रम्याः तपोधनानां..... -अङ्कः इति ॥१.१३॥

विकिपुस्तकानि तः

रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवालोक्य ।
ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥१.१३॥

पदच्छेदः-
रम्याः तपोधनानां प्रतिहतविघ्नाः क्रियाः समवालोक्य ।
ज्ञास्यसि कियद्भुजः मे रक्षति मौर्वीकिण-अङ्कः इति ॥१.१३॥

अन्वयः-
तपोधनानां प्रतिहतविघ्नाः रम्याः क्रियाः समवालोक्य मौर्वीकिण-अङ्कः मे भुजः कियत् रक्षति इति ज्ञास्यसि ॥१.१३॥

सन्दर्भः-
कण्वाश्रमं प्रति आगन्तुं राजा दुष्यन्तः तपस्विना प्रार्थितः।स्वस्य प्रार्थना तेन एवं समर्थिता।

सरलार्थः-
राजन् आश्रमे तपस्विनां रम्याः क्रियाः निर्विघ्नाः प्रवर्तन्ते।तद् दृष्ट्वा भवान् ज्ञास्यति, ‘मौर्व्याः घर्षणेन जातं चिह्नं यत्र विद्यते, सः मम बाहुः कियत् रक्षाकार्यं करोति’ इति।

वृत्तम् –
आर्या

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि          अभिज्ञानशाकुन्तले आर्या-वृत्तनिबद्धानि पद्यानि
जन्म यस्य..... आप्नुहि ॥१.१२॥          नीवाराः..... -रेखाङ्किताः ॥१.१४॥