सामग्री पर जाएँ

व्याकरणमहाभाष्य खण्ड 20

विकिपुस्तकानि तः



(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-२/५७) ग्रामात् आगच्छति शकटेन ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-३/५७) न एतत् अस्ति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-४/५७) करणसञ्ज्ञा अत्र बाधिका भविष्यति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-५/५७) इदम् तर्हि ग्रामात् आगच्छन् कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-६/५७) अत्र अपि अधिकरणसञ्ज्ञा बाधिका भविष्यति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-७/५७) इदम् तर्हि वृक्षस्य पर्णम् पतति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-८/५७) कुड्यस्य पिण्डः पतिति इति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-९/५७) जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् । जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् कर्तव्यम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-१०/५७) जुगुप्सा ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-११/५७) अधर्मात् जुगुप्सते. अधर्मात् बीभत्सते ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-१२/५७) विराम । धर्मात् विरमति. धर्मात् निवर्तते ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-१३/५७) प्रमाद ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-१४/५७) धर्मात् प्रमाद्यति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-१५/५७) धर्मात् मुह्यति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-१६/५७) इह च उपसम्ख्यानम् कर्तव्यम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-१७/५७) साम्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-१८/५७) तत् तर्हि इदम् वक्तव्यम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-१९/५७) न वक्तव्यम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-२०/५७) इह तावत् अधर्मात् जुगुप्सते अधर्मात् बीभत्सते इति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-२१/५७) यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति दुःखः अधर्मः न अनेन कृत्यम् अस्ति इति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-२२/५७) सः बुद्ध्या सम्प्राप्य निवर्तते ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-२३/५७) तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-२४/५७) इह च धर्मात् विरमति धर्मात् निवर्तते इति धर्मात् प्रमाद्यति धर्मात् मुह्यति इति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-२५/५७) यः एषः मनुष्यः सम्भिन्नबुद्धिः भवति सः पश्यति न इदम् किम् चित् धर्मः नाम न एनम् करिष्यामि इति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-२६/५७) सः बुद्ध्या सम्प्राप्य निवर्तते ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-२७/५७) तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-२८/५७) इह च साम्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-२९/५७) यः तैः साम्यम् गतवान् भवति सः एतत्प्रयुङ्क्ते ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-३०/५७) गतियुक्तेषु अपादानसञ्ज्ञा न पपद्यते अध्रुवत्वात् । गतियुक्तेषु अपादानसञ्ज्ञा न उपपद्यते ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-३१/५७) अश्वात् त्रस्तात् पतितः ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-३२/५७) रथात् प्रवीतात् पतितः ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-३३/५७) सार्थात् गच्छतः हीनः इति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-३४/५७) किम् कारणम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-३५/५७) अध्रुवत्वात् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-३६/५७) न वा अध्रौव्यस्य अविविक्षितत्वात् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-३७/५७) न वा एषः दोषः ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-३८/५७) किम् कारणम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-३९/५७) अध्रौव्यस्य अविवक्षितत्वात् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-४०/५७) न अत्र अध्रौव्यम् विवक्षितम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-४१/५७) किम् तर्हि ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-४२/५७) ध्रौव्यम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-४३/५७) इह तावत् अश्वात् त्रस्तात् पतितः इति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-४४/५७) यत् तदश्वे अश्वत्वम् आशुगामित्वम् तत् ध्रुवम् तत् च विवक्षितम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-४५/५७) रथात् प्रवीतात् पतितः इति यत् तत् रथे रथत्वम् रमन्ते अस्मिन् रथः इति तत् ध्रुवम् तत् च विवक्षितम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-४६/५७) सार्थात् गच्छतः हीनः इति यत् तत्सार्थे सार्थत्वम् सहार्थीभावः तत् ध्रुवम् तत् च विवक्षिक्तम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-४७/५७) यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् ये तु एते अत्यन्तगतियुक्ताः तत्र कथम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-४८/५७) धावतः पतितः ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-४९/५७) त्वरमाणात् पतितः इति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-५०/५७) अत्र अपि न वा अध्रौव्यस्य अविवक्षितत्वात् इति एव सिद्धम् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-५१/५७) कथम् पुनः सतः नाम अविवक्षा स्यात् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-५२/५७) सतः अपि अविवक्षा भवति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-५३/५७) तत् यथा अलोमिका एडका ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-५४/५७) अनुदरा कन्य इति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-५५/५७) असतः च विवक्षा भवति ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-५६/५७) समुद्रः कुण्डिका ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-५७/५७) विन्ध्यः वर्धितकम् इति

(पा-१,४.२४.२; अकि-१,३२७.२३-३२८.३; रो-२,३९२-३९३; भा-१/१०) अयम् योगः शक्यः अवक्तुम् ।

(पा-१,४.२४.२; अकि-१,३२७.२३-३२८.३; रो-२,३९२-३९३; भा-२/१०) कथम् वृकेभ्यः बिभेति दस्युभ्यः बिभेति चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति ।

(पा-१,४.२४.२; अकि-१,३२७.२३-३२८.३; रो-२,३९२-३९३; भा-३/१०) इह तावत् वृकेभ्यः बिभेति दस्युभ्यः बिभेति इति ।

(पा-१,४.२४.२; अकि-१,३२७.२३-३२८.३; रो-२,३९२-३९३; भा-४/१०) यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति यदि माम् वृकाः पश्यन्ति ध्रुवः मे मृत्युः इति ।

(पा-१,४.२४.२; अकि-१,३२७.२३-३२८.३; रो-२,३९२-३९३; भा-५/१०) सः बुद्ध्या सम्प्राप्य निवर्तते ।

(पा-१,४.२४.२; अकि-१,३२७.२३-३२८.३; रो-२,३९२-३९३; भा-६/१०) तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।

(पा-१,४.२४.२; अकि-१,३२७.२३-३२८.३; रो-२,३९२-३९३; भा-७/१०) इह चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति ।

(पा-१,४.२४.२; अकि-१,३२७.२३-३२८.३; रो-२,३९२-३९३; भा-८/१०) यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति यदि इमम् पश्यन्ति ध्रुवम् अस्य वधबन्धपरिक्लेशाः इति ।

(पा-१,४.२४.२; अकि-१,३२७.२३-३२८.३; रो-२,३९२-३९३; भा-९/१०) सः बुद्ध्या सम्प्राप्य निवर्तते ।

(पा-१,४.२४.२; अकि-१,३२७.२३-३२८.३; रो-२,३९२-३९३; भा-१०/१०) तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।

(पा-१,४.२६; अकि-१,३२८.५-८; रो-२,३९३; भा-१/५) अयम् अपि योगः शक्यः अवक्तुम् ।

(पा-१,४.२६; अकि-१,३२८.५-८; रो-२,३९३; भा-२/५) कथम् अध्ययनात् पराजयते इति ।

(पा-१,४.२६; अकि-१,३२८.५-८; रो-२,३९३; भा-३/५) यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति दुःखम् अध्ययनम् दुर्धरम् च गुरवः च दुरुपचाराः इति ।

(पा-१,४.२६; अकि-१,३२८.५-८; रो-२,३९३; भा-४/५) सः बुद्ध्या सम्प्राप्य निवर्तते ।

(पा-१,४.२६; अकि-१,३२८.५-८; रो-२,३९३; भा-५/५) तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-१/२७) किम् उदाहरणम् ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-२/२७) माषेभ्यः गाः वारयति ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-३/२७) भवेद् यस्य माषाः न गावः तस्य माषाः ईप्सिताः स्युः ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-४/२७) यस्य तु खलु गावः न माषाः कथम् तस्य माषाः ईप्सिताः स्युः ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-५/२७) तस्य अपि माषाः एव ईप्सिताः ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-६/२७) आतः च ईप्सिताः यवेभ्य्ः गाः वारयति ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-७/२७) इह कूपात् अन्धम् वारयति इति कूपे अपादानसञ्ज्ञा न प्राप्नोति ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-८/२७) न हि तस्य कूपः ईप्सितः ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-९/२७) कः तर्हि ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-१०/२७) अन्धः ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-११/२७) तस्य अपि कूपः एव ईप्सितः ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-१२/२७) पश्यति अयम् अन्धः कूपम् मा प्रापत् इति ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-१३/२७) अथ वा यथा एव अस्य अन्यत्र अपश्यतः ईप्सा एवम् कूपे अपि ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-१४/२७) इह अग्नेः माणवकम् वारयति इति माणवके अपादानसञ्ज्ञा प्राप्नोति ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-१५/२७) कर्मसञ्ज्ञात्र बाधिका भविष्यति ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-१६/२७) अग्नौ अपि तर्हि बाधिका स्यात् ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-१७/२७) तस्मात् वक्तव्यम् कर्मणः यत् ईप्सितम् इति ईप्सितेप्सितम् इति वा ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-१८/२७) वारणर्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-१९/२७) वारणार्थेषु कर्मग्रहणम् अनर्थकम् ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-२०/२७) किम् कारणम् ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-२१/२७) कर्तुः ईप्सिततमम् कर्म इति वचनात् ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-२२/२७) कर्तुः ईप्सिततमम् कर्म इति एव सिद्धम् ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-२३/२७) अयम् अपि योगः शक्यः अवक्तुम् ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-२४/२७) कथम् माषेभ्यः गाः वारयति इति ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-२५/२७) पश्यति अयम् यदि इमाः गावः तत्र गच्छन्ति ध्रुवम् सस्यविनाशः सस्यविनाशे अधर्मः च एव राजभयम् च ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-२६/२७) सः बुद्ध्या सम्प्राप्य निवर्तते ।

(पा-१,४.२७; अकि-१,३२८.१०-२४; रो-२,३९३-३९५; भा-२७/२७) तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।

(पा-१,४.२८; अकि-१,३२९.२-४; रो-२,३९६; भा-१/५) अयम् अपि योगः शक्यः अवक्तुम् ।

(पा-१,४.२८; अकि-१,३२९.२-४; रो-२,३९६; भा-२/५) कथम् उपाध्यायात् अन्तर्धत्ते इति ।

(पा-१,४.२८; अकि-१,३२९.२-४; रो-२,३९६; भा-३/५) पश्यति अयम् यदि माम् उपाध्यायः पश्यति ध्रुवम् प्रेषणम् उपालम्भः वा इति ।

(पा-१,४.२८; अकि-१,३२९.२-४; रो-२,३९६; भा-४/५) सः बुद्ध्या सम्प्राप्य निवर्तते ।

(पा-१,४.२८; अकि-१,३२९.२-४; रो-२,३९६; भा-५/५) तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-१/३०) उपयोगे इति किमर्थम् ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-२/३०) नटस्य शृणोति ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-३/३०) ग्रन्थिकस्य शृणोति ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-४/३०) उपयोगे इति उच्यमाने अपि अत्र प्राप्नोति ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-५/३०) एषः अपि हि उपयोगः ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-६/३०) आतः च उपयोगः यत् आरम्भकाः रङ्गम् गच्छन्ति नटस्य श्रोष्यामः , ग्रन्थिकस्य श्रोष्यामः इति ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-७/३०) एवम् तर्हि उपयोगे इति उच्यते सर्वः च उपयोगः ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-८/३०) तत्र प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यः उपयोगः इति ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-९/३०) कः च साधीयः ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-१०/३०) यः ग्रन्थार्थयोः ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-११/३०) अथ वा उपयोगः कः भवितुम् अर्हति ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-१२/३०) यः नियमपूर्वकः ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-१३/३०) तत् यथा उपयुक्ताः माणवकाः इति उच्यन्ते ये एते नियमपूर्वकम् अधीतवन्तः भवन्ति ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-१४/३०) किम् पुनः आख्याता अनुपयोगे कारकम् आहोस्वित् अकारकम् ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-१५/३०) कः च अत्र विशेषः ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-१६/३०) आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् कर्मसञ्ज्ञाप्रसङ्गः । आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् कर्मसञ्ज्ञा प्राप्नोति ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-१७/३०) अस्तु तर्हि अकारकम् ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-१८/३०) अकारकम् इति चेत् उपयोगवचनानर्थक्यम् ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-१९/३०) यदि अकारकम् उपयोगवचनम् अनर्थकम् ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-२०/३०) अस्तु तर्हि कारकम् ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-२१/३०) ननु च उक्तम् आख्याता अनुपयोगे कारकम् इति चेत् अकथितत्वात् कर्मसञ्ज्ञाप्रसङ्गः इति ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-२२/३०) न एषः दोषः ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-२३/३०) परिगणनम् तत्र क्रियते ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-२४/३०) दुहियाचिरुधिप्रच्छिभिक्षिचिञाम् इति ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-२५/३०) अयम् अपि योगः शक्यः अवक्तुम् ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-२६/३०) कथम् उपाध्यायात् अधीते इति ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-२७/३०) अपक्रामति तस्मात् तदध्ययनम् ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-२८/३०) यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-२९/३०) सत्ततत्वात् ।

(पा-१,४.२९; अकि-१,३२९.६-२२; रो-२,३९६-३९८; भा-३०/३०) अथ वा ज्योतिर्वत् ज्ञानानि भवन्ति ।

(पा-१,४.३०; अकि-१,३२९.२४-३३०.२; रो-२,३९९; भा-१/७) अयम् अपि योगः शक्यः अवक्तुम् ।

(पा-१,४.३०; अकि-१,३२९.२४-३३०.२; रो-२,३९९; भा-२/७) कथम् गोमयात् वृश्चिकः जायते ।

(पा-१,४.३०; अकि-१,३२९.२४-३३०.२; रो-२,३९९; भा-३/७) गोलोमाविलोमभ्यः दुर्वाः जायन्ते इति ।

(पा-१,४.३०; अकि-१,३२९.२४-३३०.२; रो-२,३९९; भा-४/७) अपक्रामन्ति ताः तेभ्यः ।

(पा-१,४.३०; अकि-१,३२९.२४-३३०.२; रो-२,३९९; भा-५/७) यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति ।

(पा-१,४.३०; अकि-१,३२९.२४-३३०.२; रो-२,३९९; भा-६/७) सन्ततत्वात् ।

(पा-१,४.३०; अकि-१,३२९.२४-३३०.२; रो-२,३९९; भा-७/७) अथ वा अन्याः चन्याः च प्रादुर्भवन्ति ।

(पा-१,४.३१; अकि-१,३३०.४-६; रो-२,३९९; भा-१/६) अयम् अपि योगः शक्यः अवक्तुम् ।

(पा-१,४.३१; अकि-१,३३०.४-६; रो-२,३९९; भा-२/६) कथम् हिमवतः गङ्गा प्रभवति इति ।

(पा-१,४.३१; अकि-१,३३०.४-६; रो-२,३९९; भा-३/६) अपक्रामन्ति ताः तस्मात् आपः ।

(पा-१,४.३१; अकि-१,३३०.४-६; रो-२,३९९; भा-४/६) यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति ।

(पा-१,४.३१; अकि-१,३३०.४-६; रो-२,३९९; भा-५/६) सन्ततत्वात् ।

(पा-१,४.३१; अकि-१,३३०.४-६; रो-२,३९९; भा-६/६) अथ वा अन्याः चन्याः च प्रादुर्भवन्ति ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-१/१७) कर्मग्रहणम् किमर्थम् ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-२/१७) यम् अभिप्रैति सः सम्प्रदानम् इति इयति उच्यमाने कर्मणः एव सम्प्रदानसञ्ज्ञा प्रसज्येत ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-३/१७) कर्मग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-४/१७) कर्म निमित्तत्वेन आश्रीयते ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-५/१७) अथ यम्सग्रहणम् किमर्थम् ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-६/१७) कर्मणा अभिप्रैति सम्प्रदानम् इति इयति उच्यमाने अभिप्रयतः एव सम्प्रदानसञ्ज्ञा प्रसज्येत ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-७/१७) यम्सग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-८/१७) यम्सग्रहणात् अभिप्रयतः सम्प्रदानसञ्ज्ञा निर्भज्यते ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-९/१७) अथ अभिप्रग्रहणम् किमर्थम् ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-१०/१७) कर्मणा यम् एति स सम्प्रदानम् इति इयति उच्यमाने यम् एव सम्प्रत्येति तत्र एव स्यात् ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-११/१७) उपाध्यायाय गाम् ददाति इति ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-१२/१७) इह न स्यात् ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-१३/१७) उपाध्यायाय गाम् अदात् ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-१४/१७) उपाध्यायाय गाम् दास्यति इति ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-१५/१७) अभिप्रग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-१६/१७) अभिः आभिमुख्ये वर्तते प्रशब्दः आदिकर्मणि ।

(पा-१,४.३२.१; अकि-१,३३०.८-१७; रो-२,४००-४०१; भा-१७/१७) तेन यम् च अभिप्रैति यम् च अभिप्रैष्यति यम् च अभिप्रागाद् आभिमुख्यमात्रे सर्वत्र सिद्धम् भवति ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-१/२५) क्रियाग्रहणम् अपि कर्तव्यम् ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-२/२५) इह अपि यथा स्यात् ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-३/२५) श्राद्धाय निगर्हते ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-४/२५) युद्धाय सन्नह्यते ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-५/२५) पत्ये शेते इति ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-६/२५) तत् तर्हि वक्तव्यम् ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-७/२५) न वक्तव्यम् ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-८/२५) कथम् ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-९/२५) क्रियाम् हि लोके कर्म इति उपचरन्ति ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-१०/२५) काम् क्रियाम् करिष्यसि ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-११/२५) किम् कर्म करिष्यसि इति ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-१२/२५) एवम् अपि कर्तव्यम् ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-१३/२५) कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-१४/२५) क्रिया अपि कृत्रिमम् कर्म ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-१५/२५) न सिध्यति ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-१६/२५) कर्तुः ईप्सिततमम् कर्म इति उच्यते कथम् च नाम क्रियया क्रिया ईप्सिततमा स्यात् ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-१७/२५) क्रिया अपि क्रियया ईप्सिततमा भवति ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-१८/२५) कया क्रियया ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-१९/२५) सन्दर्शनक्रियया वा प्रार्थयतिक्रियया वा अध्यवस्यतिक्रियया वा ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-२०/२५) इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः बुद्ध्या तावत् कम्चिदर्थम् सम्पश्यति सन्दृष्टे प्रार्थना प्रार्थनायाम् अधवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावाप्तिः ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-२१/२५) एवम् क्रिया अपि कृत्रिमम् कर्म ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-२२/२५) एवम् अपि कर्मणः करणसञ्ज्ञा वक्तव्या सम्प्रदानस्य च कर्मसञ्ज्ञा ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-२३/२५) पशुना रुद्रम् यजते ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-२४/२५) पशुम् रुद्राय ददाति इति अर्थः ।

(पा-१,४.३२.२; अकि-१,३३०.१८-३३१.४; रो-२,४०१-४०३; भा-२५/२५) अग्नौ किल पशुः प्रक्षिप्यते तत् रुद्राय पह्रियते इति ।

(पा-१,४.३७; अकि-१,३३१.६-९; रो-२,४०३-४०४; भा-१/६) किमेते एकार्थाः आहोस्वित् नानार्थाः ।

(पा-१,४.३७; अकि-१,३३१.६-९; रो-२,४०३-४०४; भा-२/६) किम् च अतः ।

(पा-१,४.३७; अकि-१,३३१.६-९; रो-२,४०३-४०४; भा-३/६) यदि एकार्थाः किमर्थम् पृथक् निर्दिश्यन्ते ।

(पा-१,४.३७; अकि-१,३३१.६-९; रो-२,४०३-४०४; भा-४/६) अथ नानार्थाः कथम् कुपिना शक्यन्ते विशेषयितुम् ।

(पा-१,४.३७; अकि-१,३३१.६-९; रो-२,४०३-४०४; भा-५/६) एवम् तर्हि नानार्थाः कुपौ तु एषाम् सामान्यम् अस्ति ।

(पा-१,४.३७; अकि-१,३३१.६-९; रो-२,४०३-४०४; भा-६/६) न हि अकुपितः क्रुध्यते न वा अकुपितः द्रुह्यति न वा अकुपितः ईर्ष्यति न वा अकुपितः असूयति ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-१/२५) तमग्रहणम् किमर्थम् न साधकम् करणम् इति एव उच्येत षाधकम् करणम् इति इयति उच्यमाने सर्वेषाम् कारकाणाम् करणसञ्ज्ञा प्रसज्येत ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-२/२५) सर्वाणि हि कारकाणि साधकानि ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-३/२५) तमग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-४/२५) न एतत् अस्ति प्रयोजनम् ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-५/२५) पूर्वाः तावत् सञ्ज्ञाः अपवादत्वात् बाधिकाः भविष्यन्ति पराः परत्वात् च अनवकाशत्वात् च ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-६/२५) इह तर्हि धनुषा विध्यति अपाययुक्तत्वात् च अपादानसञ्ज्ञा साधकत्वात् च करणसञ्ज्ञा प्राप्नोति ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-७/२५) तमग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-८/२५) एवम् तर्हि लोकतः एतत् सिद्धम् ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-९/२५) तत् यथा ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-१०/२५) लोके अभिरूपाय उदकमानेयम् अभिरूपाय कन्या देया इति न च अनभिरूपे प्रवृत्तिः अस्ति ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-११/२५) तत्र अभिरूपतमाय इति गम्यते ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-१२/२५) एवम् इह अपि साधकम् करणम् इति उच्यते सर्वाणि च कारकाणि साधकानि न च असाधके प्रवृत्तिः अस्ति ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-१३/२५) तत्र साधकतमम् इति विज्ञास्यते ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-१४/२५) एवम् तर्हि सिद्धे सति यत् तमग्रहणम् करोति तत् ज्ञापयति आचार्यः कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-१५/२५) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-१६/२५) अपादानम् आचार्यः किम् न्याय्यम् मन्यते ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-१७/२५) यत्र सम्प्राप्य निवृत्तिः ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-१८/२५) तेन इह एव स्यात् ग्रामात् आगच्छति नगरात् आगच्छति इति ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-१९/२५) साङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात् ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-२०/२५) कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-२१/२५) तथा आधारम् आचार्यः किम् न्याय्यम् मन्यते ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-२२/२५) यत्र कृत्स्नः आधारात्मा व्याप्तः भवति ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-२३/२५) तेन इह एव स्यात् तिलेषु तैलम् दध्नि सर्पिः इति ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-२४/२५) गङ्गायाम् गावः कूपे गर्गर्कुलम् इति अत्र न स्यात् ।

(पा-१,४.४२; अकि-१,३३१.११-३३२.३; रो-२,४०४-४०६; भा-२५/२५) कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति ।

(पा-१,४.४८; अकि-१,३३२.५-८; रो-२,४०६-४०७; भा-१/८) वसेः अश्यर्थस्य प्रतिषेधः । वसेः अश्यर्थस्य प्रतिषेधः वक्तव्यः ।

(पा-१,४.४८; अकि-१,३३२.५-८; रो-२,४०६-४०७; भा-२/८) ग्राम उपवसति इति ।

(पा-१,४.४८; अकि-१,३३२.५-८; रो-२,४०६-४०७; भा-३/८) सः तर्हि वक्तव्यः ।

(पा-१,४.४८; अकि-१,३३२.५-८; रो-२,४०६-४०७; भा-४/८) न वक्तव्यः ।

(पा-१,४.४८; अकि-१,३३२.५-८; रो-२,४०६-४०७; भा-५/८) न अत्र उपपूर्वस्य वसेः ग्रामः अधिकरणम् ।

(पा-१,४.४८; अकि-१,३३२.५-८; रो-२,४०६-४०७; भा-६/८) कस्य तर्हि ।

(पा-१,४.४८; अकि-१,३३२.५-८; रो-२,४०६-४०७; भा-७/८) अनुपसर्गस्य ।

(पा-१,४.४८; अकि-१,३३२.५-८; रो-२,४०६-४०७; भा-८/८) ग्रामे असौ वसन् त्रिरात्रम् उपवसति इति ।

(पा-१,४.४९.१; अकि-१,३३२.१०-१३; रो-२,४०७; भा-१/६) तमग्रहणम् किमर्थम् ।

(पा-१,४.४९.१; अकि-१,३३२.१०-१३; रो-२,४०७; भा-२/६) कर्तुः ईप्सितम् कर्म इति इयति उच्यमाने इह॒ अग्नेः माणवकम् वारयति इति माणवके अपादानसञ्ज्ञा प्रसज्येत ।

(पा-१,४.४९.१; अकि-१,३३२.१०-१३; रो-२,४०७; भा-३/६) न एषः दोषः ।

(पा-१,४.४९.१; अकि-१,३३२.१०-१३; रो-२,४०७; भा-४/६) कर्मसञ्ज्ञा तत्र बाधिका भविष्यति ।

(पा-१,४.४९.१; अकि-१,३३२.१०-१३; रो-२,४०७; भा-५/६) अग्नौ अपि तर्हि बाधिका स्यात् ।

(पा-१,४.४९.१; अकि-१,३३२.१०-१३; रो-२,४०७; भा-६/६) इह पुनः तमग्रहणे क्रियमाणे तत् उपपन्नम् भवति यत् उक्तम् वारणार्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् इति ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-१/२०) इह उच्यते ओदनम् पचति इति ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-२/२०) यदि ओदनः पच्येत द्रव्यान्तरम भिनिर्वर्तेत ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-३/२०) न एषः दोषः ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-४/२०) तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-५/२०) ओदनार्थाः तण्डुलाः ओदनः इति ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-६/२०) अथ इह कथम् भवितव्यम् तण्डुलान् ओदनम् पचति इति आहोस्वित् तण्डुलानाम् ओदनम् पचति इति ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-७/२०) उभ्यथा अपि भवितव्यम् ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-८/२०) कथम् ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-९/२०) इह हि तण्डुलान् ओदनम् पचति इति द्व्यर्थः पचिः ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-१०/२०) तण्डुलान् पचन् ओदनम् निर्वर्तयति इति ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-११/२०) इह इदनीम् तण्डुलानाम् ओदनम् पचति इति द्व्यर्थः च एव पचिः विकारयोगे च षष्ठी ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-१२/२०) तण्डुलविकारम् ओदनम् निर्वर्तयति इति ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-१३/२०) इह कः चित् कम् चिदामन्त्रयते सिद्धम् भुज्यताम् इति ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-१४/२०) सः आमन्त्रयमाणः आह प्रभूतम् भुक्तम् अस्माभिः इति ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-१५/२०) आमन्त्रयमाणः आह दधि खलु भविष्यति पयः खलु भविष्यति ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-१६/२०) आमन्त्र्यमाणः आह दध्ना खलु भुञ्जीय पयसा खलु भुञ्जीय इति ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-१७/२०) अत्र कर्मसञ्ज्ञा प्राप्नोति ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-१८/२०) तत् हि तस्य ईप्सिततमम् भवति ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-१९/२०) तस्य अपि ओदनः एव एव ईप्सिततमः न तु गुणेषु अस्य अनुरोधः ।

(पा-१,४.४९.२; अकि-१,३३२.१४-२५; रो-२,४०८-४०९; भा-२०/२०) तत् यथा भुञ्जीय अहम् ओदनम् यदि मृदुविशदः स्यात् इति एवम् इह अपि दधिगुणम् ओदनम् भुञ्जीय पयोगुणमोदनम् भुञ्जीय इति ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-१/१६) ईप्सितस्य कर्मसञ्ज्ञायाम् निर्वृत्तस्य कारकत्वे कर्मसञ्ज्ञाप्रसङ्गः क्रियेप्सितत्वात् ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-२/१६) ईप्सितस्य कर्मसञ्ज्ञायाम् निर्वृत्तस्य कारकत्वे कर्मसञ्ज्ञा न प्राप्नोति ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-३/१६) गुडम् भक्षयति इति ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-४/१६) किम् कारणम् ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-५/१६) क्रियेप्सितत्वात् ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-६/१६) क्रिया तस्य ईप्सिता ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-७/१६) न वा उभयेप्सितत्वात् ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-८/१६) न वा एषः दोषः ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-९/१६) किम् कारणम् ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-१०/१६) उभयेप्सितत्वात् ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-११/१६) उभयम् तस्य ईप्सितम् ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-१२/१६) आतः च उभयम् यस्य हि गुडभक्षणे बुद्धिः प्रसक्ता भवति न असौ लोष्टम् भक्षयित्वा कृती भवति ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-१३/१६) यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् ये तु एते राजकर्मिणः मनुष्याः तेषाम् कः चित् कम् चित् आह कटम् कुरु इति ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-१४/१६) स आह न अहम् कटम् करिष्यामि घटः मया आहृतः इति ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-१५/१६) तस्य क्रियामात्रम् ईप्सितम् ।

(पा-१,४.४९.३; अकि-१,३३३.१-११; रो-२,४१०-४११; भा-१६/१६) यदि अपि तस्य क्रियामात्रम् ईप्सितम् यः तु असौ प्रेषयति तस्य उभयम् ईप्सितम् इति ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-१/२२) किम् उदाहरणम् ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-२/२२) विषम् भक्षयति इति ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-३/२२) न एतत् अस्ति ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-४/२२) पूर्वेण अपि एतत् सिध्यति ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-५/२२) न सिध्यति ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-६/२२) कर्तुः ईप्सिततमम् कर्म इति उच्यते कस्य च नाम विषभक्षणम् ईप्सितम् स्यात् ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-७/२२) विषभक्षणम् अपि कस्य चित् ईप्सितम् भवति ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-८/२२) कथम् ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-९/२२) इह यः एषः मनुष्यः दुःखार्तः भवति सः अन्यानि दुःखानि अनुनिशम्य विषभक्षणम् एव ज्यायः मन्यते ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-१०/२२) आतः च ईप्सितम् यत् तत् भक्षयति ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-११/२२) यत् तर्थि अन्यत् करिष्यामि इति अन्यत् करोति तत् उदाहरणम् ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-१२/२२) किम् पुनः तत् ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-१३/२२) ग्रामान्तरम् अयम् गच्छन् चौरान् पश्यति अहिम् लङ्घयति कण्टकान् मृद्नाति ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-१४/२२) इह ईप्सितस्य अपि कर्मसञ्ज्ञा आरभ्यते अनीप्सितस्य अपि ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-१५/२२) यत् इदानीम् न एव ईप्सितमम् न अपि अनीप्सितम् तत्र कथम् भवितव्यम् ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-१६/२२) ग्रामान्तरम् अयम् गच्छन् वृक्षमूलानि उपसर्पति कुड्यमूलानि उपसर्पति इति ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-१७/२२) अत्र अपि सिद्धम् ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-१८/२२) कथम् ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-१९/२२) अनीप्सितम् इति न अयम् प्रसज्यप्रतिषेधः ईप्सितम् न इति ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-२०/२२) किम् तर्हि ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-२१/२२) पर्युदासः अयम् यत् अन्यत् ईप्सितात् तत् अनीप्सितम् इति ।

(पा-१,४.५०; अकि-१,३३३.१३-२३; रो-२,४११-४१२; भा-२२/२२) अन्यत् च एतत् ईप्सितात् यत् न एव ईप्सितम् न अपि अनीप्सितम् इति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-१/४३) केन अकथितम् ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-२/४३) अपादानादिभिः विशेषकथाभिः ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-३/४३) किम् उदाहरणम् ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-४/४३) दुहियाचिरुधिप्रछिभिक्षिचिञाम् उपयोगनिमित्तम् अपूर्वविधौ ब्रुविशासिगुणेन च यत्सचते तत् अकीर्तितम् आचरितम् कविना ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-५/४३) दुहि ॒ गाम् दोग्धि पयः ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-६/४३) न एतत् अस्ति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-७/४३) कथिता अत्र पूर्वा अपादन्सञ्ज्ञा ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-८/४३) दुहि ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-९/४३) याचि ॒ इदम् तर्हि पौरवम् गाम् याचते इति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-१०/४३) न एतत् अस्ति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-११/४३) कथिता अत्र पूर्वा अपादन्सञ्ज्ञा ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-१२/४३) न याचनात् एव अपायः भवति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-१३/४३) याचितः असौ यदि ददाति ततः अपायेन युज्यते ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-१४/४३) याचि ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-१५/४३) रुधि ॒ अन्ववरुणद्धि गाम् व्रजम् ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-१६/४३) न एतत् अस्ति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-१७/४३) कथिता अत्र पूर्वा अधिकरणसञ्ज्ञा ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-१८/४३) रुधि ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-१९/४३) प्रच्छि ॒ माणवकम् पन्थानम् पृच्छति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-२०/४३) न एतत् अस्ति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-२१/४३) कथिता अत्र पूर्वा अपादानसञ्ज्ञा ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-२२/४३) न प्रश्नात् एव अपायः भवति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-२३/४३) पृष्तः असौ यदि आचाष्टे ततः अपायेन युज्यते ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-२४/४३) प्रच्छि. भिक्षि ॒ पौरवम् गाम् भिक्षते ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-२५/४३) न एतत् अस्ति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-२६/४३) कथिता अत्र पूर्वा अपादानसञ्ज्ञा ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-२७/४३) न भिक्षणात् एव अपायः भवति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-२८/४३) भिक्षितः असौ यदि ददाति ततः अपायेन युज्यते ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-२९/४३) भिक्षि ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-३०/४३) चिञ् ॒ वृक्षम् अवचिनोति फलानि ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-३१/४३) न एतत् अस्ति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-३२/४३) कथिता अत्र पूर्वा अपादानसञ्ज्ञा ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-३३/४३) ब्रुविशासिगुणेन च यत् सचते तत् अकीर्तितम् आचरितम् कविना ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-३४/४३) ब्रुविशासिगुणेन च यत् सचते सम्बध्यते तत् च दाहरणम् ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-३५/४३) किम् पुनः तत् ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-३६/४३) पुत्रम् ब्रूते धर्मम् ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-३७/४३) पुत्रम् अनुशास्ति धर्मम् इति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-३८/४३) न एतत् अस्ति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-३९/४३) कथिता अत्र पूर्वा सम्प्रदानसञ्ज्ञा ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-४०/४३) तस्मात् त्रीणि एव उदाहरणानि ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-४१/४३) पौरवम् गाम् याचते ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-४२/४३) माणवकम् पन्थानम् पृच्छति ।

(पा-१,४.५१.१; अकि-१,३३३.२५-३३४.१५; रो-२,४१३-४१८; भा-४३/४३) पौरवम् गाम् भिक्षते इति ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-१/५७) अथ ये धातूनाम् द्विकर्मकाः तेषाम् किम् कथिते लादयः भवन्ति आहोस्वित् अकथिते ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-२/५७) कथिते लादयः ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-३/५७) कथिते लादिभिः अभिहिते गुणम्कर्मणि का कर्तव्या । कथिते लादयः चेत् स्युः षष्ट्ःीम् कुर्यात् तदा गुणे ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-४/५७) कथिते लादयः चेत् स्युः षष्ठी गुणकर्मणि तदा कर्तव्या ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-५/५७) दुह्यते गोः पयः ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-६/५७) याच्यते पौरवस्य कम्बलः इति ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-७/५७) कथम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-८/५७) अकारकम् ह्यकथितत्वात् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-९/५७) अकारकम् हि एतत् भवति ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-१०/५७) किम् कारणम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-११/५७) अकथितत्वात् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-१२/५७) कारकम् चेत् तु न अकथा ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-१३/५७) अथ कारकम् न अकथितम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-१४/५७) अथ कारके सति का कर्तव्या ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-१५/५७) कारकम् चेत् विजानीयात् याम् याम् मन्येत सा भवेत् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-१६/५७) कारकम् चेत् विजानातीयात् या या प्राप्नोति सा कर्तव्या ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-१७/५७) दुह्यते गोः पयः ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-१८/५७) याच्यते पौरवात् कम्बलः इति ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-१९/५७) कथिते अभिहिते त्वविधिः त्वमतिः गुणकर्मणि लादिविधिः सपरे ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-२०/५७) कथिते लादिभिः अभिहिते त्वविधिः एषः भवति ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-२१/५७) किम् इदम् त्वविधिः इति ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-२२/५७) तव विधिः त्वविधिः ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-२३/५७) त्वमतिः ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-२४/५७) किमिदम् त्वमतिः इति ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-२५/५७) तव मतिः त्वमतिः ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-२६/५७) न एवम् अन्ये मन्यन्ते ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-२७/५७) कथम् तर्हि अन्ये मन्यन्ते ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-२८/५७) गुणकर्मणि लादिविधिः सपरे ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-२९/५७) गुणकर्मणि लादिविधियः भवन्ति सह परेण योगेन ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-३०/५७) गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्ता सः णौ इति ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-३१/५७) ध्रुवचेष्टितयुक्तिषु च अपि अगुणे तत् अनल्पमतेः वचनम् स्मरत । ध्रुवयुक्तिषु चेष्टितयुक्तिषु च अपि अगुणे कर्मणि लादयः भवन्ति ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-३२/५७) तत् अनल्प्मतेः आचार्यस्य वचनम् स्मर्यताम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-३३/५७) अपरः आह ॒ प्रधानकर्मणि आख्येये लादीन् आहुः द्विकर्मणाम् । प्रधानकर्मणि अभिधेये द्विकर्मणाम् धातूनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-३४/५७) अजाम् नयति ग्रामम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-३५/५७) अजा नीयते ग्रामम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-३६/५७) अजा नीता ग्रामम् इति ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-३७/५७) अप्रधाने दुहादीनाम् । अप्रधाने दुहादीनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-३८/५७) दुह्यते गौः पयः ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-३९/५७) ण्यन्ते कर्तुः च कर्मणः । लादयः भवन्ति इति वक्तव्यम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-४०/५७) गम्यते देवदत्तः ग्रामम् यज्ञदत्तेन ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-४१/५७) के पुनः धातूनाम् द्विकर्मकाः ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-४२/५७) नीवह्योः हरतेः च अपि गत्यर्थानाम् तथा एव च द्विकर्मकेषु ग्रहणम् द्रष्टव्यम् इति निश्चयः ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-४३/५७) अजाम् नयति ग्रामम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-४४/५७) भारम् वहति ग्रामम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-४५/५७) भारम् हरति ग्रामम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-४६/५७) गत्यर्थानाम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-४७/५७) गमयति देवदत्तम् ग्रामम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-४८/५७) यापयति देवदत्तम् ग्रामम् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-४९/५७) सिद्धम् वा अपो अन्यकर्मणः ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-५०/५७) सिद्धम् वा पुनः एतत् भवति ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-५१/५७) कुतः ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-५२/५७) अन्यकर्मणः ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-५३/५७) अन्यस्य अत्र अजा कर्म अन्यस्य ग्रामः ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-५४/५७) अजाम् असौ गृहीत्वा ग्रामम् नयति ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-५५/५७) अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः भवेत् । अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः अयम् भवेत् ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-५६/५७) अजा नीयते ग्रामम् इति ।

(पा-१,४.५१.२; अकि-१,३३४.१६-३३५.२८; रो-२,४१८-४२४; भा-५७/५७) परसाधने उत्पद्यमानेन लेन अजायाः अभिधानम् न प्राप्नोति ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-१/२७) कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा हि अर्कर्मणाम् ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-२/२७) कालभावाध्वगन्तव्याः अकर्मकाणाम् धातूनाम् कर्मसञ्ज्ञाः भवन्ति इति वक्तव्यम् ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-३/२७) काल ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-४/२७) मासम् आस्ते ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-५/२७) मासम् स्वपिति ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-६/२७) भाव ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-७/२७) गोदोहम् आस्ते ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-८/२७) गोदोहम् स्वपिति ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-९/२७) अध्वगन्तव्य ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-१०/२७) क्रोशम् आस्ते ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-११/२७) क्रोशम् स्वपिति ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-१२/२७) देशः च अकर्मणाम् कर्मसञ्ज्ञः भवति इति वक्तव्यम् ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-१३/२७) कुरून् स्वपिति ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-१४/२७) पञ्चालान् स्वपिति ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-१५/२७) विपरीतम् तु यत् कर्म तत् कल्म कवयः विदुः । किमिदम् कल्म इति ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-१६/२७) अपरिसमाप्तम् कर्म कल्म ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-१७/२७) न वा अस्मिन् सर्वाणि कर्मकार्याणि क्रियन्ते ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-१८/२७) किम् तर्हि ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-१९/२७) द्वितीया एव ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-२०/२७) यस्मिन् तु कर्मणि उपजायते अन्यत् धात्वर्थयोगा अपि च यत्र षष्ठी तत् कर्म कल्म इति च कल्म न उक्तम् धातोः हि वृत्तिः न रलत्वतः अस्ति ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-२१/२७) एतेन कर्मसञ्ज्ञा सर्वा सिद्धा भवति कथितेन ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-२२/२७) तत्र ईप्सितस्य किम् स्यात् प्रयोजनम् कर्मसञ्ज्ञायाः ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-२३/२७) यत् तु कथितम् पुरस्तात् ईप्सिततयुक्तम् च तस्य सिद्ध्यर्थम् ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-२४/२७) ईप्सितम् एव तु यत् स्यात् तस्य भविष्यति कथितेन ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-२५/२७) अथ इह कथम् भवितव्यम् ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-२६/२७) नेता अश्वस्य स्रुघ्नम् इति आहोस्वित् नेता अश्वस्य स्रुघ्नस्य इति ।

(पा-१,४.५१.३; अकि-१,३३६.१-१७; रो-२,४२५-४२८; भा-२७/२७) उभयथा गोणिकापुत्रः ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-१/३७) शब्दकर्म इति कथम् इदम् विज्ञायते ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-२/३७) शब्दः येषाम् क्रिया इति आहोस्वित् शब्दः येषाम् कर्म इति ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-३/३७) कः च अत्र विशेषः ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-४/३७) शब्दकर्मनिर्देशे शब्दक्रियाणाम् इति चेत् ह्वयत्यादीनाम् प्रतिषेधः । शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद् ह्वयदादीनाम् प्रतिषेधः वक्तव्यः ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-५/३७) के पुनः ह्वयतादयः ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-६/३७) ह्वयति क्रन्दति शब्दायते ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-७/३७) ह्वयति देवदत्तः ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-८/३७) ह्वाययति देवदत्तेन ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-९/३७) क्रन्दति देवदत्तः ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-१०/३७) क्रन्दयति देवदत्तेन ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-११/३७) शब्दायते देवदत्तः ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-१२/३७) शब्दाययति देवदत्तेन इति ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-१३/३७) शृणोत्यादीन् आम् च उपसम्ख्यानम् अशब्दक्रियत्वात् ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-१४/३७) शृणोत्यादीनाम् च उपसम्ख्यानम् कर्तव्यम् ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-१५/३७) के पुनः शृणोत्यादयः ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-१६/३७) शृणोति विजानाति उपलभते ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-१७/३७) शृणोति देवदत्तः ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-१८/३७) श्रावयति देवदत्तम् ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-१९/३७) विजानाति देवदत्तः ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-२०/३७) विज्ञापयति देवदत्तम् ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-२१/३७) उपलभते देवदत्तः ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-२२/३७) उपलम्भयति देवदत्तम् ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-२३/३७) किम् पुनः कारणम् न सिध्यति ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-२४/३७) अशब्दक्रियत्वाद् ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-२५/३७) अस्तु तर्हि शब्दः येषाम् कर्म इति ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-२६/३७) शब्दकर्मणः इति चेत् जल्पतिप्रभृतीनाम् उपसम्ख्यानम् । शब्दकर्मण इति चेत् जल्पतिप्रभृतीनामुपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-२७/३७) के पुनः जल्पतिप्रभृअतयः ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-२८/३७) जल्पति विलपति आभाषते ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-२९/३७) जल्पति देवदत्तः ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-३०/३७) जल्पयति देवदत्तम् ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-३१/३७) विलपति देवदत्तः ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-३२/३७) विलापयति देवदत्तम् ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-३३/३७) आभाषते देवदत्तः ।आभाषयति देवदत्तम् ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-३४/३७) दृशेः सर्वत्र ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-३५/३७) दृशेः सर्वत्र उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-३६/३७) पश्यति रूपतर्कः कार्षापणम् ।

(पा-१,४.५२.१; अकि-१,३३६.१९-३३७.१३; रो-२,४२९-४३१; भा-३७/३७) दर्शयति रूपतर्कम् कार्षापणम् ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-१/२६) अदिखादिनीवहीनाम् प्रतिषेधः ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-२/२६) अदिखादिनीवहीनाम् प्रतिषेधः वक्तव्यः ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-३/२६) अत्ति देवदत्तः ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-४/२६) आदयते देवदत्तेन ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-५/२६) अपरः आह ॒ सर्वम् एव प्रत्यवसानकार्यम् अदेः न भवति इति वक्तव्यम् , परस्मैपदम् अपि ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-६/२६) इदम् एकम् इष्यते ॒ क्तः अधिकरणे च द्रौव्यगतिप्रत्यवसानार्थेभ्यः ॒ इदम् एषाम् जग्धम् ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-७/२६) खादि ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-८/२६) खादति देवदत्तः ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-९/२६) खादयति देवदत्तेन ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-१०/२६) नी ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-११/२६) नयति देवदत्तः ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-१२/२६) नाययति देवदत्तेन ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-१३/२६) वहेरनियन्तृकर्तृकस्य ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-१४/२६) वहेः अनियन्तृकर्तृकस्य इति वक्तव्यम् ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-१५/२६) वहति भारम् देवदत्तः ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-१६/२६) वाहयति भारम् देवदत्तेन ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-१७/२६) अनियन्तृकर्तृकस्य इति किमर्थम् ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-१८/२६) वहन्ति यवान् बलीवर्दाः ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-१९/२६) वाहयन्ति बलीवर्दान् यवान् ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-२०/२६) भक्षेः अहिंसार्थस्य ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-२१/२६) भक्षेः अहिम्सार्थस्य इति वक्तव्यम् ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-२२/२६) भक्षयति पिण्डीम् देवदत्तः ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-२३/२६) भक्षयति पिण्डीम् देवदत्तेन ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-२४/२६) अहिम्सार्थस्य इति किमर्थम् ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-२५/२६) भक्षयन्ति यवान् बलीवर्दाः ।

(पा-१,४.५२.२; अकि-१,३३७.१४-२७; रो-२,४३१-४३२; भा-२६/२६) भक्षयन्ति बलीवर्दान् यवान् ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-१/१९) अकर्मकग्रहणे कालकर्मकाणाम् उपसङ्ख्यानम् ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-२/१९) अकर्मकग्रहणे कालकर्मकाणाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-३/१९) मासम् आस्ते देवदत्तः ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-४/१९) मासम् आसयति देवदत्तम् ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-५/१९) मासम् शेते देवदत्तः ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-६/१९) मासम् शाययति देवदत्तम् ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-७/१९) सिद्धम् तु कालकर्मकाणाम् अकर्मकवद्वचनात् ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-८/१९) सिद्धम् एतत् ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-९/१९) कथम् ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-१०/१९) कालकर्मकाः अकर्मकवत् भवन्ति इति वक्तव्यम् ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-११/१९) तत् तर्हि वक्तव्यम् ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-१२/१९) न वक्तव्यम् ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-१३/१९) अकर्मकाणाम् इति उच्यते न च के चित् कदा चित् कालभावाध्वभिः अकर्मकाः ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-१४/१९) ते एवम् विज्ञास्यामः ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-१५/१९) क्व चित् ये अकर्मकाः इति ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-१६/१९) अथ वा येन कर्मणा सकर्म्काः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-१७/१९) न च एतेन कर्मणा कः चित् अपि अकर्मकः ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-१८/१९) अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् ।

(पा-१,४.५२.३; अकि-१,३३८.१-९; रो-२,४३२-४३५; भा-१९/१९) न च एतत् कर्म क्व चित् अपि न भवति ।

(पा-१,४.५३; अकि-१,३३८.११-१५; रो-२,४३५; भा-१/१०) हृक्रोः वावचने अभिवादिदृश्योः आत्मनेपदे उपसङ्ख्यानम् ।

(पा-१,४.५३; अकि-१,३३८.११-१५; रो-२,४३५; भा-२/१०) हृक्रोर्वावचने अभिवादिदृशोः आत्मनेपदे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,४.५३; अकि-१,३३८.११-१५; रो-२,४३५; भा-३/१०) अभिवदति गुरुम् देवदत्तः ।

(पा-१,४.५३; अकि-१,३३८.११-१५; रो-२,४३५; भा-४/१०) अभिवादयते गुरुम् देवदत्तम् ।

(पा-१,४.५३; अकि-१,३३८.११-१५; रो-२,४३५; भा-५/१०) अभिवादयते गुरुम् देवदत्तेन ।

(पा-१,४.५३; अकि-१,३३८.११-१५; रो-२,४३५; भा-६/१०) पश्यन्ति भृत्याः राजानम् ।

(पा-१,४.५३; अकि-१,३३८.११-१५; रो-२,४३५; भा-७/१०) दर्शयते भृत्यान् राजा ।

(पा-१,४.५३; अकि-१,३३८.११-१५; रो-२,४३५; भा-८/१०) दर्शयते भृत्यैः राजा ।

(पा-१,४.५३; अकि-१,३३८.११-१५; रो-२,४३५; भा-९/१०) कथम् च अत्र आत्मनेपदम् ।

(पा-१,४.५३; अकि-१,३३८.११-१५; रो-२,४३५; भा-१०/१०) एकस्य णेः अणौ इ ति अपरस्य णिचः च इति ।

(पा-१,४.५४.१; अकि-१,३३८.१७-२०; रो-२,४३५-४३६; भा-१/१२) किम् यस्य स्वम् तन्त्रम् सः स्वतन्त्रः ।

(पा-१,४.५४.१; अकि-१,३३८.१७-२०; रो-२,४३५-४३६; भा-२/१२) किम् च अतः ।

(पा-१,४.५४.१; अकि-१,३३८.१७-२०; रो-२,४३५-४३६; भा-३/१२) तन्तुवाये प्राप्नोति ।

(पा-१,४.५४.१; अकि-१,३३८.१७-२०; रो-२,४३५-४३६; भा-४/१२) न एषः दोषः ।

(पा-१,४.५४.१; अकि-१,३३८.१७-२०; रो-२,४३५-४३६; भा-५/१२) अयम् तन्त्रशब्दः अस्ति एव विताने वर्तते ।

(पा-१,४.५४.१; अकि-१,३३८.१७-२०; रो-२,४३५-४३६; भा-६/१२) तत् यथा ॒ आस्तीर्णम् तन्त्रम् ।

(पा-१,४.५४.१; अकि-१,३३८.१७-२०; रो-२,४३५-४३६; भा-७/१२) प्रेतम् तन्त्रम् ।

(पा-१,४.५४.१; अकि-१,३३८.१७-२०; रो-२,४३५-४३६; भा-८/१२) वितानः इति गम्यते ।

(पा-१,४.५४.१; अकि-१,३३८.१७-२०; रो-२,४३५-४३६; भा-९/१२) अस्ति प्राधान्ये वर्तते ।

(पा-१,४.५४.१; अकि-१,३३८.१७-२०; रो-२,४३५-४३६; भा-१०/१२) तत् यथा स्वतन्त्रः असौ ब्राह्मणः इति उच्यते ।

(पा-१,४.५४.१; अकि-१,३३८.१७-२०; रो-२,४३५-४३६; भा-११/१२) स्वप्रधानः इति गम्यते ।

(पा-१,४.५४.१; अकि-१,३३८.१७-२०; रो-२,४३५-४३६; भा-१२/१२) तत् यः प्राधान्ये वर्तते तन्त्रशब्दः तस्य इदम् ग्रहणम् ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-१/१८) स्वतन्त्रस्य कर्तृसञ्ज्ञायाम् हेतुमति उपसङ्ख्यानम् अस्वत्रन्त्वात् ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-२/१८) स्वतन्त्रस्य कर्तृसञ्ज्ञायाम् हेतुमति उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-३/१८) पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-४/१८) किम् पुनः कारणम् न सिध्यति ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-५/१८) अस्वतन्त्रत्वात् ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-६/१८) न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-७/१८) न वा कर्तव्यम् ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-८/१८) किम् कारणम् ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-९/१८) स्वातन्त्र्यात् ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-१०/१८) स्वतन्त्रः असौ भवति ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-११/१८) इतरथा हि अकुर्वति अपि कारयति इति स्यात् ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-१२/१८) यः हि मन्यते न असौ स्वतन्त्रः अकुर्वति अपि तस्य कारयति इति एतत् स्यात् ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-१३/१८) न अकुर्वत् इ इति चेत् स्वतन्त्रः ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-१४/१८) न चेत् अकुर्वति तस्मिन् कारयति इति एतत् भवति स्वतन्त्रः असौ भवति ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-१५/१८) शक्यम् तावत् अनेन उपसम्ख्यानम् कुर्वता वक्तुम् कुर्वन् स्वतन्त्रः अकुर्वन् न इति ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-१६/१८) साधीयः ज्ञापकम् भवति ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-१७/१८) प्रेषिते च किल अयम् क्रियाम् च अक्रियाम् च दृष्ट्वा अध्यवस्यति कुर्वन् स्वतन्त्रः अकुर्वन् न इति ।

(पा-१,४.५४.२; अकि-१,३३८.२१-३३९.९; रो-२, ४३६-४३८; भा-१८/१८) यदि च प्रेषितः असौ न करोति स्वतन्त्रः असौ भवति इति ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-१/१६) प्रैषे अस्वतन्त्रप्रयोजकत्वात् हेतुसञ्ज्ञाप्रसिद्धिः ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-२/१६) प्रैषे अस्वतन्त्रप्रयोजकत्वात् हेतुसञ्ज्ञायाः अप्रसिद्धिः ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-३/१६) स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-४/१६) न च असौ स्वतन्त्रम् प्रयोजयति ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-५/१६) स्वतन्त्रत्वात् सिद्धम् ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-६/१६) सिद्धम् एतत् ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-७/१६) कथम् ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-८/१६) स्वतन्त्रत्वात् ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-९/१६) स्वतन्त्रम् असौ प्रयोजयति ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-१०/१६) स्वतन्त्रत्वात् सिद्धम् इति चेत् स्वतन्त्रपरतन्त्रत्वम् विप्रतिषिद्दम् ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-११/१६) यदि स्वतन्त्रः न प्रयोज्यः अथ प्रयोज्यः न स्वतन्त्रः प्रयोज्यः स्वतन्त्रः च इति विप्रतिषिद्धम् ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-१२/१६) उक्तम् वा ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-१३/१६) किम् उक्तम् ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-१४/१६) एकम् तावत् उक्तम् न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् इति ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-१५/१६) अपरम् उक्तम् ।

(पा-१,४.५५; अकि-१,३३९.११-२१; रो-२,४३८-४३९; भा-१६/१६) न वा सामान्यकृतत्वात् हेतुतः हि अविशिष्टम् स्वतन्त्रप्रयोजकत्वात् अप्रयोजकः इति चेत् मुक्तमसम्शयेन तुल्यम् इति ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-१/२६) किमर्थम् रेफाधिकः ईश्वरशब्दः गृह्यते ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-२/२६) रीश्वरात् वीश्वरात् मा भूत् ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-३/२६) रीश्वरात् इति उच्यते वीश्वरात् मा भूत् ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-४/२६) शकि णमुल्कमुलौ ईश्वरे तोसुन्कसुनौ इति ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-५/२६) न एतत् अस्ति प्रयोजनम् ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-६/२६) आचार्यप्रवृत्तिः ज्ञापयति अनन्तरः यः ईश्वरशब्दः तस्य ग्रहणम् इति यत् अयम् कृत् मेजन्तः इति कृतः मान्तस्य एजन्तस्य च अव्ययसञ्ज्ञाम् शास्ति ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-७/२६) कृत् मेजन्तः परः अपि सः ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-८/२६) परः अपि एतस्मात् कृत् मान्तः एजन्तः च अस्ति ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-९/२६) तदर्थम् एतत् स्यात् ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-१०/२६) यत् तर्हि अव्ययीभावस्य अव्ययसञ्ज्ञाम् शास्ति तत् ज्ञापयति आचार्यः नन्तरः यः ईश्वरशब्दः तस्य ग्रहणम् इति ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-११/२६) समासेषु अव्ययीभावः ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-१२/२६) समासस्य एतत् ज्ञापकम् स्यात् ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-१३/२६) अव्ययीभावः एव समासः अव्ययसञ्ज्ञः भवति न अन्यः इति ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-१४/२६) एवम् तर्हि लोकतः एतत् सिद्धम् ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-१५/२६) तत् यथा लोके आ वनान्तात् आ उदकान्तात् प्रियम् पान्थमन् उव्रजेत् इति यः एव प्रथमः वनान्तः उदकान्तः च ततः नुव्रजति ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-१६/२६) लौकिकम् च अतिवर्तते ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-१७/२६) द्वितीयम् च तृतीयम् च वनान्तम् उदकान्तम् वा अनुव्रजति ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-१८/२६) तस्मात् रेफादिकः ईश्वरशब्दः ग्रहीतव्यः ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-१९/२६) अथ प्राग्वचनम् किमर्थम् ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-२०/२६) प्राग्वचनम् सञ्ज्ञानिवृत्त्यर्थम् ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-२१/२६) प्राग्वचनम् क्रियते निपातसञ्ज्ञायाः अनिवृत्तिः यथा स्यात् ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-२२/२६) अक्रियमाणे हि प्राग्वचने अनवकाशाः गत्युपसर्गकर्मप्रवचनीयसञ्ज्ञाः निपातसञ्ज्ञाम् बाधेरन् ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-२३/२६) ताः मा बाधिषत इति प्राग्वचनम् क्रियते ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-२४/२६) अथ क्रियमाणे अपि प्राग्वचने यावता अनवकाशाः एताः सञ्ज्ञाः कस्मात् एव न बाधन्ते ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-२५/२६) क्रियमाणे हि प्राग्वचने सत्याम् निपातसञ्ज्ञायाम् एताः अवयवसञ्ज्ञाः आरभ्यन्ते ।

(पा-१,४.५६; अकि-१,३४०.२-२५; रो-२,४४०-४४२; भा-२६/२६) तत्र वचनात् समावेशः भवति ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-१/१८) अयम् सत्त्वशब्दः अस्ति एव द्रव्यपदार्थकः ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-२/१८) तत् यथा सत्त्वम् अयम् ब्राह्मणः सत्त्वमियम् ब्राह्मणी इति ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-३/१८) अस्ति क्रियापदार्थकः ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-४/१८) सद्भावः सत्त्वम् इति ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-५/१८) कस्य इदम् ग्रहणम् ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-६/१८) द्रव्यपदार्थकस्य ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-७/१८) कुतः एतत् ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-८/१८) एवम् हि कृत्वा विधिः च सिद्धः भवति प्रतिषेधः च ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-९/१८) किम् पुनः अयम् पर्युदासः ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-१०/१८) यत् अन्यत् सत्त्ववचनात् इति ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-११/१८) आहोस्वित् प्रसज्य अयम् प्रतिषेधः ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-१२/१८) सत्त्ववचने न इति ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-१३/१८) किम् च अतः ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-१४/१८) यदि पर्युदासः विप्रः इति अत्र अपि प्राप्नोति ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-१५/१८) क्रियाद्रव्यवचनः अयम् सम्घातो द्रव्यात् अन्यश्च विधिना आश्रीयते ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-१६/१८) अस्ति च प्रादिभिः सामान्यम् इति कृत्वा तदन्तविधिना निपातसञ्ज्ञा प्राप्नोति ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-१७/१८) अथ प्रसज्यप्रतिषेधः न दोषः भवति ।

(पा-१,४.५७; अकि-१,३४१.२-९; रो-२,४४२-४४४; भा-१८/१८) यथा न दोषः तथा अस्तु ।

(पा-१,४.५८-५९.१; अकि-१,३४१.११-१८; रो-२,४४४; भा-१/९) प्रादयः इति योगविभागः ।

(पा-१,४.५८-५९.१; अकि-१,३४१.११-१८; रो-२,४४४; भा-२/९) प्रादयः इति योगविभागः कर्तव्यः ।

(पा-१,४.५८-५९.१; अकि-१,३४१.११-१८; रो-२,४४४; भा-३/९) प्रादयः सत्त्ववचनाः निपातसञ्ज्ञाः भवन्ति ।

(पा-१,४.५८-५९.१; अकि-१,३४१.११-१८; रो-२,४४४; भा-४/९) ततः उपसर्गाः क्रियायोगे इति ।

(पा-१,४.५८-५९.१; अकि-१,३४१.११-१८; रो-२,४४४; भा-५/९) किमर्थः योगविभागः ।

(पा-१,४.५८-५९.१; अकि-१,३४१.११-१८; रो-२,४४४; भा-६/९) निपातसञ्ज्ञार्थः ।

(पा-१,४.५८-५९.१; अकि-१,३४१.११-१८; रो-२,४४४; भा-७/९) निपातसञ्ज्ञा यथा स्यात् ।

(पा-१,४.५८-५९.१; अकि-१,३४१.११-१८; रो-२,४४४; भा-८/९) एकयोगे हि निपातसञ्ज्ञाभावः । एकयोगे हि सति निपातसञ्ज्ञाया अभावः स्यात् ।

(पा-१,४.५८-५९.१; अकि-१,३४१.११-१८; रो-२,४४४; भा-९/९) यस्मिन् एव विशेषे गत्युपसर्गकर्मप्रवचनीयसञ्ज्ञाः तस्मिन् एव विशेषे निपातसञ्ज्ञा स्यात् ।

(पा-१,४.५८-५९.२; अकि-१,३४१.१९-२३; रो-२,४४५; भा-१/७) मरुच्छब्दस्य उप्सङ्ख्यानम् ।

(पा-१,४.५८-५९.२; अकि-१,३४१.१९-२३; रो-२,४४५; भा-२/७) मरुच्छब्दस्य उप्सङ्ख्यानम् कर्तव्यम् ।

(पा-१,४.५८-५९.२; अकि-१,३४१.१९-२३; रो-२,४४५; भा-३/७) मरुद्दत्तो मरुत्यः ।

(पा-१,४.५८-५९.२; अकि-१,३४१.१९-२३; रो-२,४४५; भा-४/७) अच उपसर्गात् इति तत्त्वम् यथा स्यात् ।

(पा-१,४.५८-५९.२; अकि-१,३४१.१९-२३; रो-२,४४५; भा-५/७) श्रच्छब्दस्य उपसम्ख्यानम् ।

(पा-१,४.५८-५९.२; अकि-१,३४१.१९-२३; रो-२,४४५; भा-६/७) श्रच्छब्दस्य उपसम्ख्यानम् कर्तव्यम् ।

(पा-१,४.५८-५९.२; अकि-१,३४१.१९-२३; रो-२,४४५; भा-७/७) श्रद्धा ।

(पा-१,४.६०.१; अकि-१,३४२.२-६; रो-२,४४६; भा-१/८) कारिकाशब्दस्य ।

(पा-१,४.६०.१; अकि-१,३४२.२-६; रो-२,४४६; भा-२/८) कारिकाशब्दस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,४.६०.१; अकि-१,३४२.२-६; रो-२,४४६; भा-३/८) कारिकाकृत्य ।

(पा-१,४.६०.१; अकि-१,३४२.२-६; रो-२,४४६; भा-४/८) पुनश्चनसौ छन्दसि ।

(पा-१,४.६०.१; अकि-१,३४२.२-६; रो-२,४४६; भा-५/८) पुनश्चनसौ छन्दसि गतिसञ्ज्ञौ भवतः इति वक्तव्यम् ।

(पा-१,४.६०.१; अकि-१,३४२.२-६; रो-२,४४६; भा-६/८) पुनरुत्स्यूतम् वासः देयम् ।

(पा-१,४.६०.१; अकि-१,३४२.२-६; रो-२,४४६; भा-७/८) पुनर्निष्कृतः रथः ।

(पा-१,४.६०.१; अकि-१,३४२.२-६; रो-२,४४६; भा-८/८) उशिक् दूतः चनोहितः ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-१/५५) गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः तम् प्रति इति वचनम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-२/५५) गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञाः भवन्ति इति वक्तव्यम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-३/५५) किम् प्रयोजनम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-४/५५) प्रयोजनम् घञ् षट्वणत्वे ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-५/५५) घञ् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-६/५५) प्रवृद्धः भावः प्रभावः ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-७/५५) अनुपसर्गे इति प्रतिषेधः मा भूत् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-८/५५) षत्वम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-९/५५) विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-१०/५५) उपसर्गात् इति षत्वम् मा भूत् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-११/५५) णत्वम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-१२/५५) प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-१३/५५) उपसर्गादिति णत्वम् मा भूत् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-१४/५५) वृद्धिविधौ च धातुग्रहणानर्थक्यम् । वृद्धिविधौ च धातुग्रहणम् अनर्थकम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-१५/५५) उपसर्गात् ऋति धातौ इति ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-१६/५५) तत्र धातुग्रहणस्य एतत् प्रयोजनम् इह मा भूत् प्रर्षभम् वनम् इति ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-१७/५५) क्रियमाणे च अपि धातुग्रहणे प्रर्च्छक इति अत्र प्राप्नोति ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-१८/५५) यत्क्रियायुक्ताः तम् प्रति इति वचनात् न भवति ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-१९/५५) वद्विध्नभावाबीत्त्वस्वाङ्गादिस्वरणत्वेषु दोषः भवति ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-२०/५५) वद्विधि. यत् उद्वतः निवतः यासि बप्सत् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-२१/५५) वद्विधि ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-२२/५५) नस्भाव ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-२३/५५) प्रणसम् मुखम् उन्नसम् मुखम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-२४/५५) नस्भाव ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-२५/५५) अबीत्त्व ।प्रेपम् परेपम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-२६/५५) अबित्त्व ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-२७/५५) स्वाङ्गादिस्वर ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-२८/५५) प्रस्फिक् प्रोदरः ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-२९/५५) स्वाङ्गादिस्वर ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-३०/५५) णत्व ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-३१/५५) प्र णः शूद्रः प्र णः आचार्यः प्र णः राजा प्र णः वृत्रहा ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-३२/५५) उपसर्गात् इति एते विधयः न प्राप्नुवन्ति ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-३३/५५) वद्विधिनस्भावबीत्त्वस्वाङ्गदिस्वरणत्वेषु वचनप्रामाण्यात् सिद्धम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-३४/५५) अनवकाशाः एते विधयः ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-३५/५५) ते वचनप्रामाण्यात् भविष्यन्ति ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-३६/५५) सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-३७/५५) सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु वक्तव्यः ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-३८/५५) नुम्विधि ॒ सुलभम् दुर्लभम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-३९/५५) उपसर्गात् इति नुम् मा भूत् इति ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-४०/५५) न सुदुर्भ्याम् केवलाभ्याम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-४१/५५) इति एतत् न वक्तव्यम् भवति ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-४२/५५) न एतत् अस्ति प्रयोजनम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-४३/५५) क्रियते एतत् न्यासे एव ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-४४/५५) तत्वम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-४५/५५) सुदत्तम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-४६/५५) अचः उपसर्गात् तः इति तत्वम् मा भूत् इति ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-४७/५५) षत्वम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-४८/५५) सुसिक्तम् घटशतेन सुस्तुतम् श्लोकशतेन ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-४९/५५) उपसर्गात् इति षत्वम् मा भूतिति ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-५०/५५) सुः पूजायाम् इति एतत् न वक्तव्यम् भवति ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-५१/५५) न एतत् अस्ति प्रयोजनम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-५२/५५) क्रियत एतत् न्यासे एव ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-५३/५५) णत्वम् ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-५४/५५) दुर्नयम् दुर्नीतमिति ।

(पा-१,४.६०.२; अकि-१,३४२.७-३४३.८; रो-२,४४६-४४८; भा-५५/५५) उपसर्गात् इति णत्वम् मा भूत् इति ।