पाशुपतमतेन कारणं वर्णयत।

विकिपुस्तकानि तः

पाशुपतमतेन कारणं वर्णयत

पाशुपतदर्शनस्य आदिमं सूत्रम् एवम् –
अथ अतः पशुपतेः पाशुपतयोगविधिं व्याख्यास्यामः।
सूत्रेऽस्मिन् पतिशब्देन कारणं गृह्यते।तस्य विवरणम् एवम्-
समस्तसृष्टि-संहार-अनुग्रहकारि कारणम्।समग्रस्य जगतः निर्मितिः, संहारः तथा अनुग्रहः यस्मात् भवति तत् कारणम्।पशुपतिः महेश्वरः एव एतत् कारणम्।
कारणं द्विविधं पतिः साद्यः च।
पतिः निरतिशयदृक-क्रियाशक्तिमान् नित्यैश्वर्यसम्बन्धी।
साद्यः नाम आगन्तुकैश्वर्यसम्बन्धी।


सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाशुपतदर्शनम्