व्याकरणमहाभाष्य खण्ड 26

विकिपुस्तकानि तः



(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-१/६५) द्वित्राः त्रिचतुराः इति कः अयम् समासः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-२/६५) बहुव्रीहिः इति आह ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-३/६५) कः अस्य विग्रहः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-४/६५) द्वौ वा त्रयः वा इति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-५/६५) भवेत् यदा बहूनाम् आनयनम् तदा बहुवचनम् उपपन्नम् यदा तु खलु द्वौ आनीयेते तदा न सिध्यति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-६/६५) तदा अपि सिध्यति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-७/६५) कथम् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-८/६५) के चित् तावत् आहुः ॒ अनिर्ज्ञाते अर्थे बहुवचनम् प्रयोक्तव्यम् इति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-९/६५) तत् यथा ॒ कति भवतः पुत्राः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-१०/६५) कति भवतः भार्याः इति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-११/६५) अपरः आह ॒ द्वौ वा इति उक्ते त्रयः वा इति गम्यते ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-१२/६५) त्रयः वा इति उक्ते द्वौ वा इति गम्यते ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-१३/६५) सा एषा पञ्चाधिष्ठाना वाक् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-१४/६५) अत्र युक्तम् बहुवचनम् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-१५/६५) अथ द्विदशाः त्रिदशाः इति कः अयम् समासः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-१६/६५) बहुव्रीहिः इति आह ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-१७/६५) कः अस्य विग्रहः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-१८/६५) द्विः दश द्विशशाः इति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-१९/६५) सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्याप्रसिद्धिः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-२०/६५) सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्या इति अप्रसिद्धिः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-२१/६५) न हि सुजन्ता सङ्ख्या अस्ति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-२२/६५) एवम् तर्हि एवम् विग्रहः करिष्यते ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-२३/६५) द्वौ दशतौ द्विदशाः इति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-२४/६५) एवम् अपि अत्कारान्तत्वात् सङ्ख्या इति अप्रसिद्धिः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-२५/६५) न हि अत्कारान्ता सङ्ख्या अस्ति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-२६/६५) अस्तु तर्हि अयम् एव विग्रहः द्विः दश द्विशशाः इति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-२७/६५) ननु च उक्तम् सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्या इति अप्रसिद्धिः इति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-२८/६५) न वा असुजन्तत्वात् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-२९/६५) न वा एषः दोषः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-३०/६५) किम् कारणम् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-३१/६५) असुजन्तत्वात् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-३२/६५) सुजन्ता इति उच्यते ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-३३/६५) न च अत्र सुजन्तम् पश्यामः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-३४/६५) किम् पुनः कारणम् वाक्ये सुच् दृश्यते समासे तु न दृश्यते ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-३५/६५) सुजभावः अहिहितार्थत्वात् समासे ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-३६/६५) समासे सुचः अभावः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-३७/६५) किम् कारणम् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-३८/६५) अहिहितार्थत्वात् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-३९/६५) अभिहितः सुजर्थः समासेन इति कृत्वा समासे सुच् न भविष्यति ।किम् च भोः सुजर्थे इति समासः उच्यते ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-४०/६५) न खलु सुजर्थे इति उच्यते गम्यते तु सुजर्थः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-४१/६५) कथम् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-४२/६५) यावता सङ्ख्येयः यः सङ्ख्यया सङ्ख्यायते सः च क्रियाभ्यावृत्त्यर्थः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-४३/६५) सः च उक्तः समासेन इति कृत्वा समासे सुच् न भविष्यति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-४४/६५) अशिष्यः सङ्ख्योत्तरपदः सङ्ख्येयवाभिध्यायित्वात् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-४५/६५) अशिष्यः सङ्ख्योत्तरपदः बहुव्रीहिः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-४६/६५) किम् कारणम् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-४७/६५) सङ्ख्येयवाभिध्यायित्वात् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-४८/६५) सङ्ख्येयम् वार्थः च अभिदीयते ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-४९/६५) तत्र अन्यपदार्थे इति एव सिद्धम् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-५०/६५) भवेत् सिद्धम् अधिकविंशाः अधिकत्रिंशाः इति यत्र एतत् विचार्यते ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-५१/६५) विशत्यादयः दशदर्थे वा स्युः परिमाणिनि वा इति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-५२/६५) इदम् तु न सिध्यति अधिकदशाः इति यत्र नियोगतः सङ्ख्येये एव वर्तते ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-५३/६५) अथ उपदशाः इति कः अयम् समासः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-५४/६५) बहुव्रीहिः इति आह ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-५५/६५) कः अस्य विग्रहः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-५६/६५) दशानाम् समीपे उपदशाः इति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-५७/६५) कस्य पुनः सामीप्यम् अर्थः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-५८/६५) उपस्य ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-५९/६५) यदि एवम् न अन्यपदार्थः भवति ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-६०/६५) तत्र प्रथानिर्दिष्टम् सङ्ख्याग्रहणम् शक्यम् अकर्तुम् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-६१/६५) मत्वर्थे वा पूर्वस्य विधानात् ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-६२/६५) अथ वा मत्वर्थे पूर्वः योगः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-६३/६५) अमत्वर्थः अयम् आरम्भः ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-६४/६५) कबभावार्थम् वा ।

(पा-२,२.२५; अकि-१,४२७.७-४२८.१६; रो-२,७१९-७२४; भा-६५/६५) अथ व कप् मा भूत् इति ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-१/३३) दिक्समाससहयोगयोः च अन्तरालप्रधानाभिधानात् ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-२/३३) दिक्समाससहयोगयोः च अशिष्यः बहुव्रीहिः ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-३/३३) किम् कारणम् ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-४/३३) अन्तरालप्रधानाभिधानात् ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-५/३३) दिक्समासे सहयोगे च अन्तरालम् प्रधानम् च अभिधीयते ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-६/३३) तत्र अन्यपदार्थे इति एव सिद्धम् ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-७/३३) यदि एवम् दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-८/३३) अद्य पुनः इयम् सा एव दक्षिणा सा एव पूर्वा इति कृत्वा समानाधिकरणलक्षणः पुंवद्भावः सिद्धः भवति ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-९/३३) न सिध्यति ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-१०/३३) भाषितपुंस्कस्य पुंवद्भावः ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-११/३३) न च एतौ भाषितपुंस्कौ ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-१२/३३) ननु च भोः दक्षिणशब्दः पूर्वशब्दः च पुंसि भाष्येते ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-१३/३३) समानायाम् आकृतौ यत् भाषितपुंस्कम् ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-१४/३३) आकृत्यन्तरे च एतौ भाषितपुंस्कौ ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-१५/३३) दक्षिणा पूर्वा इति दिक्शब्दौ ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-१६/३३) दक्षिणः पूर्वः इति व्यवस्थाशब्दौ ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-१७/३३) यदि पुनः दिक्शब्दाः अपि व्यवस्थाशब्दाः स्युः ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-१८/३३) कथम् यानि दिगपदिष्टानि कार्याणि ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-१९/३३) यदा दिशः व्यवस्थाम् वक्ष्यन्ति ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-२०/३३) यदि तरि यः यः दिशि वर्तते सः सः दिक्शब्दः रमणीयादिषु अतिप्रसङ्गः भवति ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-२१/३३) रमणीया दिक् शोभना दिक् इति ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-२२/३३) अथ मतम् एतत् दिशि दृष्टः दिग्दृष्टः दिग्दिष्टः शब्दः दिक्शब्दः दिशम् यः न व्यभिचरति इति रमणीयादिषु अतिप्रसङ्गः न भवति ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-२३/३३) पुंवद्भावः तु प्राप्नोति ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-२४/३३) एवम् तर्हि सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः वक्तव्यः दक्षिणोत्तरपूर्वाणाम् इति एवमर्थम् ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-२५/३३) एवम् च कृत्वा दिक् दिक्समाससहयोगयोः च अन्तरालप्रधानाभिधानात् इति एव ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-२६/३३) ननु च उक्तम् दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति इति ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-२७/३३) न एषः दोषः ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-२८/३३) सर्वनाम्नः वृत्तिमात्रे पुंवद्भावेन परिहृतम् ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-२९/३३) मत्वर्थे वा पूर्वस्य विधानात् ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-३०/३३) अथ वा मत्वर्थे पूर्वः योगः ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-३१/३३) अमत्वर्थः अयम् आरम्भः ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-३२/३३) कबभावार्थम् वा ।

(पा-२,२.२६, २८; अकि-१,४२८.१९-४२९.१६; रो-२,७२५-७२७; भा-३३/३३) अथ व कप् मा भूत् इति ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-१/२०) तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-२/२०) तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् अशिष्यः बहुव्रीहिः ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-३/२०) किम् कारणम् ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-४/२०) क्रियाभिधानात् ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-५/२०) क्रिया अभिधीयते ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-६/२०) तत्र अन्यपदार्थे इति एव सिद्धम् ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-७/२०) न वा एकशेषप्रतिषेधार्थम् ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-८/२०) न वा अशिष्यः ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-९/२०) किम् कारणम् ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-१०/२०) एकशेषप्रतिषेधार्थम् इदम् वक्तव्यम् ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-११/२०) पूर्वदीर्घार्थम् च ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-१२/२०) पूर्वदीर्घार्थम् च इदम् वक्तव्यम् ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-१३/२०) केशाकेशि ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-१४/२०) स्यात् एतत् प्रयोजनम् यदि नियोगतः अस्य अनेन एव दीर्घत्वम् स्यात् ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-१५/२०) अथ इदानीम् अन्येषाम् अपि दृश्यते इति दीर्घत्वम् न प्रयोजनम् भवति ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-१६/२०) मत्वर्थे वा पूर्वस्य विधानात् ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-१७/२०) अथ व मत्वर्थे पूर्वः योगः ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-१८/२०) अमत्वर्थः अयम् आरम्भः ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-१९/२०) कबभावार्थम् वा ।

(पा-२,२.२७; अकि-१,४२९.१८-४३०.६; रो-२,७२७-७२८; भा-२०/२०) अथ व कप् मा भूत् इति ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-१/२८) चार्थे इति उच्यते चः च अव्ययम् ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-२/२८) तेन समासस्य अव्ययसञ्ज्ञा प्राप्नोति ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-३/२८) न एषः दोषः ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-४/२८) पाठेन अव्ययसञ्ज्ञा क्रियते ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-५/२८) न च समासः तत्र पठ्यते ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-६/२८) पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-७/२८) यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-८/२८) न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-९/२८) किम् तर्हि ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-१०/२८) स्वाभाविकम् एतत् ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-११/२८) तत् यथा ॒ समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-१२/२८) न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-१३/२८) तत्र किम् अस्माभिः शक्यम् कर्तुम् ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-१४/२८) यत् प्राक् समासात् चार्थस्य लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-१५/२८) अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-१६/२८) गुणवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-१७/२८) तत् यथा शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-१८/२८) यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-१९/२८) एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-२०/२८) अथ इह कस्मात् न भवति ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-२१/२८) याज्ञिकः च अयम् वैयाकरणः च ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-२२/२८) कठः च अयम् बह्वृचः च ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-२३/२८) औक्थिकः च अयम् मीमांसकः च इति ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-२४/२८) शेषः इति वर्तते ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-२५/२८) अशेषत्वात् न भविष्यति ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-२६/२८) यदि शेषः इति वर्तते उपास्नातम् स्थूलसिक्तम् तूष्णीङ्गङ्गम् महाह्रदम् द्रोणम् चेत् अशकः गन्तुम् मा त्वा ताप्ताम् कृताकृते इति एतत् न सिध्यति ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-२७/२८) न एषः दोषः ।

(पा-२,२.२९.१; अकि-१,४३०.८-२५; रो-२,७२९-७३०; भा-२८/२८) अन्यत् हि कृतम् अन्यत् अकृतम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१/१३४) चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रसङ्गः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-२/१३४) चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टम् प्राप्नोति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-३/१३४) अहः अहः नयमानः गाम् अश्वम् पुरुषम् पशुम् वैवस्वतः न तृप्यति सुरायाः इव दुर्मदी इन्द्रः त्वष्टा वरुणः वायुः आदित्यः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-४/१३४) सिद्धम् तु युगपदधिकरणवचने द्वन्द्ववचनात् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-५/१३४) सिद्धम् एतत् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-६/१३४) कथम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-७/१३४) युगपदधिकरणवचने द्वन्द्वः भवति इति वक्तव्यम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-८/१३४) तत्र पुंवद्भावप्रतिषेधः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-९/१३४) तत्र एतस्मिन् लक्षणे पुंवद्भावस्य प्रतिषेधः वक्तव्यः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१०/१३४) पट्वीमृद्व्यौ ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-११/१३४) समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१२/१३४) विप्रतिषिद्धेषु च अनुपपत्तिः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१३/१३४) विप्रतिषिद्धेषु युगपदधिकरणवचतायाः अनुपपत्तिः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१४/१३४) शीतोष्णे सुखदुःखे जननमरणे ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१५/१३४) किम् कारणम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१६/१३४) सुखप्रतिघातेन हि दुःखम् दुःकप्रतिघातेन च सुखम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१७/१३४) यत् तावत् उच्यते तत्र पुंवद्भावप्रतिषेधः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१८/१३४) इदम् तावत् अयम् प्रष्टव्यः ॒ अथ इह कस्मात् न भवति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१९/१३४) दर्शनीयायाः माता दर्शनीयामाता इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-२०/१३४) अथ मतम् एतत् प्राक् समासात् यत्र सामानाधिकरण्यम् तत्र पुंवद्भावः भवति इति इह अपि न दोषः भवति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-२१/१३४) यद् अपि उच्यते विप्रतिषिद्धेषु च अनुपपत्तिः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-२२/१३४) सर्वे एव हि शब्दाः विप्रतिषिद्धाः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-२३/१३४) इह अपि प्लक्षन्यग्रोधौ इति प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थम् सम्प्रत्याययति न्यग्रोधार्थम् निवर्तयति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-२४/१३४) न्यग्रोधशब्दः प्रयुज्यमानः न्यग्रोधार्थम् सम्प्रत्याययति प्लक्षार्थम् निवर्तयति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-२५/१३४) अत्र चेत् युक्ता युगपत् अधिकरण्वचनता दृश्यते इह अपि युक्ता दृश्यताम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-२६/१३४) एवम् अपि शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-२७/१३४) शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् प्राप्नोति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-२८/१३४) अतः किम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-२९/१३४) युगपतधिकरणवचनतायाः अनुपपत्तिः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-३०/१३४) प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-३१/१३४) यथ एव हि शब्दानाम् पौर्वापर्यम् तद्वत् अर्थानाम् अपि भवितव्यम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-३२/१३४) शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-३३/१३४) शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः ॒ प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-३४/१३४) प्लक्षशब्दः सार्थकः निवृत्तः न्यग्रोधशब्दः उपस्थितः एकार्थः तस्य एकार्थत्वात् एकवचनम् एव प्राप्नोति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-३५/१३४) विग्रहे तु युगपद्वचनम् ज्ञापकम् युगपद्वचनस्य ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-३६/१३४) विग्रहे खलु अपि युगपद्वचनता दृश्यते ॒ द्यवा ह क्षमा ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-३७/१३४) द्यवा चित् अस्मै पृथिवी नमेते इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-३८/१३४) किम् एतत् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-३९/१३४) युगपदधिकरणवचनतायाः उपोद्बलकम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-४०/१३४) विग्रहे किल नाम युगपदधिकरणवचनता स्यात् किम् पुनः समासे ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-४१/१३४) समुदायात् सिद्धम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-४२/१३४) समुदायात् सिद्धम् एतत् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-४३/१३४) किम् एतत् समुदायात् सिद्धम् इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-४४/१३४) द्विवचनबहुवचनप्रसिद्धिः इति चोदितम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-४५/१३४) तस्य अयम् परिहारः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-४६/१३४) समुदायात् सिद्धम् इति चेत् न एकार्थत्वात् समुदायस्य ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-४७/१३४) समुदायात् सिद्धम् इति चेत् तत् न ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-४८/१३४) किम् कारणम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-४९/१३४) एकार्थत्वात् समुदायस्य ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-५०/१३४) एकार्थाः हि समुदायाः भवन्ति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-५१/१३४) तत् यथा शतम् यूथम् वनम् इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-५२/१३४) न ऐकार्थ्यम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-५३/१३४) न अयम् एकार्थः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-५४/१३४) किम् तर्हि ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-५५/१३४) द्व्यर्थः बह्वर्थः च ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-५६/१३४) प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-५७/१३४) यदि तर्हि प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-५८/१३४) तयोः अनेकार्थत्वात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-५९/१३४) तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् न बहुत्वाभावात् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-६०/१३४) तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् तत् न ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-६१/१३४) किम् कारणम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-६२/१३४) बहुत्वाभावात् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-६३/१३४) न अत्र बहुत्वम् अस्ति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-६४/१३४) किम् उच्यते बहुत्वाभावात् इति यावता इदानीम् एव उक्तम् प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-६५/१३४) याभ्याम् एव अत्र एकः द्व्यर्थः ताभ्याम् एव अपरः अपि ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-६६/१३४) यदि एवम् अन्यवाचकेन अन्यस्य वचनानुपपत्तिः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-६७/१३४) अन्यवाचकेन शब्देन अन्यस्य वचनम् न उपपद्यते ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-६८/१३४) अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-६९/१३४) अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् उच्यते तत् न ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-७०/१३४) किम् कारणम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-७१/१३४) प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-७२/१३४) प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-७३/१३४) कथम् पुनः प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः स्यात् यावता कारणात् द्रव्ये शब्दनिवेशः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-७४/१३४) कारणात् द्रव्ये शब्दनिवेशः इति चेत् तुल्यकारणत्वात् सिद्धम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-७५/१३४) कारणात् द्रव्ये शब्दनिवेशः इति चेत् एवम् उच्यते ॒ तत् न तुल्यकारणत्वात् सिद्धम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-७६/१३४) तुल्यम् हि कारणम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-७७/१३४) यदि तावत् प्रक्षरति इति प्लक्षः स्यान् न्यग्रोधे अपि एतत् भवति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-७८/१३४) तथा यदि न्यक् रोहति इति न्यग्रोधः प्लक्षे अपि एतत् भवति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-७९/१३४) दर्शनम् वै हेतुः न च न्यग्रोधे प्लक्षशब्दः दृश्यते ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-८०/१३४) दर्शनम् हेतुः इति चेत् तुल्यम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-८१/१३४) दर्शनम् हेतुः इति चेत् तुल्यम् एतत् भवति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-८२/१३४) प्लक्षे अपि न्यग्रोधशब्दः दृश्यताम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-८३/१३४) तुल्यम् हि कारणम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-८४/१३४) न वै लोके एषः सम्प्रत्ययः भवति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-८५/१३४) न हि प्लक्षः आनीयताम् इति उक्ते न्य्रग्रोधः आनीयते ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-८६/१३४) तद्विषयम् च ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-८७/१३४) तद्विषयम् च एतत् द्रष्टव्यम् प्लक्षस्य न्यग्रोधत्वम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-८८/१३४) किंविषयम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-८९/१३४) द्वन्द्वविषयम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-९०/१३४) युक्तम् पुनः यत् नियतविषयाः नाम शब्दाः स्युः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-९१/१३४) बाढम् युक्तम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-९२/१३४) अन्यत्र अपि तद्विषयदर्शनात् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-९३/१३४) अन्यत्र अपि हि नियतविषयाः शब्दाः दृश्यन्ते ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-९४/१३४) तत् यथा ॒ समाने रक्ते वर्णे गौः लोहितः इति भवति आस्वः शोणः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-९५/१३४) समाने च काले वर्णे गौः कृष्णः इति भवति अश्वः हेमः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-९६/१३४) समाने च शुक्ले वर्णे गौः श्वेतः इति भवति अश्वः कर्कः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-९७/१३४) यदि तर्हि प्लक्षः अपि न्यग्रओधः न्यग्रोधः अपि प्लक्षः एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-९८/१३४) एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगः न उपपद्यते ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-९९/१३४) प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१००/१३४) एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः । एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् तत् न ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१०१/१३४) किम् कारणम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१०२/१३४) अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१०३/१३४) अनुक्तः प्लक्षेण न्यग्रोधार्थः इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१०४/१३४) कथम् अनुक्तः यावता इदानीम् एव उक्तम् प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१०५/१३४) सहभूतौ एतौ अन्योन्यस्य अर्थम् आहतुः न पृथग्भूतौ ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१०६/१३४) किम् पुनः कारणम् सहभूतौ एतौ अन्योन्यस्य अर्थम् आहतुः न पृथग्भूतौ ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१०७/१३४) अभिधानम् पुनः स्वाभाविकम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१०८/१३४) स्वाभाविकम् अभिधानम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१०९/१३४) अथ वा इह कौ चित् प्राथमकल्पिकौ प्लक्षन्यग्रोधौ कौ चित् क्रियया वा गुणेन व प्लक्षः इव अयम् प्लक्षः , न्यग्रोधः इव अयम् न्यग्रोधः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-११०/१३४) तत्र प्लक्षौ इति उक्ते सन्देहः स्यात् ॒ किम् इमौ प्लक्षौ आहोस्वित् प्लक्षन्यग्रोधौ इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१११/१३४) तत्र असन्देहार्थम् न्यग्रोधशब्दः प्रयुज्यते ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-११२/१३४) इयम् युगपदधिकरणवचनत नाम दुःखा च दुरुपपादा च ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-११३/१३४) यत् च अपि अस्या निबन्धनम् उक्तम् द्यावा ह क्षामा इति तत् अपि छान्दसम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-११४/१३४) तत्र सुपाम् सुपः भवन्ति इति एव सिद्धम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-११५/१३४) सूत्रम् च भिद्यते ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-११६/१३४) यथान्यासम् एव अस्तु ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-११७/१३४) ननु च उक्तम् चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रसङ्गः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-११८/१३४) न एषः दोषः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-११९/१३४) इह चे द्वन्द्वे इति इयता सिद्धम् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१२०/१३४) कथम् पुनः चे नाम वृत्तिः स्यात् ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१२१/१३४) शब्दः हि एषः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१२२/१३४) शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१२३/१३४) सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा विज्ञायेत चेन कृतः अर्तः चार्थः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१२४/१३४) कः पुनः चेन कृतः अर्थः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१२५/१३४) समुच्चयः अन्वाचयः इतरेतरयोगः समाहारः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१२६/१३४) समुच्चयः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१२७/१३४) प्लक्षः च इति उक्ते गम्यते एतत् न्यग्रोधः च इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१२८/१३४) अन्वाचयः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१२९/१३४) प्लक्षः च इति उक्ते गम्यते एतत् सापएक्षः अयम् प्रयुज्यते इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१३०/१३४) इतरेतरयोगः ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१३१/१३४) प्लक्षः च न्यग्रोधः च इति उक्ते गम्यते एतत् प्लक्षः अपि न्यग्रोधसहायः न्यग्रोधः अपि प्लक्षसहायः इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१३२/१३४) समाहारे अपि क्रियते प्लक्षन्यग्रोधम् इति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१३३/१३४) तत्र अयम् अपि अर्थः द्वन्द्वैकवद्भावः न पठितव्यः भवति ।

(पा-२,२.२९.२; अकि-१,४३१.१-४३४.१४; रो-२,७३१-७४१; भा-१३४/१३४) समाहारस्य एकत्वात् एव सिद्धम् ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-१/१९) एकादश द्वादश इति कः अयम् समासः ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-२/१९) एकादीनाम् दशादिभिः द्वन्द्वः ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-३/१९) एकादीनाम् दशादिभिः द्वन्द्वः समासः ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-४/१९) एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-५/१९) एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनम् प्राप्नोति ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-६/१९) एकविंशतिः द्वाविंशतिः ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-७/१९) सिद्धम् तु अधिकान्ता सङ्ख्य सङ्ख्यया समानाधिकरणाधिकारे अधिकलोपः च । सिद्धम् एतत् ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-८/१९) कथम् ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-९/१९) समानाधिकरणाधिकारे वक्तव्यम् अधिकान्ता सङ्ख्य सङ्ख्यया सह समस्यते अधिकशब्दस्य च लोपः भवति इति ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-१०/१९) एकाधिका विंशतिः एकविंशतिः द्व्यधिका विंशतिः द्वाविंशतिः ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-११/१९) यदि समानाधिकरणः स्वरः न सिध्यति ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-१२/१९) यत् हि तत् सङ्ख्या पूर्वपदम् प्रकृतिस्वरम् भवति इति द्वन्द्वे इति तत् ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-१३/१९) किम् पुनः कारणम् द्वन्द्वे इति एवम् तत् ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-१४/१९) इह मा भूत् शतसहस्रम् इति ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-१५/१९) अस्तु तर्हि द्वन्द्वः ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-१६/१९) ननु च उक्तम् एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः इति. न एषः दोषः ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-१७/१९) सर्वः द्वन्द्वः विभाषा एकवत् भवति ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-१८/१९) यदा तर्हि एकवचनम् तदा नपुंसकलिङ्गम् प्राप्नोति ।

(पा-२,२.२९.३; अकि-१,४३४.१५-४३५.३; रो-२,७४२-७४३; भा-१९/१९) लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-१/१५) किमर्थम् इदम् उच्यते ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-२/१५) उपसर्जनस्य पूर्ववचनम् परप्रयोगनिवृत्त्यर्थम् ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-३/१५) उपसर्जनस्य पूर्ववचनम् क्रियते परप्रयोगः मा भूत् इति ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-४/१५) न वा अनिष्टदर्शनात् ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-५/१५) न वा एतत् प्रयोजनम् अस्ति ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-६/१५) किम् कारणम् ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-७/१५) अनिष्टदर्शनात् ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-८/१५) न हि किम् चित् अनिष्टम् दृश्यते ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-९/१५) न हि कः चित् राजपुरुषः इति प्रयोक्तव्ये पुरुषराजः इति प्रयुङ्क्ते ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-१०/१५) यदि च अनिष्टम् द्र्श्येते ततः यत्नार्थम् स्यात् ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-११/१५) अथ यत्र द्वे षष्ठ्यन्ते भवतः कस्मात् तत्र प्रधानस्य पूर्वनिपातः न भवति ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-१२/१५) राज्ञः पुरुषस्य राजपुरुषस्य इति ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-१३/१५) षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-१४/१५) षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य पूर्वनिपातः न भविष्यति ।

(पा-२,२.३०; अकि-१,४३५.५-१६; रो-२,७४३-७४४; भा-१५/१५) एवम् न च इदम् अकृतम् भवति उपसर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-१/२५) किम् अयम् तन्त्रम् तरनिर्देशः आहोस्वित् अतन्त्रम् ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-२/२५) किम् च अतः ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-३/२५) यदि तन्त्रम् द्वयोः नियमः बहुषु अनियमः ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-४/२५) तत्र कः दोषः ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-५/२५) शङ्खदुन्दुभिवीङानाम् इति न सिध्यति ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-६/२५) दुन्दुभिशब्दस्य अपि पूर्व्निपातः प्राप्नोति ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-७/२५) अथ अतन्त्रम् मृदङ्गशङ्खतूणवाः पृथक् नदन्ति संसदि. प्रासादे धनपतिरामकेशवानाम् इति एतत् न सिध्यति ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-८/२५) यथा इच्छसि तथा अस्तु ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-९/२५) अस्तु तावत् तन्त्रम् ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-१०/२५) ननु च उक्तम् द्वयोः नियमः बहुषु अनियमः इति ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-११/२५) तत्र शङ्खदुन्दुभिवीङानाम् इति न सिध्यति ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-१२/२५) दुन्दुभिशब्दस्य अपि पूर्व्निपातः प्राप्नोति इति ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-१३/२५) न एषः दोषः ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-१४/२५) यत् एतत् अल्पाच्तरम् इति तत् अल्पाच् इति वक्ष्यामि ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-१५/२५) अथ वा पुनः अस्तु अतन्त्रम् ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-१६/२५) ननु च उक्तम् मृदङ्गशङ्खतूणवाः पृथक् नदन्ति संसदि. प्रासादे धनपतिरामकेशवानाम् इति एतत् न सिध्यति इति ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-१७/२५) अतन्त्रे तरनिर्देशे शङ्खतूणवयोः मृदङ्गेन समासः ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-१८/२५) अतन्त्रे तरनिर्देशे शङ्खतूणवयोः मृदङ्गेन समासः करिष्यते ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-१९/२५) शङ्खः च तूणवः च शण्खतूणवौ ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-२०/२५) मृदङ्गः च शण्खतूणवौ च मृदङ्गशङ्खतूणवाः ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-२१/२५) रामः च केशवः च रामकेशवौ धनपतिः च रामकेशवौ च धनपतिरामकेशवाः तेषाम् धनपतिरामकेशवानाम् इति ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-२२/२५) अथ यत्र बहूनाम् पूर्वनिपातप्रसङ्गः किम् तत्र एकस्य नियमः भवति अहोस्वित् अविशेषेण ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-२३/२५) अनेकप्राप्तौ एकस्य नियमः अनियमः शेषेषु ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-२४/२५) अनेकप्राप्तौ एकस्य नियमः अनियमः शेषेषु ।

(पा-२,२.३४.१; अकि-१,४३५.१८-४३६.१४; रो-२,७४४-७४६; भा-२५/२५) पटुमृदुशुक्लाः पटुशुक्लमृदवः इति ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-१/२४) ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-२/२४) ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् पूर्वनिपातः वक्तव्यः ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-३/२४) शिशिरवसन्तौ उदगयनस्थौ कृत्तिकारोहिण्यः ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-४/२४) अभ्यर्हितम् ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-५/२४) अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-६/२४) मातापितरौ श्रद्धामेधे ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-७/२४) लघ्वक्षरम् ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-८/२४) लघ्वक्षरम् पूर्वम् निपतति इति वक्तव्यम् ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-९/२४) कुशकाशम् शरशीर्यम् ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-१०/२४) अपरः आह ॒ सर्वत्र एव अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-११/२४) लघ्वक्षरात् अपि इति ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-१२/२४) श्रद्धातपसी दीक्षातपसी ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-१३/२४) वर्णानाम् आनुपूर्व्येण ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-१४/२४) वर्णानाम् आनुपूर्व्येण पूर्वनिपातः भवति इति वक्तव्यम् ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-१५/२४) ब्राह्मणक्षत्रियविट्शूद्राः ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-१६/२४) भ्रातुः च ज्यायसः ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-१७/२४) भ्रातुः च ज्यायसः पूर्वनिपातः भवति इति वक्तव्यम् ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-१८/२४) युधिष्ठिरार्जुनौ ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-१९/२४) सङ्ख्यायाः अल्पीयसः ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-२०/२४) सङ्ख्यायाः अल्पीयसः पूर्वनिपातः वक्तव्यः ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-२१/२४) एकादश द्वादश ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-२२/२४) धर्मादिषु उभयम् ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-२३/२४) धर्मादिषु उभयम् पूर्वम् निपतति इति वक्तव्यम् ।

(पा-२,२.३४.२; अकि-१,४३६.१५-४३७.७; रो-२,७४६-७४७; भा-२४/२४) धर्मार्थौ अर्थधर्मौ कामार्थौ अर्थकामौ गुणवृद्धी वृद्धिगुणौ आद्यन्तौ अन्तादी

(पा-२,२.३५; अकि-१,४३७.९-१७; रो-२,७४८; भा-१/१०) बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् ।

(पा-२,२.३५; अकि-१,४३७.९-१७; रो-२,७४८; भा-२/१०) बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-२,२.३५; अकि-१,४३७.९-१७; रो-२,७४८; भा-३/१०) विश्वदेवः विश्वयसाः द्विपुत्रः द्विभार्यः ।

(पा-२,२.३५; अकि-१,४३७.९-१७; रो-२,७४८; भा-४/१०) अथ यत्र सङ्ख्यासर्वनाम्नोः एव बहुर्वीहिः कस्य तत्र पूर्वनिपातेन भवितव्यम् ।

(पा-२,२.३५; अकि-१,४३७.९-१७; रो-२,७४८; भा-५/१०) परत्वात् सङ्ख्यायाः ॒ द्व्यन्याय त्र्यन्याय ।

(पा-२,२.३५; अकि-१,४३७.९-१७; रो-२,७४८; भा-६/१०) वा प्रियस्य ।

(पा-२,२.३५; अकि-१,४३७.९-१७; रो-२,७४८; भा-७/१०) वा प्रियस्य पूर्वनिपातः वक्तव्यः ।

(पा-२,२.३५; अकि-१,४३७.९-१७; रो-२,७४८; भा-८/१०) प्रियगुडः गुडप्रियः ।

(पा-२,२.३५; अकि-१,४३७.९-१७; रो-२,७४८; भा-९/१०) सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् । सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परा सप्तमीभवति इति वक्तव्यम् ।

(पा-२,२.३५; अकि-१,४३७.९-१७; रो-२,७४८; भा-१०/१०) गडुकण्ठः गडुशिराः ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-१/३३) निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-२/३३) निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परा निष्ठा भवति इति वक्तव्यम् ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-३/३३) शार्ङ्गजग्धी पलाण्डुभक्षिती मासजाता संवत्सरजाता सुखजाता दुःखजाता ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-४/३३) न वा उत्तरपदस्य अन्तोदात्तवचनम् ज्ञापकम् परभावस्य ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-५/३३) न वा वक्तव्यम् ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-६/३३) किम् कारणम् ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-७/३३) उत्तरपदस्य अन्तोदात्तवचनम् ज्ञापकम् परभावस्य ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-८/३३) यत् अयम् जातिकालसुखादिभ्यः परस्याः निष्ठायाः उत्तरपदस्य अन्तोदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः परा अत्र निष्ठा भवति इति ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-९/३३) प्रतिषेधे तु पूर्वनिपातप्रसङ्गः तस्मात् राजदन्तादिषु पाठः ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-१०/३३) प्रतिषेधे तु पूर्वनिपातः प्राप्नोति ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-११/३३) अकृतमितप्रतिपन्नाः इति ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-१२/३३) तस्मात् राजदन्तादिषु पाठः कर्तव्यः ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-१३/३३) न कर्तव्यः ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-१४/३३) अत्र अपि प्रतिषेधवचनम् ज्ञापकम् परा निष्ठा भवति इति ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-१५/३३) प्रहरणार्थेभ्यः च ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-१६/३३) प्रहरणार्थेभ्यः च परे निष्ठासप्तम्यौ भवतः इति वक्तव्यम् ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-१७/३३) अस्युद्यतः मुसलोद्यतः असिपाणिः दण्डपाणिः ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-१८/३३) द्वन्द्वे घि अजाद्यन्तम् विप्रतिषेधेन ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-१९/३३) द्वन्द्वे घि इति अस्मात् अजाद्यन्तम् इति एतत् भवति विप्रतिषेधेन ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-२०/३३) द्वन्द्वे घि इति अस्य अवकाशः पटुगुप्तौ ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-२१/३३) अजाद्यदन्तम् इति अस्य अवकाशः उष्ट्रखरौ ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-२२/३३) इह उभयम् प्राप्नोति इन्द्राग्नी ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-२३/३३) अजाद्यदन्तम् इति एतत् भवति विप्रतिषेधेन ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-२४/३३) उभाभ्याम् अल्पाच्तरम् ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-२५/३३) उभाभ्याम् अल्पाच्तरम् इति एतत् भवति ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-२६/३३) द्वन्द्वे घि इति अस्य अवकाशः पटुगुप्तौ ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-२७/३३) अल्पाच्तरम् इति अस्य अवकाशः वाग्दृषदौ ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-२८/३३) इह उभयम् प्राप्नोति वागग्नी ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-२९/३३) अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-३०/३३) अजाद्यदन्तम् इति अस्य अवकाशः उष्ट्रखरौ ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-३१/३३) अल्पाच्तरम् इति अस्य अवकाशः सः एव ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-३२/३३) इह उभयम् प्राप्नोति वागिन्द्रौ ।

(पा-२,२.३६; अकि-१,४३७.१९-४३८.२०; रो-२,७४८-७४९; भा-३३/३३) अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन ।

(पा-२,२.३८; अकि-१,४३८.२२-२४; रो-२,७५०; भा-१/५) कडारादयः इति वक्तव्यम् इह अपि यथा स्यात् ।

(पा-२,२.३८; अकि-१,४३८.२२-२४; रो-२,७५०; भा-२/५) गडुलशाण्डिल्यः शाण्डिल्यगडुलः खण्डवात्स्यः वत्स्यकण्डः ।

(पा-२,२.३८; अकि-१,४३८.२२-२४; रो-२,७५०; भा-३/५) तत् तर्हि वक्तव्यम् ।

(पा-२,२.३८; अकि-१,४३८.२२-२४; रो-२,७५०; भा-४/५) न वक्तव्यम् ।

(पा-२,२.३८; अकि-१,४३८.२२-२४; रो-२,७५०; भा-५/५) बहुवचननिर्देशात् कडारादयः इति विज्ञास्यते ।