विश्वः।- टिप्पनीं लिखत

विकिपुस्तकानि तः

सन्दर्भः
गौडपादकारिकायाः प्रथमे पद्ये आत्मनः त्रैविध्यम् उपक्रान्तम्।तत्र अन्यतमः विश्वः।

विवरणम्
जागरितस्थानः आत्मा विश्वः इति संज्ञया उच्यते।वैश्वानरः इत्यपि अस्य एव नाम। विश्वेषां नराणाम् अनेकधा नयनात् वैश्वानरः।अथवा विश्वः च अयं नरः च विश्वानरः।विश्वानरः एव वैश्वानरः।
अयं विश्वः बहिष्प्रज्ञः अस्ति।बाह्यविषया एव प्रज्ञा यस्य , सः बहिष्प्रज्ञः।सः प्राधान्येन दक्षिणे नेत्रे तिष्ठति।सः स्थूलान् एव भोगान् भुङ्क्ते।स्थूलाः पदार्थाः तं तर्पयन्ति।
ओङ्कारस्य प्रथमा मात्रा अकारः।एषः अकारः तस्य अभिधानं भवति।यथा वैश्वानरेण सर्वं जगत् व्याप्तं, तथा अकारेण सर्वा वाग् व्याप्ता।एवम् व्याप्तिः इति उभयोः अकार-वैश्वानरयोः साम्यम्।
आत्मनः चत्वारः पादाः मताः।तेषु आदिमः पादः वैश्वानरः।वर्णगणनायाम् आदिमः वर्णः अकारः।एवम् आदिमत्त्वम् इत्यपि अकार-वैश्वानरयोः साम्यम्।
एते साम्ये अधिकृत्य अकारवैश्वानरयोः एकत्वम् उच्यते।यः साधकः एतत् साम्यम् अवगच्छति, सः सर्वान् कामान् लभते।सः साधकः प्रथमः (अग्रेसरः)च भवति।

गौडपादकारिका-प्रश्नोत्तरसङ्ग्रहः   गौडपादकारिका-लघूत्तरप्रश्नाः   गौडपादकारिका-दीर्घोत्तरप्रश्नाः
"https://sa.wikibooks.org/w/index.php?title=विश्वः।-_टिप्पनीं_लिखत&oldid=6304" इत्यस्माद् प्रतिप्राप्तम्