प्राज्ञः।- टिप्पनीं लिखत

विकिपुस्तकानि तः

गौडपादकारिकायाः प्रथमे पद्ये आत्मनः त्रैविध्यम् उपक्रान्तम्।तत्र अन्यतमः प्राज्ञः।

विवरणम्
निद्रावस्थायां व्यवस्थितः आत्मा प्राज्ञः इति उच्यते।अत्र आत्मा न कञ्चन बाह्यविषयं कामयते, न कमपि स्वप्नं पश्यति।अत्र आत्मा प्रज्ञानघनः विद्यते।यथा दिवा दृश्यमानः सकलः प्रपञ्चः नैशे अन्धकारे एकीभूतः इव भवति, तथा जाग्रत्स्वप्नावस्थयोः सकलः प्रपञ्चः अस्यां दशायाम् एकीभूतः एव भवति।जाग्रद्दशायां विद्यमानानि मनःस्पन्दनानि तथा स्वप्नदशायां विद्यमानानि मनःस्पन्दनानि अत्र घनीभवन्ति अतः एषः प्रज्ञानघनः उच्यते।

एषः आनन्दमयः इत्युक्ते आनन्दप्रायः अस्ति, न तु आनन्दः एव।

यथा लोके आयसरहितः जनः आनन्दभुक् इति उच्यते तथा अयमपि आयासरहितः अतः आनन्दभुक्।

प्रज्ञप्तिमात्रम् अस्य एव असाधारणधर्मः।अतः एषः प्राज्ञः।


गौडपादकारिका-प्रश्नोत्तरसङ्ग्रहः     गौडपादकारिका-लघूत्तरप्रश्नाः     गौडपादकारिका-दीर्घोत्तरप्रश्नाः