रामानुजमते पञ्च उपासनाः।– टिप्पनीं लिखत।

विकिपुस्तकानि तः

रामानुजमते पञ्च उपासनाः।– टिप्पनीं लिखत।

रामानुजमते ईश्वरस्य उपासना अपि पञचविधा भवति-
अभिगमनम्, उपादानम्, इज्या, स्वाध्यायः, योगः च।
अभिगमनं नाम देवतास्थानस्य संमार्जनम् उपलेपनं च।
उपादानं नाम पूजासामग्रीसम्पादनम्।
इज्या नाम साक्षात् देवपूजा।
स्वाध्यायः नाम अर्थस्मरणपूर्वकं स्तोत्रपाठः, मन्त्रजपः, नामसङ्कीर्तनं , शास्त्राभ्यासः च।
योगः नाम देवतानुसन्धानम्।
एवमुपासनं तथा ज्ञानम् इति समुच्चयेन मोक्षः भवति।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे रामानुजमतम्