टिप्पनीं लिखत – रामानुजमते निर्गुणं ब्रह्म।
टिप्पनीं लिखत – रामानुजमते निर्गुणं ब्रह्म।
रामानुजमते निर्गुणं ब्रह्म नैव सम्भवति।ब्रह्म सगुणम् एव अस्ति।निर्विशेषब्रह्मणः ज्ञानार्थं किमपि प्रमाणं नास्ति।यतो हि सर्वाणि प्रमाणानि सविशेषं पदार्थम् एव गमयन्ति, न निर्विशेषम्।
अत्र नैयायिकानाम् आक्षेपः भवति।नैयायिकाः निर्विकल्पं ज्ञानम् अङ्गीकुर्वन्ति।घटं दृष्ट्वा प्रथमक्षणे ‘इदं किञ्चित्’ इति ज्ञानं भवति।एतद् निर्विकल्पं ज्ञानम्।उत्तरक्षणे घटस्य विशेषाणां ज्ञानं भवति।तत् सविकल्पज्ञानम्।अतः निर्विशेषदशायाम् अपि ज्ञानं सम्भवति इति नैयायिकाः आक्षिपन्ति।
तत्र रामानुजस्य उत्तरम् एवं यद् निर्विकल्पज्ञानम् अपि सविशेषस्य एव पदार्थस्य अस्ति।घटम् अजानानः कश्चिद् यदा प्रप्रथमं घटं पश्यति, तदा ‘अयं घटः’ इति सविशेषस्य एव घटस्य ज्ञानम् उत्पद्यते।एतत् प्रथमज्ञानम् एव अस्मन्मते निर्विकल्पज्ञानम्।अनन्तरं यदा सः पुनः क्वचित् घटं पश्यति, तदा ‘अयं घटः’ इति यद् ज्ञानं जायते,तत् अस्मन्मते सविकल्पम्।यतो हि तत्र पूर्वदृष्टस्य घटस्य विशेषाः प्रतीयन्ते।
अत्र अद्वैतिनः आक्षिपन्ति यत् ब्रह्मणः निर्गुणत्वप्रतिपादकानि नैकानि श्रुतिवचनानि सन्ति।ब्रह्मणः सविशेषत्वाङ्गीकारे श्रुतिविरोधः स्यात्।
तत्र रामानुजः उत्तरति यत् ब्रह्मणः निर्गुणत्वप्रतिपादकानि तानि वचनानि प्राकृत-हेयगुण-निषेधपराणि सन्ति, न तु गुणमात्रनिषेधपराणि।
अतः निर्विशेषं ब्रह्म नास्ति इति सिद्धान्तः।
सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि सर्वदर्शनसङ्र्लहे रामानुजमतम्