तत्तु समन्वयात् इति सूत्रस्य विवरणं रामानुजमतेन कुरुत।

विकिपुस्तकानि तः

तत्तु समन्वयात् इति सूत्रस्य विवरणं रामानुजमतेन कुरुत।

ब्रह्मसूत्रस्य प्रथमाध्याये, प्रथमपादे चतुर्थं सूत्रम् – ‘तत्तु समन्वयात्’ इति।
तत् तु समन्वयात् इति त्रीणि पदानि सूत्रे सन्ति।तत् इति ब्रह्मणः शास्त्रयोनित्वम्।एतत् शास्त्रयोनित्वं पूर्वतनसूत्रे उक्तम्।तस्य एव परामर्शः अस्मिन् सूत्रे तदिति सर्वनाम्ना क्रियते।
तु इति आशङ्काव्यावृत्यर्थः निपातः।तत् शास्त्रयोनित्वं ब्रह्मणः सम्भवति एव, नात्र शङ्का कार्या इति अर्थः।

अत्र विचार्यमाणा आशङ्का एतादृशी।ब्रह्म सिद्धं वस्तु।शास्त्रं तु साध्यवस्तु प्रति प्रवृत्तिम् उपदिशति।यथा यजेत पशुकामः इत्यत्र पशवः साध्याः ।तदर्थं साधनं ब्रूते श्रुतिः।
‘आम्नायस्य क्रियार्थत्वात् आनर्थक्यम् अतदर्थानाम्’ इति मीमांसानयः।ब्रह्म क्रियया साधनीयं नास्ति ।यत्र प्रवृत्तिनिवृत्तिरूपा क्रिया न सम्भवति, तत्र निष्प्रयोजनत्वात् श्रुतिः न प्रवर्तते।अतः सिद्धं ब्रह्म श्रुतेः विषयः न भवति इति आशङ्का।
तत्र रामानुजस्य उत्तरम् एवं यत्
प्रवृत्तिनिवृत्तिपरत्वाभावे अपि सप्रयोजनत्वं सम्भवति।यथा पुत्रः ते जातः इति वचने न कापि प्रवृत्तिः उपदिष्टा न वा निवृत्तिः।तथापि हर्षजनकत्वम् इति प्रयोजनम् अस्मिन् वचने स्पष्टमेव।
एवमेव प्रवृत्तिनिवृत्तिरहितस्य अपि ब्रह्मणः ज्ञानं सप्रयोजनम्।
अतः ब्रह्मणः शास्त्रयोनित्वं समन्वयात् सम्भवति एव इति सूत्रार्थः।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे रामानुजमतम्