सामग्री पर जाएँ

श्रीरामकृष्णवचनामृतम्/८

विकिपुस्तकानि तः

दक्षिणेश्वरे उत्सवः श्रीरामकृष्णः दक्षिणेश्वरे स्वप्रकोष्ठे केदारादिभिः भक्तैः सह संभाषमाणः अस्ति। अद्य रविवासरः, अमावास्या, 13 ऑगस्ट 1882. सामान्यतः पञ्चवादनम्। श्रीमान् चटर्जीकेदारः श्रीरामकृष्णस्य भक्तः। हालिसहरे सः निवसति स्म। सर्वकारीयलेखापालस्य कार्यं सः करोति स्म। ढाकानगरे दीर्घे वास्तव्ये श्रीमता गोस्वामीविजयकृष्णेन सह तस्य स्नेहः वर्धितः। श्रीरामकृष्णविषये वार्तां कुर्वतोः द्वयोः कियान् समयः सात्विके आनन्दे यापितः भवति स्म तस्य सीमा एव नासीत्! ईश्वरविषये वार्तां कुर्वतोः तयोः नेत्रतः प्रेमाश्रूणि स्रवन्ति स्म। तौ पूर्वं ब्राह्मसमाजस्य अनुयायिनौ आस्ताम्। श्रीरामकृष्णः स्वप्रकोष्ठे दक्षिणे अट्टे भक्तैः सह उपविष्टः अस्ति। रामः, मनोमोहनः,सुरेन्द्रः,राखालः,भवनाथः,मास्तरः च इति एते बहवः भक्ताः उपस्थिताः आसन्। केदारः अद्य श्रीरामकृष्णप्रीत्यर्थम् उत्सवं कुर्वन् अस्ति। तेन अद्य सर्वत्र आनन्दस्य परिवेषः वर्तते। रामबाबू स्वेन सह एकं गायकं आनीतवान्। सः गायन् अस्ति। तदा श्रीरामकृष्णः प्रकोष्ठे समाधिमग्नावस्थायां पर्यङ्के उपविष्टः। मास्तरः इतरभक्तजनाः च तस्य पादौ उपविष्टाः सन्ति। समाधिरहस्यं सर्वधर्मसमन्वयः च। हिन्दवः, मुसलमानाः, ख्रिश्चनाः च श्रीरामकृष्ण- संभाषणप्रवाहे समाधिरहस्यं वदन् अस्ति, “ सच्चिदानन्दलाभेन समाधिः लभ्यते। तदा कर्म पूर्णतः समूलं गलति। कल्पयन्तु, अहं गायकस्य विषये वदन् अस्मि। तदा सः एव स्वयम् आगतः। तर्हि तस्य विषये भाषणस्य आवश्यकता एव का? मधुमक्षिका कदा गुञ्जनं करोति? यावत् सा पुष्पे न उपविशति तावदेव। परं साधकेन कर्मत्यागः न करणीयः। पूजा, जपं, ध्यानं, संध्या, कवचम् चेत्यादयः सर्वे विषयाः तेन करणीयाः। “वस्तुलाभानन्तरमपि यः कश्चन तर्कं करोति, सः मधु पिबन्ती मक्षिका अर्धस्फुटं गुञ्जारवं करोति तद्वदेव”। गायकः अतिसुन्दरं गीतानि गीतवान्। प्रसन्नः श्रीरामकृष्णः तम् उक्तवान्, “यदि कस्मिञ्श्चित् जने कश्चन विशेषः गुणः उदाहरणार्थं गानकला विद्यते तर्हि तस्मिन् विशेषत्वेन ईश्वरीया शक्तिः विद्यते इति अवगच्छतु। गायकः – महाराज, केन उपायेन दर्शनं लभ्येत? श्रीरामकृष्णः – भक्तिः एव सारम्। भगवान् सर्वेषु भूतेषु विद्यते। परन्तु कः भक्तः? सः एव यस्य मनः सर्वदा ईश्वरचरणयोः लग्नम्। अहंकारः अभिमानः विद्यते चेद् एतत् किमपि न भविष्यति। अहंकारगिरौ ईश्वररूपं जलं न संगृह्यते। सर्वं निस्सरति। ‘अहं’ केवलं यन्त्रम्। (केदारादीन् भक्तान् प्रति) “सर्वैः मार्गैः तस्य प्राप्तिः शक्या। सर्वे धर्माः सत्याः। अट्टम् आरोहणीयं चेत् दृढसोपानेन गन्तव्यं, काष्ठसोपानेन गन्तव्यं, वंशसोपानेन गन्तव्यं अथ वा रज्वोः साहाय्येन गन्तव्यम्। कश्चित् ग्रन्थियुतः वंशः अपि कार्यं साधयेत्। “भवन्तः वदेयुः यत् इतरेषां धर्मेषु नैके दोषाः सन्ति, अन्धविश्वासः वर्तते च। परन्तु अहं वदामि यत् भवन्तु नाम। कस्मिन् धर्मे दोषाः न सन्ति? सर्वे चिन्तयन्ति यत् मम घटी एव योग्यं समयं दर्शयति! व्याकुलता अपेक्ष्यते। भगवतः विषय़े आकर्षणं, प्रेम च भवति चेत् पर्याप्तम्। सः तु अन्तर्यामी। अन्तरङ्गे विद्यमानं प्रेम व्याकुलतां च सः द्रष्टुं शक्नोति। कल्पयन्तु, कस्यचित् पितुः नैके पुत्राः सन्ति। तेषु ज्येष्ठाः पितरं ‘तात’ वा ‘पिता’ नाम्ना स्पष्टम् उच्चार्य आव्हयन्ति। परन्तु कनीयान् शिशुः सम्यक् भाषितुं न शक्नोति। सः ‘बा’ वा ‘पा’ इति एकमेव अक्षरं वक्तुं शक्नोति। तेन किं पिता कुप्यति? सः सम्यक् जानाति यत् एषः मामेव आव्हयति। केवलं सम्यक् उच्चारं कर्तुम् अक्षमः। पितुः सर्वे बालकाः समानाः। “एवं च, भक्ताः तं विभिन्नैः नामभिः स्तुवन्ति, आव्हयन्ति च। तम् इत्युक्ते एकमेव पुरुषम् खलु। चतुर्घट्टानां काचित् पुष्करणी वर्तते। हिन्दवः एकस्मिन् घट्टे जलं पिबन्ति। ते वदन्ति ‘जलम्’। मुस्लीमाः अपरस्मिन् घट्टे पिबन्ति। ते वदन्ति ‘पानी’। आङ्ग्लजनाः तृतीये घट्टे पिबन्ति, वदन्ति ‘वॉटर’। अन्ये केचन अन्यत्र पिबन्ति। ते वदन्ति ‘ऑक्वा’। तथैव ईश्वरः एकः एव। तस्य अभिधानानि नैकानि”।