कूजन्तं ... वाल्मीकिकोकिलम्
दिखावट
मूलम्
कूजन्तं रामरामेति मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥
पदच्छेदः
कूजन्तं राम राम इति मधुरं मधुर-अक्षरम्
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥
अन्वयः
कविताशाखाम् आरुह्य, राम राम इति मधुर-अक्षरं मधुरं कूजन्तं वाल्मीकि-कोकिलम् (अहं) वन्दे ॥३४॥
सरलार्थः
वाल्मीकिरूपः कोकिलः कवितारूपां शाखाम् आरुह्य, राम राम इति मधुर-अक्षरं नाम मधुरवाण्या गायति। तम् वाल्मीकिकोकिलम् अहं वन्दे ॥३४॥
सन्धिविग्रहः ३४
सन्धिः | विग्रहः | सूत्रम् |
---|---|---|
रामरामेति | रामराम इति | आद्गुणः।६.१.८६ |
मधुराक्षरम् | मधुर-अक्षरम् | अकः सवर्णे दीर्घः।६.१.९९ |
समासविग्रहः३४
मधुराक्षरम्
मधुरम् अक्षरं यस्मिन् तत् मधुराक्षरं (नाम)।... अनेकमन्यपदार्थे।२.२.२४
कविताशाखाम्
कविता शाखा इव,ताम्।... उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।२.१.५६
वाल्मीकिकोकिलम्
वाल्मीकिः कोकिलः इव वाल्मीकिकोकिलः, तम्।... उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।२.१.५६
रामरक्षास्तोत्रम् - सान्वयं सार्थम्