स्फोटनिरुक्तिः।

विकिपुस्तकानि तः

स्फोटनिरुक्तिः।टिप्पनीं लिखत
स्फोटस्य निरुक्तिः वैयाकरणैः द्विधा उक्ता।स्फुटति-धातुः (भ्वादिः, तुदादिः) विकसने वर्तते। तस्माद् इमे निरुक्ती -
स्फुट्यते विकस्यते व्यज्यते वर्णैः इति स्फोटः। घटः इति पदे विद्यामानाः वर्णाः घकार-अकार-टकार-अकाराः।एतैः क्षणिकैः वर्णैः स्फुट्यते व्यज्यते अतः स्फोटः।वर्णाभिव्यङ्ग्यः इत्यर्थः।

स्फुटति विकसति व्यक्तः भवति अर्थः अस्माद् इति स्फोटः।घटपदे विद्यमानेभ्यः वर्णेभ्यः यः स्फोटः विकसति, तस्मात् घटपदार्थः स्फुटति, व्यक्तीभवति।अतः अपि तस्य स्फोटसंज्ञा।
घटपदस्थाः वर्णाः ..........घटपदस्फोटः ..........घटपदार्थः


सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाणिनिदर्शनम्
"https://sa.wikibooks.org/w/index.php?title=स्फोटनिरुक्तिः।&oldid=6327" इत्यस्माद् प्रतिप्राप्तम्