फ,ब,भ,म...

विकिपुस्तकानि तः

फलम् =
कार्यम्।
यथा कुलालव्यापारस्य फलं, कार्यं वा घटः।
यथा दोषसाम्यस्य फलं, कार्यं वा सुखानुबन्धः ।

फलितम् =
पर्यवसन्नम्।
यथा काष्ठद्वैधीभावः छेदनक्रियायाः फलितं, पर्यवसन्नं वा।
यथा रक्तपित्तम् इति ज्वरसन्तापस्य फलितं, पर्यवसन्नं वा।

बाधितः =
कालात्ययापदिष्टः।
यथा ‘वह्निरनुष्णः द्रव्यत्वात्’ इत्यनुमाने द्रव्यत्वम् इति हेतुः बाधितः, कालात्ययापदिष्टः, वास्ति।
‘यथा कफः नाभ्यधःस्थः, गुरुत्वात्’ इत्यनुमाने गुरुत्वम् इति हेतुः बाधितः, कालात्ययापदिष्टः वास्ति।

बुध्दिः =
ग्रहः।ज्ञानम् ।धी:।प्रतीतिः।प्रत्ययः।बोधः।संवित्।
यथा देवदत्तः घटं जानाति इत्युक्ते देवदत्तस्य घटबुध्दिः, घटग्रहः, घटज्ञानम् , घटधीः, घटप्रतीतिः, घटप्रत्ययः, घटबोधः, घटसंवित् वास्ति ।
यथा वैद्यः शरीरं जानाति इत्युक्ते वैद्यस्य शरीरबुध्दिः, शरीरग्रहः, शरीरज्ञानम् , शरीरधीः, शरीरप्रतीतिः, घटप्रत्ययः, शरीरबोधः, शरीरसंवित् वास्ति ।

बोधः =
ग्रहः।ज्ञानम्।धी:।प्रतीतिः।प्रत्ययः।बुध्दिः। संवित् ।
यथा देवदत्तः घटं जानाति इत्युक्ते देवदत्तस्य घटबोधः, घटग्रहः, घटज्ञानम् , घटधीः, घटप्रतीतिः, घटप्रत्ययः, घटबुध्दिः, घटसंवित् वास्ति ।
यथा वैद्यः शरीरं जानाति इत्युक्ते वैद्यस्य शरीरबोधः, शरीरग्रहः, शरीरज्ञानम् , शरीरधीः, शरीरप्रतीतिः, घटप्रत्ययः, शरीरबुध्दिः, शरीरसंवित् वास्ति ।

भिन्नत्वम् =
अन्यत्वम्।अन्योन्याभावः।इतरत्वम्।भेदः।भेदवत्वम्।
यथा घटे पटान्यत्वं,,पट-अन्योन्याभावः, पटेतरत्वं, पटभिन्नत्वं, पटभेदः, पटभेदवत्वं वा विद्यते ।
यथा पित्ते रक्तान्यत्व. रक्तान्योन्याभावः, रक्तेतरत्वं,, रक्तभिन्नत्वं,, रक्तभेदः,, रक्तभेदवत्त्वं वा विद्यते।

भिन्नाधिकरणत्वम् =
असामानाधिकरण्यम्। वैयधिकरण्यम्। विरोधः। विरुद्धत्वम्। एकाधिकरणवृत्तित्वाभावः। एकाधिकरणावृत्तित्वम्। व्यधिकरणत्वम् ।
यथा शीतस्पर्शोष्णस्पर्शयोः भिन्नाधिकरणत्वम्, असामानाधिकरण्यं, वैयधिकरण्यं, विरोधः,विरुद्धत्वम्, एकाधिकरणवृत्तित्वाभावः, एकाधिकरणावृत्तित्वं,व्यधिकरणत्वं वा विद्यते।
यथा समविषमाग्न्योः भिन्नाधिकरणत्वम्, असामानाधिकरण्यं, वैयधिकरण्यं, विरोधः, विरुद्धत्वम्, एकाधिकरणवृत्तित्वाभावः, एकाधिकरणावृत्तित्वं, व्यधिकरणत्वं वा विद्यते।

भेदः =
अन्यत्वम्।अन्योन्याभावः ।इतरत्वम् ।भिन्नत्वम् ।भेदवत्वम् ।
यथा घटे पटभेदः, पटान्यत्वं,पट-अन्योन्याभावः,पटेतरत्वं, पटभिन्नत्वं,पटभेदवत्वं वा ।
यथा पित्ते रक्तभेदः, रक्तान्यत्व. रक्तान्योन्याभावः, रक्तेतरत्वं, रक्तभिन्नत्वं, रक्तभेदवत्त्वं वा।

भेदवत्वम् =
अन्यत्वम्। अन्योन्याभावः। इतरत्वम्। भिन्नत्वम्।भेदः ।
यथा घटे पटभेदवत्वं, पटान्यत्वं, पट-अन्योन्याभावः, पटेतरत्वं, पटभिन्नत्वं, पटभेदः, वा ।
यथा पित्ते रक्तभेदवत्त्वं, रक्तान्यत्व.रक्तान्योन्याभावः, रक्तेतरत्वं, रक्तभिन्नत्वं, रक्तभेदः, वा।

भ्रमः =
अप्रमा। अयथार्थानुभवः ।
यथा रज्ज्वां सर्पज्ञानं भ्रमः, अप्रमा, अयथार्थनुभवः वा ।
यथा अपक्वव्रणशोथे पाकज्ञानम् भ्रमः, अप्रमा, अयथार्थनुभवः वा

मानम् =
परिमाणम्।
अणुमानम्, अणुपरिमाणं वा मनः।
अर्धाञ्जलिः इति ओजसः मानं, परिमाणं वा।

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=फ,ब,भ,म...&oldid=7292" इत्यस्माद् प्रतिप्राप्तम्