लोकाभिरामं ... शरणं प्रपद्ये

विकिपुस्तकानि तः

मूलम्
लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥३२॥

पदच्छेदः
लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥३२॥

अन्वयः
लोकाभिरामं, रणरङ्गधीरं, राजीवनेत्रं, रघुवंशनाथं,कारुण्यरूपं, करुणाकरं, तं श्रीरामचन्द्रम् (अहं) शरणं प्रपद्ये॥३२॥

सरलार्थः
लोके सुन्दरं, रणाङ्गणे धैर्यशीलं, कमलनेत्रं, रघुवंशस्य स्वामिनं, करुणामयं, करुणाकरं, तं श्रीरामचन्द्रम् अहं शरणं गच्छामि॥३२॥

सन्धिविग्रहः ३२

सन्धिः विग्रहः सूत्रम्
लोकाभिरामं लोक-अभिरामं अकः सवर्णे दीर्घः।६.१.९९

समासविग्रहः३२
लोकाभिरामम्
लोकेषु अभिरामः लोकाभिरामः, तम्।... सप्तमी शौण्डैः।२.१.४०

रणरङ्गधीरम्
रणम् रङ्गः इव रणरङ्गः।... उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ।२.४.५६
रणरङ्गे धीरः रणरङ्गधीरः, तम्।... सप्तमी शौण्डैः।२.१.४०

राजीवनेत्रम्
राजीवम् इव नेत्रं यस्य सः राजीवनेत्रः, तम्।... अनेकमन्यपदार्थे।२.२.२४

रघुवंशनाथम्
रघूणां वंशः रघुवंशः।... षष्ठी।२.२.८
रघुवंशस्य नाथः रघुवंशनाथः, तम्।... षष्ठी।२.२.८

कारुण्यरूपम्
कारुण्यं रूपं यस्य सः कारुण्यरूपः,तम्।... अनेकमन्यपदार्थे।२.२.२४

रामरक्षास्तोत्रम् - सान्वयं सार्थम्