५४ स चानुनीतः …

विकिपुस्तकानि तः

मूलम्-
स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत्। उष्णत्वमग्न्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य।। ५.५४ । ।
पदच्छेदः
स च अनुनीतः प्रणतेन पश्चात् मया महर्षिः मृदुताम् अगच्छत्। उष्णत्वम् अग्न्यातपसंप्रयोगात् शैत्यं हि यत् सा प्रकृतिः जलस्य।।५.५४।।
अन्वयः
स महर्षिः च प्रणतेन मया अनुनीतः पश्चात् मृदुताम् अगच्छत्। हि जलस्य उष्णत्वम् अग्न्यातपसंप्रयोगात् , यत् शैत्यं सा प्रकृतिः ।।५.५४।।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=५४_स_चानुनीतः_…&oldid=6092" इत्यस्माद् प्रतिप्राप्तम्