आनन्दकन्द 2.9

विकिपुस्तकानि तः

श्रीभैरवी ।
कीदृशी ओषधी नाथ रसकर्मकरी शुभा ।
केन वा भस्म सूतश्च केन वा खोटबन्धनम् ॥ आक-२,९.१ ॥

निर्जीवत्वं गतः सूतः कथं जीवं ददाति सः ।
निर्जीवेन तु जीवत्वं कथं जीवति शङ्कर ॥ आक-२,९.२ ॥

एतन्मे संशयं ब्रूहि यथा जानाम्यहं शिव ।
श्रीभैरवः ।
शृणु भैरवि तत्सर्वमपूर्वं कथयामि ते ॥ आक-२,९.३ ॥

ब्रह्मविष्णुसुरेन्द्राद्यैर्न ज्ञातं वीरवन्दिते ।
वलीपलितरोगघ्ना मृत्युदारिद्र्यभञ्जनाः ॥ आक-२,९.४ ॥

रसकर्मकरा दिव्याः कुलौषध्यः सुसिद्धिदाः ।
भ्रमन्ति पशवो मूढाः कुलौषधिविवर्जिताः ॥ आक-२,९.५ ॥

तृणौषधिरसानां च नैव सिद्धिः प्रजायते ।
तस्मात्सर्वप्रयत्नेन ज्ञातव्या तु कुलौषधिः ॥ आक-२,९.६ ॥

दिव्यौषध्यश्चतुःषष्टिः कुलमध्ये व्यवस्थिताः ।
नैव जानन्ति मूढास्ताः शिवमोहेन मोहिताः ॥ आक-२,९.७ ॥

अदिव्यास्तु तृणौषध्यो जायन्ते गिरिगह्वरे ।
तृणौषध्या रसे सूतं नैव बन्धं कदाचन ॥ आक-२,९.८ ॥

अक्षयं नैव तिष्ठेत्तु कुलौषधिविवर्जितम् ।
कुलौषध्या विहीनास्तु गगनं च न हन्ति ते ॥ आक-२,९.९ ॥

स रसस्तु वरारोहे वह्निमध्ये न तिष्ठति ।
न खोटो न च वा भस्म नैव द्रव्यं करोति सः ॥ आक-२,९.१० ॥

किंचिद्द्रव्यं प्रकुर्वन्ति धाम्यमानं न तिष्ठति ।
पत्रे पाके कषे छेदे नैव तिष्ठति काञ्चनम् ॥ आक-२,९.११ ॥

नैव वेधं शतादूर्ध्वं करोति स रसः प्रिये ।
यावन्न चाब्दमेकं तु विक्रीतं तत्तु काञ्चनम् ॥ आक-२,९.१२ ॥

धर्मार्थकाममोक्षेषु नैव दद्यात्तु तत्प्रिये ।
दिव्यौषध्या यदा देवि रसेन्द्रो मर्दितो भवेत् ॥ आक-२,९.१३ ॥

कालिकारहितः सूतः सदा भवति पार्वति ।
परस्य हरते कालं कालिकारहितो रसः ॥ आक-२,९.१४ ॥

अष्टानां चैव लोहानां मलं शमयति क्षणात् ।
महामूर्च्छागतं सूतं को वापि कथयेन्मृतम् ॥ आक-२,९.१५ ॥

दिव्यौषध्या रसेनैव जायते नष्टचेतनः ।
पञ्चभूतात्मकः सूतस्तिष्ठते च सदाशिवः ॥ आक-२,९.१६ ॥

रसौषध्यो महौषध्यः सिद्धौषध्यस्तथापराः ।
दिव्यौषध्य इति प्रोक्ता मया प्रोक्ताश्चतुर्विधाः ॥ आक-२,९.१७ ॥

दिव्यौषध्यो निगद्यन्ते तासु ता गुणवत्तराः ।
वृक्षवल्लीलतागुल्मतृणवन्दानिका इति ॥ आक-२,९.१८ ॥

रसबन्धकरौषध्यः षड्विधाः परिकीर्तिताः ।

सोमवल्ली

सोमवल्ली महागुल्मा यक्षश्रेष्ठा धनुर्लता ॥ आक-२,९.१९ ॥

सोमाह्वा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया ।
सोमक्षीरा च सोमा च यज्ञा दिव्यलता स्मृता ॥ आक-२,९.२० ॥

सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् ।
तृष्णाविशेषशमनी पाचनी च रसायनी ॥ आक-२,९.२१ ॥

पञ्चाङ्गका पञ्चदशच्छदाढ्या सर्पाकृतिः शोणितपर्वदेशा ।
सा सोमवल्ली रसबन्धकर्म करोति राकादिवसोपनीता ॥ आक-२,९.२२ ॥

कृष्णे पक्षे प्रगलति दलं प्रत्यहं चैकमेकं शुक्ले पक्षे प्रभवति पुनर् लम्बमाना लता स्यात् ।
तस्याः कन्दः कलयतितरां पूर्णिमायां गृहीतो बद्ध्वा सूतं कनकसहितं देहलोहं विधत्ते ॥ आक-२,९.२३ ॥

इयं सोमलता नाम वल्ली परमदुर्लभा ।
अनया बद्धसूतेन्द्रो लक्षवेधी प्रजायते ॥ आक-२,९.२४ ॥

चतुर्विंशतिसोमानां लक्ष्म व्यक्तं रसायने ।

सोमवृक्ष

करोति सोमवृक्षोऽपि रसबन्धवधादिकम् ॥ आक-२,९.२५ ॥

पूर्णिमादिवसानीतस्तयोर्वल्ली गुणाधिका ।
प्रोक्ता महिषवल्ली च प्रतिसोमान्त्रवल्लिका ॥ आक-२,९.२६ ॥

अपत्त्रवल्लिका प्रोक्ता काण्डशाखा पयस्विनी ।
रसवीर्यविपाकेषु सोमवल्लीसमा स्मृता ॥ आक-२,९.२७ ॥

स्थलपद्मिनी

अथातः स्थलपद्मिन्या दिव्यौषध्या विधिं शृणु ।
पद्मिनीसदृशा पत्रैः पुष्पैरपि च तादृशी ॥ आक-२,९.२८ ॥

भङ्गे चैव स्रवेत्क्षीरं रक्तवर्णं सुशोभनम् ।
आक-रम्य वामपादेन पश्येद्गगनमण्डलम् ॥ आक-२,९.२९ ॥

पश्येच्च तारकायुक्तं ग्रहनक्षत्रमण्डलम् ।
लक्षयोजनतो देवि सा ज्ञेया स्थलपद्मिनी ॥ आक-२,९.३० ॥

गोनसा

गोनसाकारवल्ली स्याच्चित्रमण्डलमण्डिता ।
जरारुङ्मृत्युशमनी रसबन्धवधक्षमा ॥ आक-२,९.३१ ॥

उच्चटा

अथोच्चटां प्रवक्ष्यामि रसबन्धकरीं प्रिये ।
एकमेव भवेन्नालं तस्या रोमप्रवेष्टनम् ॥ आक-२,९.३२ ॥

तस्याग्रे च भवेत्पुष्पं शुकतुण्डस्य सन्निभम् ।
तत्पत्राणि च देवेशि शुकपिच्छनिभानि च ॥ आक-२,९.३३ ॥

तत्कन्दं कूर्मसंस्थानं क्षीरं सिन्दूरसन्निभम् ।
जलं स्रवेन्मधूच्छिष्टे तत्समादाय पार्वति ॥ आक-२,९.३४ ॥

वेधयेत्सर्वलोहानि काञ्चनानि भवन्ति च ।

ईश्वरी

ईश्वरीत्युच्यते काचिदीश्वरीतुल्यरूपिणी ॥ आक-२,९.३५ ॥

भूरिक्षीरपरिस्रावा सबीजरसबन्धिनी ।

भूतकेशी

निम्बपत्रसदृक्पत्रा भूतकेशीति कथ्यते ॥ आक-२,९.३६ ॥

न वध्यते यया सूतः सूतोऽसौ हि निबन्धकः ।

कृष्णलता

भिन्नकज्जलसङ्काशा लता कृष्णलतेत्यसौ ॥ आक-२,९.३७ ॥

निर्बीजमपि बध्नाति रसं सर्वविषापहा ।

लशुनवल्ली

नाम्ना लशुनवल्ली च तद्दलैः सदृशच्छदा ॥ आक-२,९.३८ ॥

क्षरत्क्षीरा सुकन्दा च रसं बध्नाति वेगतः ।

रुदन्ती

चणपत्रोपमैः पत्रैः पुष्पैरपि च तादृशी ॥ आक-२,९.३९ ॥

रुदन्ती नाम विख्याता ह्यधस्ताज्जलवर्षिणी ।
रुदन्तीव जनान्दृष्ट्वा मृत्युदैन्यजराकुलान् ॥ आक-२,९.४० ॥

चतुर्विधा तु सा ज्ञेया पीता रक्ता सितासिता ।
जारिताभ्रं रसं हन्याद्बध्नाति च रसायनी ॥ आक-२,९.४१ ॥

मुसलीकन्दवत्कन्दा तद्दलाकारवद्दला ।
सुक्षीरा रोमशा सोक्ता वाराही रसबन्धनी ॥ आक-२,९.४२ ॥

सप्तपत्त्री

सप्तपल्लवसम्पूर्णां सप्तपत्त्रीत्यसौ मता ।
रसायनी जराघ्नी च बध्यते पारदस्तया ॥ आक-२,९.४३ ॥

नागिनी

नागिनीत्युदिता वल्ली नागभोगसमाङ्गिका ।
सर्पादिकविषघ्नी च सा स्वच्छरसबन्धिनी ॥ आक-२,९.४४ ॥

सर्पिणी

सर्पिणी लतिका चान्या सर्पवद्वक्रयष्टिका ।
सक्षीरा स्निग्धपत्रा च बालपारदबन्धिनी ॥ आक-२,९.४५ ॥

छत्त्रिणी

छत्रवद्दण्डपत्रा या नातिनीचा न चोन्नता ।
सुक्षीरा छत्त्रिणी नाम रसबन्धकरी मता ॥ आक-२,९.४६ ॥

गोशृङ्गी

पर्वतेऽश्मसमुद्भूता गोकन्दाकृतिकन्दयुक् ।
क्षता मुञ्चति सा क्षीरं गोशृङ्गी रसबन्धिनी ॥ आक-२,९.४७ ॥

ज्योतिर्लता

ज्योतिर्नाम्नी त्रिधा प्रोक्ता वृक्षकन्दतृणात्मिका ।
गिरौ ज्वलति सा रात्रौ लतापारदबन्धिनी ॥ आक-२,९.४८ ॥

रक्तवल्ली

रक्तक्षीरदलाङ्गा या नातिविस्तरवल्लिका ।
रक्तवल्लीत्यसौ दिव्या निर्दिष्टा रसबन्धिनी ॥ आक-२,९.४९ ॥

पद्मवल्ली

या पद्मपत्राकृतिपत्रवल्ली सा पत्रवल्लीत्युदिता रसज्ञैः ।
सक्षीरकन्दा सलिलोद्भवा च क्षितौ न तिष्ठेद्रसबन्धनी सा ॥ आक-२,९.५० ॥

काकिनी

स्थूलकण्टकवर्णाढ्या सा प्रोक्ता काकिनी लता ।
रसबन्धकरी सैषा जरामृत्युविनाशिनी ॥ आक-२,९.५१ ॥

चान्डाली

चाण्डालीति विनिर्दिष्टा त्रिचतुःपत्रधारिणी ।
सा च रक्ता क्षीरकन्दा तया सूतो निबध्यते ॥ आक-२,९.५२ ॥

प्रोक्तश् चण्डालकन्दः स्याद् एकपत्रो द्विपत्त्रकः ।
त्रिपत्त्रोऽथ चतुष्पत्त्रः पञ्चपत्त्रश्च भेदतः ॥ आक-२,९.५३ ॥

ताम्रवल्ली

ताम्रवर्णलतापत्रपुष्पक्षीरसमन्विता ।
सा ताम्रवल्लिका प्रोक्ता रसलोहादिसाधनी ॥ आक-२,९.५४ ॥

पीतवल्ली

पीतपत्रलतापुष्परसयुक्तातिदुर्लभा ।
सा पीतवल्लिकेत्युक्ता रसबन्धविधौ हिता ॥ आक-२,९.५५ ॥

विजया

सितक्षीराढकीपत्रछदना नातिविस्तृता ।
विख्याता विजयेत्येषा रसबन्धविधौ हिता ॥ आक-२,९.५६ ॥

महौषधी

त्रिकोणकन्दसंयुक्ता चित्रकच्छदनच्छदा ।
महौषधीति सा प्रोक्ता रसबन्धे परं हिता ॥ आक-२,९.५७ ॥

देवदाली

शिखिकण्ठाभपत्राढ्या चन्दनामोदमेदुरा ।
देवदालीत्यसौ दिव्या रसं बध्नाति सा क्षणात् ॥ आक-२,९.५८ ॥

नवनीतकगन्धी

नवनीतकगन्धीति तिक्ता म्रक्षणगन्धिनी ।
सक्षीरा रक्तपुष्पा च रसेन्द्रो बध्यते तया ॥ आक-२,९.५९ ॥

गरुडवल्ली

सक्षीरा रक्तपुष्पा च बदरीदलवद्दला ।
उक्ता गारुडवल्लीति शीघ्रं बध्नाति पारदम् ॥ आक-२,९.६० ॥

तुम्बिनी

तुम्बिनीत्युदिता वल्ली तत्पत्रकुसुमान्विता ।
तिक्तरक्तपयोयुक्ता तत्फला रसबन्धिनी ॥ आक-२,९.६१ ॥

भूतुम्बिनी

या तुम्बिनीपत्रसमानपत्रा भूतुम्बिनी नातिविसर्पिणी सा ।
निम्बूसमानैश्च फलैरुपेता सर्वामयघ्नी रसबन्धनी च ॥ आक-२,९.६२ ॥

गन्धर्वा

एरण्डपत्रवत्पत्रा सक्षीरा नातिविस्तृता ।
गन्धर्वेत्युदिता सा हि तया बन्धं रसो व्रजेत् ॥ आक-२,९.६३ ॥

व्याघ्रपादी

व्याघ्राङ्घ्रिसमपत्रा या रक्तपुष्पा पयस्विनी ।
व्याघ्रपादीति निर्दिष्टा रसं बध्नाति निश्चितम् ॥ आक-२,९.६४ ॥

महौषधी

सप्तच्छदसदृक्पत्रा कृशाङ्गी नातिविस्तृता ।
महौषधीत्यसौ प्रोक्ता रसं बध्नाति हन्ति च ॥ आक-२,९.६५ ॥

गोमारी

गोमारीनामिका वल्ली वेणुपत्रसमच्छदा ।
तस्या मूलं समासाद्य शस्तः सूतो निबध्यते ॥ आक-२,९.६६ ॥

त्रिशूली

त्रिशूलाकारपत्रा या शम्याकफलवत्फला ।
त्रिशूलीति समाख्याता विख्याता रसबन्धने ॥ आक-२,९.६७ ॥

रुतसी

रुतसीपत्रवत्पत्रफला सा क्षीरकन्दयुक् ।
रुतसी वल्लिकेत्युक्ता गिरिजा रसबन्धनी ॥ आक-२,९.६८ ॥

त्रिदण्डी

सुपुष्पा तिलकोपेता रक्तत्यत्रिफलान्विता ।
रसबन्धविधौ प्रोक्ता त्रिदण्डीति कृताभिधा ॥ आक-२,९.६९ ॥

भृङ्गवल्ली

भृङ्गवद्वर्णपत्राढ्या क्षीरिणी पीतपुष्पिका ।
भृङ्गवल्लीति सा प्रोक्ता प्रयुक्ता रसबन्धने ॥ आक-२,९.७० ॥

चमरिका

चमराकारपत्राढ्या क्षीरयुक्चन्द्रधारिणी ।
लता चमरिका नाम सा च बध्नाति पारदम् ॥ आक-२,९.७१ ॥

करवीरलता

हयमारसमाकारदलपुष्पवती लता ।
करवीरलतेत्युक्ता नितरां सूतबन्धिनी ॥ आक-२,९.७२ ॥

वज्रवल्ली

कोरण्डपत्रछदनोपमानप्रसूनपत्रा च सदुग्धकन्दा ।
सा वज्रवल्ली कटुतिक्तसारा वज्राङ्कपत्रा रसबन्धिनी च ॥ आक-२,९.७३ ॥

वारवल्ली

रक्तक्षीरवती बिल्वदलोपमदलान्विता ।
वारवल्लीति सा सूतबन्धनी रोगनाशिनी ॥ आक-२,९.७४ ॥

रोहिणी

शणपुष्पदलाकारदशपुष्पा च दुग्धयुक् ।
सा रोहिणीति निर्दिष्टा रसराजस्य बन्धनी ॥ आक-२,९.७५ ॥

बिल्विनी

ज्योतिष्मतीदलाकारवर्णपर्णा यशस्विनी ।
रसबन्धविधौ प्रोक्ता बिल्विनीति निगद्यते ॥ आक-२,९.७६ ॥

गोरोचनलता

गोरोचनप्रभायुक्तदलवल्लीसमन्विता ।
गोरोचनलता भूतमोचनी रसबन्धनी ॥ आक-२,९.७७ ॥

करीरी

श्रीशैलशिखरोद्भूता मार्कण्डीसदृशौषधी ।
रक्तं क्षीरं क्षता मुञ्चेत्करीरी रसबन्धिनी ॥ आक-२,९.७८ ॥

अक्षरा

पत्त्रसीसा पत्त्रवत्पत्रा त्रिवर्षात्फलदायिनी ।
अक्षरेति समाख्याता रसस्यातिनिबन्धिनी ॥ आक-२,९.७९ ॥

अपत्त्रा

सोमवल्लीव निष्पत्रा कज्जलाभरसान्विता ।
अपत्त्रासौ भवेद् विन्ध्ये नात्युच्चा रसबन्धिनी ॥ आक-२,९.८० ॥

आद्ये वर्षे भवेदम्ला भवेत्तिक्ता द्वितीयके ।
तृतीयेऽब्दे च मधुरैः फलैर्युक्ता प्रजायते ॥ आक-२,९.८१ ॥

पित्तज्वरहरा सद्यः सुपत्रफलसंयुता ।

कुटजवल्ली

लता कुटजवल्लीति तत्फला तद्दलान्विता ॥ आक-२,९.८२ ॥

मधुरा रुधिरग्रन्थिः सूतराजनिबन्धिनी ।

मूलकन्दा

मूलकन्देति विख्याता मूलवत्फलपत्त्रिणी ॥ आक-२,९.८३ ॥

लता क्षीरान्विता सूतबन्धनं कुरुते ध्रुवम् ।

ब्राह्मणी

पारिजाताद्रिजा वल्ली शतपुष्पदलच्छदा ॥ आक-२,९.८४ ॥

कृष्णक्षीरफला प्रोक्ता ब्राह्मणी रसबन्धिनी ।

मुनिवल्ली

अगस्तिपत्रतत्पत्रा तद्रूपारुणपुष्पिणी ॥ आक-२,९.८५ ॥

घृतगन्धा रसघ्नी सा मुनिवल्लीति कथ्यते ।

निम्बका

दलैः पुष्पैः फलैर्वल्ली निंबवृक्षस्य सन्निभा ॥ आक-२,९.८६ ॥

तन्मूलैर्बध्यते सूतः सा प्रोक्ता निम्बका लता ।

तिलकन्दा

तिलकन्देति विख्याता मूलवत्फलपत्त्रिणी ॥ आक-२,९.८७ ॥

लता क्षीरवती सूतं निबध्नात्यातपे खरे ।

अतसीवल्लिका

अतस्य इव पुष्पाणि फलानि च दलानि च ॥ आक-२,९.८८ ॥

अतसीवल्लिका सा हि पारदस्य निबन्धिनी ।

बोधिलता

उक्ता बोधिलता बोधिपत्त्रदुग्धेन संयुता ॥ आक-२,९.८९ ॥

बध्नाति रसराजं सा दानवेन्द्रमिवाच्युतः ।

मद्यगन्धा

मद्यगन्धेति विख्याता निष्पत्रा फलपत्रयुक् ॥ आक-२,९.९० ॥

तस्याः कन्दो रसं शीघ्रं बन्धनं नयति ध्रुवम् ।

कूर्मलता

उक्ता कूर्मलता कूर्मरूपकन्दा पयोऽन्विता ॥ आक-२,९.९१ ॥

मल्लिकोपमतत्पत्रप्रसवा रसबन्धिनी ।

माधवी

माधवीमूलवन्मूला नागवल्लीदलान्विता ॥ आक-२,९.९२ ॥

माधवीत्युदिता वल्ली तन्मूलैर्बध्यते रसः ।

विशाला

श्वेतपत्रतया वल्ली श्वेतपुष्पफला तथा ॥ आक-२,९.९३ ॥

विशालेति विनिर्दिष्टा सापि पारदबन्धिनी ।

महानागा

नागकुण्डलवत्कन्दा तत्फणासदृशच्छदा ॥ आक-२,९.९४ ॥

महानागेत्यसौ वल्ली विनिबध्नाति पारदम् ।

मण्डूकलतिका

मण्डूकाकारवत्कन्दा मण्डूकीदलवद्दला ॥ आक-२,९.९५ ॥

मण्डूकलतिकेत्येषा तन्मूलैर्बध्यते रसः ।

उदुम्बरलता

उदुम्बरफलाकारफलवद्दलवद्दला ॥ आक-२,९.९६ ॥

सोदुम्बरलतेत्युक्ता सूतराजस्य बन्धिनी ।

चित्रवल्ली

या दुग्धकन्दा वटपत्रपत्रा विचित्रपर्णोरुफला सुदीर्घा ।
सा चित्रवल्लीत्युदिता रसेन्द्रो निबध्यते तत्फलमध्यसंस्थः ॥ आक-२,९.९७ ॥

चतुःषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबलाः ॥ आक-२,९.९८ ॥

आभिर्बद्धो रसो न्ःणां देहलोहार्थसाधकः ।
सोमवल्ली सोमवृक्षः स्थलपद्मिनिका ततः ॥ आक-२,९.९९ ॥

गोनसा कारवल्ली च उच्चटा ईश्वरी ततः ।
भूतकेशी कृष्णलता ज्ञेया लशुनवल्लरी ॥ आक-२,९.१०० ॥

रुदन्ती चैव वाराही सप्तपत्त्री च नागिनी ।
सर्पिणी छत्त्रिणी चैव गोशृङ्गी सर्वसिद्धिदा ॥ आक-२,९.१०१ ॥

ज्योतिर्नाम्नी त्रिधा रक्तवल्लरी पत्रवल्लरी ।
काकिनी चैव चाण्डाली वल्लरी ताम्रवल्लरी ॥ आक-२,९.१०२ ॥

पीतवल्ली च विजया विज्ञेया च महौषधी ।
ज्ञातव्या देवदाली च स्यान्नवानीतगन्धिनी ॥ आक-२,९.१०३ ॥

ज्ञेया गरुडवल्ली च तुम्बिनी भूमितुंबिनी ।
गन्धर्वा व्याघ्रपादी च विज्ञेया च महौषधी ॥ आक-२,९.१०४ ॥

गोमारी च त्रिशूली च रुतसी च त्रिदण्डिका ।
भृङ्गवल्ली चमरिका करवीरलता ततः ॥ आक-२,९.१०५ ॥

वज्रवल्ली वारवल्ली रोहिणी बिल्विनी तथा ।
गोरोचनलता चैव करीरी चाक्षरा तथा ॥ आक-२,९.१०६ ॥

अपत्त्री कुटजा वल्ली मूलकन्दा च ब्राह्मणी ।
घृतगन्धा निम्बवल्ली तिलकन्दातसी तथा ॥ आक-२,९.१०७ ॥

बोधिवल्ली मद्यगन्धा कूर्मवल्ली च माधवी ।
विशाला च महानागा ज्ञेया मण्डूकवल्ली ॥ आक-२,९.१०८ ॥

उदुम्बरलता चित्रवल्ली चैव सुरार्चिते ।
चतुःषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबलाः ॥ आक-२,९.१०९ ॥

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_2.9&oldid=7079" इत्यस्माद् प्रतिप्राप्तम्