you one thing. You understood it differently. एतावद् अनृतं वदति इति न ज्ञातवान् | = I never expected that he lies so much. प्रमादतः संवृत्तम्, न तु बुद्ध्या | = I did not do it purposely. It was just accidental. एषः एकः शनिः | = This fellow is a bugbear. भवदुक्तं सर्वमपि अङ्गीकर्तुं न शक्यम् | = I cannot agree with all you say. अहं गन्तुं न शक्नोमि | = I cannot go. विषयस्य वर्धनं मास्तु | = Don't escalate the matter. सर्वेऽपि पलायनशीलाः | = All these fellows take to their heels in the face of danger. असम्बद्धं मा प्रलपतु | = Don't talk foolishly. सर्वस्य अपि भवान् एव मूलम् | = You are the root cause of all these. सः सुलभेन तस्य जाले पतितवान् | = He fell into his trap easily. अस्माकं मिलनानन्तरं बहु कालः अतीतः | = It is a long time since we met. इदानीं आगन्तुं न शक्यते | = I cannot come now. भवान् अपि अङ्गीकरोति वा ? = Do you agree ? भवान् अपि विश्वासं कृतवान् ? = Did you believe that ? सः विश्वासयोग्यो वा ? = Is he trustworthy ? किञ्चित् साहाय्यं करोति वा ? = Would you mind helping me a bit ? समयः कथं अतिशीघ्रं अतीतः ! = How quickly the time passed ! युक्ते समये आगतवान् | = You have come at the right time. एक निमेषं विलम्बः चेत् अहं गच्छामि स्म | = I would have left if you were late by a minute. अहमपि भवता सह आगच्छामि वा ? = Shall I come with you ? किञ्चित् कालं द्विचक्रिकां ददाति वा ? = Would you mind, lending me your bicycle for a few minutes ? इदानीं मया अपि अन्यत्र गन्तव्यम् | = I have to go somewhere now. भवान् स्वकार्यं पश्यतु | = You mind your business. शीघ्रं प्रत्यागच्छामि | = I'll be back in a short while. आवश्यकं चेत् श्वः आनयामि | = If you want it, I shall bring it tomorow. {\rm `}मास्तु{\rm '} इत्युक्तेऽपि सः न शृणोति | = I said no,but he doesn't listen to me.
प्रयाणम् ( Journey) [सम्पाद्यताम्]
चीटिकां कुत्र क्रीणामि ? | = Where shall I buy a ticket ? शीघ्रं आगच्छतु, यानं गच्छति | = Come quickly, the bus is about to start. इदानीं एव एकं यानं गतम् | = A bus left just a few minutes ago. अहं भवतः पार्श्वे उपविशामि | = I'll sit beside you. किञ्चित् समञ्जनं कुर्मः | = Let us adjust a bit. महान् जनसम्मर्दः | = Terrible rush. परिवर्तं ददातु | = Give me the change. अग्रे गच्छतु | = Go forward. कदा वा निर्गच्छति ? | = What time does it start ? शीघ्रं अवतरतु | = Get off quickly. अग्रिमं निस्थानं अस्माकं वा ? | = Is the next station ours ? मल्लेश्वरयानस्य का संख्या ? | = Which bus (Route No.) goes to Malleswaram? किंसंख्याकं यानं जयनगरं गच्छति ? | = Which bus goes to Jayanagar ? फलकमपि नास्ति, किमपि नास्ति | = No signboard, nothing. अये, पादपथे आगच्छतु | = Hey, walk on the footpath. मल्लेश्वरं गन्तुं कः मार्गः ? | = Which is the way to Malleswaram ? बहुदूरे अस्ति वा ? | = Is it very far ? एषः सङ्केतः कुत्र इति जानाति वा ? | = Could you possibly tell me where this address/place is ? इतः केवलं दशनिमेषाणां गमनम् | = It is just ten minutes walk from here. यानं न लब्धम् | = Missed the bus. यानस्य निर्गमनाय इतोऽपि अर्धघण्टा अस्ति | = It is still half an hour before the bus starts. यानं दशवादने आगच्छति | = The bus arrives at 10 0'clock. पञ्चवादने एकं यानं अस्ति | = There is a bus at 5 0'clock. यानं तदानीं एव आगत्य स्थितम् | = Bus has already arrived at the platform. आरक्षणं नास्ति | = No reservation, please. एवमेव अग्रे गच्छन्तु | = Go just along this road. अत्रैव कुत्रचित् स्यात्, अन्वेषणं कुर्मः | = It will be somewhere here. Let us search for it. तत्रैव अस्ति | तत्रैव स्यात् | = It is there./It might be there. अहं न जानामि, अन्यं पृच्छतु | = I don't know, ask someone else, please. भवान् शीघ्रं न गच्छति चेत् यानं न मिलति | = If you do not walk faster, you will miss the bus. एषः मार्गः कुत्र गच्छति ? | = Where does this path lead to ? भवान् आरक्षणं कृतवान् वा ? | = Have you reserved your seat ? सर्वं स्वीकृतवान् किल ? | = You have taken everything, haven't you ? कृपया सर्वबन्धकं स्वीकरोतु | = Please take your hold-all. स्यूतम् = the bag. एतद् = this. चीटिकाम् = the ticket. यानस्यूतम् = the air bag. यानपेटिकाम् = the suitcase. वनितास्यूतम् |= the vanity bag. धनविषये जागरूको भवतु | = Be careful with your money. ततः आगन्तुं एतावान् विलम्बः वा ? | = Such a long time to come here from there ? एकं अपि यानं न आगतम् | = Not a single bus has come. षष्टिसंख्याकं यानं गतं वा ? | = Has Route 60 bus gone ? अहं इदानीं एव आगतवान् | = I have just arrived. कीदृशः मार्गः अयम् ! | = What a road !
प्रवासतः प्रतिनिवर्तनम् ( On Arrival) [सम्पाद्यताम्]
कदा आगतवान् ? = When did you come ? अद्य प्रातः आगतवान् वा ? = Did you come this morning ? कथं आसीत् प्रवासः ? = How was the journey ?(cf. my remarks on the `heading') प्रवासे व्यवस्था समीचीना आसीत् वा ? = How were all the arrangements during the tour? कति दिनानाम् ? = How many days ? एकाकी गतवान् वा ? = Did you go alone ? एकाकी किमर्थम् ? परिवारसमेतः गतवान् = | Why alone ? I went with my family. दिनत्रयं तत्र स्थितवान् | = I stayed there for three days. मार्गमध्ये अपघातः अभवत् | = There was an accident on the road. विशेषतया कोऽपि न व्रणितः ? = No one was seriously injured ? वस्तूनि तावन्ति एव वा ? = Only so much luggage ? बहुधा श्रान्तः अस्मि भोः | = Very tired, you know. त्रिचक्रिका किमर्थम् ? = Why rickshaw ? लोकयानेन गच्छामः | = Let's go by bus. लोकयानेन = By bus त्रिचक्रिकायाम् = In a rickshaw सुखयानेन = By luxury bus पादाभ्याम् = On foot सामिसुखयानेन = By semi-luxury bus संलपन्तः = talking कः प्रतीक्षते भोः ? = Who waits for ? त्रिचक्रिकायां एव गच्छामः | = Let's go by rickshaw only. किमर्थं वृथा व्ययः इति ? = Why waste money unnecessarily ? बहुकालतः प्रतीक्षां करोमि | = I have been waiting for long. कदा प्रस्थितः ? = When did you start ? काशीं रामेश्वरं सर्वं दृष्टवान् वा ? = Have you visited Kashi and Rameshvar ? कियत् सुन्दरं अस्तीति जानाति वा ? = Do you know how nice it is ? महद् अद्भुतम् | = Fantastic.
छात्राः ( Students) [सम्पाद्यताम्]
अत्रैव कलाशालायां पठामि | = Studying in a college here. सिद्धता कथम् अस्ति ? = How is your preparation ? पाठ्यभागः एव न समाप्तः | = Portions have not been completed. गणितश्रवणमात्रेण मम शिरोवेदना | = Mathematics is a head-ache to me. गाढं अभ्यासः वा ? = Studying very hard ? अद्य किमपि न पठितवान् एव | = Couldn't read much today. मम अक्षराणि न सुन्दराणि | = My handwriting is not good. एतां कादम्बरीं पठितवान् वा ? = Have you read this novel ? बहु सम्यक् अस्ति | = It is very interesting. बहु पूर्वमेव पठितवान् | = I read it long ago. शीघ्रं पठित्वा ददामि भोः | = I'll return it early after reading. अद्य उत्थाने विलम्बः सञ्जातः | = Got up a bit late today. अहं गृहे एव त्यक्त्वा आगतवान् | = I have left it at home. अद्य तु विरामः | = Today is a holiday, anyway. भवतः वर्गशिक्षकः कः ? = Who is your class teacher ? अद्य समवस्त्रेण गन्तव्यं वा ? = Do we have to go in our uniforms today ? यावत् शालां गतवान् तावत् घंठा ताडिता | = The bell went by the time I reached school. श्रीमन्, अन्तः आगच्छामि वा ? = May I come in, sir ? श्रीमन्, विशेषकक्ष्यां स्वीकरोति वा ? = Are you going to take a special class,sir ? लेखनीं एकवारं ददाति वा ? = May I borrow your pen ? टिप्पणीं किञ्चित् ददाति वा ? = Would you kindly lend me your notes ? ह्यः एव गिरीशः स्वीकृतवान् | = Girish borrowed it yesterday. अहं तद्दिने वर्गं न आगतवान् आसम् | = I did not attend the class that day. आगच्छतु भोः, क्रीडामः | = Come on, let's play. पठनीयं बहु अस्ति भोः | = I have a lot to read, you know. किं मम पठनीयं नास्ति वा ? = Do you think I don't have anything to read ? पदवी अशीतितमे वर्षे समापिता वा ? = Did you take your degree in the year 1980 ? सम्यक् न स्मरामि भोः | = I do not remember exactly. तिष्ठतु, अहं स्मरामि तत् | = Wait, I know it. श्वः आरभ्य सहाध्ययनं कुर्मः | = Let us do combined study from tomorrow.
परीक्षा ( Examination) [सम्पाद्यताम्]
परीक्षारम्भः कदा इति ज्ञातः वा ? = Do you know when is the examination going to begin ? प्रवेशपत्रं स्वीकृतं वा ? = Have you taken the admission ticket ? परीक्षा अग्रे गता | = The examination is postponed. वेलापत्रिका आगता वा ? = Has the examination time table come ? परीक्षा कथं आसीत् ? = How was the exam. ? प्रश्न पत्रिका किञ्चित् क्लिष्टा आसीत् = The question paper was a bit tough. अतीव सुलभा आसीत् | = It was very easy. अहं प्रथमश्रेण्यां उत्तीर्णः | = I have passed in I class. ह्यः फलितांशः प्रकटितः | = The result was announced yesterday. अङ्कद्वयेन प्रथमश्रेणी न लब्धा | = I missed I class by two marks. प्रश्नेषु विकल्पः एव नासीत् | = There was no choice at all. फलितांशः श्वः ज्ञातः भविष्यति | = The result will be announced tomorrow. रमेशः उत्तीर्णः वा ? = Has Ramesh passed ? एकं पत्रं अवशिष्टं इति उक्तवान् | = He has told me that he has to complete one paper yet. पठितं किमपि न स्मरामि भोः | = Don't remember what I have read, you know. दशवारं पठितवान्, तथापि न स्मरामि | = I read it ten times, even then I do not remember. प्रायशः द्वितीयश्रेणी लभ्येत | = Most probably, I will pass in II class. अस्माकं गणे सर्वेऽपि उत्तीर्णाः | = Everyone passed in our batch. प्रतिशतं कति अङ्काः प्राप्ताः ? = What is the percentage ?
चलनचित्रम् ( Film ) [सम्पाद्यताम्]
मासे कति चित्राणि पश्यति ? = How often do you go to films in a month ? द्विवारं त्रिवारं वा ? = Twice or three times ? चित्रमन्दीरं पूर्णम् आसीत् | = It was house-full. महान् सम्मर्दः आसीत् | = There was a lot of rush. चीटिका न लब्धा वा ? = couldn't you get a ticket ? चित्रं कथं आसीत् ? = How was the film ? करमुक्तं इति दृष्टवान् | = I just saw that it is tax-free. कः निर्देशकः ? = Who is the director ? तर्हि समीचीनं एव स्यात् | = In that case it should be good. संवादः समीचीनः/कथा समीचीना अस्ति | = The dialogue/story is good. एतद् द्वितीयवारं पश्यन् अस्मि | = I am seeing it for the second time. एकमपि चित्रं सम्यक् नास्ति | = Not a single film is good. परह्यः एव दृष्टवान् अहम् | = I saw it the day before yesterday. केवलं निस्सारं, जामिता भवति | = Just bogus, terribly boring. तर्हि किमर्थं द्रष्टव्यम् ? = Why should you see it then ? मयापि एकवारं द्रष्टव्यम् | = I must see it once myself. सर्वे मिलित्वा गतवन्तः वा ? = Did you all go together ? केवलं धनं व्यर्थम् | = Just waste of money.
शिक्षकः (Teacher) [सम्पाद्यताम्]
भवतः वेतनश्रेणी का ? = What is your scale of pay ? इदानीं सर्वत्र समाना किल ? = Now it is uniform everywhere, isn't it ? प्राचार्यस्य आदेशं दृष्टवान् वा ? = Have you seen the Principal's memo (orders) ? अहो! तत्तु सामान्यम् | = Oh!leave it. It is common. अधिवेतनं लब्धं वा ? = Got your increment ? लिपिकं दृष्टवान् वा? = Have you seen the clerk ? एवं चेत् कथं जीवामः ? = How to live in that case ? महान् कोलाहलः इति श्रुतवान् | = I heard, there was a lot of noise. पत्रिका पठिता वा ? वेतनं वर्धितम् | = Read the newspaper. A rise in pay is announced. कदा आरभ्य अन्वयः ? = When does it come into effect ? इदानीं कक्ष्या अस्ति वा ? = Do you have classes now ? अद्य कक्ष्यां न स्वीकरोमि, इति सूचयतु | = Tell them, I am not going to take classes today. प्राचार्यः आगतः वा ? = Has the Principal come ? अस्मिन् मासे कति विरामः ? = How many holidays (are there) this month ? परश्वः विरामः अस्ति वा ? = Is there a holiday, the day after ? प्रश्नपत्रिका सज्जीकृता वा? = Is the question paper ready ? अस्मिन् वर्षे फलितांशः कथम् ? = How is the result this year ? एतावन्तः अङ्काः कथं लब्धाः इति ? = How did he manage to get such high marks ? परीक्षकाणां औदार्यम् | = Examiners' large heartedness. परीक्षा अन्या, योग्यता अन्या ! = Examination is one thing, ability another. मौल्यमापनार्थं गच्छति वा ? = Are you going for valuation ? मौल्यमापनं कुत्र ? = Where is valuation going to be ? अस्वस्थः अपि आगतवान् | = I am here in spite of being ill. इदानींतन बालास्तु ! = The students of the present day ! अये अत्र आगच्छतु ! = Hey, come here. गणितस्य अध्यापकः अस्ति वा पश्यतु | = See, if the mathematics teacher is there. ते तु बालाः किल ! = After all they are students. किं भोः सम्यक् पठति किल ! = You are studying well, aren't you ? संशयः अस्ति चेत् पृच्छन्तु ! = Ask if you have any doubts ! ज्ञातं किल ! = Understand ! पुनः एकवारं वदतु | = Beg your pardon (This means please repeat). एकं अपि गणितं न कृतवान् वा ? = Haven't you worked out a single sum ? एवं चेत् परीक्षायां किं करोति ? = At this rate how are you going to face examination? सेवकं किञ्चित् आह्वयतु | = Please call the peon. घण्टा नादिता वा ? = Has the bell gone ? टिप्पणीं लिखन्तु | = Please take the notes. एकोऽपि न जानाति वा ? = Does not even one know the answer ? भवान् ज्ञातवान् वा ? वदतु किञ्चित् | = Have you understood? Come on. Repeat. अद्य एतावदेव पर्याप्तम् | = Enough for today. अस्य अनुच्छेदस्य अन्ते समापयामः | = Let us stop at the end of this paragraph. श्वः एतद् सम्यक् पठित्वा आगन्तव्यम् | = Read this well when you come tomorrow. गृहे किमपि पठन्ति वा ? = Do you read anything at home ? किं भोः कोलाहलः | = Whaat is the noise there about ? ह्यः कियत् पर्यन्तं पाठितवान् ? = Where did we stop yesterday ?
स्त्रियः ( Women) [सम्पाद्यताम्]
गृहकार्यं सर्वं समाप्तं वा ? = Finished your household work ? समाप्तप्रायम् | = Yes, finished for all practical purposes. किं द्वित्रीणि दिनानि न दृष्टा ! = Not seen for two or three days ? अहं मातृगृहं गतवती | = I had been to my mother's house. एषु दिनेषु विमला मिलितवती वा ? = Have you met Vimala recently ? कार्यालयतः तस्य आगमन समयः एषः | = It is time he comes from the office. ममापि बहु कार्यं अस्ति | = I have a lot of work to do myself. अतिथयः आगताः सन्ति | = Guests have come. किञ्चित् {\rm `}शर्करां{\rm '} ददाति वा ? = Would you kindly lend me some sugar ? शर्कराम् = sugar क्षीरम् = milk काफीचूर्णम् = coffee powder सुपिष्टम् = wheat flour पृथुकम् = beaten rice चालनीम् = sieve भवतः मातः किं करोति स्म ? = What was your mother doing ? अद्य प्रातः आरभ्य बहु कार्याणि = I've had a lot of work since morning. तेषां पुत्र्याः विवाहः निश्चितः इति श्रुतवान् = Their daughter's marriage is fixed, I think. वरः विदेशे अस्ति | = The bridegroom is in a foreign country. कन्यायाः कृते किं किं आभरणं दास्यन्ति ? = What jewellery are they going to give the bride ? मृत्तैलं लब्धं वा ? = Got kerosene ? मृत्तैलं विक्रीयते इति श्रुतवती | = I heard, they are selling kerosene.
पाकः ( cooking) [सम्पाद्यताम्]
पाकः समाप्तः वा ? = Finished cooking ? अद्य कः पाकः ? = What cooked today ? भोजनं अभवत् वा ? = Have you had lunch ? भवत्याः गृहं कश्चिद् आगत इव | = It seems someone has come to your house. अन्यत् किमपि नास्ति केवलं सारः | = Nothing ewxcept soup. अस्मत् गृहे एकैकस्य एकैका रुचिः | = In our house every one has his/her different tastes.
वेषभूषणानि ( Dress, jewellery) [सम्पाद्यताम्]
भवत्याः शाटिका नूतना वा ? = Is your saree new ? नैव, गतवर्षे एव क्रीतवती = No, it was brought last year. तथापि नूतनं इव प्रतिभाति = Still it appears to be new. एतादृशी शाटिका मम समीपे अपि अस्ति | = I have one saree like this. अहं नूतनशाटिकां क्रीतवती = I have bought a new saree. अञ्चलः बहु सम्यक् अस्ति | = The border is very beautiful. इमां कुत्र क्रीतवती ? = Where did you buy this ? अस्याः शाटिकायाः अनुरूपः चोलः न लब्धः | = I could not get a matching blouse for this saree. वलयस्य विन्यासः आकर्षकः अस्ति | = The style of the bangles is really attractive. शाटिकया सा प्रौढा इव दृश्यते | = This saree makes her look taller. परिणाहः बहु न्यूनः | = Width is less. अहं अपि एकां क्रेतुं इच्छामि | = I would like to buy one. बहु सुन्दरं अस्ति किल एतद् ? = It is very good, isn't it ? भ्वत्याः एतद् युज्यते | = This suits you well. कियद् दत्तवती | = How much did you pay ? मुम्बईतः मम अग्रजः आनीतवान् | = Brother brought it from Bombay.
कार्यालयः ( Office) [सम्पाद्यताम्]
भवान् कति दिनानि विरामं स्वीकरोति ? = How many days of leave are you taking ? एषु दिनेषु महान् कार्यभारः | = Of late the weight of work is unbearable. इमां सूचनाफलके स्थापयतु | = Put this up on the notice board. अत्र हस्तांकनं करोतु | = Sigh here, please. सः विरामं स्वीकृतवान् | = He is on leave. अस्मिन् विषये पुनः अपि चिन्तयामि | = I will think about this again. आगामि सप्ताहे मां पश्यतु | = See me next week. अस्मिन् विषये अनन्तरं वदामि | = I'll tell you about it later. एतत् अहं अवश्यं स्मरामि | = I'll certainly remember this. भवदुक्तं सर्वं ज्ञातवान् भोः | = I have understood what you said. अत्र तस्य एव सर्वाधिकारः | = He is all in all here. मम कृते काऽपि दूरवाणी आगता वा ? = Any phone calls for me ? भवतः कृते दूरवाणी आगता आसीत् | = There was a phone call for you. भवान् कस्मिन् स्थाने नियुक्तः अस्ति ? = Which post do you occupy in the office ? एषः सर्वदा आगत्य पीडयति | = He troubles me always. इदानीं समयः अतीतः | = It is getting late. कृपया श्वः आगच्छतु | = Come tomorrow,please. सः आगतवान् इति स्मरामि | = I remember, he came here. पञ्चवादनपर्यन्तं अत्रैव आसीत् | = He was here till 5.00. मां आहूतवान् वा ? = Did you call me? तद् व्यवस्थां अहं करोमि | = I will see to that arrangement. कार्यालयस्य समाप्तिः कदा ? = When does your office close ? एतद्विषये श्वः पुनरपि स्मारयतु | = Remind me about this tomorrow. तं अत्र आगन्तुं सूचयतु | = Ask him to come here. किमर्थं इदानीं अपि कार्यं न आरब्धम् ? = Why hasn't the work begun ? अन्येषां उपहासेनैव कालं यापयति | = He spends time criticizing othere. मया किं करणीयं, वदतु | = Tell me what I should do. अहं किं करोमि भोः ? = What shall I do ? अस्तु, परिशीलयामः | = Be it so, let us see. आगच्छतु, किञ्चित् काफीं पिबामः | = Come, let's have a cup of coffee. भवान् शीघ्रं प्रत्यागच्छति वा ? = Are you going to be back soon ? कृपया उपविशतु | = Please, sit down. पञ्चनिमेषेषु एतद् कृत्वा ददामि | = I'll get it done in five minutes. अद्य सः अत्र नास्ति किल | = As you know, he is not here today. सः एकसप्ताहाभ्यन्तरे आगच्छेत् | = He may be back in a week's time.
आरोग्यम् (Health) [सम्पाद्यताम्]
मम आरोग्यं समीचीनं नास्ति | = I am not well. महती पादवेदना | = Terrible leg pain. सामान्यतः शिरोवेदना तदा तदा आगच्छति | = Generally I get headache now and then. किञ्चित् ज्वरः इव | = Feel a little feverish... वैद्यं पश्यतु | = Consult a doctor. मम वमनशङ्का | = I feel like vomitting. वैद्यस्य निर्देशनं स्वीकरोतु | = Get a doctor's advice. किमर्थं कण्ठः अवरुद्धः ? = Why is there the blocking of the throat ? अहं अतीव श्रान्तः | = I am very tired. तस्य आरोग्यं कथं अस्ति ? = How is his health ? अद्य किञ्चित् उत्तमा (देहस्थितिः ) | = A bit better today. प्रातः आरभ्य लघु शिरोवेदना | = Slight head-ache since morning. आरोग्यं तावत् सम्यक् नास्ति | = Somehow, my health is not good. वैद्यं कदा दृष्टवान् ? = When did you see the doctor last ? उत्साहः एव नास्ति भोः | = Don't feel active, you know. ह्यः तु स्वस्थः आसीत् | = He was all right yesterday. किं अद्य अहं भोजनं करोमि वा ? = Shall I have my meals today ? अद्य ज्वरः कथं अस्ति ? = How is the fever today ? यथावत् | = As usual. तदा तदा उदरवेदना पीडयति किल ? = You get stomach-ache now and then, don't you ? ज्वरपीडितः वा? कदा आरभ्य ? = Fever ? Since when ? अय्यो! रक्तं स्रवति ! = Oh! Blood is coming out. अपघाते सः जीवितः इत्येव विशेषः | = It is a miracle, he survived the accident. सः चिकित्सालये प्रवेशितः | = He is admitted to the hospital. मम शिरः भ्रमति इव | = I feel giddy.
समयः (Time) [सम्पाद्यताम्]
कः समयः ? = What is the time?
सपादचतुर्वादनम् | = A quarter past four.
द्विवादने अवश्यं गन्तव्यं अस्ति | = I must leave at 2.
त्रिवादने एकं यानं अस्ति | = There is a bus at three. पादोन षड्वादने भवान् मिलति वा ? = Will you meet at a quarter to six ? सार्धपञ्चवादने अहं गृहे तिष्ठामि | = I will be at home at half past five. पञ्च ऊन दशवादने मम घटी स्थगिता | = My watch stoppped at 5 minutes to 10 o'clock. संस्कृतवार्ताप्रसारः सायं दशाधिक षड्वादने | = The Sanskrit news bulletin is at 6.10 p.m. सार्धं द्विघण्टात्मकः कार्यक्रमः | = It is a programme for two and a half hours. षड्वादनपर्यन्तं तत्र किं करोति ? = What are you going to do there till six o'clock ? शाला दशवादनतः किल ? = The school is from 10 o'clock, isn't it ? इतोऽपि यथेष्टं समयः अस्ति | = Still there is a lot of time. सः षड्वादनतः सप्तवादनपर्यन्तं योगासनं करोति | = He does Yogasana from 6 A.M. to 7 A.M. मम घटी निमेषद्वयं अग्रे सरति | = My watch goes two minutes fast every day. समये आगच्छतु | = Come in time. अरे! दशवादनम् ! = Oh! it is 10 o'clock. भवतः आकाशवाणी समयः वा? = Is yours the radio time ? इदानीं यथार्थः समयः कः ? = What is the exact time now ? किमर्थं एतावान् विलम्बः ? = Why (are you) so late ? इदानीं भवतः समयावकाशः अस्ति वा ? = Are you free now? (Can you spare a few minutes for me ?) रविवासरे कः दिनाङ्कः ? = What date is Sunday ? रविवासरे चतुर्विंशतितमदिनाङ्कः ? = Sunday is 24th ? पञ्चदशदिनाङ्के कः वासरः ? = Which/What day is 15th ? भवतः शाला कदा आरब्धा ? = When did your school begin ? जून प्रथम दिनाङ्के | = On 1st June. भवतः जन्मदिनाङ्कः कः ? = Which/What is your date of birth ? अष्टादश दश षडशीतिः | = 18-10-63 (Should be 18-10-86).
दूरवाणी (elephone) [सम्पाद्यताम्]
हरिः ओम् | = Hello प्रतिष्ठानस्य कार्यालयः वा ? = Is it the Pratishthana office ? राजुमहोदयस्य गृहं वा ? = Is it Mr. Raju's house ? एषा षट् शून्य शून्य शून्य चत्वारि वा ? = Is it 60004 ? कः तत्र ? (कः संभाषणं करोति ?) = Who is speaking, please ? अहं कृष्णः | = I am Krishna, speaking. कः अपेक्षितः ? = Whom do you want to speak to ? कृष्णः गृहे अस्ति वा ? = Is Mr. Krishna at home ? क्षम्यतां, सः गृहे नास्ति | = Sorry, he is not at home. कृपया एतत् कृष्णं सूचयतु | = Would you kindly pass this on to Mr. Krishna ? कृपया तं आह्वयति वा ? = Would you please call him ? अस्तु, एकक्षणं तिष्ठतु | = Yes, wait a minute, please. कः दूरवाणीं कृतवान् इति वदामि ? = Who shall I say phoned him up ? सः श्वः आगच्छेत् | = He may be back, tomorrow. अस्तु, श्वः पुनः दूरवाणीं करोमि | = O.K. I will ring him up again tomorrow. किं, इदानीमपि न आगतवान् वा ? = What ? Hasn't he come yet ? तस्य दूरवाणी संख्या का ? = What is his phone number ? गृहे मिलेत् वा ? = Will he be available at home ? मद्रासतः इदानीमपि न आगतवान् | = Not yet returned from Madras. अवश्यं सूचयामि | = Certainly I will inform him. स्थापयामि वा ? = Shall I put down the phone ? (Shall I hang up ?). किञ्चित् उच्चैः वदतु | = Speak louder, please.
वाणिज्यम् ( Commerce) [सम्पाद्यताम्]
रूप्यकस्य कति फलानि ? = How many a rupee ? एकैकस्य पञ्चविंशतिपैसाः | = 25 paise each, please. रूप्यकस्य पञ्च | = Five per rupee. शुद्धं नवनीतं ददातु | = Give me good butter, please. पुस्तकानि समाप्तानि | = The book is out of stock. एतद् पुस्तकं नास्ति वा ? = Don't you have this book ? तण्डुलः सम्यक् नास्ति | = The rice is not good. दशपैसाः न्यूनाः सन्ति | = The amount is short by 10 paise.
मम व्यवहारं समापयतु | = Please settle my account. भवतः परीवृत्तिः कथमस्ति ? = How is your business ? तत्र गमनं मास्तु भोः, सः बहुमूल्यं वदति| = He is very expensive, let us not go to him. कृपया देयकं / प्राप्तिपत्रं ददातु | = Please give me the bill/receipt. विंशतिरूप्यकाणि वा ? तर्हि मास्तु | = Is it Rs.20 ? Then I don't want it. आवश्यकं आसीत्, परन्तु भवान् मूल्यं अधिकं वदति | = I wanted it, but you quote a very high price. भवतः कृते इति न्यूनमूल्येन ददामि | = I am selling it at a lower price to you. पार्श्वापणे पृच्छतु | = Please enquire at the next shop. एतावत् न्यूनमूल्येन अन्यत्र कुत्रापि न मिलति | = You can't get it cheaper anywhere else. एकपञ्चाशत् रू/ स्वीकुर्वन्तु | = Please take Rs.51. नैव, तत्र विवादः एव नास्ति | = No, no haggling, please. एतद् वस्त्रं कुत्र क्रीतवन्तः ? = Where did you buy this cloth ? भवान् अधिकं (मूल्यं) दत्तवान् | = You paid more. {\rm `}किलो{\rm '} कृते कति ? = How much is this per kilo ? फेनकस्य मूल्यं कियत् ? = How much does this soap cost ? {\rm `}किलो{\rm '} दालस्य कृते कति रूप्यकाणि ? = How much is the pulse per kilo ? दन्तफेनः अस्ति वा ? = Have got toothpaste ? तिष्ठतु, ददामि | = Please wait, I'll give you. कति/कियत् ददामि ? = How much shall I give you ? इदानीं मास्तु, अनन्तरं आगच्छामि | = Not now, I will come later. एतद् समीचीनं अस्ति वा ? = Is it good ?
वातावरणम् ( Weather) [सम्पाद्यताम्]
वायुः एव नास्ति| = The wind is still. आरात्रि वृष्टिः आसीत् | = It rained for the whole night. घर्मो घर्मः | = Very hot indeed. किं भोः ! क्लिन्नः अस्ति ! = You have perspired all over. प्रातः आरभ्य एवमेव वृष्टिः | = It has been raining like this since morning. अद्य वृष्टिः भवति वा ? = Is it going to rain today ? किं एषा उष्णता भोः ! = What sultry weather, you know. शैत्यं अहो शैत्यं ! = It is very cold indeed. महती वृष्टिः | = Heavy rain. वृष्टितः एव भयम् | = I am frightened only of the rain. दिने दिने शीतं अधिकं भवति | = The cold is increasing day by day. यद्वा तद्वा वृष्टिः | = Too much rain/It is raining cats and dogs. वायुरहो वायुः | = Too much of wind/Too windy. अत्र वायुः सुष्ठु वाति | = Nice breeze here. बहु औष्ण्यं किल ? = It is very hot, isn't it ? अद्य किञ्चित् शैत्यं अधिकम् | = It is a bit colder today. भवतः प्रदेशे वृष्टिः कथम् ? = Have you had rains in your place ? कुत्रापि वृष्टिः नास्ति | = No sign of rain anywhere.
गृहसम्भाषणम् ( Domestic) [सम्पाद्यताम्]
अद्य प्रातराशः का ? = What have you cooked for breakfast ? अद्य पाको नाम पाकः (अद्यतन पाकः बहु सम्यक् अस्ति | = Today's cooking is really grand. किमर्थं अद्य रुचिरेव नास्ति | = Why dishes are not tasty today ? रुचिकरं नास्ति वा ? = Aren't they tasty, really ? लवणं एव नास्ति | = No salt at all. व्यञ्जने लवणं न्यूनम् | = This curry has no salt at all. अन्नं बहु उष्णम् | = The rice is very hot. तद् किञ्चित् परिवेषयतु | = Serve the other dish a bit more. जलं पूरयतु | = Get me some water, please. एकचषकं जलं आनयतु | = Get me a glass of water, please. किञ्चित् व्यञ्जनं परिवेषयतु | = Get me some dry curry. अन्नं = rice क्वथितम् = Sambar तक्रम् = buttermilk व्यञ्जनम् = dry curry सारः = soup उपदंशम् = pickle तैलम् = oil उपसेचनम् = Chutney लवणम् = salt घृतम् = ghee पर्पटम् = Pappadam किं, न रोचते वा ? = Aren't they tasty ? Don't you like them ? लवणं किञ्चित् अधिकम् = A bit too much of salt in it. किं अम्ब, प्रतिदिनं सारः एव ? = Dear, why, only soup/Rasam every day ? अद्य अपि सारः एव ? = Just soup today also ? किं अम्ब ! कियत् परिवेषितवती ? = Dear, you have served a bit too much. कियद् अस्ति तत् ? = Oh ! That is not much. अम्ब ! किञ्चित् उपदंशं परिवेषयतु | = Mummy, get me some pickles, please. अम्ब ! अद्य कदा वा भोजनम् ? = Mummy, What time are you going to serve lunch/dinner today ? सावधानं परिवेषयतु | = Serve slowly, please. अद्य भूरि भोजनम् | = Today we have a grand meal. अधिकं जलं मा पिबतु, शीतं भवति | = Don't drink too much water. You will catch a cold. अनेन व्यञ्जनं करणीयं आसीत् | = You should have cooked dry curry with this vegetable. तेमनं न परिवेषितवती एव | = You have not served 'curd sambar' at all. पुनः एकवारं पायसं परिवेषयतु | = May I have a second helping with 'payasam ' ? उत्तिष्ठतु, भोजनं कुर्मः | = Get ready, please, let us have meals. इदमिदानीं भोजनं समाप्तम् | = I have just had meals, thank you. अहं रोटिकां न खादामि | = I do not eat 'chapathis'. रोटिका अस्ति चेत् समीचीनं (अभविष्यत्) | = It would have been wonderful had there been 'chapatis'. किं भोः, भोजनमेव न करोति ? = Why dear, you do not eat anything ? अन्ने केवलं पाषाणाः | = A lot of stones in the rice. दध्यन्नं परिवेषयामि वा ? = Shall I serve curd-rice ? तक्रं न इच्छति वा ? = Don't you want buttermilk ? भोजनं सम्यक् करोति चेत् क्रीडनकं ददामि | = Eat well, please. I will give a doll. तेषां गृहे किं खादितवान् ? = What did you eat in their house ? शीघ्रं भोजनं करोतु, विलम्बः अभवत् | = It is getting late, eat quickly. इदानीं मास्तु, अनन्तरं ददामि | = Not now, I will give it to you later. किञ्चित् वा दध्यन्नस्य भोजनं करोतु | = Eat at least a little curd-rice. अद्य मधुरभक्ष्यं किम् ? = What sweets have you prepared today ? बहु मधुरम् | = It is too sweet. अम्ब, बुबुक्षा भवति | = Mummy, I am hungry. मम तु इदानीं अतीव बुबुक्षा | = I am very hungry. भोजनं सिद्धं वा ? शालायाः विलम्बः भवति | = Have you finished eating? It is getting late for school. भोजनं कृत्वा निद्रां करोतु | = Have a nap after meals. अस्तु, परिवेषणं करोमि | = Yes, I am going to serve in a minute. किञ्चित् स्वीकरोतु | = Take a little. मास्तु, अधिकं भवति | = No, thank you. It is too much for me. परिवेषणार्थं कियान् विलम्बः ? = Dear, how long do you take to serve ? यावद् रोचते तावदेव स्वीकरोतु | = Eat only what you can. सर्वे मिलित्वा भोजनं कुर्मः | = Let us eat together. अय्यो, घृतं एव न परिवेषितवती अहम्| = My goodness ! I haven't served ghee at all. भवता वक्तव्यं आसीत् किल ? = Shouldn't you have told me that ? कियान् विलम्बः भोः, शीघ्रं आगच्छतु | = How long do you take,come quickly. सः इदानीं अपि न आगतवान् वा ? = Hasn't he come yet ? स्थालिका स्थापिता वा ? = Have you laid the table ? (Have you set the plates for meals ?) स्थालिका एव न स्थापिता ! = You haven't laid the table yet ! लवणं किञ्चित् योजयतु, सम्यक् भवति | = Add some salt. It will be O.K. हस्तं प्रक्षाल्य उपविशतु | = Wash (the hand ) before you come for meals. मास्तु, यथेष्टं अभवत् | = No, thank you, I have had enough. सङ्कोचः मास्तु, आवश्यकं चेत् पृच्छतु | = Please feel at home. Ask for anything you want. न, मम सङ्कोचः एव नास्ति | = No, I do not have any reservations. किञ्चित् | = A little more. अम्ब, अत्र किञ्चित् परिवेषयतु | = Mummy, get me some more. कः लवणं आवश्यकं इति उक्तवान् ? = Who has asked for salt ? क्वथितापेक्षया सारः एव रुचिकरः | = The soup is tastier than the `sambar'. एकैकशः वदतु नाम | = Speak one at a time, please. विना शब्दं भोजनं कुर्वन्तु नाम | = Eat without making too much noise. प्रथमः कः ? सः वा भवान् वा ? = Who is first ? He or you ? पाकः शीतलं भवति | = Dishes are getting colder. पाकः तदानीं एव सिद्धः | = Lunch/Dinner is ready. व्याघरणं कृतं चेत् पाकः सिद्धः | = Everything is ready. I have to season the curry, that is all.(?) शाकः नास्ति, अहं किं करोमि ? = No vegetables, what can I do ? भवती पक्तुं एव न जानाति अम्ब ! = Mummy, you do not know how to cook. ह्यस्तनं व्यञ्जनं कियत् रुचिकरं आसीत् ! = How tasty was yesterday's dry curry ! कतिवारं उक्तवान् एतद् मह्यं न रोचते इति ? = How many times did I tell you that I don't like it. तथा चेत् श्वः भवान् एव पाकं करोतु | = In that case you cook the food yourself tomorrow. अस्य रुचिं पश्यतु | = Taste this, please. क्षीरं दूषितम् |= Milk has become sour. तूष्णीं भोजनं करोतु वा ? = Will you eat without comments ? पुनः पुनः चर्वणं कृत्वा खादतु | = Chew the food well before you swallow it. परिवेषणं कृतं, शीघ्रं आगच्छतु | = Food is already served. Come quickly. भवान् किमपि न खादितवान् ? = You haven't eaten anything. पुनः परिवेषयतु | = Serve again.
पितरः पुत्राः च ( Fathers/sons/mothers) [सम्पाद्यताम्]
एतावत्पर्यन्तं कुत्र गतवान् ? = Where had you been so long ? कुत्रापि न, अत्रैव आसम् | = I was just here. पठनं किमपि नास्ति वा ? = Nothing to read ? (Don't you have anything to read ?) वक्ता प्रष्टा कोऽपि नास्ति वा ? = Is there no one to keep you under check ? सहस्रवारं उक्तं, श्रुतवान् वा ? = I told you a thousand times. Did you listen to me ? मम गृहपाठः बहु अस्ति | = I have a lot of homework to do. अद्य एव शुल्कं दातव्यं अस्ति | = I have to pay the fees right today. अन्तिमदिनाङ्कः कदा ? = Which is the last date for payment of fees ? अद्य एव दातव्यं वा ? = Have to pay it right today ? किं, अद्य दातव्यं वा ? = What, do we have to pay it today ? अम्ब, एकं नवीनं युतकं आवश्यकम् | = Mummy, I would like to have a new shirt. गोविन्द, आपणं गत्वा आगच्छति वा ? = Govind, will you go to the shop to get something ? अम्ब, वेणीबन्धं करोतु, शालायाः विलम्बः भवति | = Mummy, twine my plait, it is getting late for school. कः समयः इति जानाति वा ? = Do you know what time it is now ? किमर्थं विलम्बः ? = Why are you late ? पितरं एकवारं आह्वयतु | = Please ask daddy to come here. भवतः कृते कथनापेक्षया स्वयं करणं वरम् | = Better do the work myself rather than asking you to do it. भवती अनन्तरं उपविशतु | = You sit down a little later. तस्य कृते चत्वारि दत्तवती, मम कृते तु त्रीणि एव ! = You gave him four, only three to me. सर्वं भवान् एव खादितवान् वा ? = Have you eaten everything yourself ? एकं कार्यं कतिवारं वक्तव्यम् ? = How often should I tell you about that ? कुत्रापि स्थापयति, अनन्तरं मां पृच्छति | = You misplace it somewhere and come and ask me. भोजनसमये आह्वयामि, इदानीं गच्छतु | = I will call you during meal time, off you go now. {\rm `}तेन सह न गच्छतु{\rm '} इति दशवारं उक्तवती | = I have asked you ten times not to go in his company. पार्श्वगृहं गत्वा पत्रिकां आनयतु | = Get me the newspaper from our neighbour. अहं सर्वं व्यवस्थितं स्थापयितुं, सः व्यस्तं कर्तुम् | = I keep things in order and he throws everything away. अम्ब, किञ्चित् सीवनं करोतु | = Mummy, stitch this up, please. कृपया एतद् बहिः क्षिपतु | = Please, throw this away. शाकं किञ्चित् कर्तयित्वा ददातु | = Cut the vegetables, please. एकवारं एव सर्वं वदतु भवती | = Tell me everything at one go. भवान् धीमान्/कुशलः बालः | = You are a good boy. अम्ब, अत्र किञ्चित् वेदना अस्ति | = Mummy, it pains me here. निद्रां करोतु,सम्यक् भविष्यति | = Sleep well, you will be all right. रात्रौ कषायं करोमि | = I'll make some concoction (medicine) at night. पीत्वा शयनं करोतु | = You may drink it and then sleep. इदानीं गत्वा किञ्चित् पठतु | = Go and read now. किं, इदानीम् एव निद्रा वा ? = What ! feeling sleepy so early ? {\rm `}गणिते दश अङ्काः एव{\rm '} इति स्मरति वा ? = Do you remember, you have secured only 10 marks in Mathematics ? अम्ब, तान् अन्यत्र पठितुं वदतु | = Mummy, ask them to read in separate rooms. एतावत् धनं न पर्याप्तम् | = This much money is not enough. शिरसि तैलसमुक्षणं करोतु | = Please apply oil to my head. निद्रया आन्दोलनं करोति, पश्यतु | = See, he is dozing. शिशुः रोदिति | = The child is crying. संमार्जनं कृतवती वा ? = Have you swept the floor ? इदानीं अपि रङ्गवल्लीं न लिखितवती वा? = Haven't you yet drawn designs in front of the house ? कतिवारं वक्तव्यम् ? = How often should I tell you ? कुत्र गतवान् ? गृहे नास्ति वा ? = Where has he gone ? Isn't he at home ? प्रत्युत्तरं न वदतु | = Don't answer back. उक्तं न श्रुतवान् वा ? = Haven't you listened to what I told you ? अद्यतन पत्रिकां ददातु | = Give me today's newspaper. सः आगतवान्, एषः प्रस्थितवान् | = He has arrived and this fellow has started/departed. कटं प्रसारयतु | = Spread the mat. रजकः वस्त्रं नीतवान् वा ? = Has the washerman taken the clothes? वस्त्राणि शुष्कयितुं प्रसारयतु | = Spread the clothes for drying. गत्वा शयनं करोतु | = Go to bed and sleep. एकं आसन्दं आनयतु | = Bring me a chair. इदानीम् अपि निद्रा न आगता वा ? = Haven't you slept yet ? पश्यतु, कः शब्दं करोति ? = see, who is making that noise ? किमिदं, सर्वत्र अवकरः ? = What is this ? It is dirty everywhere. द्वारं पिदधातु (द्वारपिधानं करोतु) | = Close the door, please. एतद् किञ्चित्कालं गृह्णातु | = Hold it for some time. मध्ये सम्भाषणं न करोतु | = Don't butt in when I speak. कोलाहलं मा करोतु | = Don't make noise, be quiet. दीपान् ज्वालयतु | = Put on the lights, please. दीपान् निर्वापयतु | = Put off the lights, please. व्यजनं चालयतु | = Put on the fan,please. बहिः अन्धकारः, करदीपं गृहीत्वा गच्छतु | = It is dark outside, take the torch with you. अवहितमनसा करणीयम् | = Do it with some interest, please. श्रद्धया करणीयम् | = Do it with your heart in it, please. तं यानं आरोप्य आगच्छतु | = Please see him on to the bus. पाणिपादं प्रक्षालयतु | = Have a wash,please (Wash your hands and feet). कुड्मान् योजयतु | = Button your shirt, please. आरोग्यं निर्लक्ष्य मा पठतु | = Don't read too much and spoil your health. इतः परं एवं न कर्तव्यम् | = Don't do this again. द्राविडप्राणायामेन न वदतु, साक्षात् वदतु | = Don't go on beating about the bush, speak plainly. सम्यक् दन्तधावनं करोतु | = Brush your teeth well. विना कारणं कुप्यति | = You get angry and shout unnecessarily. वृथा कालहरणं करोति | = You are wasting time. मां न कोपयतु | = Don't enrage me. हठं मा करोतु | = Don't be arrogant. किमर्थं भवान् क्षुभ्यति ? = Why are you shouting ? प्रथमं शिरोमार्जनं करोतु | = Dry your hair first. आर्द्रवस्त्रं न धारयतु | = Don't put on wet clothes. शीघ्रं स्नानं कृत्वा आगच्छतु | = Have your bath quickly. भाण्डे जलं अस्ति वा ? = Is there water in the barrel ? आकाशवाणीं चालयतु | = Put on the radio, please. विविधभारतीं योजयतु | = Switch on to Vividhabharathi, please. वार्ता समाप्ता वा ? = Is the news over ?
मातापितरः ( Parents) [सम्पाद्यताम्]
अद्य किञ्चित्पूर्वं आगच्छन्ति वा ? = Will you come back home a bit early today, dear ? किमर्थं ? कः विशेषः ? = Why? anything special ? सायं आगमनसमये शाकं आनयन्ति वा ? = Bring home some leafy vegetable, will you ? रविवासरे तान् आह्वयामः वा ? = Shall we invite them on Sunday ? बालिका किमपि आवश्यकं इति वदति स्म | = The girl was asking for something. अवश्यं स्मृत्वा आनयन्तु | = Please bring it without fail. किमर्थं प्रतिदिनं विलम्बेन आगच्छन्ति ? = Why do you come late everyday ? कस्मिन् समये आगच्छन्ति अद्य ? = What time will you be back today ? कुञ्चिकां पार्श्वगृहे दत्वा गच्छामि | = I will leave the key with our neighbours. किमिति पदे पदे आह्वयन्ति ? = Why are you calling me again and again ? सर्वं तत्रैव अस्ति, किञ्चित् पश्यन्तु | = Everything is there. Look for them a bit more carefully, please. भोजनार्थं कोऽपि विशेषः ? = Any special arrangement for meals ? अद्य अस्माकं कृते काफी अस्ति वा ? = Is there going to be some coffee for us ? इदानीम् अपि स्नानं न कृतम् ? = No bath yet ? भवन्तः किल मास्तु इति उक्तवन्तः | = It is you who said you did not want it. समये एकमपि/किमपि न मिलति | = You do not get anything when you need it badly. वेतनं लब्धं वा ? = Got your salary ? क्षीरार्थं अद्य एव दातव्यं अस्ति | = We have to pay the milk-man today. ते सर्वदा कलहं कुर्वन्ति | = They always quarrel. तथा किमर्थं वदति ? = Why do you say so ? तत्र अस्ति वा नास्ति वा इति प्रथमं एव द्रष्टव्यम् | = You have to see first if it is there or not. अहं कार्यालयं गच्छामि | = I am going to my office. अस्य जतुलेपं कारयन्तु | = Get this vessel gilted. मार्गे सौचिकं विचार्य गच्छन्तु | = Look up the tailor on your way.
सुताः (Children) [सम्पाद्यताम्]
मम लेखनीं स्वीकृतवान् वा ? = Have you taken my pen ? पिता अस्ति, तूष्णीं उपविशन्तु | = Daddy is in, be quiet. कृपया मनसि पठतु | = Read silently, please. भगिनि, मम कृते गणितं पाठयति वा ? = Sister dear, will you teach me mathematics ? मम शिक्षकः एवं एव पाठितवान् |= My teacher has taught one just this way. भवतः लेखनी कुत्र ? = Where is your pen ? मम छत्रं भवान् किमर्थं स्वीकृतवान् ? = Why did you take my umbrella ? तस्य कृते किमर्थं दत्तवान् ? = Why did you give it to him ? तत्कारणतः इदानीं अनुभवतु | = Now you suffer on account of that. न, अहं पितरं सूचयामि | = No, I am going to tell daddy. पठनं नास्ति, किमपि नास्ति, केवलं अटति | = Doesn't read at all, just roams about. भवतः सर्वं अहं जानामि | = I know all your secrets. भवती बहु पठति, जानामि | = You read a lot,I know. अद्य भवतः मित्रं मार्गे मिलितः | = I met your friend on the way. भवतः मित्रं अहं मिलितवान् = I met your friend. सः किमपि उक्तवान् वा ? = Did he say anything ? परीक्षा कदा इति स्मरति किल ? = You remember when your examination commences, don't you ? रमेशः भवन्तं आह्वयति | = Ramesh is calling ypou. पश्यतु, नासिका स्रवति | = Look, you have a running nose. नासिकां स्वच्छं कृत्वा आगच्छतु | = Clean your nose, will you ? वक्तव्यं आसीत्, करोमि स्म | = You should have told me, I would have done it. अङ्कन्या मास्तु, लेखन्या लिखतु | = Write with your pen, not with a pencil. तिष्ठतु, युतकं परिवर्त्य आगच्छामि | = Wait, I will just change the shirt. एतद् युतकं बहु सम्पृक्तम् | = This shirt is a bit too small. अपरं युतकं एवं नास्ति | = The other shirt is not so.
सङ्कीर्ण वाक्यानि (Miscellaneous sentences) [सम्पाद्यताम्]
उच्चत्या उभावपि समानौ।
Both are of the same height.
अस्माकं गृहे सर्वे अस्वस्थाः।
Everyone is ill in my house.
मशको मशकः !
Too many mosquitoes.
मत्कुणो मत्कुणः !
Too many bugs.
मशकजालः कुत्र ?
Where is the mosquito net ?
अन्तः कोऽपि नास्ति वा ?
Isn't there any one at home ?
दूषितः कालः।
Times have changed for the worse.
कर्मकराः एव दुर्लभाः।
You don't get labourers at all.
महती घोरिका भोः महारावस्य।
This big fellow snores loudly.
अतिथिः (Guests) [सम्पाद्यताम्]
पानीयं किं ददामि ? - What would you like to have for a drink ?
तर्हि पानकं आनयामि। - O.K. I will bring juice.
भवान् काफीं पिबति उत चायम् ? - Do you prefer coffee or tea ?
किञ्चित् विश्रान्तिं अनुभवतु। - Have some rest, please.
अद्यैव गन्तव्यं वा ? - Do you have to leave right now ?
भोजनान्तरं गच्छतु। - Go after lunch.
दिनद्वयं तिष्ठतु भोः। - Stay for two days.
रात्रौ निद्रा सम्यक् आसीत्। - I had sound sleep last night.
रात्रौ निद्रा एव नास्ति भोः। - I did not have even a wink of sleep last night.
बहिः गतवान्, इदानीं आगच्छति। - He has gone out, will be back in a few minutes.
आधाराः [सम्पाद्यताम्]
- संस्कृत व्यवहार साहस्री - (One Thousand Sentences for Conversation in Sanskrit), Published and copyrighted by Pallava Prakashan, Bangalore, India. For more details contact `Aksharam', 8th Cross, Girinagar, Bangalore 560 085 INDIA Ph: 080-6613052, 080-6617276.