व्याकरणमहाभाष्य खण्ड 08

विकिपुस्तकानि तः



(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-१/२०) लुमति प्रतिषेधे एकपदस्वरस्य उपसङ्ख्यानम् ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-२/२०) लुमति प्रतिषेधे एकपदस्वरस्य उपसङ्ख्यानम् कर्तव्यम्. एकपदस्वरे च लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-३/२०) किम् अविशेषेण ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-४/२०) न इति आह ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-५/२०) सर्वामन्त्रितसिज्लुक्स्वरवर्जम् ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-६/२०) सर्वस्वरम् आमन्त्रितस्वरवम् सिज्लुक्स्वरम् च वर्जयित्वा ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-७/२०) सर्वस्वर ॒ सर्वस्तोमः , सर्वपृष्ठः ॒ सर्वस्य सुपि इति आद्युदात्तत्वम् यथा स्यात् ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-८/२०) आमन्त्रितस्वर ॒ सर्पिः आगच्छ , सप्त आगच्छत ॒ आमन्त्रितस्य च इति आद्युदात्तत्वम् यथा स्यात् ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-९/२०) सिज्लुक्स्वर ॒ म हि दताम् , म हि धताम् ॒ आदिः सिचः अन्यतरस्याम् इति एषः स्वरः यथा स्यात् ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-१०/२०) किम् प्रयोजनम् ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-११/२०) प्रयोजनम् ञिनिकिल्लुकि स्वराः ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-१२/२०) ञिनिकित्स्वराः लुकि प्रयोजयन्ति ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-१३/२०) गर्गः , वत्सः , बिदः , उर्वः , उष्ट्रग्रीवः , वामरज्जुः ॒ ञ्निति इति आद्युदात्तत्वम् मा भूत् इति ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-१४/२०) इह च ॒ अत्रयः ॒ कितः इति अन्तोदात्तत्वम् मा भूत् इति ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-१५/२०) पथिमथोः सर्वनामस्थाने ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-१६/२०) पथिमथोः सर्वनामस्थाने लुकि प्रयोजनम् ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-१७/२०) पथिप्रियः , मथिप्रियः ॒ पथिमथोः सर्वनामस्थाने इति एषः स्वरः मा भूत् इति ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-१८/२०) अह्नः रविधौ ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-१९/२०) अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् ।

(पा-१,१.६३.१; अकि-१,१६५.१५-१६६.८; रो-१,४९०-४९२; भा-२०/२०) अहः ददति , अहः भुङ्क्ते ॒ रः असुपि इति प्रत्ययलक्षणेन प्रतिषेधः मा भूत् इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-१/७५) उत्तरपदत्वे च अपदादिविधौ । उत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-२/७५) परमवाचा परमवाचे परमगोदुहा परमगोदुहे परमश्वलिहा परमश्वलिहे ॒ पदस्य इति प्रत्ययलक्षणेन कुत्वादीनि मा भूवन् इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-३/७५) अपदादिविधौ इति किमर्थम् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-४/७५) दधिसेचौ दधिसेचः ॒ सात्पदाद्योः इति प्रतिषेधः यथा स्यात् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-५/७५) यदि अपदादिविधौ इति उच्यते उत्तरपदाधिकारः न प्रकल्पेत ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-६/७५) तत्र कः दोषः ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-७/७५) कर्णः वर्णलक्षणात् इति एवमादिः विधिः न सिध्यति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-८/७५) यदि पुनः नलोपादिविधौ प्लुत्यन्ते लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति उच्येत ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-९/७५) न एवम् शक्यम् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-१०/७५) इह हि ॒ राजकुमार्यौ राजकुमार्यः इति शाकलम् प्रसज्येत ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-११/७५) न एषः दोषः ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-१२/७५) यत् एतत् सिति शाकलम् न इति एतत् प्रत्यये शाकलम् न इति वक्ष्यामि ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-१३/७५) यदि प्रत्यये शाकलम् न इति उच्यते दधि अधुना मधु अधुना ॒ अत्र अपि न प्रसज्येत ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-१४/७५) प्रत्यये शाकलम् न भवति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-१५/७५) कस्मिन् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-१६/७५) यस्मात् यः प्रत्ययः विहितः इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-१७/७५) इह तर्हि परमदिवा परमदिवे ॒ दिव उत् इति उत्त्वम् प्राप्नोति इति. अस्तु तर्हि अविशेषेण ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-१८/७५) ननु च उक्तम् उत्तरपदाधिकारः न प्रकल्पेत इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-१९/७५) वचनात् उत्तरपदाधिकारः भविष्यति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-२०/७५) तत् तर्हि वक्तव्यम् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-२१/७५) न वक्तव्यम् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-२२/७५) अनुवृत्तिः करिष्यते ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-२३/७५) इदम् अस्ति ॒ यस्मात् प्रतययविधिः तदादि प्रत्यये अङ्गम् , सुप्तिङन्तम् पदम् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-२४/७५) यस्मात् सुप्तिङ्विधिः तदादि सुबन्तम् च ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-२५/७५) नः क्ये ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-२६/७५) नान्तम् क्ये पदसञ्ज्ञम् भवति यस्मात् क्यविधिः सुबन्तम् च ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-२७/७५) सिति च ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-२८/७५) सिति च पूर्वम् पदसञ्ज्ञम् भवति यस्मात् सिद्विधिः तदादि सुबन्तम् च ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-२९/७५) स्वादिषु असर्वनामस्थाने ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-३०/७५) स्वादिषु असर्वनामस्थाने पूर्वम् पदसञ्ज्ञम् भवति यस्मात् स्वादिविधिः तदादि सुबन्तम् च ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-३१/७५) यचि भम् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-३२/७५) यजादिप्रत्यये पूर्वम् पदसञ्ज्ञम् भवति यस्मात् यजादिविधिः तदादि सुबन्तम् च ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-३३/७५) इह तर्हि ॒ परमवाक् ॒ असर्वनामस्थाने इति प्रतिषेधः प्राप्नोति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-३४/७५) अस्तु तस्याः प्रतिषेधः या स्वादौ पदम् इति पदसञ्ज्ञा या तु सुबन्तम् पदम् इति पदसञ्ज्ञा सा भविष्यति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-३५/७५) सति एतत्प्रत्यये आसीत् अनया भविष्यति अनया न भविष्यति इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-३६/७५) लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति पदसञ्ज्ञा तावतः एव अवधेः सुबन्तम् पदम् इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-३७/७५) अस्ति च प्रत्ययलक्षणेन सर्वनामस्थानपरता इति कृत्वा प्रतिषेधाः च बलीयांसः भवन्ति इति प्रतिषेधः प्राप्नोति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-३८/७५) न अप्रतिषेधात् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-३९/७५) न अयम् प्रसज्यप्रतिषेधः ॒ सर्वनामस्थाने न इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-४०/७५) किम् तर्हि ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-४१/७५) पर्युदासः अयम् ॒ यत् अन्यत् सर्वनामस्थानात् इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-४२/७५) सर्वनामस्थाने अव्यापारः ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-४३/७५) यदि केन चित् प्राप्नोति तेन भविष्यति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-४४/७५) पूर्वेण च प्राप्नोति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-४५/७५) अप्राप्तेः वा ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-४६/७५) अथ वा अनन्तरा य प्राप्तिः सा प्रतिषिध्यते ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-४७/७५) कुतः एतत् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-४८/७५) अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-४९/७५) पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-५०/७५) ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-५१/७५) न उत्सहते प्रतिषिद्धा सती बाधितुम् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-५२/७५) यदि एवम् परमवाचौ परमवाचः इति सुप्तिङन्तम् पदम् इति पदसञ्ज्ञा प्राप्नोति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-५३/७५) एवम् तर्हि योगविभागः करिष्यते ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-५४/७५) स्वादिषु पूर्वम् पदसञ्ज्ञम् भवति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-५५/७५) ततः सर्वनामस्थाने अयचि पूर्वम् पदसञ्ज्ञम् भवति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-५६/७५) ततः भम् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-५७/७५) भसञ्ज्ञम् भवति यजादौ असर्वनामस्थने इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-५८/७५) यदि तर्हि सौ अपि पदम् भवति , एचः प्लुताधिकारे पदान्तग्रहणम् चोदयिष्यति इह मा भूत् ॒ भद्रम् करोषि गौः इति , तस्मिन् क्रियमाणे अपि भविष्यति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-५९/७५) वाक्यपदयोः अन्त्यस्य इति एवम् तत् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-६०/७५) इह तर्हि ॒ दधिसेचौ दधिसेचः ॒ सात्पदाद्योः इति पदादिलक्षणः प्रतिषेधः न प्राप्नोति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-६१/७५) मा भूत् एवम् ॒ पदस्य आदिः पदादिः , पदादेः न इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-६२/७५) कथम् तर्हि ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-६३/७५) पदात् आदिः पदादिः , पदादेः न इति एवम् भविष्यति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-६४/७५) न एवम् शक्यम् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-६५/७५) इह अपि प्रसज्येत ॒ ऋक्षु वाक्षु त्वक्षु कुमारीषु किशोरीषु इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-६६/७५) सात्प्रतिषेधः ज्ञापकः स्वादिषु पदत्वेन येषाम् पदसञ्ज्ञा न तेभ्यः प्रतिषेधः भवति इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-६७/७५) इह तर्हि ॒ बहुसेचौ , बहुसेचः ॒ बहुच् अयम् प्रत्ययः ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-६८/७५) अत्र पदात् आदिः पदादिः , पदादेः न इति उच्यमाने अपि न सिध्यति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-६९/७५) एवम् तर्हि उत्तरपदत्वे च पदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् भवति इति वक्ष्यामि ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-७०/७५) तत् नियमार्थम् भविष्यति ॒ पदादिविधौ एव न पदान्तविधौ इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-७१/७५) कथम् बहुसेचौ बहुसेचः ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-७२/७५) बहुच्पूर्वस्य च पदादिविधौ न पदान्तविधौ इति ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-७३/७५) द्वन्द्वे अन्त्यस्य ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-७४/७५) द्वन्द्वे अन्त्यस्यलुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् ।

(पा-१,१.६३.२; अकि-१,१६६.९-१६७.२८; रो-१,४९३-४९८; भा-७५/७५) वाक्स्रक्त्वचम् ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-१/३३) इह अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-२/३३) सिचः उसः अप्रसङ्गः आकारप्रकरणात् ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-३/३३) सिचः उसः अप्रसङ्गः ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-४/३३) किम् कारणम् ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-५/३३) आकारप्रकरणात् ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-६/३३) आतः इति एतत् नियमार्थम् भविष्यति ॒ आतः एव सिज्लुगन्तात् न अन्यस्मात् सिज्लुगन्तात् इति ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-७/३३) इह ॒ इति युष्मत्पुत्रः ददाति , इति अस्मत्पुत्रः ददाति इति अत्र युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः वाम्नावौ इति वाम्नावादयः प्राप्नुवन्ति ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-८/३३) युष्मदस्मदोः स्थग्रहणात् ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-९/३३) स्थग्रहणम् तत्र क्रियते ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-१०/३३) तत् श्रूयमाणविभक्तिविशेषणम् विज्ञास्यते ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-११/३३) अस्ति अन्यत् स्थग्रहणस्य प्रयोजनम् ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-१२/३३) किम् ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-१३/३३) सविभक्तिकस्य वाम्नावादयः यथा स्युः इति ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-१४/३३) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-१५/३३) पदस्य इति वर्तते विभक्त्यन्तम् च पदम् ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-१६/३३) तत्र अन्तरेण अपि स्थग्रहणम् सविभक्तिकस्य एव ग्रहणम् भविष्यति ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-१७/३३) भवेत् सिद्धम् यत्र विभक्त्यन्तम् पदम् ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-१८/३३) यत्र तु खलु विभक्तौ पदम् तत्र न सिध्यति ॒ ग्रामः वाम् दीयते , ग्रामः नौ दीयते जनपदः वाम् दीयते , जनपदः नौ दीयते ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-१९/३३) सर्वग्रहणम् अपि प्रकृतम् अनुवर्तते ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-२०/३३) तेन सविभक्तिकस्य एव भविष्यति ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-२१/३३) इह ॒ चक्षुष्कामम् याजयाम् चकार इति तिङ् अतिङः इति ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-२२/३३) तस्य च निघातः तस्मात् च अनिघातः प्राप्नोति ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-२३/३३) आमि लिलोपात् तस्य च अनिघातः तस्मात् च निघातः ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-२४/३३) आमि लिलोपात् तस्य च अनिघातः तस्मात् च निघातः सिद्धः भविष्यति ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-२५/३३) अङ्गाधिकारे इटः विधिप्रतिषेधौ ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-२६/३३) अङ्गाधिकारे इटः विधिप्रतिषेधौ न सिध्यतः ॒ जिगमिष संविवृत्स ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-२७/३३) अङ्गस्य इति इटः विधिप्रतिषेधौ न प्राप्नुतः ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-२८/३३) क्रमेः दीर्घत्वम् च ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-२९/३३) किम् च ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-३०/३३) इटः च विधिप्रतिषेधौ ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-३१/३३) न इति आह ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-३२/३३) अदेशे अयम् चः पठितः ।

(पा-१,१.६३.३; अकि-१,१६८.१-२३; रो-१,४९८-५००; भा-३३/३३) क्रमेः च दीर्घत्वम् ॒ उत्क्राम सङ्क्राम इति ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-१/३०) इह किम् चित् अङ्गाधिकारे लुमता लुप्ते प्रत्ययलक्षणेन भवति किम् चित् च अन्यत्र न भवति ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-२/३०) यदि पुनः न लुमता तस्मिन् इति उच्येत ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-३/३०) अथ न लुमता तस्मिन् इति उच्यमाने किम् सिद्धम् एतत् भवति इटः विधिप्रतिषेधौ क्रमेः दीर्घत्वम् च ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-४/३०) बाढम् सिद्धम् ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-५/३०) न इटः इविधिप्रतिषेधौ परस्मैपदेषु इति उच्यते ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-६/३०) कथम् तर्हि ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-७/३०) सकारादौ इति ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-८/३०) तद्विशेषणम् परस्मैपदग्रहणम् ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-९/३०) न खलु अपि क्रमेः दीर्घत्वम् परस्मैपदेषु इति उच्यते ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-१०/३०) कथम् तर्हि ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-११/३०) शिति इति ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-१२/३०) तद्विशेषणम् परस्मैपदग्रहणम् ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-१३/३०) न लुमता तस्मिन् इति चेत् हनिणिङादेशाः तलोपे ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-१४/३०) न लुमता तस्मिन् इति चेत् हनिणिङादेशाः तलोपे न सिध्यन्ति ॒ अवधि भवता दस्युः , अगायि भवता ग्रामः , अध्यगायि भवता अनुवाकः ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-१५/३०) तलोपे कृते लुङि इति हनिणिङादेशाः न प्राप्नुवन्ति ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-१६/३०) न एषः दोषः ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-१७/३०) न लुङि इति हनिणिङादेशाः उच्यन्ते ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-१८/३०) किम् तर्हि ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-१९/३०) आर्धधातुके इति ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-२०/३०) तद्विशेषणम् लुङ्ग्रहणम् ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-२१/३०) इह च ॒ सर्वस्तोमः , सर्वपृष्ठः सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-२२/३०) तत् च अपि वक्तव्यम् ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-२३/३०) न वक्तव्यम् ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-२४/३०) न लुमता अङ्गस्य इति एव सिद्धम् ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-२५/३०) कथम् ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-२६/३०) न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-२७/३०) किम् तर्हि ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-२८/३०) यः असौ लुमता लुप्यते तस्मिन् यत् अङ्गम् तस्य यत् कार्यम् तत् न भवति ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-२९/३०) एवम् अपि सर्वस्वरः न सिध्यति ।

(पा-१,१.६३.४; अकि-१,१६८.२४-१६९.१४; रो-१,५००-५०२; भा-३०/३०) कर्तव्यः अत्र यत्नः ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-१/२१) किम् इदम् अल्ग्रहणम् अन्त्यविशेषणम् ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-२/२१) एवम् भवितुम् अर्हति ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-३/२१) उपधासञ्ज्ञायाम् अल्ग्रहणम् अन्त्यनिर्देशः चेत् सङ्घातप्रतिषेधः ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-४/२१) उपधासञ्ज्ञायाम् अल्ग्रहणम् अन्त्यनिर्देशः चेत् सङ्घातस्य प्रतिषेधः वक्तव्यः ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-५/२१) सङ्घातस्य उपधासञ्ज्ञा प्राप्नोति ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-६/२१) तत्र कः दोषः ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-७/२१) शासः इत् अङ्हलोः ॒ शिष्ट्वा शिष्टः ॒ सङ्घातस्य इत्त्वम् प्राप्नोति ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-८/२१) यदि पुनः अल् अन्त्यात् इति उच्येत ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-९/२१) एवम् अपि अन्त्यः अविशेषितः भवति ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-१०/२१) तत्र कः दोषः ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-११/२१) सङ्घातात् अपि पूर्वस्य उपधासञ्ज्ञा प्रसज्येत ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-१२/२१) तत्र कः दोषः ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-१३/२१) शासः इत् अङ्हलोः ॒ शिष्टः , शिष्टवान् ॒ शकारस्य इत्त्वम् प्रसज्येत ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-१४/२१) सूत्रम् च भिद्यते ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-१५/२१) यथान्यासम् एव अस्तु ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-१६/२१) ननु च उक्तम् उपधासञ्ज्ञायाम् अल्ग्रहणम् अन्त्यनिर्देशः चेत् सङ्घातप्रतिषेधः इति ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-१७/२१) न एषः दोषः ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-१८/२१) अन्त्यविज्ञानात् सिद्धम् ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-१९/२१) सिद्धम् एतत् ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-२०/२१) कथम् ।

(पा-१,१.६५.१; अकि-१,१६९.१६-२५; रो-१,५०२-५०३; भा-२१/२१) अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-१/६२) अन्त्यविज्ञानात् सिद्धम् इति चेत् न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-२/६२) अन्त्यविज्ञानात् सिद्धम् इति चेत् तत् न ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-३/६२) किम् कारणम् ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-४/६२) न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-५/६२) अनर्थके अलोन्त्यविधिः न इति एषा परिभाषा कर्तव्या ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-६/६२) किम् अविशेषेण ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-७/६२) न इति आह ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-८/६२) अनभ्यासविकारे ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-९/६२) अभ्यासविकारान् वर्जयित्वा ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-१०/६२) भृञाम् इत् , अर्तिपिपर्त्योः च इति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-११/६२) कानि एतस्याः परिभाषायाः प्रयोजनानि ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-१२/६२) प्रयोजनम् अव्यक्तानुकरणस्य अतः इतौ ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-१३/६२) अन्त्यस्य प्राप्नोति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-१४/६२) अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-१५/६२) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-१६/६२) आचार्यप्रवृत्तिः ज्ञापयति न अन्त्यस्य पररूपम् भवति इति यत् अयम् न आम्रेडितस्य अन्त्यस्य तु वा इति आह ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-१७/६२) घ्वसोः एत् हौ अभ्यासलोपः च ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-१८/६२) घ्वसोः एत् हौ अभ्यासलोपः च इति अन्त्यस्य प्राप्नोति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-१९/६२) अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-२०/६२) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-२१/६२) पुनर्लोपवचनसामर्थ्यात् सर्वस्य भविष्यति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-२२/६२) अथ वा शित् लोपः करिष्यते ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-२३/६२) सः शित् सर्वस्य इति सर्वादेशः भविष्यति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-२४/६२) सः तर्हि शकारः कर्तव्यः ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-२५/६२) न कर्तव्यः ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-२६/६२) क्रियते न्यासे एव ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-२७/६२) द्विशकारकः निर्देशः ॒ घ्वसोः एत् हौ अभ्यासलोपश्श्च इति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-२८/६२) आपि लोपः अकः अनचि ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-२९/६२) तिष्ठति सूत्रम् ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-३०/६२) अन्यथा व्याख्यायते ॒ आपि हलि लोपः इति अन्त्यस्य प्राप्नोति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-३१/६२) अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-३२/६२) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-३३/६२) अनः एव लोपम् वक्ष्यामि ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-३४/६२) तत् अनः ग्रहणम् कर्तव्यम् ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-३५/६२) न कर्तव्यम् ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-३६/६२) प्रकृतम् अनुवर्तते ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-३७/६२) क्व प्रकृतम् ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-३८/६२) अन् आपि अकः इति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-३९/६२) तत् वै प्रथमानिर्दिष्टम् ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-४०/६२) षष्ठीनिर्दिष्तेन च इह अर्थः ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-४१/६२) हलि इति एषा सप्तमी अन् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति ॒ तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-४२/६२) अत्र लोपः अभ्यासस्य ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-४३/६२) अत्र लोपः अभ्यासस्य इति अन्त्यस्य प्राप्नोति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-४४/६२) अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-४५/६२) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-४६/६२) अत्रग्रहणसामर्थ्यात् सर्वस्य भविष्यति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-४७/६२) अस्ति अन्यत् अत्रग्रहणस्य प्रयोजनम् ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-४८/६२) किम् ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-४९/६२) सनधिकारः अपेक्ष्यते , इह मा भूत् ॒ दधौ ददौ ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-५०/६२) अन्तरेण अपि अत्रग्रहणम् सनधिकारम् अपेक्षिष्यामहे ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-५१/६२) सन् तर्हि सकारादिः अपेक्ष्यते सनि सकारादौ इति , इह मा भूत् ॒ जिज्ञापयिषति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-५२/६२) अन्तरेण अपि अत्रग्रहणम् सनम् सकारादिम् अपेक्षिष्यामहे ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-५३/६२) प्रकृतयः तर्हि अपेक्ष्यन्ते ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-५४/६२) एतासाम् प्रकृतीनाम् लोपः यथा स्यात् , इह मा भूत् ॒ पिपक्षति यियक्षति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-५५/६२) अन्तरेण अपि अत्रग्रहणम् एताः प्रकृतीः अपेक्षिष्यामहे ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-५६/६२) विषयः तर्हि अपेक्ष्यते ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-५७/६२) मुचः अकर्मकस्य गुणः वा इति इह मा भूत् ॒ मुमुक्षति गाम् इति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-५८/६२) अन्तरेण अपि अत्रग्रहणम् विषयम् अपेक्षिष्यामहे ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-५९/६२) कथम् ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-६०/६२) अकर्मकस्य इति उच्यते ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-६१/६२) तेन यत्र एव अयम् मुचिः अकर्मकः तत्र एव भविष्यति ।

(पा-१,१.६५.२; अकि-१,१७०.१-१७१.९; रो-१,५०३-५०६; भा-६२/६२) तस्मात् न अर्थः अनया परिभाषया ।

(पा-१,१.६५.३; अकि-१,१७१.१०-१६; रो-१,५०६; भा-१/८) अलः अन्त्यात् पूर्वः अल् उपधा इति वा ।

(पा-१,१.६५.३; अकि-१,१७१.१०-१६; रो-१,५०६; भा-२/८) अथ वा व्यक्तम् एव पथितव्यम् अलः अन्त्यात् पूर्वः अल् उपधासञ्ज्ञः भवति इति ।

(पा-१,१.६५.३; अकि-१,१७१.१०-१६; रो-१,५०६; भा-३/८) तत् तर्हि वक्तव्यम् ।

(पा-१,१.६५.३; अकि-१,१७१.१०-१६; रो-१,५०६; भा-४/८) न वक्तव्यम् ।

(पा-१,१.६५.३; अकि-१,१७१.१०-१६; रो-१,५०६; भा-५/८) अवचनात् लोकविज्ञानात् सिद्धम् ।

(पा-१,१.६५.३; अकि-१,१७१.१०-१६; रो-१,५०६; भा-६/८) अन्तरेण अपि वचनम् लोकविज्ञानात् सिद्धम् एतत् ।

(पा-१,१.६५.३; अकि-१,१७१.१०-१६; रो-१,५०६; भा-७/८) कथम् ।

(पा-१,१.६५.३; अकि-१,१७१.१०-१६; रो-१,५०६; भा-८/८) लोके अमीषाम् ब्राह्मणानाम् अन्त्यात् पूर्वः आनीयताम् इति उक्ते यथाजातीयकः अन्त्यः तथाजातीयकः अन्त्यात् पूर्वः आनीयते ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-१/४२) किम् उदाहरणम् ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-२/४२) इह तावत् ॒ तस्मिन् इति निर्दिष्टे पूर्वस्य इति ॒ इकः यण् अचि ॒ दधि अत्र मधु अत्र ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-३/४२) इह ॒ तस्मात् इति उत्तरस्य इति ॒ द्वयन्तरुपसर्गेभ्यः अपः ईत् ॒ द्वीपम् अन्तरीपम् समीपम् ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-४/४२) अन्यथाजातीयकेन शब्देन निर्देशः क्रियते अन्यथाजातीयकः उदाह्रियते ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-५/४२) किम् पुनः उदाहरणम् ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-६/४२) इह तावत् ॒ तस्मिन् इति निर्दिष्टे पूर्वस्य इति ॒ तस्मिन् अणि च युष्माकास्माकौ इति ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-७/४२) तस्मात् इति उत्तरस्य इति ॒ तस्मात् शसः नः पुंसि इति ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-८/४२) इदम् च अपि उदाहरणम् ॒ इकः यण् अचि द्व्यन्तरुपसर्गेभ्यः अपः ईत् इति ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-९/४२) कथम् ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-१०/४२) सर्वनाम्ना अयम् निर्देशः क्रियते सर्वनाम च सामान्यवाचि ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-११/४२) तत्र सामान्ये निर्दिष्टे विशेषाः अपि उदाहरणानि भवन्ति ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-१२/४२) किम् पुनः सामान्यम् कः वा विशेषः ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-१३/४२) गौः सामान्यम् कृष्णः विशेषः ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-१४/४२) न तर्हि इदानीम् कृष्णः सामान्यम् भवति गौः विशेषः भवति ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-१५/४२) भवति च ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-१६/४२) यदि सामान्यम् अपि विशेषः विशेषः अपि सामान्यम् सामान्यविशेषौ न प्रकल्पेते ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-१७/४२) प्रकल्पेते च ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-१८/४२) कथम् ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-१९/४२) विवक्षातः ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-२०/४२) यदा अस्य गौः सामान्येन विवक्षितः भवति कृष्णः विशेषत्वेन तदा गौः सामान्यम् कृष्णः विशेषः ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-२१/४२) यदा कृष्णः सामान्येन विवक्षितः भवति गौः विशेषत्वेन तदा कृष्णः सामान्यम् कृष्णः विशेषः ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-२२/४२) अपरः आह ॒ प्रकल्पेते च ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-२३/४२) कथम् ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-२४/४२) पितापुत्रवत् ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-२५/४२) तत् यथा सः एव कम् चित् प्रति पिता भवति कम् चित् प्रति पुत्रः भवति एवम् इह अपि सः एव कम् चित् प्रति सामान्यम् कम् चित् प्रति विशेषः ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-२६/४२) एते खलु अपि नैर्देशिकानाम् वार्त्ततरकाः भवन्ति ये सर्वनाम्ना निर्देशाः क्रियन्ते ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-२७/४२) एतैः हि बहुतरकम् व्याप्यते ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-२८/४२) अथ किमर्थम् उपसर्गेण निर्देशः क्रियते ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-२९/४२) शब्दे सप्तम्या निर्दिष्टे पूर्वस्य कार्यम् यथा स्यात् अर्थे मा भूत् ॒ जनपदे अतिशायने इति ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-३०/४२) किम् गतम् एतत् उपसर्गेण आहोस्वित् शब्दाधिक्यात् अर्थाधिक्यम् ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-३१/४२) गतम् इति आह ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-३२/४२) कथम् ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-३३/४२) निः अयम् बहिर्भावे वर्तते ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-३४/४२) तत् यथा ॒ निष्क्रान्तः देशात् निर्देशः ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-३५/४२) बहिर्देशः इति गम्यते ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-३६/४२) शब्दः च शब्दात् बहिर्भूतः अर्थः अबहिर्भूतः ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-३७/४२) अथ निर्दिष्टग्रहणम् किमर्थम् ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-३८/४२) निर्दिष्टग्रहणम् आनन्तर्यार्थम् ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-३९/४२) निर्दिष्टग्रहणम् क्रियते आनन्तर्यार्थम् ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-४०/४२) आनन्तर्यमात्रे कार्यम् यथा स्यात् ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-४१/४२) इकः यण् अचि ॒ दधि अत्र मधु अत्र ।

(पा-१,१.६६-६७.१; अकि-१,१७१.१८-१७२.१७; रो-१,५०७-५११; भा-४२/४२) इह मा भूत् ॒समिधौ समिधः , दृषदौ दृषदः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-१/५०) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-२/५०) तस्मिन् तस्मात् इति पूर्वोत्तरयोः योगयोः अविशेषात् नियमार्थम् वचनम् दधि उदकम् पचति ओदनम् ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-३/५०) तस्मिन् तस्मात् इति पूर्वोत्तरयोः योगयोः अविशेषात् नियमार्थः अयम् आरम्भः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-४/५०) ग्रामे देवदत्तः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-५/५०) पूर्वः परः इति सन्देहः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-६/५०) ग्रामात् देवदत्तः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-७/५०) पूर्वः परः इति सन्देहः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-८/५०) एवम् इह अपि ॒ इकः यण् अचि ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-९/५०) दधि उदकम् , पचति ओदनम् ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-१०/५०) उभौ इकौ उभौ अचौ ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-११/५०) अचि पूर्वस्य अचि परस्य इति सन्देहः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-१२/५०) तिङ् अतिङः इति अतिङः पूर्वस्य अतिङः परस्य इति सन्देहः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-१३/५०) इष्यते च अत्र अचि पूर्वस्य स्यात् , अतिङः परस्य इति ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-१४/५०) तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-१५/५०) अस्ति प्रयोजनम् एतत् ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-१६/५०) किम् तर्हि इति ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-१७/५०) अथ यत्र उभयम् निर्दिश्यते किम् तत्र पूर्वस्य कार्यम् भवति आहोस्वित् परस्य इति ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-१८/५०) उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-१९/५०) उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशः भविष्यति ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-२०/५०) किम् प्रयोजनम् ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-२१/५०) प्रयोजनम् अतः लसार्वधातुकनुदात्तत्वे ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-२२/५०) वक्ष्यति तास्यादिभ्यः अनुदात्तत्वे सप्तमीनिर्देशः अभ्यस्तसिजर्थः इति ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-२३/५०) तस्मिन् क्रियमाणे तास्यादिभ्यः परस्य लसार्वधातुकस्य लसार्वधातुके परतः तास्यादीनाम् इति सन्देहः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-२४/५०) तास्यादिभ्यः परस्य लसार्वधातुकस्य ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-२५/५०) बहोः इष्ठादीनाम् आदिलोपः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-२६/५०) बहोः उत्तरेषाम् इष्ठेमेयसाम् इष्ठेमयःसु परतः बहोः इति सन्देहः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-२७/५०) बहोः उत्तरेषाम् इष्ठेमेयसाम् ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-२८/५०) गोतः णित् ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-२९/५०) गोतः परस्य सर्वनामस्थानस्य सर्वनामस्थाने परतः गोतः इति सन्देहः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-३०/५०) गोतः परस्य सर्वनामस्थानस्य ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-३१/५०) रुदादिभ्यः सार्वधातुके ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-३२/५०) रुदादिभ्यः परस्य सार्वधातुकस्य सार्वधातुके परतः रुदादीनाम् इति सन्देहः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-३३/५०) रुदादिभ्यः परस्य सार्वधातुकस्य ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-३४/५०) आने मुक् ईत् आसः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-३५/५०) आसः उत्तरस्य आनस्य , आने परतः आसः इति सन्देहः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-३६/५०) आसः उत्तरस्य आनस्य ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-३७/५०) आमि सर्वनाम्नः सुट् ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-३८/५०) सर्वनाम्नः उत्तरस्य आमः आमि परतः सर्वनाम्नः इति सन्देहः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-३९/५०) सर्वनाम्नः उत्तरस्य ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-४०/५०) घेः ङिति आट् नद्याः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-४१/५०) नद्याः उत्तरेषाम् ङिताम् ङित्सु परतः नद्याः इति सन्देहः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-४२/५०) नद्याः उत्तरेषाम् ङिताम् ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-४३/५०) याट् आपः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-४४/५०) आपः उत्तरस्य ङितः ङिति परतः आपः इति सन्देहः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-४५/५०) आपः उत्तरस्य ङितः । ङमः ह्रस्वात् अचि ङमुट् नित्यम् ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-४६/५०) ङमः उत्तरस्य अचः अचि परतः ङमः इति सन्देहः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-४७/५०) ङमः उत्तरस्य अचः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-४८/५०) विभक्तिविशेषनिर्देशानवकाशत्वात् अविप्रतिषेधः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-४९/५०) विभक्तिविशेषनिर्देशस्य अनवकाशत्वात् अयुक्तः अयम् विप्रतिषेधः ।

(पा-१,१.६६-६७.२; अकि-१,१७२.१९-१७४.५; रो-१,५११-५१५; भा-५०/५०) सर्वत्र एव अत्र कृतसामर्थ्या सप्तमी अकृतसामार्थ्या पञ्चमी इति कृत्वा पञ्चमीनिर्देशः भविष्यति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-१/६२) यथार्थम् वा षष्ठीनिर्देशः ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-२/६२) यथार्थम् वा षष्ठीनिर्देशः कर्तव्यः ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-३/६२) यत्र पूर्वस्य कार्यम् इष्यते तत्र पूर्वस्य षष्ठी कर्तव्या ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-४/६२) यत्र परस्य कार्यम् इष्यते तत्र परस्य षष्ठी कर्तव्या ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-५/६२) सः तर्हि तथा निर्देशः कर्तव्यः ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-६/६२) न कर्तव्यः ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-७/६२) अनेन एव प्रक्ल्̥प्तिः भविष्यति ॒ तस्मिन् इति निर्दिष्टे पूर्वस्य षष्ठी ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-८/६२) तस्मात् इति निर्दिष्टे परस्य षष्ठी ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-९/६२) तत् तर्हि षष्ठीग्रहणम् कर्तव्यम् ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-१०/६२) न कर्तव्यम् ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-११/६२) प्रकृतम् अनुवर्तते ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-१२/६२) क्व प्रकृतम् ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-१३/६२) षष्ठी स्थानेयोगा इति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-१४/६२) प्रकल्पकम् इति चेत् नियमाभावः ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-१५/६२) प्रकल्पकम् इति चेत् नियमस्य अभावः ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-१६/६२) उक्तम् च एतत् ॒ नियमार्थः अयम् आरम्भः इति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-१७/६२) प्रत्ययविधौ खलु अपि पञ्चम्याः प्रकल्पिकाः स्युः ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-१८/६२) तत्र कः दोषः ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-१९/६२) गुप्तिज्किभ्यः सन् इति एषा पञ्चमी सन् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-२०/६२) अस्तु ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-२१/६२) न कः चित् आदेशः प्रतिनिर्दिश्यते ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-२२/६२) तत्र आन्तर्यतः सनः सन् एव भविष्यति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-२३/६२) न एवम् शक्यम् ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-२४/६२) इत्सञ्ज्ञा न प्रकल्पेत ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-२५/६२) उपदेशे इति इत्सञ्ज्ञा उच्यते ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-२६/६२) प्रकृतिविकाराव्यवस्था च ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-२७/६२) प्रकृतिविकारयोः च व्यवस्था न प्रकल्पेत ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-२८/६२) इकः यण् अचि ॒ अचि इति एषा सप्तमी यण् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-२९/६२) सप्तमीपञ्चम्योः च भावात् उभयत्र षष्ठीप्रक्ल्̥प्तिः तत्र उभयकार्यप्रसङ्गः ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-३०/६२) सप्तमीपञ्चम्योः च भावात् उभयत्र एव षष्ठी प्राप्नोति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-३१/६२) तास्यादिभ्यः इति एषा पञ्चमी लसार्वधातुके इति अस्याः सप्तम्याः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-३२/६२) तथा लसार्वधातुके इति एषा सप्तमी तास्यादिभ्यः इति पञ्चम्याः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-३३/६२) तत्र कः दोषः ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-३४/६२) उभयोः कार्यम् तत्र प्राप्नोति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-३५/६२) न एषः दोषः ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-३६/६२) यत् तावत् उच्यते ॒ प्रकल्पकम् इति चेत् नियमाभावः इति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-३७/६२) मा भूत् नियमः ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-३८/६२) सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते पञ्चमीनिर्दिष्टे परस्य ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-३९/६२) यावता सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते एवम् पञ्चमीनिर्दिष्टे परस्य ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-४०/६२) न उत्सहते सप्तमीनिर्दिष्टे परस्य कार्यम् भवितुम् न अपि पञ्चमीनिर्दिष्टे पूर्वस्य ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-४१/६२) यत् अपि उच्यते ॒ प्रत्ययविधौ खलु अपि पञ्चम्याः प्रकल्पिकाः स्युः इति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-४२/६२) सन्तु प्रकल्पिकाः ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-४३/६२) ननु च उक्तम् गुप्तिज्किभ्यः सन् इति एषा पञ्चमी सन् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-४४/६२) परिहृतम् एतत् ॒ न कः चित् आदेशः प्रतिनिर्दिश्यते ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-४५/६२) तत्र आन्तर्यतः सनः सन् एव भविष्यति इति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-४६/६२) ननु च उक्तम् ॒ न एवम् शक्यम् ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-४७/६२) इत्सञ्ज्ञा न प्रकल्पेत ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-४८/६२) उपदेशे इति इत्सञ्ज्ञा उच्यते इति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-४९/६२) स्यात् एषः दोषः यदि इत्सञ्ज्ञा आदेशम् प्रतीक्षेत ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-५०/६२) तत्र खलु कृतायाम् इत्सञ्ज्ञायाम् लोपे च कृते आदेशः भविष्यति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-५१/६२) उपदेशे इति हि इत्सञ्ज्ञा उच्यते ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-५२/६२) अथ वा न अनुत्पन्ने सनि प्रक्ल्̥प्त्या भवितव्यम् ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-५३/६२) यदा च उत्पन्नः सन् तदा कृतसामर्थ्या पञ्चमी इति कृत्वा प्रक्ल्̥प्तिः न भविष्यति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-५४/६२) यत् अपि उच्यते ॒ प्रकृतिविकाराव्यवस्था च इति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-५५/६२) तत्र अपि कृता प्रकृतौ षष्ठी इकः इति विकृतौ प्रथमा यण् इति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-५६/६२) यत्र च नाम सौत्री षष्ठी न अस्ति तत्र प्रक्ल्̥प्त्या भवितव्यम् ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-५७/६२) अथ वा अस्तु तावत् इकः यण् अचि इति यत्र नाम सौत्री षष्ठी ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-५८/६२) यदि च इदानीम् अचि इति एषा सप्तमी यण् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति अस्तु ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-५९/६२) न कः चित् अन्यः आदेशः प्रतिनिर्दिश्यते ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-६०/६२) तत्र आन्तर्यतः यणः यण् एव भविष्यति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-६१/६२) यत् अपि उच्यते ॒ सप्तमीपञ्चम्योः च भावात् उभयत्र षष्ठीप्रक्ल्̥प्तिः तत्र उभयकार्यप्रसङ्गः इति ।

(पा-१,१.६६-६७.३; अकि-१,१७४.६-१७५.१८; रो-१,५१५-५१८; भा-६२/६२) आचार्यप्रवृत्तिः ज्ञापयति न उभे युगपत् प्रकल्पिके भवतः इति यत् अयम् एकः पूर्वपरयोः इति पूर्वग्रहणम् करोति ।

(पा-१,१.६८.१; अकि-१,१७५.२०-२३; रो-१,५१९-५२०; भा-१/७) रूपग्रहणम् किम् अर्थम् न स्वम् शब्दस्य अशब्दसञ्ज्ञा भवति इति एव रूपम् शबस्य सञ्ज्ञा भविष्यति ।

(पा-१,१.६८.१; अकि-१,१७५.२०-२३; रो-१,५१९-५२०; भा-२/७) न हि अन्यत् स्वम् शब्दस्य अस्ति अन्यत् अतः रूपात् ।

(पा-१,१.६८.१; अकि-१,१७५.२०-२३; रो-१,५१९-५२०; भा-३/७) एवम् तर्हि सिद्धे सति यत् रूपग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति अन्यत् रूपात् स्वम् शब्दस्य इति ।

(पा-१,१.६८.१; अकि-१,१७५.२०-२३; रो-१,५१९-५२०; भा-४/७) किम् पुनः तत् ।

(पा-१,१.६८.१; अकि-१,१७५.२०-२३; रो-१,५१९-५२०; भा-५/७) अर्थः ।

(पा-१,१.६८.१; अकि-१,१७५.२०-२३; रो-१,५१९-५२०; भा-६/७) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-१,१.६८.१; अकि-१,१७५.२०-२३; रो-१,५१९-५२०; भा-७/७) अर्थवद्ग्रहणे न अनर्थकस्य इति एषा परिभाषा न कर्तव्या भवति ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-१/४२) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-२/४२) शब्देन अर्थगतेः अर्थस्य असम्भवात् तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थम् स्वंरूपवचनम् । शब्देन उच्चारितेन अर्थः गम्यते ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-३/४२) गाम् आनय दधि अशान इति अर्थः आनीयते अर्थः च भुज्यते ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-४/४२) अर्थस्य असम्भवात् ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-५/४२) इह व्याकरणे अर्थे कार्यस्य असम्भवः ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-६/४२) अग्नेः डक् इति ॒ न शक्यते अङ्गारेभ्यः परः ढक् कर्तुम् ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-७/४२) शब्देन अर्थगतेः अर्थस्य असम्भवात् यावन्तः तद्वाचिनः शब्दाः तावद्भ्यः सर्वेभ्यः उत्पत्तिः प्राप्नोति ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-८/४२) इष्यते च तस्मात् एव स्यात् इति ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-९/४२) तत् च अन्तरेण यत्नम् न सिध्यति इति तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थम् स्वंरूपवचनम् ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-१०/४२) एवमर्थम् इदम् उच्यते ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-११/४२) न वा शब्दपूर्वकः हि अर्थे सम्प्रत्ययः तस्मात् अर्थनिवृत्तिः ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-१२/४२) न वा एतत् प्रयोजनम् अस्ति ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-१३/४२) किम् कारणम् ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-१४/४२) शब्दपूर्वकः हि अर्थे सम्प्रत्ययः ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-१५/४२) शब्दपूर्वकः हि अर्थस्य सम्प्रत्ययः ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-१६/४२) आतः च शब्दपूर्वकः ॒ यः अपि हि असौ आहूयते नाम्ना नाम यदा अनेन न उपलब्धम् भवति तद पृच्छति किम् भवान् आह इति ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-१७/४२) शब्दपूर्वकः च अर्थस्य सम्प्रत्ययः इह च व्याकरणे शब्दे कार्यस्य सम्भवः अर्थे असम्भवः ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-१८/४२) तस्मात् अर्थनिवृत्तिः भविष्यति ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-१९/४२) इदम् तर्हि प्रयोजनम् अशब्दसञ्ज्ञा इति वक्ष्यामि इति ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-२०/४२) इह मा भूत् ॒ दाधाः घु अदाप् तरप्तमपौ घः इति ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-२१/४२) सञ्ज्ञाप्रतिषेधानर्थक्यम् वचनप्रामाण्यात् ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-२२/४२) सञ्ज्ञाप्रतिषेधः च अनर्थकः ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-२३/४२) शब्दसञ्ज्ञायाम् स्वरूपविधिः कस्मात् न भवति ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-२४/४२) वचनप्रामाण्यात् ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-२५/४२) शब्दसञ्ज्ञावचनसामर्थ्यात् ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-२६/४२) ननु च वचनप्रामाण्यात् सञ्ज्ञिनाम् सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च सञ्ज्ञायाः ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-२७/४२) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-२८/४२) आचार्यप्रवृत्तिः ज्ञापयति शब्दसञ्ज्ञायाम् न स्वरूपविधिः भवति इति यत् अयम् ष्णान्ता षट् इति षकारान्तायाः सङ्ख्यायाः षट्सञ्ज्ञाम् शास्ति ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-२९/४२) इतरथा हि वचनप्रामाण्यात् नकारान्तायाः सङ्ख्यायाः सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च षकारान्तायाः ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-३०/४२) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-३१/४२) न हि षकारान्ता सञ्ज्ञा ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-३२/४२) का तर्हि ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-३३/४२) डकारान्ता ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-३४/४२) असिद्धम् जश्त्वम् ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-३५/४२) तस्य असिद्धत्वात् षकारान्ता ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-३६/४२) मन्त्राद्यर्थम् तर्हि इदम् वक्तव्यम् ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-३७/४२) मन्त्रे , ऋचि यजुषि इति यत् उच्यते तत् मन्त्रशब्दे ऋक्शब्दे च यजुःशब्दे च मा भूत् ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-३८/४२) मन्त्राद्यर्थम् इति चेत् शास्त्रसामर्थ्यात् अर्थगतेः सिद्धम् ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-३९/४२) मन्त्राद्यर्थम् इति चेत् न ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-४०/४२) किम् कारणम् ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-४१/४२) शास्त्रसामर्थ्यात् अर्थस्य गतिः भविष्यति ।

(पा-१,१.६८.२; अकि-१,१७५.२४-१७६.२४; रो-१,५२०-५२३; भा-४२/४२) मन्त्रे , ऋचि यजुषि इति यत् उच्यते तत् मन्त्रशब्दे ऋक्शब्दे च यजुःशब्दे च तस्य कार्यस्य सम्भवः न अस्ति इति कृत्वा मन्त्रादिसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-१/२९) सित् तद्विशेषाणाम् वृक्षाद्यर्थम् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-२/२९) सिन्निर्देशः कर्तव्यः ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-३/२९) ततः वक्तव्यम् ॒ तद्विशेषाणाम् ग्रहणम् भवति इति ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-४/२९) किम् प्रयोजनम् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-५/२९) वृक्षाद्यर्थम् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-६/२९) विभाषा वृक्षमृग इति ॒ प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-७/२९) पित् पर्यायवचनस्य च स्वाद्यर्थम् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-८/२९) पिन्निर्देशः कर्तव्यः ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-९/२९) ततः वक्तव्यम् ॒ पर्यायवचनस्य तद्विशेषाणाम् च ग्रहणम् भवति स्वस्य च रूपस्य इति ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-१०/२९) किम् प्रयोजनम् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-११/२९) स्वाद्यर्थम् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-१२/२९) स्वे पुषः ॒ स्वपोषम् पुष्यति रैपोषम् , विद्यापोषम् , गोपोषम् अश्वपोषम् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-१३/२९) जित् पर्यायवचनस्य एव राजाद्यर्थम् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-१४/२९) जिन्निर्देशः कर्तव्यः ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-१५/२९) ततः वक्तव्यम् पर्यायवचनस्य एव ग्रहणम् भवति ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-१६/२९) किम् प्रयोजनम् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-१७/२९) राजाद्यर्थम् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-१८/२९) सभा राजामनुष्यपूर्वा ॒ इनसभम् ईश्वरसभम् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-१९/२९) तस्य एव न भवति ॒ राजसभा ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-२०/२९) तद्विशेषाणाम् च न भवति ॒ पुष्यमित्रसभा चन्द्रगुप्तसभा ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-२१/२९) झित् तस्य च तद्विशेषाणाम् च मत्स्याद्यर्थम् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-२२/२९) झिन्निर्देशः कर्तव्यः ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-२३/२९) ततः वक्तव्यम् ॒ तस्य च ग्रहणम् भवति तद्विशेषाणाम् च इति ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-२४/२९) किम् प्रयोजनम् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-२५/२९) मत्स्याद्यर्थम् ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-२६/२९) पक्षिमत्स्यमृगान् हन्ति ॒ मात्स्यिकः ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-२७/२९) तद्विशेषाणाम् ॒ शाफरिकः , शाकुलिकः ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-२८/२९) पर्यायवचनानाम् न भवति ॒ अजिह्मान् हन्ति इति ।

(पा-१,१.६८.३; अकि-१,१७६.२५-१७७.१६; रो-१,५२३-५२५; भा-२९/२९) अस्य एकस्य पर्यायवचनस्य इष्यते ॒ मीनान् हन्ति मैनिकः ।