श्रीरामकृष्णवचनामृतम्/७
पण्डित-ईश्वरचन्द्रविद्यासागरः श्रीरामकृष्णः च। 1 श्री.विद्यासागरस्य कलकत्तानगरस्थम् उष्यमाणं गृहम्। अद्य शनिवासरः। 1882तमवर्षस्य ऑगस्टमासस्य पञ्चमः दिनाङ्कः। सामान्यतः अपराह्ने चतुर्वादनम्। श्रीरामकृष्णः कलकत्तानगरे राजमार्गेण अश्वशकटे उपविश्य बादुडबागानं गच्छन् अस्ति। तेन सह भवनाथः, हाजरा, मास्तरः च विद्यासागरं द्रष्टुं गच्छन्तः सन्ति। हुगळीजनपदे ‘कामारपुकुर’संज्ञकः श्रीरामकृष्णस्य जन्मग्रामः, विद्यासागरस्य जन्मग्रामस्य ‘बीरसिंग’स्य पार्श्वे एव वर्तते। विद्यासागरस्य करुणार्द्रस्वभावस्य ख्यातिः श्रीरामकृष्णेन बाल्यकालात् श्रुता आसीत्। दक्षिणेश्वरे कालीवाड्यां वासकाले तस्य पाण्डित्यस्य दयापूर्णस्वभावस्य च नैकाः आख्यायिकाः तस्य श्रुतिपथम् आगताः आसन्। मास्तरः विद्यासागरस्य शालायां शिक्षकः अस्ति, इति ज्ञात्वा विद्यासागरस्य दर्शनस्य स्वीया तीव्रा मनीषा, तेन मास्तरं प्रति प्रकटीकृता। मास्तरः तां विद्यासागराय कथितवान्। तत् श्रुत्वा विद्यासागरः अतीव प्रमुदितः। ‘कस्मिञ्श्चित् दिवसे शनिवासरं दृष्ट्वा सामान्यतः चतुर्वादने श्रीरामकृष्णम् आनयतु’ इति सः मास्तरम् उक्तवान्। कदाचित् सः पृष्टवान्, “परमहंसः कथं वर्तते? किं सः कषायवस्त्रं परिधरति?” मास्तरः उदतरत्, “ न। सः एकः अद्भुतः पुरुषः। रक्तदशावेष्टीं धरति। युतकं परिधानं करोति। पादत्राणम् उपयुङ्कते। रासमण्याः कालीवाड्याम् एकस्मिन् प्रकोष्ठे निवसति। तस्मिन् प्रकोष्ठे एकः पर्यङ्कः वर्तते। तत्र मशकजालं योजितम् अस्ति। तस्यां शय्यायामेव सः स्वपति। बाह्यचिह्नं किमपि नास्ति। परम् ईश्वरं विना किमपि न जानाति। अहोरात्रं भगवच्चिन्तने निमग्नः”। यानेन दक्षिणेश्वरस्य कालीवाडी पारं कृता। बालकवत् श्रीरामकृष्णः बहु आनन्देन संभाषणं कुर्वन् गच्छन् अस्ति। अम्हर्स्ट-मार्गे याने आगते सति सहसा श्रीरामकृष्णस्य भावान्तरं जातम्। ईश्वरावेशस्य आरम्भः जातः इव। यानं रॉयमनमोहनस्य उद्यानगृहात् गच्छत् अस्ति। श्रीरामकृष्णस्य भावान्तरम् अनवगत्य मास्तरः त्वरया उक्तवान्, “इदमेव तद् रॉयराममोहनस्य गृहम्”। श्रीरामकृष्णः रुष्टः जातः, उक्तवान् च, “भवतु नाम। अधुना एते विषयाः मनसे न रोचन्ते”। सः भावाविष्टः जायमानः अस्ति। अन्ततोगत्वा यानं विद्यासागरस्य द्वारम् आगतम्। गृहं द्विस्तरीयम्। ऐश्वर्यम् आङ्ग्लगृहसदृशम्। प्राङ्गणे मध्ये मध्ये पुष्पगुल्माः। विद्यासागरस्य प्रकोष्ठः उपरितन-अट्टे। तस्य स्वीयः ग्रन्थालयः, शयनकक्षः, अन्यस्थानानि, सर्वम् उपरितन-अट्टे एव। एकस्मिन् सभागृहे सः उपविशति स्म। तत्रैव सः स्वीयकार्याणि करोति स्म, द्रष्टुम् आगन्तृभिः सह वार्तां करोति स्म च। एकस्मिन् पार्श्वे केचन आसन्दाः, एका उत्पिटिका, तस्यां लेखनवस्तूनि, कर्गजाः, मसी, लेखनी, शोषकर्गजः, बहूनि पत्राणि, द्वित्रिणि पुस्तकानि च इति। उत्पिटिकायां स्थापितेषु पत्रेषु किं लिखितं स्यात् ननु? विद्यासागरम् आगतानि पत्राणि। कयाचित् विधवया लिखितं स्यात्, ‘मम पुत्रः अद्यापि बालः, अनाथः। तं निभालयितुं भवन्तं विना कः अपि नास्ति’। केनचित् लिखितं स्यात्, ‘भवान् ग्रामान्तरं गतवान्, तेन मासिकं साहाय्यं न प्राप्तं। बहु कष्टम् अनुभवामि’। केनचित् दरिद्रेण छात्रेण लिखितं स्यात्, ‘भवतः शालायाम् अहं निःशुल्कं प्रवेशं प्राप्तवान्। परं पुस्तकानि क्रेतुं मम समीपे धनं नास्ति। किं करवाणि?’ कश्चन लिखेत्, ‘मम कुटुम्बजनाः क्षुधापीडिताः। कथञ्चित् मह्यं वृत्तिं दापयतु एव’। तस्यैव शालातः कश्चन शिक्षकः लिखेत्, ‘मम भगिन्याः शिरसि आकाशं पतितम्। तस्याः सर्वं मया एव करणीयं भविष्यति। साम्प्रतं प्राप्यमाणे वेतने कठिनम्’। इङ्गलंडतः कदाचित् केनापि लिखितं स्यात्, ‘अत्र विदेशे अहम् आपदि पतितः। भवान् दीनोद्धारकः। स्वल्पं वा धनं प्रेष्य, माम् आपदः मोचयतु’। कदाचित् केनचित् लिखितं स्यात्, ‘अमुकदिनाङ्कः समञ्जनार्थं निश्चितः। भवान् एव तस्मिन् दिने आवयोः कलहं समापयतु’। श्रीरामकृष्णः यानात् अवतीर्णः। मार्गं दर्शं दर्शं मास्तरः तम् अन्तः नयन् अस्ति। उभयतः पुष्पगुल्मैः सुशोभितेन मार्गेण गच्छन् श्रीरामकृष्णः बालकवत् युतकस्य कुडमलं संस्पृश्य मास्तरम् अपृच्छत्, “कुडमलः न योजितः। भवतः प्रत्यवायः तु नास्ति ननु?” मास्तरः उदतरत्, “भवतः कापि चिन्ता मास्तु। भवतः विषये कस्यापि प्रत्यवायः नास्ति। कुडमलयोजनस्य न कापि आवश्यकता”। अहाहा, कश्चन निर्व्याजसरलबालकवत् समञ्जनं प्राप्य सः निश्चिन्तः जातः! 2 विद्यासागरः सोपानम् आरुह्य उत्तरदिशि विद्यमानं प्रथमं प्रकोष्ठम् एव श्रीरामकृष्णः भक्तजनैः सह प्राविशत्। प्रकोष्ठे विद्यासागरः उपविष्टः आसीत्। पुरतः एव परिष्कृततला काचित् आयताकारा दीर्घा उत्पीठिका। उत्पीठिकायाः समीपे किञ्चित् दीर्घपीठं, परितः केचन आसन्दाः। द्वित्रिभिः मित्रैः सह विद्यासागरः संभाषणं कुर्वन् उपविष्टः आसीत्। प्रविष्टमात्रं श्रीरामकृष्णं विद्यासागरः उत्थाय अभिवादनं कृतवान्। श्रीरामकृष्णः स्थितः एव आसीत्। वामहस्तः उत्पीठिकायां, तस्य पृष्ठतः तत् दीर्घपीठम्। श्रीरामकृष्णः केनचित् पूर्वपरिचितेन समं विद्यासागरं सततम् एकाग्रतया निरीक्षते तथा च भावाविष्टः भूत्वा हसति। विद्यासागरस्य वयः सामान्यतः 62-63 स्यात् । श्रीरामकृष्णात् 16-17वर्षैः ज्येष्ठः। दशाविरहिता वेष्टी, पादयोः पादत्राणे, शरीरे हस्तभागहीनं फ्लॅनेलमयं युतकम्। ओरिसाजनः इव केशाः शिरसः चतुर्षु अपि भागेषु कर्तिताः। भाषणसमये श्वेतशुभ्राः दन्ताः दृश्यन्ते - सर्वे कृत्रिमाः। शिरः किञ्चित् बृहत्, विशालं ललाटम्, किन्तु अनुन्नतं शरीरम्। ब्राह्मणत्वात् वक्षसि यज्ञोपवितम्। विद्यासागरे नैकाः गुणाः आसन्। प्रथमः तु विद्यारुचिः। कदाचित् सः मास्तरम् आत्मनः विषये वदन् रुदितवान् आसीत् - ‘पठनमननयोः मम महती आसक्तिः आसीत् परन्तु किमपि अहं न साधयितुं शक्तवान्। गार्हस्थ्यम् आश्रितम्। तेन समयः एव न लब्धः’। तस्य अपरः गुणः वर्तते, सर्वभूते दयाभावः। वस्तुतः विद्यासागरः दयासागरः एव आसीत्। वत्साः गोदुग्धं न प्राप्नुवन्ति, इत्यतः तेन स्वयं नैकानि वर्षाणि दुग्धसेवनं निराकृतम् आसीत्, किन्तु स्वास्थ्यम् अतीव असमीचीनं जातम्, इत्यतः अनन्यगतिकतया बहुदिनानन्तरं पुनः दुग्धसेवनम् आरब्धम् आसीत्। शकटयाने न उपविशति स्म। ‘अश्वः तु मूकः पशुः। स्वकष्टं न वक्तुं शक्नोति। कियती पीडा सः अनुभवेत्’, इति सः चिन्तितवान्। कदाचित् कश्चन विषचिकारोगेण पीडितः भारवाहकः मार्गे पतितः आसीत्। पार्श्वे तस्य कण्डोलः अपि पतितः। तत् करुणामयं दृश्यं दृष्ट्वा सः आकुलः जातः। स्वस्कन्धे तं संस्थाप्य सः गृहम् आनीतवान्। तस्य सेवां कृतवान्। तस्य तृतीयः गुणः आसीत् स्वातन्त्र्यासक्तिः। अधिकारिभिः सह समञ्जनं न जातम्, इत्यतः साक्षात् संस्कृतमहाविद्या़लयस्य प्राचार्यपदं सः त्यक्तवान्। विद्यासागरस्य चतुर्थः गुणः आसीत् यत् जनमतस्य चिन्तां सः न करोति स्म। कस्मिञ्श्चित् शिक्षके तस्य स्नेहातिशयः जातः। शिक्षकस्य कन्यायाः विवाहप्रसङ्गे महाशयः स्वयम् उपायनवस्त्रं गृहीत्वा उपस्थितः। पञ्चमः गुणः तस्य मातृभक्तिः मनोबलं च। तस्य भ्रातुः विवाहसमये माता उक्तवती, “ईश्वर, यदि भवान् विवाहप्रसङ्गं न आगच्छति तर्हि मम बहु दुःखम् भवेत्”। अतः केवलं विवाहार्थं सः कलकत्तातः वीरसिंगं पद्भ्यां गतवान्। मार्गे दामोदरनाम्ना नदी आगता। नौका अपि नासीत्। सः तरणं कृत्वा परतीरं गतवान्। गृहं प्राप्तवान्। आर्द्रवस्त्रैः सह मातुः पुरतः स्थित्वा उक्तवान्, “अम्ब, अहम् आगतः”। विद्यासागरकृता श्रीरामकृष्णस्य सेवा तथा च तयोः संभाषणम्। श्रीरामकृष्णः भावाविष्टः भवन् अस्ति। कश्चित् कालः सः तथैव स्थितः अस्ति। भावोपशमनार्थं सः मध्ये मध्ये वदति, “अहं जलं पिबामि”। शनैः शनैः सर्वे गृहे विद्यमानाः बालकाः, आप्ताः, इष्टमित्राणि च आगत्य तत्र स्थिताः। भावाविष्टः श्रीरामकृष्णः दीर्घपीठे उपविशति। कश्चन 17-18वर्षीयः युवकः तत्र उपविष्टः आसीत्। विद्यासागरं शिक्षणार्थं साहाय्यं याचितुं सः आगतः आसीत्। श्रीरामकृष्णः भावाविष्टः – अन्तर्द्रष्टः। बालकानां मनस्सु विद्यमानाः भावाः तेन अवगताः। किञ्चित् दूरं सृत्वा सः भावावेशे उक्तवान्, “अम्ब, एषः बालकः आत्यन्तिकः संसारी। भवत्याः अविद्यामये संसारे एषः अतीव आसक्तः। अविद्यातः अस्य जन्म”। यस्य हृदये ब्रह्मविद्याविषये यत्किञ्चिदपि एषणा नास्ति तस्य केवलम् अर्थार्जनार्थं विद्यार्जनं वृथा, दुर्दशा एव। श्रीरामकृष्णः एनमेव विषयं स्ववर्तनेन दर्शयन् स्यात्। विद्यासागरः त्वरया कमपि जनं जलम् आनेतुं सूचितवान्, मास्तरं पृष्टवान् च, “स्वल्पम् आहारं महोदयः स्वीकुर्यात् किम्?” मास्तरः उक्तवान्, “अवश्यम्। आनयन्तु।“ शीघ्रतया सः अन्तः गत्वा मिष्टान्नम् आनीतवान्, उक्तवान् च, “इदं वर्धमानतः आनीतम् अस्ति।“ श्रीरामकृष्णाय स्वल्पम् आहारार्थं दत्तम्। हाजराभवनाथौ अपि स्वल्पं गृहीतवन्तौ। मास्तरस्य क्रमे आगते सति विद्यासागरः उक्तवान्, “सः गृहजनः एव। तस्य चिन्ता मास्तु।“ श्रीरामकृष्णः कस्यचित् भक्तिमतः बालकस्य विषये वदन् अस्ति। सः बालकः तत्रैव श्रीरामकृष्णस्य पुरतः उपविष्टः आसीत्। श्रीरामकृष्णः उक्तवान्, “एषः बहु सच्छीलः बालकः, अन्तसारः। अस्मिन् बहु जलं वर्तते। यथा फल्गुनद्याम् उपरि सिकता, परन्तु स्वल्पं खनितं चेत् जलं प्रवहति इति दृश्यते। स्वल्पोपहारानन्तरं श्रीरामकृष्णः विद्यासागरेण सह संभाषणम् आरब्धवान्। शनैः शनैः प्रकोष्ठः जनैः पूर्णः जातः। केचन उपविष्टाः तु केचन स्थिताः एव। श्रीरामकृष्णः – अद्य अन्ते सागरेण मिलितः। ( सर्वे हसन्ति) अद्ययावत् गर्ते सञ्चितं जलं, पल्वलम्, अधिकं चेत् नदीं च दृष्टवान्, परन्तु अद्य तु सागरेण मेलितुम् आगतः। (हास्यम्) विद्यासागरः – इत्थं वा? तर्हि स्वल्पं क्षारजलं नयन्तु। ( सर्वे हसन्ति) श्रीरामकृष्णः – न न। किमर्थं क्षारजलम्? भवान् तु अविद्यासागरः न, विद्यासागरः। (हास्यम्) भवान् क्षीरसागरः। (पुनः हास्यम्) विद्यासागरः – भवतु, तथा वदन्तु। इति उक्त्वा विद्यासागरः तूष्णीं स्थितः। अग्रे श्रीरामकृष्णः अवदत्। विद्यासागरस्य सात्विकं कर्म भवतः कर्म सात्विकं कर्म। एषः सत्वजन्यः रजोगुणः,.. सत्वरजः। सत्वात् दया उद्भवति। दयायाः प्रेरितं कर्म राजसिकं, परन्तु एषः सत्वमयः रजः, एषः न असाधुः। शुकदेवादिभिः लोकोपदेशार्थं दया हृदये धृता। जनेभ्यः ईश्वरविषयकं ज्ञानं दातुम्। भवान् विद्यादानम् अन्नदानं च करोति इति तु समीचीनम्। इदमेव कश्चन निष्कामभावनया करोति चेत् सः ईश्वरं लभते। परन्तु अत्रैव समस्या। कश्चन प्रसिद्ध्यर्थं, कश्चन पुण्यसंचयार्थं च करोति। तस्य कर्म निष्कामं न भवति। तथा भवान् तु सिद्धः एव अस्ति। विद्यासागरः – तत् कथम्, महाराज? श्रीरामकृष्णः (हसन्) – वृन्ताकालुकाः यदा पूर्णाः क्वथिताः तदा मृदवः भवन्ति। भवान् तु अतीव मृदु। कियान् दयाशीलः! ( सर्वे हसन्ति) विद्यासागरः – (हसन्) – परन्तु चूर्णिताः माषाः पाचिताः चेत् अधिकाः एव कठोराः भवन्ति। जानन्ति ननु? (हास्यम्) श्रीरामकृष्णः – परन्तु तत् तु भवतः कृते नास्ति। केवलं पण्डिताः इत्युक्ते शुष्काणि कठोराणि फलानि। न अत्र, न परत्र। न तु पक्वानि न वा अपक्वानि। गृध्राः अत्युन्नते आकाशे उड्डयन्ति, किन्तु तेषां ध्यानं वर्तते पर्युषितेषु पशुप्रेतेषु। केवलं ये पण्डिताः ते तु नाममात्रं पण्डिताः। कामिनीकाञ्चनार्थं सदा लुब्धाः। गृध्रैः सदृशाः सततं पर्युषितानि प्रेतानि अन्विष्यन्ति। अविद्यामये संसारे रक्तपः इव लग्नाः। दया भक्तिः वैराग्यं चेत्यादीनि सर्वाणि विद्यायाः ऐश्वर्यम्। विद्यासागरः एकमपि अक्षरम् अनुक्त्वा शान्ततया सर्वं शृण्वन् अस्ति। सर्वे एव एकाग्रतया तम् आनन्दमयं पुरुषं निरीक्ष्यमाणाः तस्य वचनामृतपाने मग्नाः च। 3 श्रीरामकृष्णः - ज्ञानयोगः वेदान्तविचाराः वा विद्यासागरः स्वनामसमं विद्यायाः सागरः ननु। महान् विद्वान् एव। संस्कृतमहाविद्यालये यदा सः छात्रः आसीत् तदा सः स्ववर्गे सर्वोत्कृष्टः आसीत्। प्रत्येकं परीक्षायां सः प्रथमः एव। सुवर्णपदकानि शिष्यवृत्त्यः अपि प्राप्नोति स्म। स्वगुणैः क्रमेण उन्नतिं प्राप्य सः प्रधानाध्यापकः जातः। संस्कृतव्याकरणे साहित्ये च विशेषप्राविण्यं तेन लब्धम्। सततप्रयत्नैः आङ्ग्लभाषाप्रभुत्वमपि सः संपादितवान्। आधुनिकबङ्गभाषायाः अपि सः जनकः इति एव मन्यन्ते। इतरेभ्यः धर्मोपदेशं दातुं विद्यासागरः न पुरस्सरति स्म। दर्शनादयः ग्रन्थाः तेन अधीताः। कदाचित् मास्तरः तम् अपृच्छत्, “हिन्दुदर्शनं कथं मन्यते भवान्? तदा तेन उक्तमासीत्, ‘मां पृच्छति चेद् अहं तु मन्ये यत् एते दार्शनिकाः स्वहृदयं यथार्थतया प्रकटीकर्तुं न शक्तवन्तः’। विद्यासागरः हिन्दुजनैः सदृशं सर्वाणि धर्मकर्माणि करोति स्म। स्कन्धे यज्ञोपवितमपि आसीत्। मातृभाषायां पत्रलेखनसमये आदौ श्रीहरिश्शरणम् इति ईश्वरवन्दनं सः लिखति स्म। ईश्वरविषये तस्य विचाराणां श्रवणस्य अवसरः मास्तरेण कदाचित् प्राप्तः आसीत्। विद्यासागरः तदा उक्तवान् आसीत्, “ईश्वरं कः अपि ज्ञातुं न शक्नोति। इत्यतः अस्माकं कर्तव्यं किम्? अहं मन्ये अस्माकं कर्तव्यं तदेव वर्तते यत् अस्माभिः तथा भवितव्यं यथा यदि सर्वे भविष्यन्ति तर्हि अवनी स्वर्गे एव परिणमेत्। येन जगत् मङ्गलं भवेत् तथा प्रयत्नाः करणीयाः इत्येव प्रत्येकं जनदृष्ट्या योग्यम्”। विद्याविद्याविषये संभाषमाणः श्रीरामकृष्णः ब्रह्मज्ञानविषये वक्तुमारभत। विद्यासागरः महापण्डितः। षड्दर्शनानि तेन आन्तं पठितानि। इत्यतः ईश्वरविषये किमपि अवगमनम् असंभवमिति तस्य धारणा जाता। श्रीरामकृष्णः – ब्रह्म विद्याविद्यायोः अतीतम्। मायातीतम्। अशुभस्य समस्या – निर्लिप्तं ब्रह्म – दुःखादीनि जीवस्य एव विषये “अस्मिन् विश्वे विद्यामाया तथा च अविद्यामाया द्वे अपि वर्तेते। ज्ञानं भक्तिः च स्तः तथा कामिनीकाञ्चने अपि स्तः। सत् अस्ति तथा च असत् अपि अस्ति। साधुः वर्तते, असाधुः अपि वर्तते। परन्तु ब्रह्ममात्रं निर्लेपम्। समीचीनम्, असमीचीनं जीवदृष्ट्या। सत् असत् च जीवाय। ते ब्रह्म न स्पृशन्ति। “यथा दीपः एकः एव, परन्तु कश्चन तस्य प्रकाशे भागवतं पठेत् वा कश्चन मिथ्यालेखान् सिद्धान् कुर्यात्। दीपः केनापि प्रभावितः न भवति। सः निर्लिप्तः एव। सूर्यः सुजनाय दुर्जनाय अपि प्रकाशं ददाति। अत्र कदाचित् भवन्तः वदिष्यन्ति यत् तदनु दुःखपापाशान्त्यादीनाम् उपपत्तिः कथं करणीया? अस्य उत्तरमिदमित्थमेव यत् एते सर्वे विषयाः जीवस्य कृते - जीवदृष्ट्या वा सन्ति। ब्रह्म एतेभ्यः सर्वेभ्यः पूर्णतः अलिप्तम्। सर्पस्य मुखे विषं वर्तते। कमपि सः दशति चेत् तस्य प्राणाः सपदि निर्गच्छेयुः, परन्तु स्वयं सर्पं तत् विषं न किञ्चिदपि बाधते। ब्रह्म अनिर्वचनीयम् – अव्यपदेश्यम् ब्रह्म इत्युक्ते किम्? गिरा वक्तुं न शक्नुमः। जगति विद्यमानाः सर्वे विषयाः उच्छिष्टाः। वेदाः, पुराणानि, तन्त्राणि, षड्दर्शनानि, सर्वाणि उच्छिष्टानि! एते सर्वे विषयाः मुखेन उच्चारिताः। अतः उच्छिष्टाः ननु? अनुच्छिष्टम् एकम् एव वस्तु – तद् इत्युक्ते ब्रह्म। ब्रह्म इत्युक्ते किम् इति अद्यापि कः अपि मुखेन वक्तुं न शक्तवान्। विद्यासागरः – (मित्राणि उद्दिश्य) व्वा! सुन्दरम्! अद्य एकः नूतनः विषयः पठितः। ब्रह्म न उच्छिष्टम्। व्वा! श्रीरामकृष्णः – कस्यचित् पितुः द्वौ पुत्रौ। ब्रह्मविद्यां पठितुं पिता तौ आचार्याधीनौ कृतवान्। केभ्यश्चित् वर्षेभ्यः अनन्तरं तौ गुरुगृहात् प्रत्यागतौ। पितरं प्राणमताम्। एतौ कियत् ब्रह्मज्ञानं प्राप्तवन्तौ इति द्रष्टुं पितुः एषणा। अतः सः ज्येष्ठपुत्रं पृष्टवान्, “वत्स, सर्वं पठितवान् भवान्। अधुना कथयतु ब्रह्मस्य स्वरूपम्”। पित्रा पृष्टे सति ज्येष्ठः वेदमन्त्रान् वदन् ब्रह्मस्वरूपस्य विवरणम् आरब्धवान्। पिता तु तूष्णीं स्थितवान्। ज्येष्ठस्य वेदघोषे समाप्ते सति कनिष्ठं सः तमेव प्रश्नम् अपृच्छत्। किन्तु सः अवनमय्य शब्दमपि अनुच्चार्य मूकः स्थितः! मुखम् उर्ध्वमपि न कृतवान् ततः तु किं वदेत्? तदा प्रसन्नः पिता वदति, “किञ्चित् वा भवता एव अवगतमिति दृश्यते”। ब्रह्म एतादृशं वस्तु यत् तत् मुखेन अवर्ण्यम्। “मया ईश्वरः पूर्णतः ज्ञातः इति मत्वा कश्चन आत्मानं कृतार्थं मन्यते। काचित् पिपीलिका कदाचित् शर्करागिरिं गतवती। एकं कणं भुक्त्वा एव सा पूर्णोदरा जाता। इतोऽपि एकं कणं स्वीकृत्य सा वल्मीकं प्रति प्रत्यागता। मार्गे सा चिन्तयति, पुनः यदा आगच्छामि तदा सर्वं गिरिमेव नेष्यामि। क्षुद्रजीवानां चिन्तनम् एतादृशं वर्तते। दीनाः न जानन्ति एव यत् ब्रह्म वाङ्मनसातीतं वर्तते। “कश्चन कियान् अपि महान् भवेत्, ईश्वरावगमनस्य तस्य सामर्थ्यं कियत्? शुकदेवादयः अधिकाः चेत् पिपिलिकाः – बृहत्यः पिपिलिकाः। अधिकाधिकं चेत् कदाचिद् अष्टदशकणान् मुखे स्थापयितुं शक्नुयुः। एतावद् एव, इतोऽपि अधिकं चेत् किं भवितुमर्हति? ब्रह्म सच्चिदानन्दस्वरूपम्, निर्विकल्पः समाधिः ब्रह्मज्ञानं च। “परन्तु यद् वेदेषु पुराणेषु वा यत् कथितं, तत् कथं वर्तते इति कथयामि किम्? समुद्रं दृष्ट्वा आगतं जनं यदि कश्चन पृच्छेत् यत् कथमस्ति समुद्रः, तर्हि सः विस्मयेन वदति, “ओहो, किं वदामि? कियान्तः तरङ्गाः, कियान्तः कल्लोलाः च!” शास्त्रेषु विद्यमानस्य ब्रह्मस्य वर्णनमपि एतादृशमेव। वेदेषु कथितमस्ति, ‘ब्रह्म आनन्दस्वरूपम्, सच्चिदानन्दरूपं च। अस्य ब्रह्मसमुद्रस्य तटे स्थित्वा शुकादयः दर्शनं, स्पर्शनं च कृतवन्तः। केषाञ्चन जनानां मतेन ते समुद्रे न अवतीर्णाः। एकवारं वा समुद्रे अवतरन्ति चेत् प्रत्यागमनस्य अवसरः एव न विद्यते। “समाधिलाभानन्तरं ब्रह्मज्ञानं लभते। ब्रह्मदर्शनं च भवति। तस्याम् अवस्थायां तर्कः विचारः च पूर्णतः स्थगतः । जनः तूष्णीं भवति। ब्रह्म किं वस्तु इति मुखेन कथनस्य सामर्थ्यम् एव न विद्यते। “लवणस्य पाञ्चालिका कदाचित् समुद्रमापनार्थं गता। (सर्वे हसन्ति) जलं कियत् गभीरम् इति वार्तां दद्यात्। परन्तु वार्ता तत्रैव स्थिता, सा अन्तः अवतरति चेत् द्रवीभूता जाता। कां वार्तां दद्यात्? वार्तां दातुम् अवशिष्यते चेत् ननु?” कश्चन पृष्टवान्, “समाधिमग्नः जनः- यः ब्रह्मज्ञानं लभते सः- तदनु भाषणमेव न करोति किम्?” श्रीरामकृष्णः – ( विद्यासागरादीन् उद्दीश्य) लोकोपदेशार्थं श्रीशङ्कराचार्यैः ‘ज्ञानरूपः अहं’ रक्षितः आसीत्। ब्रह्मदर्शनमात्रेण जनः मूकः भवति। यावद् दर्शनं न भवति तावदेव विचाराः। घृतं यावद् न पक्वं, तावदेव कडकडायते। पूर्णे क्वथिते-पाचिते- घृते ध्वनिः न भवति। पंरन्तु तस्मिन् पच्यमाने घृते यदि पुरीका स्थाप्यते तर्हि पुनः सः एव कडकड् ध्वनिः आरभते। पुरीका पक्वा भवति चेद् ध्वनिः शान्तः भवति। तथैव समाधिमग्नः जनः जीवान् उपदेष्टुं पुनः अधः आगच्छति। पुनः भाषणादीन् व्यवहारान् करोति। मधुमक्षिका गुञ्जारवं करोति। परन्तु कदापर्यन्तम्? यावत्पर्यन्तं सा पुष्पे न उपविशति तावत्पर्यन्तम्। एकदा सा पुष्पे उपविश्य मधुपानम् आरभते, चेत् न हाम् न हुम्। सर्वं शान्तम्। मधुपानं समाप्य कदाचित् पुनः गुञ्जारवं करोति। “तडागे निमज्ज्यमाने कुम्भे डुबडुब्-ध्वनिः भवति। कुम्भः जलेन पूर्णः भवति चेत् ध्वनिः शान्तः। (सर्वे हसन्ति) तथापि एकस्मात् कुम्भात् अन्यस्मिन् कुम्भे जलपूरणसमये पुनः ध्वनिः भवति एव। (हास्यम्) ज्ञानं विज्ञानं च; अद्वैतमतं, विशिष्टाद्वैतमतं, द्वैतमतं इति एतेषु समन्वयः श्रीरामकृष्णः – ऋषिभिः ब्रह्मज्ञानं प्राप्तम्। भोगवासना किञ्चिद् वा अवशिष्यते चेद् ब्रह्मज्ञानं न लभते। ज्ञानप्राप्त्यर्थं ऋषयः कियान्तं प्रायतन्त। उषःकाले आश्रमात् प्रस्थानं कुर्वन्ति स्म। आ दिनम् एकान्ते ध्यानं धारणां च कुर्वन्ति स्म। रात्रौ आश्रमं प्रत्यागत्य अल्पानि कन्दमूलानि भुञ्जन्ते स्म। दर्शनं, श्रवणं, स्पर्शनं इत्यादिभ्यः विषयेभ्यः मनः पूर्णतः अलिप्तं कल्पयन्ति स्म। तदा एव तैः ब्रह्म अवबुद्ध्यते स्म। ते स्वान्तःकरणे साक्षात्कारं लभन्ते स्म। “कलियुगे प्राणाः अन्नगताः। देहबुद्धिः सहजतया न नश्यति एव। अतः ‘सोऽहम्’, ‘अहमेव तद् ब्रम्ह’ इति न वक्तव्यम्। एकपक्षे सर्वं कुर्वन् अस्ति तथापि ‘अहं ब्रह्म’ इति वदति इति किं योग्यम्? ये विषयत्यागं कर्तुं न शक्नुवन्ति, येषाम् अहंकारः केनापि उपायेन न नश्यति, तेषां कृते ‘अहं दासः’, ‘अहं भक्तः’ इति अभिमानः एव उत्तमः। भक्तिमार्गेण अपि परमेश्वरः लभ्यते एव। “ ज्ञानी ‘नेति नेति’ इति चिन्तयित्वा विषयासक्तिं समूलं त्यजति। तदा एव ब्रह्म अवगन्तुं सक्षमः भवति। यथा सोपाने एकं एकं पदम् आरुह्य अट्टालिकां गन्तुं शक्यते। परन्तु विज्ञानी - यः ईश्वरेण सह विशेषसख्यत्वेन वार्तां करोति, ईश्वरेण सह सघनं सम्बन्धं स्थापयति, - किमपि अधिकं पश्यति। विज्ञानी पश्यति यत् यैः वस्तुभिः अट्टालिका निर्मिता तैः वस्तुभिः एव इत्युक्ते इष्टिका सुधा चेत्यादिभिः सोपानम् अपि निर्मितम् अस्ति। ‘नेति नेति’ इति चिन्तयित्वा यं ब्रह्म ज्ञायते तदेव जीवजगत्रूपाभ्यां नटितं वर्ततॆ। तेन दृश्यते यत् यः सगुणः, सः एव निर्गुणः। “ जनः बहुकालम् अट्टालिकायां स्थातुं न शक्नोति। सः पुनः अधः आगच्छति। ये समाध्यवस्थायां ब्रह्मदर्शनं लभन्ते ते व्युत्थानसमये अवगच्छन्ति यत् जीवजगत् सर्वमपि सः एव जातः अस्ति। सा, रे, ग, म, प, म, ध, नि, परन्तु नि समीपे बहुकालं यावत् उच्चस्वरेण स्थातुं न शक्यते। ‘अहं’ पूर्णतः न नश्यति। समाधितः अधः आगत्य ज्ञायते यत् सः एव अहम्। सः एव सर्वं – जीवजगत् - जातः अस्ति। एतद् एव विज्ञानम्। “ज्ञानयोगः अपि एकः मार्गः। ज्ञानयुक्ता भक्तिः अपि एकः मार्गः। तथा च भक्तिः अपि मार्गः एव। ज्ञानयोगः सत्यं, भक्तियोगः अपि सत्यम्। सर्वैः मार्गैः भगवन्तं प्राप्तुं शक्नुमः। यावत् सः जीवे अहंभावं कल्पयति तावत् भक्तिमार्गः एव सरलः सुकरःच। विज्ञानी पश्यति यत् ब्रह्म अचलं, निष्क्रियं, सुमेरुवत् च वर्तते। एषः जगत्प्रपञ्चः सत्वरजतमगुणैः जातः, परन्तु स्वयं सः तु निर्लिप्तः। विज्ञानिना दृश्यते यत् ब्रह्म एव भगवान्। यः गुणातीतः सः एव षडैश्वर्यपूर्णः भगवान्। एते जीवाः, जगत्, मनः, बुद्धिः, भक्तिः, वैराग्यं, ज्ञानं च इति सर्वं तस्यैव ऐश्वर्यम्। (सहास्य) “ कस्यचित् महतः जनस्य यदि गृहवित्ते न वर्तेते, वा यद् आस्तां तत् नष्टे तर्हि सः तु कथं महान् जनः भवितुम् अर्हति? ( सर्वे हसन्ति) ईश्वरः षडैश्वर्यवान् ....यदि तस्य समीपे ऐश्वर्यं न अभविष्यत्, तर्हि कः अपि तं दृष्टिक्षेपमपि न अकरिष्यत्। विभुरूपेण एकः, परन्तु शक्तेः अभिव्यक्तिः न्यूनाधिका। पश्यन्तु, कियत् विलक्षणमिदं जगत्। कतिपयानि विविधानि वस्तूनि – चन्द्रमा, सूर्यः, नक्षत्राणि, भिन्नभिन्नाः जीवाः! लघवः, बृहन्ती, साधुवः, असाधवः। कस्मिञ्श्चित् शक्तिः अधिका, तु कस्मिञ्श्चिद् अल्पा। विद्यासागरः – परमेश्वरेण एव कथं कस्मैश्चित् अधिका शक्तिः दत्ता, तु कस्मैश्चित् न्यूना? श्रीरामकृष्णः – स्वविभुत्वेन ईश्वरः सर्वेषु भूतेषु विद्यमानः...कीटपिपिलिकासु अपि। किन्तु शक्तेः प्रकटने तरतमता वर्तते। तथा न अभविष्यत् तर्हि जगति कश्चन दशजनेभ्यः बलवत्तरः भवति, तु कश्चन एकस्मादपि भीत्वा पलायते इति कथं भवति? तथा च इदं पश्यतु, सर्वे भवन्तम् एव आद्रियन्ते, किमर्थम्? भवतः किं शृङ्गद्वयं वर्तते वा? (हास्यम्) इतरेभ्यः भवतः दया अधिका, विद्या अधिका, अतः एव जनाः भवन्तम् आद्रियन्ते। दर्शनार्थम् आयान्ति। एतत् तु अङ्गीकरोति किल? विद्यासागरः स्मितहास्यं करोति। पाण्डित्यमात्रं, ग्रान्थिकी विद्या च असारम्, भक्तिः एव सारम् श्रीरामकृष्णः – केवलं पाण्डित्यं वृथा, निरुपयुक्तं च। ईश्वरलाभार्थम् उपायरूपेणं तस्य आकलनार्थं पुस्तकानि पठनीयानि। कश्चन कमपि साधुं पृष्टवान्, “भवतः ग्रन्थे किं लिखितं वर्तते?” सः साधुः तं ग्रन्थम् उद्घाट्य दर्शितवान्। प्रतिपृष्ठे केवलं ‘ओम् रामः’ इति एव लिखितमासीत्, नान्यत् किमपि। “गीतायाः रहस्यं किम्? गीताशब्दं दशवारम् उच्चार्यं यत् वर्तते तद्। गीता गीता सततम् उच्चरामः चेत् तागी तागी (त्यागी त्यागी) इति श्रूयते। गीता इममेव पाठयति। ‘ हे जीव, सर्वं त्यक्त्वा भगवद्दर्शनार्थं प्रयतस्व’। संन्यासी भवेत् वा गृहस्थाश्रमी, मनसः मूलतः आसक्तिः नष्टव्या। “चैतन्यदेवः कदाचित् दक्षिणदेशे तीर्थयात्रां कुर्वन् आसीत्। सः दृष्टवान् यत् कश्चन गीतां पठति तथा च केनचित् अन्तरेण अपरः कश्चन श्रावं श्रावं रुदति च। तस्य नेत्रे अश्रुपूर्णे। तं रुदन्तं जनं चैतन्यदेवः अपृच्छत्, “भवान् सर्वम् अवगच्छति किम्?” “न प्रभो, एतान् श्लोकान् अहं किमपि न अवगच्छामि”। तदनु सः पृष्टवान्, “तर्हि किमर्थं रुदति?” भक्तः उदतरत्, “एनं पाठं श्रुत्वा नेत्रयोः पुरतः अहं पश्यमि तं अर्जुनस्य रथम्, तस्य पुरतः श्रीकृष्णार्जुनौ संभाषणं कुरुतः। किं कथयामि, इदं दृष्ट्वा मम नेत्रयोः सततम् अश्रूणि स्रवन्ति” इति। 5 भक्तियोगस्य रहस्यम् श्रीरामकृष्णः – विज्ञानी भक्त्यधीनः किमर्थं वर्तते इति भवन्तः जानन्ति किम्? अहंकारः न नश्यति इत्यर्थम्। समाध्यवस्थायाम् अहंकारः विलीयते, परन्तु जागृदवस्थायां सः पुनः उद्भवति। सामान्यजनानां तु अहंकारः कदापि न विलीयते। पिप्पलवृक्षम् अद्य उत्पाट्य क्षिपामः चेत् श्वः गत्वा पश्यतु, पुनः अङ्कुरः दृश्यते। (हास्यम्) ज्ञानप्राप्त्यनन्तरम् अपि कथं न जाने ‘अहं’ कुतः उद्भवति पीडयति च। स्वप्ने व्याघ्रः दृष्टः परन्तु जाग्रति सति अपि उरसि धडधडायते एव। अस्य अहंकारस्य कारणेन एव जीवस्य भाग्ये विश्वे सर्वत्र विद्यमानं दुःखं कष्टं च आयाति। वृषभः ‘हम्म् अहम्म्’ (अहम् अहम्) इति करोति अतः कियत् दुःखं, कियत् कष्टं च लभते। हले तं योजयन्ति, ऋतुचक्रस्य आतपवृष्ट्योः वैषम्यानि कियत् कालं सोढव्यानि भवन्ति। अन्ते व्याधः विक्रयणार्थं व्यापादयति। तस्य चर्मणा पादरक्षाः, पणवाः निर्मीयन्ते। जनाः अतीव ताडयन्ति। (हास्यम्) एतेन सर्वं समाप्नोति किम्? न, अन्ते आन्त्रात् तन्त्री निर्मीयन्ते। तन्तुवायः कमानं योजयित्वा कम्पायते तदा तु सा ‘अहम् अहम्’ इति न वदति। तदनु ‘तुं ऊ’, ‘तुं ऊ’ (त्वं त्वं) इति वदति। तदा मुक्तिं लभते। हे प्रभो, अहं सेवकः भवान् स्वामी, अहं पुत्रः भवान् माता। “ रामेण पृष्टम्, “हनुमन्, भवान् मां कया दृष्ट्या पश्यति?” हनुमान् उदतरत्, “हे राम, यदा मम हृदये अहंबोधः वर्तते तदा मया दृश्यते यत् भवान् पूर्णः अहम् अंशः, भवान् प्रभुः अहं दासः, परन्तु यदा तत्त्वं ज्ञायते तदा अवगच्छामि यत् भवान् एव अहं, तथा च अहमेव भवान्”। “सेव्य-सेवकभावः एव साधु। यदि ‘अहं’ तु न नश्यति तर्हि एषः वृषलः, ‘अहं’ दासत्वेन एव भवेत्। ‘अहं तथा च मम’ - अज्ञानम् “अहं मम च इति द्वयमपि अज्ञानम् एव। मम गृहं, मम वित्तं, मम विद्या, मम एतावत्, ऐश्वर्यम्, इति एताः भावनाः अज्ञानात् उद्भवन्ति। ‘ईश्वर, भवान् एव कर्ता। एते सर्वे विषयाः – गृहं, कुटुम्बं, पुत्रादयः, दासानुदासाः, मित्राणि च इत्यादयः – भवतः एव इति भावना ज्ञानात् एव जायते। “मृत्युः सदैव नेत्रयोः पुरतः भवेत्। मृत्युं जेतुं कोऽपि मार्गः नास्ति। मृत्योः अनन्तरं न किमपि अवशिष्यते। किमपि स्वल्पं कार्यं कर्तुम् एव अत्र आगमनम्। यथा गृहं ग्रामे, परन्तु कार्यार्थं कलकत्तानगरम् आगच्छामः। कस्यचित् धनिकस्य वाटिकाम् द्रष्टुम् आगन्तारं जनं प्रति उद्यानपालकः वदति, ‘एषा अस्माकं वाटिका, एषा अस्माकं पुष्करिणी।‘ परन्तु केनापि कारणेन यदा स्वामी तं निष्कासयति तदा आम्रकाष्ठस्य एकां पेटिकाम् अपि सः नेतुं न शक्नोति। तां गोपयित्वा द्वारपालस्य सहकार्येण नेतुं प्रयतते। (सर्वे हसन्ति।) द्वयोः प्रसङ्गयोः भगवान् हसत्येव। यदा वैद्यः रुग्णमातरं वदति, “अम्ब, अलं भयेन, भवत्याः पुत्रम् अहं निश्चयेन सम्यक् करोमि”। तदा एकवारं भगवान् हसति। सः चिन्तयति यत् ‘अहं मारयामि, तथा च एषः तातः वदति यत् अहं तारयामि’। आत्ममानी वैद्यः चिन्तयति यत् ‘अहमेव कर्ता’। वस्तुतः ‘ईश्वरः एव कर्ता’ इति महाशयः न जानाति एव। तथैव यदा द्वौ भ्रातरौ रज्जुं धृत्वा भूम्याः भागं कुरुतः वदतः च, ‘एषः मम भागः, सः भवतः भागः’, तदा द्वितीयवारं भगवान् हसति, चिन्तयति च, ‘इदं जगत्ब्रह्माण्डं मम, परन्तु एतौ द्वौ ‘एतत् मम, तत् तव’ इति वदतः’। उपायौ – विश्वासः भक्तिः च “तर्कैः कोऽपि तं ज्ञातुं शक्नोति किम्? तस्य दासेन, भूत्वा तं शरणं गत्वा च सः ज्ञातव्यः। (विद्यासागरं हसन्) “अस्तु, भवतः कः भावः?” विद्यासागरः स्मयन् वदति, “हं. हं, तान् सर्वान् विषयान् भवन्तं कदाचिद् एकान्ते वदामि”। (सर्वे हसन्ति) श्रीरामकृष्णः - पाण्डित्यपूर्णैः तर्कैः तम् अवगन्तुं न शक्नुमः। इति उक्त्वा श्रीरामकृष्णः प्रेमोन्मत्तः जातः। गीतगानम् आरभत। तस्य आशयः आसीत्,- ईश्वरः अगम्यः अपारः च “कः अवगन्तुं शक्नुयात् काली कथं विद्यते इति? षड्दर्शनानि अपि तां द्रष्टुं न शक्नुवन्ति। मूलाधारिणः सहस्त्रारिणः च योगिनः तां सततं ध्यायन्ति। काली पद्मवने हंसेन – शिवेन – सह रमते। सा आत्मारामस्य योगिनः आत्मा। शास्त्रमेव एतस्य प्रमाणम्। इच्छामयी सा प्रतिघटं राजते। तस्याः उदरे ब्रह्माण्डस्य प्रचण्डः विस्तारः समाविष्टः....जानन्ति किम्? महाकालः एव काल्याः सर्वं रहस्यं जानाति। इतरे जनाः कथं तां ज्ञातुं शक्नुवन्ति? ताम् अवगन्तुं प्रयत्नरतान् जनान् दृष्ट्वा प्रसादः (सुविख्यातः वङ्गकविः रामप्रसादः) हास्यं निवारितुं न शक्नोति। अपारं सागरं कथं कोऽपि उत्तरेत्? मम मनः इदम् अङ्गीकरोति। परन्तु मम प्राणाः न अङ्गीकुर्वन्ति। वामनः भूत्वा चन्द्रं धर्तुम् एषः अट्टहासः। “ श्रुतं किम्? कालीमातुः उदरे प्रचण्डं विश्वं समाविष्टम्। तस्य बृहद्रूपस्य कल्पनां कुर्वन्तु। तथा च उच्यते यत्, ‘षड्दर्शनानि अपि तं द्रष्टुं न शक्नुवन्ति’। पाण्डित्येन सः न लभ्यते।‘ विश्वासबलं - ईश्वरे विश्वासः, महापातकं च। “विश्वासः भक्तिः च अपेक्ष्येते। विश्वासबलं कियत्! श्रुण्वन्तु किञ्चित् – कश्चन समुद्रम् उल्लङ्घ्य परतीरं गन्तुम् ऐच्छत्। बिभीषणः तम् अवदत्, “इदं वस्तु आञ्चले बध्नातु। तेन निर्विघ्नतया गन्तुं शक्नोति। जले पद्भ्यां गन्तुं शक्नुयात्। किन्तु एकः समयः। तत् उद्घाट्य न द्रष्टव्यम्। अन्यथा क्षणात् समुद्रतलं गच्छेत्”।सः समुद्रे सम्यक् गच्छन् आसीत्। विश्वासस्य एतादृशं प्रभावं पश्यन्तु। किञ्चिद् अन्तरं गच्छति सति सः मनसि चिन्तयति, “बिभीषणः किं दत्तवान् येन अहं जले अपि पद्भ्यां चलितुं शक्नोमि?” आञ्चलग्रन्थिं उद्घाट्य तेन दृष्टम्। केवलं रामनाम लिखितं पृष्ठम्। सः स्वगतं चिन्तयति, ‘हात्, इदमेव वस्तु?’ एतेन विचारमात्रेण महाशयः समुद्रतलं गतवान्। “उक्तमस्ति, हनुमतः रामनाम्नि एतावान् विश्वासः आसीत् यत् तद्बलेन सः एकस्मिन् कूर्दने एव समुद्रम् उत्तीर्णवान्, परन्तु स्वयं रामेण सेतुबन्धनं करणीयम् आपतितम्। “ईश्वरे विश्वासः वर्तते चेत् पातकं भवेत् महापातकं वा, कस्मादपि भयं नास्ति”। इति उक्त्वा श्रीरामकृष्णः भक्तिभावस्य उद्रेकेण उन्मत्तः भूत्वा विश्वासस्य माहात्म्यं गायति – (भावार्थः) ‘अम्ब, यदि अहं दुर्गा दुर्गा इति वदन् म्रिये, तर्हि अन्ते भवति मां कथं न त्रायते इति पश्यामि’। 6 भगवत्प्रीतिः एव जीवनोद्देश्यम् “विश्वासः भक्तिः च। भक्त्या भगवान् सहजं लभ्यते। भगवान् भावगम्यः, - भक्तेः विषयः”। इत्युक्त्वा सः पुनः गीतगानम् आरब्धवान् – (भावार्थः) – ‘हे मनः, त्वं तस्य तत्त्वं कथं ज्ञातुं शक्नोषि?’ तमःपूर्णे कारागृहे निगृहीतेन मनोरुग्णेन सदृशं तव एषः वृथाव्यापारः। अरे, एषः भावविषयः। भावं विना, अभावेन त्वम् एनं कदापि अवगन्तुं शक्नुयाः किम्? षड्दर्शनानि तं द्रष्टुं न शक्नुवन्ति। आगमनिगमतन्त्राणामपि सा एव गतिः। सः भक्तिरसस्य रसिकः। अस्यां देहपुर्यां सदानन्देन विराजते। तत्भावार्थं परमयोगिनः युगानुयुगं योगाचरणं कुर्वन्ति। तत्भावोदयानन्तरं सः तं योगिनं लोहचुम्बकवत् स्वं प्रति आकर्षति। ‘प्रसादः’ वदति तमेव अहम् “अम्ब” इति आह्वयामि। परन्तु इदं रहस्यम् अहं चतुष्पथे कथयामि किम्? हे मनः, एतैः चिह्नैः एव यद् अस्ति तद् अवगच्छ’। श्रीरामकृष्णः समाध्यवस्थायाम् गायं गायं श्रीरामकृष्णः समाधिमग्नः जातः। हस्तद्वयं प्रणामस्थितौ बद्धः। देहः काष्ठवत् सरलः दृढः निस्पन्दः च। निर्निमेषे नेत्रे। तस्मिन्नेव दीर्घपीठे पश्चिममुखेन पादौ अधः अवलम्ब्य उपविष्टः। सर्वे मुखानि उन्नीय तां प्रपञ्चोपशमां, शान्तां, शिवाम्, अद्भुतरम्यां, अवस्थां पश्यन्तः सन्ति। पण्डितविद्यासागरः अपि स्तब्धः- नेत्रे श्रीमूर्तौ स्थिरौ। श्रीरामकृष्णः शनैः शनैः देहभानं प्राप्नोति। दीर्घं निःश्वस्य पुनः स्मयमुखेन संभाषते, “भावभक्तिः इत्युक्ते तस्मिन् अनुरागः। यद् ब्रह्म तमेव ‘अम्ब’ इति संबोध्यते। “ ‘प्रसादः वदति यत् तमेव अहं ‘अम्ब’ इति आह्नयामि। इदं रहस्यं किमहं चतुष्पथे कथयामि? मनः, एतैः चिह्नैः एव अवगच्छ किल’। “रामप्रसादः मनः ऊहितुं सूचयति। बोधयति यत् वेदेषु यत् ब्रह्म इति उक्तं तमेव अहम् ‘अम्ब’ इति आह्वयामि। तद् निर्गुणम् तदेव सगुणम्। यद् ब्रह्म, सा एव शक्तिः। यदा सा ‘निष्क्रिया’ इति बुध्यते, तदा तद् ‘ब्रह्म’ इति वदामि। तथा च यदा तत् सृष्टिस्थितिप्रलयं करोति, तदा तम् ‘आद्याशक्तिः’ ‘काली’ वा वदामि। “ब्रह्म शक्तिः च – अभिन्नम्। अग्निः, तस्य दाहिका शक्तिः च। अग्निः इति वदामः चेद् दाहिकाशक्तेः अपि बोधः भवति। दाहिका शक्तिः इति भाषणेन अग्नेः अपि ज्ञानं भवति। एकं मन्यते चेद् अपरमपि सहजं मन्यते एव। “तमेव अम्ब इति उच्यते। ‘अम्बा’ इति अति प्रेमविषयः खलु। ईश्वरे प्रीणामः चेत् तत् लाभाय। भावः, भक्तिः, अनुरागः, विश्वासः च। इतोपि गायामि शृण्वन्तु - उपायः - आदौ विश्वासः अनन्तरं भक्तिः (भावार्थः) – ‘भावनायाः सततम् आलोढनेन भावोदयः भवति। यथा भावः तथा लाभः। सर्वस्य मूलं विश्वासः। कालीचरणसुधासरोवरे निमज्जिते मम चित्ते पूजा होमः यज्ञः च इत्यादयः वृथा’। “चित्तं पूर्णतः तद्रूपं भवेत्। परमेश्वरः बहु प्रयणीयः। ‘सुधासागरः’ इत्युक्ते अमृतसागरः। तस्मिन् निमज्जिते सति मनुष्यः न म्रियते। प्रत्युत सः अमरः भवति। केचन जनाः चिन्तयन्ति यत् ‘ईश्वरः ईश्वरः’ इति अतिकरणेन मतिभ्रमः भवति, परन्तु तद् न सत्यम्। एषः तु सुधासरोवरः। अमृतस्य सागरः। वेदाः तम् अमृतम् इति वदन्ति। यः तस्मिन् निमज्जति सः न म्रियते, सः अमरः भवति। निष्कामकर्म कर्मयोगः वा, ‘जगतः हितम्’ च
श्रीरामकृष्णः पाश्चात्यकर्मपद्धतिः च
पूजनमर्चनं, होमहवनं, यज्ञयागः च इति एतेषां प्रभावः कियान्? यदि तस्य चरणौ अनुरागः उत्पद्यते तर्हि एतेषां सर्वेषां कर्मकाण्डानाम् आवश्यकता एव नास्ति। यावत् वायुः न वहति तावत् व्यजनम् अपेक्ष्यते। यदा दक्षिणवातः स्वयमेव प्रवहति तदा जनाः व्यजनं त्यजन्ति। तदनु तत् किमर्थम्? भवन्तः साम्प्रतं यत् कर्म कुर्वन्तः सन्ति तत् सर्वं सत्कर्म एव। ‘अहं कर्ता’ इति अहंभावं त्यक्त्वा यदि निष्कामकर्म कर्तुं प्रभवन्ति तर्हि बहु समीचीनम्। निष्कामकर्म कारं कारम् ईश्वरे भक्तिप्रेम उत्पद्यते। एतादृशं निष्कामकर्म आचरन् आचरन् मनुष्यः अन्ते ईश्वरं लभते। “परन्तु इदमपि सत्यं यत् यथा यथा प्रेम वर्धते तथा तथा कर्म क्षीयते। स्नुषा गर्भवती भवति चेत् श्वश्रू तस्याः कार्यभारं न्यूनं करोति। गच्छद्भिः दिनैः श्वश्रू तस्याः कार्याणि न्यूनानि कुर्वती भवति। नवमासाः पूर्णाः भवन्ति चेत् स्वल्पमपि कार्यं कर्तुं न अनुमन्यते। न जाने गर्भाय किमपि कष्टं भवेत्। प्रसूतिसमये समस्या उद्भवेत् इति भयम्।(हास्यम्) “भवन्तः यानि सर्वाणि कर्माणि कुर्वन्ति, तेषु भवतां कल्याणं वर्तते। निष्कामभावनया कर्म कर्तुं शक्यते, चेत् तेन चित्तशुद्धिः भवेत्। ईश्वरविषये भवत्सु प्रेम उत्पद्येत। तेन ईश्वरलाभः भवेत्। जगतः कल्याणं मनुष्यः कर्तुं न शक्नोति, ईश्वरः एव करोति। येन चन्द्रसूर्यौ निर्मितौ, मातृपित्रोः हृदये वात्सल्यम् उत्पादितम्, उदारचरितेषु दयायाः प्रादुर्भावः कृता, साधुषु भक्तिः संचारिता सः भगवान् जगतः चिन्तां कर्तुं समर्थः अस्ति। अतः ये जनाः कामनाशून्याः भूत्वा कर्माचरणं करिष्यन्ति ते स्वमङ्गलं साधयन्ति। निष्कामकर्मणः उद्देशः – ईश्वरदर्शनम् “अन्तः सुवर्णनिधिः गुप्तः वर्तते। अद्यापि भवन्तः न जानन्ति। अल्पा मृत्तिका उपरि पतिता वर्तते। एकदा सुवर्णनिधेः ज्ञानं भवति चेत् अन्यानि कार्याणि क्षीयन्ते। स्नुषा प्रसूय पुत्ररत्नं प्राप्नोति चेत् सा तस्यैव व्यवस्थायां, सेवायां च व्यग्रा भवति। तं स्कन्धे, आन्दोले पुनः पुनः स्थापने, उत्थापने च तस्याः दिनं समाप्नोति। गृहकार्ये तां हस्तस्पर्शमपि कर्तुं न अनुमन्यते श्वश्रू।(सर्वे हसन्ति।) “इतोपि अग्रे गच्छतु।... तक्षकः- काष्ठविक्रेता- काष्ठान् आनेतुं वनं गतः। ब्रह्मचारी तम् उक्तवान्, ‘अग्रे गच्छतु’। अग्रे गत्वा सः पश्यति चेत् चन्दनवनम्। कानिचित् दिनानि गतानि। तस्य मनसि विचारः आगतः। ब्रह्मचारी अग्रे गन्तुम् उक्तवान्। चन्दनवृक्षे तिष्ठतु इति न उक्तवान्। इत्यतः अग्रे गत्वा दृष्टवान्। तत्र रौप्यखातम्। केनचित् कालेन पुनः अग्रे गतः। तत्र सुवर्णखातम्। ततोपि अग्रे हीरकमाणिकरत्नानाम् आकरः। महाशयस्य गृहे लक्ष्मीः सेविका जाता। “निष्कामभावनया कर्म कुर्मः चेत् ईश्वरे प्रेम उत्पद्यते। तदनु तस्य कृपया शनैः शनैः तस्य दर्शनमपि भवति। ईश्वरं द्रष्टुं शक्नुमः। तेन सह वार्तां कर्तुं शक्नुमः। अधुना भवद्भिः सह अहं वार्तां कुर्वन् अस्मि तथा”। (सर्वे निशब्दाः।) 7 अहेतुकः दयासिंधुः श्रीरामकृष्णः चकितचकिताः सर्वे शान्ततया इदं कथनं श्रुण्वन्तः सन्ति। साक्षात् वाग्देवी सरस्वती इव श्रीरामकृष्णस्य मुखे अवतीर्य विद्यासागराय उपदेशनिमित्तेन सर्वजीवानां मङ्गलाय एतान् सर्वान् अनुपमविषयान् वदन्ती अस्ति। निशा सर्वत्र स्वशासनम् आरब्धवती। नववादनम्। श्रीरामकृष्णः आप्रष्टुं सिद्धः। श्रीरामकृष्णः – (विद्यासागरं, सहास्यम्) इदं सर्वं कथितं सहजमेव। भवान् सर्वं जानाति एव। केवलम् अद्यापि भानं न आगतम्। (हास्यम्) वरुणराजस्य भाण्डागारे कानि कानि रत्नानि पतितानि सन्ति। वरुणराजः एव न जानाति। विद्यासागरः – (सहास्य) वदति तस्य मुखं कः पिदध्यात्त्? श्रीरामकृष्णः – (हसन्) न, न। नैके श्रेष्ठिनः स्वसेवकानां नामानि अपि न जानन्ति। गृहे कानि मौलिकानि वस्तूनि कुत्र स्थपितानि सन्ति, इति एव न जानन्ति”। संवादं श्रुत्वा सर्वे प्रमुदिताः सन्ति। किञ्चित् कालं सर्वे तूष्णीं स्थितवन्तः। श्रीरामकृष्णः पुनः विद्यासागरम् उद्दिश्य भाषणम् आरब्धवान्। श्रीरामकृष्णः - (सहास्यम्) कदाचित् वाटिकाम् पादधूलिं क्षिपतु। रासमण्याः वाटिका। अतिरम्यं स्थानम्। विद्यासागरः – अवश्यम्। अवश्यम् आगच्छामि। भवान् आगतः, अहं प्रतिदर्शनाय कथं न आगच्छामि? श्रीरामकृष्णः – मम दर्शनार्थम्? छीः... छीः ...। विद्यासागरः - किमर्थम्? भवान् एतादृशं किमर्थं वदति? वयं जानीमः तु? श्रीरामकृष्णः – (सहास्यम्) वयं सर्वे तु उडुपाः (हास्यम्)। वयं यथा कुल्यासु गच्छामः तथा बृहतीषु नदीषु अपि गच्छामः। परन्तु भवान् तु विशाला नौका इव। कः जानीयात्, गच्छन् पङ्के कदाचित् निगृहीतः भवेत्! विद्यासागरः स्मयमानः। तूष्णीं स्थितः। श्रीरामकृष्णः पुनः भाषते। श्रीरामकृष्णः – (सहास्यं) परन्तु एतेषु दिनेषु तत्र नौका अपि गच्छेत् हम्। विद्यासागरः – (सहास्यम्) हं सत्यम्। साम्प्रतं वर्षाकालः ननु! (हास्यम्) मास्तरः – (स्वगतम्) नूतनः उत्पन्नः प्रेमवृष्टिकालः। अस्य नवानुरागे मानापमानसंकल्पनाः न अवशिष्यन्ते खलु! श्रीरामकृष्णः उत्थितः। भक्ताः अपि उत्थिताः। विद्यासागरः अपि मित्रैः सह उत्थितः। अधुना श्रीरामकृष्णं याने उपाविशेत्। परन्तु किमेतत्? अद्यापि श्रीरामकृष्णः स्थितः एव। अङ्गुल्यां सः मूलमन्त्रं जपन् अस्ति। जापं जापं भावाविष्टः भवति। अहेतुकः दयासिन्धुः! गच्छन् विद्यासागरस्य अध्यात्मिककल्याणार्थं जगदन्बां प्रार्थयते! अधुना भक्तैः सह श्रीरामकृष्णः सोपानम् अवरोहति। भक्तेषु कस्यचित् हस्तः गृहीतः। विद्यासागरः स्वजनैः सह अग्रे अग्रे गच्छन् अस्ति। तस्य हस्ते करदीपः। मार्गं दर्शयन् सः अग्रे चलन् अस्ति। अद्य श्रावणमासस्य कृष्णषष्ठी। चन्द्रमा अद्यापि क्षितिजे न उदितः। तमोमयां वाटिकायां दीपस्य मन्दप्रकाशे सर्वे बहिर्द्वारस्य दिशि मन्दं मन्दं गच्छन्तः सन्ति। प्रवेशद्रारम् आगमनमात्राद् एव एकं सुन्दरं दृश्यं दृष्ट्वा सर्वे स्थगिताः। वङ्गीयवेषं धृत्वा कश्चन गौरवर्णीयः श्मश्रूधारी मनुष्यः तत्र स्थितः आसीत्। आयुः सामान्यतः 36-37। शिखजनैः सदृशः शुभ्रशिरोवस्त्रम्। पादयोः पादकोशौ। अङ्गे युतकम्। परन्तु उपवस्त्रं नासीत्। सर्वे दृष्टवन्तः यत् श्रीरामकृष्णस्य दर्शनमात्रात् तं सः साष्टाङ्गं प्रणामं कृतवान्। तस्मिन् उत्थिते सति श्रीरामकृष्णः तम् उवाच, “कः? बलरामः! भवान् एतावत्यां रात्रौ अत्र कथम्?” बलरामः – ( सहास्यम्) बहु कालात् मया आगतम्। अत्रैव स्थितः आसम्। श्रीरामकृष्णः – अन्तः किमर्थं न आगतः? बलरामः – तत्र सर्वे भवतः भाषणश्रवणे तल्लीनाः आसन्। चिन्तितं, मध्ये प्रविश्य रङ्गभङ्गं कृत्वा एतेषां विरसं न करोमि इति। इत्युक्त्वा बलरामः हसितवान्। श्रीरामकृष्णः भक्तैः सह याने उपविशन् अस्ति। विद्यासागरः – ( मास्तरं मन्दशब्दैः) मन्ये, भाटकं मया दीयते। मास्तरः – न, न। तत् सर्वं पूर्वमेव निश्चितमस्ति। विद्यासागरः अन्ये जनाः च श्रीरामकृष्णाय प्रणमितवन्तः। यानम् उत्तरदिशं गतम्। तत् दक्षिणेश्वरं कालीवाडीं गच्छेत्। अद्यापि सर्वे यानं प्रति सततं पश्यन्तः सन्ति। चिन्तयन्तः सन्ति इव। - ‘कः एषः महापुरुषः? ईश्वरे सः एतावत् प्रीणाति। जीवानां कल्याणार्थं स्वयमेव गृहं गृहं गच्छति। सर्वान् वदति यत् ईश्वरप्रेम एव मानवजीवनस्य उद्देशः’।