सामग्री पर जाएँ

च.सू.५.७१-७६

विकिपुस्तकानि तः

आपोथिताग्रं द्वौ कालौ कषायकटुतिक्तकम्॥७१
भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्।निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यजं मलम्॥७२
निष्कृष्य रुचिमाधत्ते सद्यो दन्तविशोधनम्।करञ्जकरवीरार्कमालतीककुभासनाः॥७३
शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः।सुवर्णरूप्यताम्राणि त्रपुरीतिमयानि च॥७४
जिह्वानिर्लेखनानि स्युरतीक्ष्णान्यनृजूनि च।जिह्वामूलगतं यच्च मलमुच्छ्वासरोधि च॥७५
दौर्गन्ध्यं भजते तेन तस्माज्जिह्वां विनिर्लिखेत्।७६

पदच्छेदः -
आपोथित-अग्रं द्वौ कालौ कषायकटुतिक्तकम्॥७१
भक्षयेत् दन्तपवनं दन्तमांसानि अबाधयन्।निहन्ति गन्धं वैरस्यं जिह्वादन्त-आस्यजं मलम्॥७२
निष्कृष्य रुचिम् आधत्ते सद्यः दन्तविशोधनम्।करञ्ज-करवीर-अर्क-मालती-ककुभ-असनाः॥७३
शस्यन्ते दन्तपवने ये च अपि एवंविधाः द्रुमाः।सुवर्णरूप्यताम्राणि त्रपुरीतिमयानि च॥७४
जिह्वानिर्लेखनानि स्युः अतीक्ष्णानि अनृजूनि च।जिह्वामूलगतं यत् च मलम् उच्छ्वासरोधि च॥७५
दौर्गन्ध्यं भजते तेन तस्मात् जिह्वां विनिर्लिखेत्।७६

अन्वयः -
आपोथित-अग्रं , कषायकटुतिक्तकम् दन्तपवनं द्वौ कालौ दन्तमांसानि अबाधयन् भक्षयेत् । (तद् दन्तपवनं) गन्धं, वैरस्यं निहन्ति। जिह्वा-दन्त-आस्यजं मलं निष्कृष्य रुचिम् आधत्ते। सद्यः दन्तविशोधनम् (भवति) ॥करञ्ज-करवीर-अर्क-मालती-ककुभासनाः ,ये च अपि एवंविधाः द्रुमाः (ते) दन्तपवने शस्यन्ते।

जिह्वानिर्लेखनानि सुवर्णरूप्यताम्राणि त्रपुरीतिमयानि च अतीक्ष्णानि अनृजूनि च स्युः।७४ यत् जिह्वामूलगतं च उच्छ्वासरोधि च मलं, तेन (मुखं) दौर्गन्ध्यं भजते। तस्मात् जिह्वां विनिर्लिखेत्।७६

सरलार्थः -
दिने द्विवारं दन्तपवनं भक्षयेत् । तद् दन्तपवनम् आपोथित-अग्रं तथा कषायकटुतिक्तरसात्मकं स्यात्।भक्षणकाले दन्तमांसानां बाधः न स्यात्।(तद् दन्तपवनं) गन्धं, वैरस्यं निहन्ति। जिह्वा-दन्त-आस्यजं मलं निष्कृष्य रुचिम् आधत्ते। सद्यः दन्तविशोधनम् (भवति)।करञ्ज-करवीर-अर्क-मालती-ककुभासनाः ,ये च अपि एवंविधाः द्रुमाः (ते) दन्तपवने शस्यन्ते। जिह्वायाः लेखनार्थं या पट्टिका, सा सुवर्णस्य, रौप्यस्य, ताम्रस्य त्रपुमयी, रीतिमयी वा भवेत्। जिह्वामूले मलः सञ्चितः भवति, तेन उच्छ्वासस्य अवरोधः भवति, मुखे दुर्गन्धः अपि भवति।अतः जिह्वायाः लेखनं कर्तव्यम्॥७६

आयुर्वेददीपिका
स्थानप्रत्यासत्त्या दन्तकाष्ठगुणान् दर्शयति- आपोथित-इत्यादि। द्विकालं सायं प्रातः इति। दन्तान् पुनाति इति दन्तपवनं दन्तकाष्ठम्। निष्कृष्य मलम् इति सम्बन्धः। ककुभः अर्जुनः। एवंविधाः एवंरसाः इति अर्थः॥७१-७५

अरुन्धती पद्धतिः
नस्योपदेशाद् अनन्तरं दन्तधावनमुपदिश्यते।कात्र सङ्गतिः?स्थानप्रत्यासत्तिः अत्र सङ्गतिः। नासास्थानस्य निकटे मुखं वर्तते।अतः नासाकर्मोत्तरं मुखकर्म उपदेष्टुं युज्यते।
आपोथितं कुट्टितम्।आपोथितम् अग्रं यस्य, तत् आपोथिताग्रम्।दन्तपावनस्य विशेषणम् एतत्।
दन्तपवनम् इत्यस्य निर्वचनं कथम? द्विविधं निर्वचनं सम्भवति।दन्तान् पुनाति इति दन्तपवनम्।अथवा दन्ताः पूयन्ते शोध्यन्ते अनेन इति दन्तपवनम्। उभे अपि निर्वचने साधुत्वं भजेते।उभयत्र अर्थः प्रायः समानः।प्रथमे निर्वचने कर्तृत्वविवक्षा अस्ति, ‘दन्तशोधनक्रियायाः कर्तृ दन्तकाष्ठम्’ इति अभिप्रायः वर्तते।द्वितीये निर्वचने करणविवक्षा अस्ति, ‘दन्तशोधनक्रियायाः करणं दन्तकाष्ठम्’ इति अभिप्रायः विद्यते।
सूत्रे निष्कृष्य इति ल्यबन्तं विद्यते।तस्य कर्म किम् इति प्रश्नः।ल्यबन्तस्य सन्निधौ ‘रुचिः’ इति पदं विद्यते।परं तस्मिन् निष्कर्षणक्रियायाः कर्मयोग्यता नास्ति।रुचिं निष्कृष्य इति अर्थः न विवक्षितः। अतः चक्रपाणिः एतं प्रश्नं समादधाति -
निष्कृष्य मलम् इति सम्बन्धः। -चक्रपाणिः
‘मलम्’ इति द्वितीयान्तं पदं पूर्वतनपद्ये अन्तिमे चरणे विद्यते।तेन सह निष्कृष्य इति ल्यबन्तस्य अन्वयः कार्यः।तेन सुसङ्गतः अर्थः निष्पद्यते।
एवंविधाः द्रुमाः इति सूत्रकारः।विधाशब्दः प्रकारवाचकः।प्रकारः इति विशेषणम्। करञ्ज-करवीर-अर्क-मालती-ककुभ-असनाः इति एते द्रुमाः उपरि पठिताः।तेषां यः प्रकारः, सः प्रकारः येषाम् अस्ति, ते एवंविधाः द्रुमाः।अत्रोक्तेषु द्रुमेषु नैके प्रकाराः सन्ति यथा अर्के क्षुपत्वप्रकारः अस्ति, ककुभे वृक्षत्वप्रकारः अस्ति।एतेषु केषां प्रकाराणामत्र अपेक्षा अस्ति इति विशेषणाकाङ्क्षा वर्तते।तदा सन्निधौ विशेषणं लभ्यते-
कषायकटुतिक्तकम्।भक्षयेत् दन्तपवनं...।च.सू.५.७२
अतः कषायकटुतिक्तान्यतमवत्त्वम् इति एषः द्रुमप्रकारः अत्र मुनेः अभिप्रेतः इति गम्यते। तदेवाह चक्रपाणिः - एवंविधाः एवंरसाः इति अर्थः॥-चक्रपाणिः
दन्तधावनादनन्तरं जिह्वानिर्लेखनं मुनिना प्रतिपादितम्।तद्विषये चक्रपाणिना कथं किमपि न उक्तम्।ग्रन्थः सुगमः भवति चेत् टीकाकारः तत्र न टीकते।परं ‘शेषं सुगमम्’ इति वचनेन तस्य परामर्शम् अवश्यं करोति।सोऽपि चक्रपाणिनात्र न कृतः।
सत्यम्।चक्रपाणिना अयमंशः दुर्लक्षितः इति।एतावान् ग्रन्थः अग्निवेशस्य अस्ति इति चक्रपाणिः न मन्यते।अतः तत्र किमपि वक्तुं नोत्सहते।
कथमेषः विजानाति एतावानंशः मुनिकृतः नास्ति इति?
अध्यायोपसंहार अस्य उल्लेखादर्शनात्।अध्यायान्ते मुनिना अध्यायोक्तानाम् अर्थानां सङ्क्षेपेण कथनं कृतम्।तत्र जिह्वानिर्लेखनस्य समावेशः नास्ति-
भक्षयेद्दन्तपवनं यथा यद्यद्गुणं च यत्॥१०८ यदर्थं यानि चास्येन धार्याणि कवलग्रहे।
एवमुपसंहारे दन्तधावनाद् अनन्तरं मुखे धारणीयानां द्रव्याणाम् उल्लेखः अस्ति, जिह्वानिर्लेखनस्य क्वापि उल्लेखः नास्ति। अतः एतावान् अंशः केनचिदन्येन अत्र प्रक्षिप्तः इति चक्रपाणिः मन्यते।ग्रन्थः अग्निवेशस्य नास्ति अतः तत्र सः किमपि वक्तुं नेच्छति।

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.७१-७६&oldid=7110" इत्यस्माद् प्रतिप्राप्तम्