१० अपि प्रसन्नेन...

विकिपुस्तकानि तः

मूलम् -
अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते।।५.१०।।

पदच्छेदः
अपि प्रसन्नेन महिर्षिणा त्वं सम्यग् विनीय अनुमतः गृहाय।कालः हि अयं सङ्कमितुं द्वितीयं सर्वोपकार–क्षमम् आश्रमं ते॥१०॥

अन्वयः
अपि त्वं प्रसन्नेन महर्षिणा सम्यग् विनीय गृहाय अनुमतः?हि ते सर्वोपकार–क्षमं द्वितीयम् आश्रमं सङ्कमितुम् अयं कालः।

सरलार्थः
वरतन्तुमुनेः आश्रमे तव शिक्षा यथायोग्यं सप्पन्ना वा? शिक्षासमापनानन्तरं गुरुः गृहस्थाश्रमं स्वीकर्तुम् अनुमतिं दत्तवान् वा? सर्वेषाम् आश्रमाणाम् उपकारकः गृहस्थाश्रमः। तस्य स्वीकारे एषः योग्यः कालः।

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=१०_अपि_प्रसन्नेन...&oldid=6034" इत्यस्माद् प्रतिप्राप्तम्