ए,ऐ...

विकिपुस्तकानि तः

एकाधिकरणवृत्तित्वम् =
सामानाधिकरण्यम्।ऐकाधिकरण्यम्। समानाधिकरणत्वम्।
यथा रसगन्धयोः पृथिव्याम् एकाधिकरणवृत्तित्वं,सामानाधिकरण्यम्, ऐकाधिकरण्यं समानाधिकरणत्वं वास्ति।
यथा मधुररस-शीतवीर्ययोः दुग्धे एकाधिकरणवृत्तित्वं,सामानाधिकरण्यम्, ऐकाधिकरण्यं,समानाधिकरणत्वं वास्ति।

एकाधिकरणवृत्तित्वाभावः =
असामानाधिकरण्यम्। वैयधिकरण्यम्।विरोधः।विरुद्धत्वम्। एकाधिकरण-अवृत्तित्वम्।व्यधिकरणत्वम्। भिन्नाधिकरणत्वम्।
यथा शीतस्पर्शोष्णस्पर्शयोः एकाधिकरणवृत्तित्वाभावः,असामानाधिकरण्यम्, वैयधिकरण्यं, विरोधः, विरुद्धत्वम्, एकाधिकरणावृत्तित्वं, व्यधिकरणत्वं, भिन्नाधिकरणत्वं वा विद्यते।
यथा समविषमाग्न्योः एकाधिकरणवृत्तित्वाभावः,असामानाधिकरण्यं,वैयधिकरण्यं, विरोधः, विरुद्धत्वम्, एकाधिकरणावृत्तित्वं, व्यधिकरणत्वं, भिन्नाधिकरणत्वं वा विद्यते।

एकाधिकरणावृत्तित्वम् =
असामानाधिकरण्यम्।वैयधिकरण्यम्।विरोधः।विरुद्धत्वम्।एकाधिकरणवृत्तित्व-अभावः।व्यधिकरणत्वम्।भिन्नाधिकरणत्वम्।
यथा शीतस्पर्शोष्णस्पर्शयोः एकाधिकरणावृत्तित्वम्,असामानाधिकरण्यम्, वैयधिकरण्यं, विरोधः, विरुद्धत्वम्, एकाधिकरणवृत्तित्वाभावः, व्यधिकरणत्वम् भिन्नाधिकरणत्वं वा विद्यते।
यथा समविषमाग्न्योः एकाधिकरणावृत्तित्वम्,असामानाधिकरण्यं,वैयधिकरण्यं, विरोधः, विरुद्धत्वम्, एकाधिकरणवृत्तित्वाभावः, व्यधिकरणत्वम्, भिन्नाधिकरणत्वं वा विद्यते।

ऐकाधिकरण्यम् =
सामानाधिकरण्यम्।एकाधिकरणवृत्तित्वम्। समानाधिकरणत्वम्।
यथा रसगन्धयोः पृथिव्याम् ऐकाधिकरण्यं,सामानाधिकरण्यम्,एकाधिकरणवृत्तित्वं समानाधिकरणत्वं वास्ति।
यथा मधुररस-शीतवीर्ययोः दुग्धे ऐकाधिकरण्यं, सामानाधिकरण्यम्, एकाधिकरणवृत्तित्वं, समानाधिकरणत्वं वास्ति।

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=ए,ऐ...&oldid=7298" इत्यस्माद् प्रतिप्राप्तम्