पाशुपतशास्त्रे नव गणाः के?

विकिपुस्तकानि तः

पाशुपतशास्त्रे नव गणाः के?

सन्दर्भः-
पाशुपतदर्शनस्य आदिमं सूत्रम् एवम् –

अथ अतः पशुपतेः पाशुपतयोगविधिं व्याख्यास्यामः

अस्मिन् सूत्रे प्रथमं पदम् ‘अथ’।अस्य अर्थः ‘पूर्वं किमपि सम्बद्धं वृत्तं, ततोऽनन्तरम्’ इति भवति।किं तत् पूर्वप्रकृतम् इति आकाङ्क्षायाम् शास्त्रकाराणाम् उत्तरम् अस्ति ‘गुरुं प्रति शिष्यस्य प्रश्नः’।ततः पुनः प्रश्नः उद्भवति गुरुः कः?।तस्योत्तरं दत्तं -
वेत्ता नवगणस्यास्य संस्कर्ता गुरुरुच्यते।
इतः आरभ्यते नवानां गणानां विवरणम्।

पाशुपतशास्त्रे नव गणाः गणिताः
गणः १- ५ लाभाः।
विधीयमानम् उपायफलं लाभः।
(ज्ञानं, तपः, नित्यत्वं, सिद्धिः, शुद्धिः)

गणः २- ५ मलाः।
आत्माश्रितो दुष्टभावो मलः।
(मिथ्याज्ञानम्, अधर्मः, सक्तिहेतुः, च्युतिः, पशुत्वहेतुः)

गणः ३- ५ उपायाः।
साधकस्य शुद्धिहेतुः उपायः।
(वासचर्या, तपः, ध्यानम्, रुद्रस्मृतिः, प्रपत्तिः)

गणः ४- ५ देशाः।
येन संनिहितेन अर्थानुसन्धानपूर्वकं ज्ञानतपसोः वृद्धिः भवति, स देशः।
(गुरुः, ज्ञजनः, गुहा, श्मशानं, रुद्रप्रतिमा )

गणः ५- ५ अवस्थाः।
आलाभप्राप्तेः एकमर्यादावस्थितस्य यद् अवस्थानं, सा अवस्थाः।
(व्यक्ता, अव्यक्ता, जया, दानं, निष्ठा)

गणः ६- ५ विशुद्धयः।
मिथ्याज्ञानादीनां मलानाम् अत्यन्तनाशः विशुद्धिः।
(मिथ्याज्ञानस्य ध्वंसः, अधर्मस्य ध्वंसः, सक्तिहेतोः ध्वंसः, च्युतेः ध्वंसः, पशुत्वहेतोः ध्वंसः।)

गणः ७- ५ दीक्षाकारिणः।
(द्रव्यं, कालः, क्रिया, मूर्तिः, गुरुः)

गणः ८- ५ बलानि।
(गुरुभक्तिः, मतिप्रसादः, द्वन्द्वजयः, धर्मः, अप्रमादः)

गणः ९- ३ वृत्तयः
पञ्चमल-लघूकरणार्थम् आगमाविरोधिनः अन्नोपार्जनोपायाः वृत्तयः।
(भैक्ष्यम् उत्सृष्टं यथालब्धम्)


सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाशुपतदर्शनम्