व्याकरणमहाभाष्य खण्ड 38

विकिपुस्तकानि तः



(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-१/६०) किम् उपेयिवान् इति निपातनम् क्रियते ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-२/६०) उपेयुषि निपातनम् इडर्थम् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-३/६०) उपेयुषि निपातनम् क्रियते इडर्थम् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-४/६०) इट् यथा स्यात् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-५/६०) न एतत् अस्ति प्रयोजनम् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-६/६०) सिद्धः अत्र इट् वस्वेकाकाद्घसाम् इति ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-७/६०) द्विर्वचने कृते अनेकाच्त्वात् न प्राप्नोति ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-८/६०) इदम् इह सम्प्रधार्यम् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-९/६०) द्विर्वचनम् क्रियताम् इट् इति ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-१०/६०) किम् अत्र कर्तव्यम् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-११/६०) परत्वात् इडागमः ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-१२/६०) नित्यम् द्विर्वचनम् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-१३/६०) कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-१४/६०) इट् अपि नित्यः ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-१५/६०) कृते अपि द्विर्वचने एकादेशे च प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-१६/६०) न अत्र एकादेशः प्राप्नोति ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-१७/६०) किम् कारणम् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-१८/६०) दीर्घः इणः किति इति दीर्घत्वेन बाधते ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-१९/६०) तत् एतत् उपेयुषि निपातनम् इडर्थम् क्रियते ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-२०/६०) उपेयुषि निपातनम् इडर्थम् इति चेत् अजादौ अतिप्रसङ्गः । उपेयुषि निपातनम् इडर्थम् इति चेत् अजादौ अतिप्रसङ्गः भवति ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-२१/६०) उपेयुषा उपेयुषे उपेयुषः उपेयुषि इति ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-२२/६०) एकादिष्टस्य ईय्भावार्थम् तु ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-२३/६०) एकादिष्टस्य ईय्भावार्थम् तु निपातनम् क्रियते ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-२४/६०) एकादिष्टस्य ईय् इति एतत् रूपम् निपात्यते ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-२५/६०) ननु च उक्तम् न अत्र एकादेशः प्राप्नोति ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-२६/६०) किम् कारणम् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-२७/६०) दीर्घः इणः किति इति दीर्घत्वेन बाधते इति ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-२८/६०) तत् हि न सुष्ठु उच्यते ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-२९/६०) न हि दीर्घत्वम् एकादेशम् बाधते ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-३०/६०) कः तर्हि बाधते ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-३१/६०) यणादेशः ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-३२/६०) सः च क्व बाधते ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-३३/६०) यत्र अस्य निमित्तम् अस्ति ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-३४/६०) यत्र हि निमित्तम् न अस्ति निष्प्रतिद्वन्द्वः तत्र एकादेशः ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-३५/६०) व्यञ्जने यणादेशार्थम् वा ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-३६/६०) अथ वा व्यञ्जने एव यणादेशः निपात्यते ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-३७/६०) यणादेशे कृते एकाचः इति इट् सिद्धः भवति ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-३८/६०) अपरः आह ॒ न उपेयिवान् निपात्यः ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-३९/६०) द्विर्वचनाद् इट् भविष्यति परत्वात् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-४०/६०) द्विर्वचनम् क्रियताम् इट् इति इट् भविष्यति विप्रतिषेधेन ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-४१/६०) इह अपि तर्हि द्विर्वचनात् इट् स्यात् बिभिद्वान् चिच्छिद्वान् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-४२/६०) अन्येषाम् एकाचाम् द्विर्वचनम् नित्यम् इति आहुः । अन्येषाम् एकाचाम् नित्यम् द्विर्वचनम् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-४३/६०) कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-४४/६०) अस्य पुनः इट् च नित्यः द्विव्रचनम् च । अस्य पुनः इट् च एव नित्यः द्विव्रचनम् च ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-४५/६०) द्विर्वचने च कृते एकाच् भवति ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-४६/६०) कथम् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-४७/६०) एकादेशे कृते ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-४८/६०) तस्मात् इट् बाधते द्वित्वम् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-४९/६०) तस्मात् इट् द्विर्वचनम् बाधते ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-५०/६०) अनूचानः कर्तरि ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-५१/६०) अनूचानः कर्तरीति वक्तव्यम् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-५२/६०) अनूक्तवान् अनूचानः ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-५३/६०) अनूक्तम् इति एव अन्यत्र ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-५४/६०) न उपेयिवान् निपात्यः ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-५५/६०) द्विर्वचनाद् इट् भविष्यति परत्वात् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-५६/६०) अन्येषाम् एकाचाम् द्विर्वचनम् नित्यम् इति आहुः ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-५७/६०) अस्य पुनः इट् च नित्यः द्विव्रचनम् च ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-५८/६०) न विहन्यते हि अस्य ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-५९/६०) द्विर्वचने च एकाच्त्वात् ।

(पा-३,२.१०९; अकि-२,११६.११-११७.२३; रो-३,२६३-२६६; भा-६०/६०) तस्मात् इट् बाधते द्वित्वम् ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-१/३५) लुङ्लृटोः अपवादप्रसङ्गः भूतभविष्यतोः अविशेषवचनात् ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-२/३५) लुङ्लृटोः अपवादः प्राप्नोति ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-३/३५) अगाम घोषान् ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-४/३५) अपाम पयः ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-५/३५) अशयिष्महि पूतीकतृणेषु ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-६/३५) गमिष्यामः घोषान् ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-७/३५) पास्यामः पयः ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-८/३५) शयिष्यामहे पूतीकतृणेषु ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-९/३५) किम् कारणम् ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-१०/३५) भूतभविष्यतोः अविशेषवचनात् ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-११/३५) भूतभविष्यतोः अविशेषेण विधीयेते लुङ्लृटौ ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-१२/३५) तयोः विशेषविहितौ लन्लुटौ अपवादौ प्राप्नुतः ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-१३/३५) न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-१४/३५) न वा एषः दोषः ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-१५/३५) किम् कारणम् ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-१६/३५) अपवादस्य निमित्ताभावात् ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-१७/३५) न अत्र अपवादस्य निमित्तम् अस्ति ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-१८/३५) किम् कारणम् ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-१९/३५) अनद्यतने हि तयोः विधानम् ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-२०/३५) अनद्यतने हि तौ विधीयेते लङ्लुटौ ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-२१/३५) न च अत्र अनद्यतनः कालः विवक्षितः ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-२२/३५) किम् तर्हि ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-२३/३५) भूतकालसामान्यम् भविष्यत्कालसामान्यम् च ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-२४/३५) यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् गमिष्यामः घोषान् पास्यामः पयः शयिष्यामहे पूतीकतृणेषु इति यत्र एतत् न ज्ञायते किम् कदा इति ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-२५/३५) इह तु कथम् अगाम घोषान् अपाम पयः अशयिष्महि पूतीकतृणेषु यत्र एतत् निर्ज्ञातम् भवति अमुष्मिन् अहनि गतम् इति ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-२६/३५) अत्र अपि न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् इति एव ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-२७/३५) कथम् पुनः सतः नाम अविवक्षा स्यात् ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-२८/३५) सतः अपि अविवक्षा भवति ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-२९/३५) तत् यथा ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-३०/३५) अलोमिका एडका ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-३१/३५) अनुदरा कन्या ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-३२/३५) असतः च विवक्षा भवति ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-३३/३५) तत् यथा ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-३४/३५) समुद्रः कुण्डिका ।

(पा-३,२.११०.१; अकि-२,११७.२५-१११.१४; रो-३,२६६-२६७; भा-३५/३५) विन्ध्यः वर्धितकम् इति ।

(पा-३,२.११०.२; अकि-२,११८.१५-२०; रो-३,२६८; भा-१/१०) वसेः लुङ् रात्रिशेषे ।

(पा-३,२.११०.२; अकि-२,११८.१५-२०; रो-३,२६८; भा-२/१०) वसेः लुङ् रात्रिशेषे वक्तव्यः ।

(पा-३,२.११०.२; अकि-२,११८.१५-२०; रो-३,२६८; भा-३/१०) न्याय्ये प्रत्युत्थाने प्रत्युत्थितम् कः चित् कम् चित् पृच्छति ।

(पा-३,२.११०.२; अकि-२,११८.१५-२०; रो-३,२६८; भा-४/१०) क्व भवान् उषितः इति ।

(पा-३,२.११०.२; अकि-२,११८.१५-२०; रो-३,२६८; भा-५/१०) सः आह ।

(पा-३,२.११०.२; अकि-२,११८.१५-२०; रो-३,२६८; भा-६/१०) अमुत्र अवात्सम् इति ।

(पा-३,२.११०.२; अकि-२,११८.१५-२०; रो-३,२६८; भा-७/१०) अमुत्र अवसम् इति प्राप्नोति ।

(पा-३,२.११०.२; अकि-२,११८.१५-२०; रो-३,२६८; भा-८/१०) जागरणसन्ततौ ।

(पा-३,२.११०.२; अकि-२,११८.१५-२०; रो-३,२६८; भा-९/१०) जागरणसन्ततौ इति वक्तव्यम् ।

(पा-३,२.११०.२; अकि-२,११८.१५-२०; रो-३,२६८; भा-१०/१०) यः हि मुहूर्तमात्रम् अपि स्वपिति तत्र अमुत्र अवसम् इति एव भवितव्यम् ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-१/२१) अनद्यतने इति बहुव्रीहिनिर्देशः अद्य ह्यः अभुक्ष्महि इति ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-२/२१) अनद्यतने इति बहुव्रीहिनिर्देशः कर्तव्यः ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-३/२१) अविद्यमानाद्यतने अनद्यतने इति ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-४/२१) किम् प्रयोजनम् ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-५/२१) अद्य ह्यः अभुक्ष्महि इति ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-६/२१) अद्य च ह्यः च अभुक्ष्महि इति व्यामिश्रे लुङ् एव यथा स्यात् ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-७/२१) यदि एवम् अद्यतने अपि लङ् प्राप्नोति ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-८/२१) न हि अद्यतने अद्यतनः विद्यते ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-९/२१) अद्यतने अपि अद्यतनः विद्यते ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-१०/२१) कथम् ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-११/२१) व्यपदेशिवद्भावेन ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-१२/२१) परोक्षे च लोकविज्ञाते प्रयोक्तुः दर्शनविषये ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-१३/२१) परोक्षे च लोकविज्ञाते प्रयोक्तुः दर्शनविषये लङ् वक्तव्यः ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-१४/२१) अरुणत् यवनः साकेतम् ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-१५/२१) अरुणत् यवनः मधमिकाम् ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-१६/२१) परोक्षे इति किमर्थम् ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-१७/२१) उदगात् आदित्यः ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-१८/२१) लोकविज्ञते इति किमर्थम् ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-१९/२१) चकार कटम् देवदत्तः ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-२०/२१) प्रयोक्तुः दर्शनविषये इति किमर्थम् ।

(पा-३,२.१११; अकि-२,११८.२२-११९.७; रो-३,२६८-२६९; भा-२१/२१) जघान कंसम् किल वासुदेवः ।

(पा-३,२.११४; अकि-२,११९.९-१७; रो-३,२६९-२७०; भा-१/१४) किम् उदाहरणम् ।

(पा-३,२.११४; अकि-२,११९.९-१७; रो-३,२६९-२७०; भा-२/१४) तत्र सक्तून् पास्यामः ।

(पा-३,२.११४; अकि-२,११९.९-१७; रो-३,२६९-२७०; भा-३/१४) अभिजानासि देवदत्त तत्र सक्तून् अपिबाम ।

(पा-३,२.११४; अकि-२,११९.९-१७; रो-३,२६९-२७०; भा-४/१४) भवेत् पूर्वम् परम् आकाङ्क्षति इति साकाङ्क्षम् स्यात् ।

(पा-३,२.११४; अकि-२,११९.९-१७; रो-३,२६९-२७०; भा-५/१४) परम् तु कथम् साकाङ्क्षम् ।

(पा-३,२.११४; अकि-२,११९.९-१७; रो-३,२६९-२७०; भा-६/१४) परम् अपि साकाङ्क्षम् ।

(पा-३,२.११४; अकि-२,११९.९-१७; रो-३,२६९-२७०; भा-७/१४) कथम् अस्ति अस्मिन् आकाङ्क्षा इति अतः साकाङ्क्षम् ।

(पा-३,२.११४; अकि-२,११९.९-१७; रो-३,२६९-२७०; भा-८/१४) विभाषा साकाङ्क्षे सर्वत्र ।

(पा-३,२.११४; अकि-२,११९.९-१७; रो-३,२६९-२७०; भा-९/१४) विभाषा साकाङ्क्षे सर्वत्र इति वक्तव्यम् ।

(पा-३,२.११४; अकि-२,११९.९-१७; रो-३,२६९-२७०; भा-१०/१४) क्व सर्वत्र ।

(पा-३,२.११४; अकि-२,११९.९-१७; रो-३,२६९-२७०; भा-११/१४) यदि च अयदि च ।

(पा-३,२.११४; अकि-२,११९.९-१७; रो-३,२६९-२७०; भा-१२/१४) यदि तावत् ।

(पा-३,२.११४; अकि-२,११९.९-१७; रो-३,२६९-२७०; भा-१३/१४) अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः यत् कश्मीरान् अगच्छाम यत् तत्र ओदनम् भोक्ष्यामहे यत् तत्र ओदनम् अभुञ्ज्महि ।

(पा-३,२.११४; अकि-२,११९.९-१७; रो-३,२६९-२७०; भा-१४/१४) अभिजानासि देवदत्त कश्मीरान् गमिष्यामः कश्मीरान् अगच्छाम तत्र ओदनम् भोक्ष्यामहे तत्र ओदनम् अभुञ्ज्महि ।

(पा-३,२.११५.१; अकि-२,११९.१९-१२०.४; रो-३,२७०-२७१; भा-१/११) परोक्षे इति उच्यते ।

(पा-३,२.११५.१; अकि-२,११९.१९-१२०.४; रो-३,२७०-२७१; भा-२/११) किम् परोक्षम् नाम ।

(पा-३,२.११५.१; अकि-२,११९.१९-१२०.४; रो-३,२७०-२७१; भा-३/११) परम् अक्ष्णः परोक्षम् ।

(पा-३,२.११५.१; अकि-२,११९.१९-१२०.४; रो-३,२७०-२७१; भा-४/११) अक्षि पुनः किम् ।

(पा-३,२.११५.१; अकि-२,११९.१९-१२०.४; रो-३,२७०-२७१; भा-५/११) अश्नोतेः अयम् औणादिकः करणसाधनः सि प्रत्ययः ।

(पा-३,२.११५.१; अकि-२,११९.१९-१२०.४; रो-३,२७०-२७१; भा-६/११) अनुते अनेन इति अक्षि ।

(पा-३,२.११५.१; अकि-२,११९.१९-१२०.४; रो-३,२७०-२७१; भा-७/११) यदि एवम् पराक्षम् इति प्राप्नोति ।

(पा-३,२.११५.१; अकि-२,११९.१९-१२०.४; रो-३,२७०-२७१; भा-८/११) न एषः दोषः ।

(पा-३,२.११५.१; अकि-२,११९.१९-१२०.४; रो-३,२७०-२७१; भा-९/११) परोभावः परस्य अक्षे परोक्षे लिटि दृश्यताम् । परशब्दस्य अक्षशब्दे उत्तरपदे परोभावः वक्तव्यः ।

(पा-३,२.११५.१; अकि-२,११९.१९-१२०.४; रो-३,२७०-२७१; भा-१०/११) उत्वम् वा आदेः परात् अक्ष्णः ।अथ वा परशब्दात् उत्तरस्य अक्षिशब्दस्य उत्वम् वक्तव्यम् ।

(पा-३,२.११५.१; अकि-२,११९.१९-१२०.४; रो-३,२७०-२७१; भा-११/११) सिद्धम् वा अस्मात् निपातनात् ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-१/४१) कस्मिन् पुनः परोक्षे ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-२/४१) काले ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-३/४१) न वै कालाधिकारः अस्ति ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-४/४१) एवम् तर्हि धातोः इति वर्तते ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-५/४१) धातौ परोक्षे ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-६/४१) धातुः वै शब्दः ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-७/४१) न च शब्दस्य प्रत्यक्षपरोक्षतायाम् सम्भवः अस्ति ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-८/४१) शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-९/४१) परोक्षे धातौ परोक्षे धात्वर्थे इति ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-१०/४१) कः पुनः धात्वर्थः ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-११/४१) क्रिया ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-१२/४१) क्रियायाम् परोक्षायाम् ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-१३/४१) यदि एवम् ह्यः अपचत् इति अत्र अपि लिट् प्राप्नोति ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-१४/४१) किम् कारणम् ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-१५/४१) क्रिया नाम इयम् अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-१६/४१) एवम् तर्हि साधनेषु परोक्षेषु ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-१७/४१) साधनेषु च भवतः कः सम्प्रत्ययः ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-१८/४१) यदि सावद् गुणसमुदायः साधनम् साधनम् अपि अनुमानगम्यम् ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-१९/४१) अथ अन्यत् गुणेभ्यः साधनम् भवति प्र्तयक्षपरोक्षतायाम् सम्भवः ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-२०/४१) अथ यदा अनेन रथ्यायाम् तण्डुलोदकम् दृष्टम् कथम् तत्र भवितव्यम् ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-२१/४१) यदि तावत् साधनेषु परोक्षेषु पपाच इति भवितव्यम् ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-२२/४१) भवन्ति हि तस्य साधनानि परोक्षाणि ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-२३/४१) अथ ये एते क्रियाकृताः विशेषाः चीत्काराः फूत्काराः च तेषु परोक्षेषु एवम् अपि पपाच इति भवितव्यम् ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-२४/४१) कथञ्जातीयकम् पुनः परोक्षम् नाम ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-२५/४१) के चित् तावत् आहुः ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-२६/४१) वर्षशतवृत्तम् परोक्षम् इति ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-२७/४१) अपरे आहुः ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-२८/४१) कटान्तरितम् परोक्षम् इति ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-२९/४१) अपरे आहूः ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-३०/४१) द्व्यहवृत्तम् त्र्यह्वृत्तम् च इति ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-३१/४१) सर्वथा उत्तमः न सिध्यति ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-३२/४१) सुप्तमत्तोयोः इति वक्तव्यम् ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-३३/४१) सुप्तः अहम् किल विललाप ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-३४/४१) मत्तः अहम् किल विललाप ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-३५/४१) सुप्तः नु अहम् किल विललाप ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-३६/४१) मत्तः नु अहम् किल विललाप ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-३७/४१) अथ वा भवति वै कः चित् जागरत् अपि वर्तमानकालम् न उपलभते ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-३८/४१) तत् यथा वैयाकरणानाम् शाकटायनः रथमार्गे आसीनः शकटसाऋथम् यान्तम् न उपलभते ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-३९/४१) किम् पुनः कारणम् जागरत् अपि वर्तमानकालम् न उपलभते ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-४०/४१) मनसा संयुक्तानि इन्द्रियाणि उपलब्धौ कारणानि भवन्ति ।

(पा-३,२.११५.२; अकि-२,१२०.५-२३; रो-३,२७१-२७३; भा-४१/४१) मनसः असान्निध्यात् ।

(पा-३,२.११५.३; अकि-२,१२०.२४-२९; रो-३,२७४; भा-१/९) परोक्षे लिट् अत्यन्ताअपह्नवे च ।

(पा-३,२.११५.३; अकि-२,१२०.२४-२९; रो-३,२७४; भा-२/९) परोक्षे लिट् इति अत्र अत्यन्ताअपह्नवे च इति वक्तव्यम् ।

(पा-३,२.११५.३; अकि-२,१२०.२४-२९; रो-३,२७४; भा-३/९) नो खण्डिकान् जगाम नो कलिङ्गान् जगाम ।

(पा-३,२.११५.३; अकि-२,१२०.२४-२९; रो-३,२७४; भा-४/९) न कारिसोमम् प्रपौ ।

(पा-३,२.११५.३; अकि-२,१२०.२४-२९; रो-३,२७४; भा-५/९) न दार्वजस्य प्रतिजग्राह ।

(पा-३,२.११५.३; अकि-२,१२०.२४-२९; रो-३,२७४; भा-६/९) कः मे मनुष्यः प्रहरेत् वधाय ।

(पा-३,२.११५.३; अकि-२,१२०.२४-२९; रो-३,२७४; भा-७/९) परोभावः परस्य अक्षे परोक्षे लिटि दृश्यताम् ।

(पा-३,२.११५.३; अकि-२,१२०.२४-२९; रो-३,२७४; भा-८/९) उत्वम् वा आदेः परात् अक्ष्णः ।

(पा-३,२.११५.३; अकि-२,१२०.२४-२९; रो-३,२७४; भा-९/९) सिद्धम् वा अस्मात् निपातनात् ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-१/२३) स्म पुरा भूतमात्रे न स्म पुरा अद्यतने ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-२/२३) स्म पुरा भूतमात्रे न स्म पुरा अद्यतने इति वक्तव्यम् ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-३/२३) किम् अयम् स्मादिविधिः पुरान्तः अविशेषेण भूतमात्रे भवति ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-४/२३) तत्र वक्तव्यम् स्मलक्षणः पुरालक्षणः च अद्यतने न भवतः इति ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-५/२३) आहोस्वित् स्मलक्षणः पुरालक्षणः च अविशेषेण भूतमात्रे भवतः इति ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-६/२३) तत्र स्माद्यर्थम् न स्म पुरा अद्यतने इति वक्तव्यम् ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-७/२३) किम् च अतः ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-८/२३) स्मादिविधिः पुरान्तः यदि अविशेषेण किम् कृतम् भवति न स्म पुरा अद्यतने इति ब्रुवता कात्यायनेन इह ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-९/२३) स्मादिविधिः पुरान्तः यदि अविशेषेण भवति किम् वार्त्तिककारः प्रतिषेधेन करोति न स्म पुरा अद्यतने इति ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-१०/२३) अनुवृत्तिः अनद्यतनस्य लात् स्मे इति तत्र न अस्ति नञ्कार्यम् । लट् स्मे इति अत्र अनद्यतने इति एतत् अनुवर्तिष्यते ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-११/२३) अपरोक्षानद्यतनः ननौ च नन्वोः च निवृत्तौ न पुरा अद्यतने इति भवेत् एतत् वाच्यम् । तत्र एतावत् वक्तव्यम् स्यात् न पुरा अद्यतने इति ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-१२/२३) तत्र च अपि लङ्ग्रहणम् । तत्र च अपि लङ्ग्रहणम् ज्ञपकम् न पुरालक्षणः अद्यतने भवति इति ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-१३/२३) अथ बुद्धिः अविशेषाद् स्म पुरा हेतू ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-१४/२३) अथ बुद्धिः अविशेषेण स्म पुरा हेतू इति ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-१५/२३) तत्र च अपि श्र्णु भूयः ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-१६/२३) अपरोक्षे चे इति एषः प्राक् पुरिसंशब्दनात् अविनिवृत्तः सर्वत्र अनद्यतनः ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-१७/२३) तथा सति नञा किम् इह कार्यम् ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-१८/२३) स्मादौ अपरोक्षे च इति अकार्यम् इति शक्यम् एतत् अपि विद्धि ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-१९/२३) शक्यम् हि निवर्तयितुम् परोक्षे इति लात् स्मे इति अत्र ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-२०/२३) स्यात् एषा तव बुद्धिः ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-२१/२३) स्मलक्षणे अपि एवम् एव सिद्धम् इति ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-२२/२३) लट् स्मे इति भवेत् न अर्थः ।

(पा-३,२.११८; अकि-२,१२१.२-१२२.३; रो-३,२७५-२७८; भा-२३/२३) तस्मात् कार्यम् परार्थम् तु । एवम् तर्हि ज्ञापयति आचार्यः स्मलक्षणः पुरालक्षणः च अनद्यतने भवतः इति ।

(पा-३,२.१२०; अकि-२,१२२.५-१०; रो-३,२७८; भा-१/१०) ननौ पृष्टप्रतिवचने इति अशिष्यम् क्रियासमाप्तेः विवक्षितत्वात् ।

(पा-३,२.१२०; अकि-२,१२२.५-१०; रो-३,२७८; भा-२/१०) ननौ पृष्टप्रतिवचने इति अशिष्यः लट् ।

(पा-३,२.१२०; अकि-२,१२२.५-१०; रो-३,२७८; भा-३/१०) किम् कारणम् ।

(पा-३,२.१२०; अकि-२,१२२.५-१०; रो-३,२७८; भा-४/१०) क्रियासमाप्तेः विवक्षितत्वात् ।

(पा-३,२.१२०; अकि-२,१२२.५-१०; रो-३,२७८; भा-५/१०) क्रियायाः अत्र असमाप्तिः विवक्षिता ।

(पा-३,२.१२०; अकि-२,१२२.५-१०; रो-३,२७८; भा-६/१०) एषः नाम न्याय्यः वर्तमानः कालः यत्र क्रियायाः असमाप्तिः भवत् ।

(पा-३,२.१२०; अकि-२,१२२.५-१०; रो-३,२७८; भा-७/१०) तत्र वर्तमाने लट् इति एव सिद्धम् ।

(पा-३,२.१२०; अकि-२,१२२.५-१०; रो-३,२७८; भा-८/१०) यदि वर्तमाने लट् इति एव लट् भवति शतृशानचौ अपि प्राप्नुतः ।

(पा-३,२.१२०; अकि-२,१२२.५-१०; रो-३,२७८; भा-९/१०) इष्येते शतृशानचौ ॒ ननु माम् कुर्वन्तम् पश्य ।

(पा-३,२.१२०; अकि-२,१२२.५-१०; रो-३,२७८; भा-१०/१०) ननु माम् कुर्वाणम् पश्य इति ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-१/३०) हशश्वद्भ्याम् पुरा ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-२/३०) हशश्वल्लक्षणात् पुरालक्षणः भवति विप्रतिषेधेन ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-३/३०) हशश्वल्लक्षणस्य अवकाशः ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-४/३०) इति ह अकरोत् ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-५/३०) इह ह चकार ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-६/३०) शश्वत् अकरोत् ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-७/३०) शश्वत् चकार ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-८/३०) पुरालक्षणस्य अवकाशः ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-९/३०) रथेन अयम् पुरा याति ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-१०/३०) रथेन अयम् पुरा अयासीत् ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-११/३०) इह उभयम् प्राप्नोति ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-१२/३०) रथेन ह शश्वत् पुरा याति ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-१३/३०) रथेन ह शश्वत् पुरा अयासीत् ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-१४/३०) पुरालक्षणः भवति विप्रतिषेधेन ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-१५/३०) स्मः सर्वेभ्यः विप्रतिषेधेन ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-१६/३०) स्मलक्षणः सर्वेभ्यः भवति विप्रतिषेधेन ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-१७/३०) हशश्वल्लक्षणात् पुरालक्षणात् च ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-१८/३०) हशश्वल्लक्षणस्य अवकाशः ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-१९/३०) इति ह अकरोत् ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-२०/३०) इह ह चकार ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-२१/३०) शश्वत् अकरोत् ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-२२/३०) शश्वत् चकार ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-२३/३०) पुरालक्षणस्य अवकाशः ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-२४/३०) रथेन अयम् पुरा याति ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-२५/३०) रथेन अयम् पुरा अयासीत् ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-२६/३०) स्मलक्षणस्य अवकाशः ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-२७/३०) धर्मेण स्म कुरवः युध्यन्ते ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-२८/३०) इह सर्वम् प्राप्नोति ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-२९/३०) न ह स्म वै पुरा शश्वत् अपरशुवृक्णम् दहति ।

(पा-३,२.१२२; अकि-२,१२२.१२-२२; रो-३,२७८-२७९; भा-३०/३०) स्मलक्षणः लट् भवति विप्रतिषेधेन ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-१/६०) प्रवृत्तस्य अविरामे शिष्या भवन्ती अवर्तमानत्वात् ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-२/६०) प्रवृत्तस्य अविरामे शिष्या भवन्ती ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-३/६०) इह अधीमहे ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-४/६०) इह वसामः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-५/६०) इह पुष्यमित्रम् याजयामः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-६/६०) किम् पुनः कारणम् न सिध्यति ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-७/६०) अवर्तमानत्वात् ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-८/६०) नित्यप्रवृत्ते च कालाविभागात् ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-९/६०) नित्यप्रवृत्ते च शासितव्या भवन्ती ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-१०/६०) तिष्ठन्ति पर्वताः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-११/६०) स्रवन्ति नद्यः इति ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-१२/६०) किम् पुनः कारणम् न सिध्यति ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-१३/६०) कालाविभागात् ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-१४/६०) इह भूतभविष्यत्प्रतिद्वन्द्वः वर्तमानः कालः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-१५/६०) न च अत्र भूतभविष्यन्तौ कालौ स्तः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-१६/६०) न्याय्या तु आरम्भानपवर्गात् ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-१७/६०) न्याय्या तु एषा वर्तमानकालता ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-१८/६०) कुतः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-१९/६०) आरम्भानपवर्गात् ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-२०/६०) आरम्भः अत्र अनपवृक्तः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-२१/६०) एषः नाम् न्याय्यः वर्तमानः कालः यत्र आरम्भः अनपवृक्तः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-२२/६०) अस्ति च मुक्तसंशये विरामः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-२३/६०) यम् खलु अपि भवान् मुक्तसंशयम् वर्तमानम् कालम् न्याय्यम् मन्यते भुङ्क्ते देवदत्तः इति तेन एतत् तुल्यम् ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-२४/६०) सः अपि हि अवश्यम् भुञ्जानः हसति वा जल्पति वा पानीयम् वा पिबति ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-२५/६०) यदि अत्र युक्ता वर्तमानकालता दृश्यते इह अपि युक्ता दृश्यताम् ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-२६/६०) सन्ति च कालविभागाः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-२७/६०) सन्ति खलु अपि कालविभागाः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-२८/६०) तिष्ठन्ति पर्वताः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-२९/६०) स्थास्यन्ति पर्वताः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-३०/६०) तस्थुः पर्वताः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-३१/६०) किम् शक्यन्ते एते शब्दाः प्रयोक्तुम् इति अतः सन्ति कालविभागाः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-३२/६०) न अवश्यम् प्रयोगात् एव ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-३३/६०) इह भूतभविष्यद्वर्तमानानाम् राज्ञाम् याः क्रियाः ताः तिष्ठतेः अधिकरणम् ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-३४/६०) इह तावत् तिष्ठन्ति पर्वताः इति ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-३५/६०) सम्प्रति ये राजानः तेषाम् याः क्रियाः तासु वर्तमानासु ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-३६/६०) स्थास्यन्ति पर्वताः इति ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-३७/६०) इतः उत्तरम् ये राजानः भविष्यन्ति तेषाम् याः क्रियाः तासु भविष्यन्तीषु ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-३८/६०) तस्थुः पर्वताः इति ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-३९/६०) ये राजानः बभूवुः तेषाम् याः क्रियाः तासु व्भूतासु ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-४०/६०) अपरः आह ॒ न अस्ति वर्तमानः कालः इति ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-४१/६०) अपि च अत्र श्लोकान् उदाहरन्ति ॒ न वर्तते चक्रम् ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-४२/६०) इषुः न पात्यते ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-४३/६०) न स्यन्दन्ते सरितः सागराय ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-४४/६०) कूटस्थः अयम् लोकः न विचेष्टा अस्ति ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-४५/६०) यः हि एवम् पश्यति सः अपि अनन्धः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-४६/६०) मीमांसकः मन्यमानः युवा मेधाविसम्मतः काकम् स्म इह अनुपृच्छति ॒ किम् ते पतितलक्षणम् ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-४७/६०) अनागते न पतसि अतिक्रान्ते च काक न ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-४८/६०) यदि सम्प्रति पतसि सर्वः लोकः पतति अयम् ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-४९/६०) हिमवान् अपि गच्छति ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-५०/६०) अनागतम् अतिक्रान्तम् वर्तमानम् इति त्रयम् ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-५१/६०) सर्वत्र गतिः न अस्ति ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-५२/६०) गच्छति इति किम् उच्यते ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-५३/६०) क्रियाप्रवृत्तौ यः हेतुः तदर्थम् यत् विचेष्टितम् तत् समीक्ष्य प्रयुञ्जीत गच्छति इति अविचारयन् ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-५४/६०) अप्रः आह ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-५५/६०) अस्ति वर्तमानः कालः इति ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-५६/६०) आदित्यगतिवत् न उपलभ्यते ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-५७/६०) अपि च अत्र श्लोकम् उदाहरन्ति ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-५८/६०) बिसस्य वालाः इव दह्यमानाः न लक्ष्यते विकृतिः सन्निपाते ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-५९/६०) अस्ति इति ताम् वेदयन्ते त्रिभभावाः ।

(पा-३,२.१२३; अकि-२,१२३.२-१२४.१३; रो-३,२७९-२८५; भा-६०/६०) सूक्ष्मः हि भावः अनुमितेन गम्यः ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-१/२७) लस्य अप्रथमासमानाधिकरणेन अयोगात् अदेशानुपपत्तिः यथा अन्यत्र ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-२/२७) लस्य अप्रथमासमानाधिकरणेन अयोगात् अदेशयोः नुपपत्तिः यथा अन्यत्र ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-३/२७) तत् यथा अन्यत्र अपि लस्य अप्रथमासमानाधिकरणेन योगः न भवति ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-४/२७) क्व अन्यत्र ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-५/२७) लङि ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-६/२७) अपचत् ओदनम् देवदत्तः इति ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-७/२७) योगः इति चेत् अन्यत्र अपि योगः स्यात् ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-८/२७) अथ मतम् एतत् भवति योगः इति अन्यत्र अपि योगः स्यात् ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-९/२७) क्व अन्यत्र ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-१०/२७) लङि ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-११/२७) अपचत् ओदनम् देवदत्तः इति ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-१२/२७) न क्व चित् योगः इति कृत्वा अतः सर्वत्र योगेन भवितव्यम् क्व चित् अयोगः इति कृत्वा सर्वत्र अयोगेन ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-१३/२७) तत् यथा ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-१४/२७) समानम् ईहमानानाम् च अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-१५/२७) न च इदानीम् कः चित् अर्थवान् इति अतः सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति सर्वैः अनर्थकैः ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-१६/२७) तत्र किम् अस्माभिः शक्यम् कर्तुम् ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-१७/२७) यत् लोटः अप्रथमासमानाधिकरणेन योगः भवति लङः न स्वाभाविकम् एतत् ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-१८/२७) अथ वा आदेशे सामानाधिकरण्यम् दृष्ट्वा अनुमानात् गन्तव्यम् प्रकृतेः अपि सामानाधिकरण्यम् भवति इति ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-१९/२७) तत् यथा धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् दृष्ट्वा परिव्राजकः इति ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-२०/२७) विषमः उपन्यासः ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-२१/२७) प्रत्यक्षः तेन अग्निधूमयोः अभिसम्बन्धः कृतः भवति त्रिविष्टब्धकपरिव्राजकयोः च ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-२२/२७) सः तद्विदेशस्थम् अपि दृष्ट्वा जानाति अग्निः अत्र परिव्राजकः अत्र इति ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-२३/२७) भवति वै प्रत्यक्षात् अपि अनुमानबलीयस्त्वम् ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-२४/२७) तत् यथा अलातचक्रम् प्रत्यक्षम् दृश्यते अनुमानात् च गम्यते न एतत् अस्ति इति ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-२५/२७) कस्य चित् खलु अपि सकृत् कृतः अभिसम्बन्धः अत्यन्ताय कृतः भवति ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-२६/२७) तत् यथा वृक्षपर्णयोः अयम् वृक्षः इदम् पर्णम् इति ।

(पा-३,२.१२४.१; अकि-२,१२५.२-२०; रो-३,२८६-२८८; भा-२७/२७) सः तद्विदेशस्थम् अपि दृष्ट्वा जानाति वृक्षस्य इदम् पर्णम् इति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-१/८०) किम् पुनः अयम् पर्युदासः ॒ यत् अन्यत् प्रथमासमानाधिकरणात् इति , आहोस्वित् प्रसज्यप्रतिषेधः ॒ प्रथमासमानाधिकरणे न इति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-२/८०) कः च अत्र विशेषः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-३/८०) लटः शतृशानचौ अप्रथमासमानाधिकरणे इति चेत् प्रत्ययोत्तरपदयोः उपसङ्ख्यानम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-४/८०) लटः शतृशानचौ अप्रथमासमानाधिकरणे इति चेत् प्रत्ययोत्तरपदयोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-५/८०) कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः कुर्वाणभक्तिः पचमानभक्तिः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-६/८०) अस्तु तर्हि प्रसज्यप्रतिषेधः ।प्रथमासमानाधिकरणे न इति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-७/८०) प्रसज्यप्रतिषेधेउत्तरपदे आदेशानुपपत्तिः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-८/८०) प्रसज्यप्रतिषेधेउत्तरपदे आदेशयोः अनुपपत्तिः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-९/८०) कुर्वती च असौ भक्तिः च कुर्वद्भक्तिः पचभक्तिः कुर्वाणभक्तिः पचमानभक्तिः इति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-१०/८०) ये च अपि एते समानाधिकरणवृत्तयः तद्धिताः तत्र च शतृशानचौ न प्राप्नुतः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-११/८०) कुर्वत्तरः पचत्तरः कुर्वाणतरः पचमानतरः कुर्वद्रूपः पचद्रूपः कुर्वाणरूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः कुर्वाणकल्पः पचमानकल्पः इति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-१२/८०) सिद्धम् तु प्रत्ययोत्तरपदयोः च इति वचनात् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-१३/८०) सिद्धम् एतत् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-१४/८०) कथम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-१५/८०) प्रत्ययोत्तरपदयोः च शतृशानचौ भवतः इति वक्तव्यम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-१६/८०) तत्र प्रत्ययस्य आदेशनिमित्तत्वात् अप्रसिद्धिः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-१७/८०) तत्र प्रत्ययस्य आदेशनिमित्तत्वात् अप्रसिद्धिः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-१८/८०) आदेशनिमित्तः प्रत्ययः प्रत्ययनिमित्तः च आदेशः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-१९/८०) तत् एतत् इतरेतराश्रयम् भवति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-२०/८०) इतरेतराश्रयाणि च न प्रक्ल्पन्ते ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-२१/८०) उत्तरपदस्य च सुबन्तनिमित्तत्वात् शतृशानचोः अप्रसिद्धिः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-२२/८०) उत्तरपदस्य च सुबन्तनिमित्तत्वात् शतृशानचोः अप्रसिद्धिः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-२३/८०) उत्तरपदनिमित्तः सुप् सुबन्तनिमित्तम् च उत्तरपदम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-२४/८०) तत् एतत् इतरेतराश्रयम् भवति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-२५/८०) इतरेतराश्रयाणि च न प्रक्ल्पन्ते ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-२६/८०) न वा लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-२७/८०) न वा एषः दोषः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-२८/८०) किम् कारणम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-२९/८०) लकारस्य कृत्त्वात् प्रातिपदिकत्वम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-३०/८०) लकारः कृत् कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-३१/८०) तदाश्रयम् प्रत्ययविधानम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-३२/८०) प्रातिपदिकाश्रया स्वाद्युत्पत्तिः भविष्यति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-३३/८०) तिङादेशात् सुबुत्पत्तिः । तिङादेशः क्रियताम् सुबुत्पत्तिः इति परत्वात् सुबुत्पत्तिः भविष्यति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-३४/८०) तस्मात् उत्तरपदप्रसिद्धिः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-३५/८०) तस्मात् उत्तरपदम् प्रसिद्धम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-३६/८०) उत्तरपदे प्रसिद्धे उत्तरपदे इति शतृशानचौ भविष्यतः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-३७/८०) इह अपि तर्हि तिङादेशात् सुबुत्पत्तिः स्यात् पचति पठति इति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-३८/८०) अस्ति अत्र विशेषः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-३९/८०) नित्यः अत्र तिङादेशः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-४०/८०) उत्पन्ने अपि सुपि प्राप्नोति अनुत्पन्ने अपि प्राप्नोति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-४१/८०) नित्यत्वात् तिङादेशे कृते सुबुत्पत्तिः न भविष्यति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-४२/८०) इह अपि तर्हि नित्यत्वात् तिङादेशः स्यात् कुर्वद्भक्तिः पचद्भक्तिः पचमानभक्तिः इति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-४३/८०) अस्ति अत्र विशेषः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-४४/८०) शतृशानचौ तिङपवादौ तौ च निमित्तवन्तौ ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-४५/८०) न च अपवादविषये उत्सर्गः अभिनिविशते ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-४६/८०) पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-४७/८०) प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-४८/८०) न तावत् अत्र कदा चित् तिङ् भवति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-४९/८०) अपवादौ शतृशानचौ प्रतीक्षते ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-५०/८०) तत् एतत् क्व सिद्धम् भवति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-५१/८०) यत्र सामान्यात् उत्पत्तिः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-५२/८०) यत्र हि विशेषात् अतः इञ् इति इतरेतराश्रयम् एव तत्र भवति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-५३/८०) वीक्षमाणस्य अपत्यम् वैक्षमाणिः इति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-५४/८०) इह च शतृशानचौ प्राप्नुतः ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-५५/८०) पचतितराम् जल्पतितराम् पचतिरूपम् जल्पतिरूपम् पचतिकल्पम् जल्पतिकल्पम् पचति पठति इति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-५६/८०) तत् एतत् कथम् कृत्वा सिद्धम् भवति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-५७/८०) शतृशानचौ यदि लटः वा ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-५८/८०) यदि शतृशानचौ यदि लटः वा भवतः व्यवस्थितविभाषा च ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-५९/८०) तेन इह च भविष्यतः कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः पचमानभक्तिः कुर्वत्तरः पचत्तरः पचमानतरः कुर्वद्रूपः पचद्रूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः पचमानकल्पः पचन् पठन् इति च लटः शतृशानचौ ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-६०/८०) इह च न भविष्यतः पचतितराम् जल्पतितराम् पचतिरूपम् जल्पतिरूपम् पचतिकल्पम् जल्पतिकल्पम् पचति पठति इति च लटः शतृशानचौ ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-६१/८०) तत् तर्हि वावचनम् कर्तव्यम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-६२/८०) न कर्तव्यम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-६३/८०) प्रकृतम् अनुवर्तते ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-६४/८०) क्व प्रकृतम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-६५/८०) नन्वोः विभाषा इति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-६६/८०) यदि तत् अनुवर्तते वर्तमाने लट इति लट् अपि विभाषा प्राप्नोति ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-६७/८०) सम्बन्धम् अनुवर्तिष्यते ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-६८/८०) नन्वोः विभाषा ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-६९/८०) पुरि लुङ् च अस्मे विभाषा ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-७०/८०) वर्तमाने लट् पुरि लुङ् च अस्मे विभाषा ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-७१/८०) लटः शतृशानचौ विभाषा ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-७२/८०) पुरि लुङ् च अस्मे इति निवृत्तम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-७३/८०) न तर्हि इदानीम् अप्रथमासमानाधिकरणे इति वक्तव्यम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-७४/८०) वक्तव्यम् च ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-७५/८०) किम् प्रयोजनम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-७६/८०) नित्याऋथम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-७७/८०) अप्रथमासमानाधिकरणे नित्यौ यथा स्याताम् ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-७८/८०) क्व तर्हि इदानीम् विभाषा ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-७९/८०) प्रथमासमानाधिकरणे ।

(पा-३,२.१२४.२; अकि-२,१२५.२१-१२७.२४; रो-३,२९२; भा-८०/८०) पचन् पचति पचमानः पचते इति ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-१/४९) लक्षणहेत्वोः क्रियायाः गुणे उपसङ्ख्यानम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-२/४९) लक्षणहेत्वोः क्रियायाः गुणे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-३/४९) तिष्ठन् मूत्रयति ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-४/४९) गच्छन् भक्षयति ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-५/४९) कर्तुः च लक्षणयोः पर्यायेण अचयोगे ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-६/४९) कर्तुः च लक्षणयोः पर्यायेण अचयोगे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-७/४९) यः अधीयानः आस्ते सः देवदत्त्तः ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-८/४९) यः आसीनः अधीते सः देवदत्तः ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-९/४९) अचयोगे इति किमर्थम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-१०/४९) यः आस्ते च अधीते च सः चैत्रः ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-११/४९) तत्त्वान्वाख्याने च ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-१२/४९) तत्त्वान्वाख्याने च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-१३/४९) शयाना वर्धते दूर्वा ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-१४/४९) आसीनम् वर्धते बिसम् इति ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-१५/४९) सदादयः च बहुलम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-१६/४९) सदादयः च बहुलम् इति वक्तव्यम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-१७/४९) सन् ब्राह्मणः अस्ति ब्राह्मणः ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-१८/४९) विद्यते ब्राह्मणः विद्यमानः ब्राह्मणः इति ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-१९/४९) इङ्जुहोत्योः वावचनम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-२०/४९) इङ्जुहोत्योः वा इति वक्तव्यम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-२१/४९) अधीते अधीयानः ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-२२/४९) जुहोति जुह्वत् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-२३/४९) माङि आक्रोशे । माङि आक्रोशे इति वक्तव्यम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-२४/४९) मा पचन् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-२५/४९) मा पचमानः ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-२६/४९) तत् तर्हि वक्तव्यम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-२७/४९) न वक्तव्यम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-२८/४९) लक्षणहेत्वोः क्रियायाः इति एव सिद्धम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-२९/४९) इह तावत् तिष्ठन् मूत्रयति इति ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-३०/४९) तिष्ठतिक्रिया मूत्रयतिक्रियायाः लक्षणम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-३१/४९) गच्छन् भक्षयति इति ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-३२/४९) गच्छतिक्रिया भक्षयतिक्रियायाः लक्षणम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-३३/४९) यः अधीयानः आस्ते सः देवदत्त्तः इति ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-३४/४९) अध्ययनक्रिया आसनक्रियायाः लक्षणम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-३५/४९) यः आसीनः अधीते सः देवदत्तः इति ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-३६/४९) आसिक्रिया अध्ययनक्रियायाः लक्षणम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-३७/४९) इदम् तर्हि प्रयोजनम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-३८/४९) अचयोगे इति वक्ष्यामि इति ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-३९/४९) इह मा भूत् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-४०/४९) यः आस्ते च अधीते च सः चैत्रः इति ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-४१/४९) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-४२/४९) न एतत् क्रियायाः लक्षणम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-४३/४९) किम् तर्हि ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-४४/४९) कर्तृलक्षणम् एतत् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-४५/४९) शयाना वर्धते दूर्वा इति ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-४६/४९) शेतिक्रिया वृद्धिक्रियायाः लक्षणम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-४७/४९) आसीनम् वर्धते बिसम् इति ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-४८/४९) आसिक्रिया वृद्धिक्रियायाः लक्षणम् ।

(पा-३,२.१२६; अकि-२,१२७.२६-१२८.२३; रो-३,२९२-२९४; भा-४९/४९) सदादयः च बहुलम् इङ्जुहोत्योः वा माङि आक्रोशे इति वक्तव्यम् एव.

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-१/५०) तौग्रहणम् किमर्थम् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-२/५०) शतृशानचौ प्रतिनिर्दिश्येते ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-३/५०) न एतत् अस्ति प्रयोजनम् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-४/५०) प्रकृतौ शतृशानचौ अनुवर्तिष्येते ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-५/५०) क्व प्रकृतौ ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-६/५०) लटः शतृसानचौ अप्रथमासमानाधिकरणे इति ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-७/५०) अतः उत्तरम् पठति ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-८/५०) तौ सत् इति वचनम् असंसर्गार्थम् टौ ग्रहणम् क्रियते असंसर्गार्थम् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-९/५०) असंसक्तयोः एतैः विशेषैः शतृशानचोः सञ्ज्ञा यथा स्यात् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-१०/५०) ननु च एते विशेषाः निवर्तेरन् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-११/५०) यदि अपि एते विशेषाः निवर्तन्ते अयम् तु खलु वर्तमानः कालः अवश्यम् उत्तरार्थः अनुवर्त्यः ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-१२/५०) तस्मिन् अनुवर्तमाने वर्तमानकालविहितयोः एव शतृशानचोः सत्स्ञ्ज्ञा स्यात् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-१३/५०) भूतभविष्यकालविहितयोः न स्यात् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-१४/५०) किम् पुनः भूतभविष्यकालविहितयोः सत्स्ञ्ज्ञावचने प्रयोजनम् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-१५/५०) पूरणगुणसुहितसत् इति ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-१६/५०) ब्राह्मणस्य पक्ष्यन् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-१७/५०) ब्राह्मणस्य पक्ष्यमाणः ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-१८/५०) अथ क्रियमाणे अपि तौग्रहणे कथम् एव असंसक्तयोः एतैः विशेषैः सञ्ज्ञा लभ्या ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-१९/५०) लभ्या इति आह ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-२०/५०) कथम् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-२१/५०) तौ इति शब्दतः सत् इति योगे क्रियमाणे तौ ग्रहणम् योगाङ्गम् जायते ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-२२/५०) सति च योगाङ्गे योगविभागः करिष्यते ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-२३/५०) तौ ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-२४/५०) तौ एतौ शतृशानचौ धातुमात्रात् परस्य प्रत्ययस्य भवतः ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-२५/५०) ततः सत् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-२६/५०) सत्स्ञ्ज्ञौ भवतौ शतृशानचौ ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-२७/५०) इह अपि तर्हि प्राप्नुतः ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-२८/५०) कारकः हारकः इति ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-२९/५०) अवधारणम् लृटि विधानम् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-३०/५०) लृतः सत् वा इति एतत् नियमार्थम् भविष्यति ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-३१/५०) लृटः एव धातुमात्रात् परस्य न अन्यस्य इति ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-३२/५०) कैमर्थ्यक्यात् नियमः भवति ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-३३/५०) विधेयम् न अस्ति इति कृत्वा ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-३४/५०) इह च अस्ति विधेयम् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-३५/५०) किम् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-३६/५०) नित्यौ शतृशानचौ प्राप्तौ ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-३७/५०) तौ विभाषा विधेयौ ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-३८/५०) तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-३९/५०) योगविभागतः च विहितम् सत् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-४०/५०) एवम् तर्हि योगविभागः करिष्यते ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-४१/५०) लृटः सत् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-४२/५०) लृटः सत्सञ्ज्ञौ भवतः ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-४३/५०) किमर्थम् इदम् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-४४/५०) नियमार्थम् ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-४५/५०) लृटः एव धातुमात्रात् परस्य न अन्यस्य इति ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-४६/५०) ततः वा ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-४७/५०) वा च लृटः शतृशानचौ सत्सञ्ज्ञौ भवतः ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-४८/५०) तत्र अयम् अपि अर्थः ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-४९/५०) सद्विधिः नित्यम् अप्रथमासमानाधिकरणे इति वक्ष्यति ।

(पा-३,२.१२७.१; अकि-२,१२८.२५-१२९.२३; रो-३,२९४-२९६; भा-५०/५०) तत् न वक्तव्यम् भवति ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-१/३७) अथ यौ एतौ उत्तरौ शतानौ किम् एतौ लादेशौ आहोस्वित् अलादेशौ ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-२/३७) कः च अत्र विशेषः ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-३/३७) उत्तरयोः लादेशे वावचनम् ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-४/३७) उत्तरयोः लादेशे वा इति वक्तव्यम् ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-५/३७) पवमानः यजमानः ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-६/३७) पवते यजते इति अपि यथा स्यात् ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-७/३७) साधनाभिधानम् ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-८/३७) साधनाभिधानम् च प्राप्नोति ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-९/३७) लः कर्मणि च भावे च अकर्मकेभ्यः इति भावकर्मणोः अपि प्राप्नुतः ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-१०/३७) स्वरः ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-११/३७) स्वरः च साध्यः ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-१२/३७) कति इह पवमानाः ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-१३/३७) अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः प्राप्नोति ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-१४/३७) उपग्रहप्रतिषेधः च ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-१५/३७) उपग्रहस्य च प्रतिषेधः वक्तव्यः ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-१६/३७) कति इह निघ्नानाः ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-१७/३७) तङानौ आत्मनेपदम् इति आत्मनेपदसञ्ज्ञा प्राप्नोति ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-१८/३७) स्ताम् तर्हि अलादेशौ ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-१९/३७) अलादेशे षष्ठीप्रतिषेधः ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-२०/३७) अलादेशे षष्ठीप्रतिषेधः वक्तव्यः ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-२१/३७) सोमम् पवमानः ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-२२/३७) नडम् आघ्नानः ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-२३/३७) अधीयन् पारायणम् ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-२४/३७) लप्रयोगे न इति प्रतिषेधः न प्राप्नोति ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-२५/३७) मा भूत् एवम् ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-२६/३७) तृन् इति एव भविष्यति ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-२७/३७) कथम् ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-२८/३७) तृन् इति न इदम् प्रत्ययग्रहणम् ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-२९/३७) किम् तर्हि ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-३०/३७) प्रत्याहारग्रहणम् ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-३१/३७) क्व सन्निविष्टाणाम् प्रत्याहारः ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-३२/३७) लटः शतृ इति अतः आरभ्य आ तृनः नकारात् ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-३३/३७) यदि प्रत्याहारग्रहणम् चौरस्य द्विषन् वृषलस्य द्विषन् अत्र अपि प्राप्नोति ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-३४/३७) द्विषः शतुः वावचनम् ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-३५/३७) द्विषः शतुः वा इति वक्तव्यम् ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-३६/३७) तत् च अवश्यम् वक्तव्यम् प्रत्ययग्रहणे सति प्रतिषेधार्थम् ।

(पा-३,२.१२७.२; अकि-२,१२९.२४-१३०.१९; रो-३,२९६-२९७; भा-३७/३७) तत् एव प्रत्याहारग्रहणे सति विध्यर्थम् भविष्यति.

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-१/३०) तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-२/३०) तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य इति वक्तव्यम् ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-३/३०) होता पोता ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-४/३०) अनुपसर्गस्य इति किमर्थम् ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-५/३०) प्रशास्ता प्रतिहर्ता ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-६/३०) नयतेः षुक् च ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-७/३०) नयतेः षुक् वक्तव्यः ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-८/३०) तृन् च प्रत्ययः वक्तव्यञ्. नेष्टा ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-९/३०) न वा धात्वन्यत्वात् । न वा वक्तव्यम् ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-१०/३०) किम् कारणम् ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-११/३०) धात्वन्यत्वात् ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-१२/३०) धात्वन्तरम् नेषतिः ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-१३/३०) कथम् ज्ञायते ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-१४/३०) नेषतु नेष्टात् इति दर्शनात् ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-१५/३०) नेषतु नेष्टात् इति प्रयोगः दृश्यते ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-१६/३०) इन्द्रः नः तेन नेषतु ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-१७/३०) गाः वः नेष्टात् ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-१८/३०) त्विषेः देवतायाम् अकारः च उपधायाः अनिट्वम् च ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-१९/३०) त्विषेः देवतायाम् तृन् वक्तव्यः अकारः च उपधायाः अनिट्वम् च इति ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-२०/३०) त्वष्टा ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-२१/३०) किम् पुनः इदम् त्विषेः एव अनिट्वम् ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-२२/३०) न इति आह ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-२३/३०) यत् च अनुक्रान्तम् यत् च अनुक्रंस्यते सर्वस्य एषः शेषः अनिट्वम् इति ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-२४/३०) क्षदेः च युक्ते ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-२५/३०) क्षदेः च युक्ते तृन् वक्तव्यः ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-२६/३०) क्षत्ता ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-२७/३०) छन्दसि तृच् च ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-२८/३०) छन्दसि तृच् च तृन् च वक्तव्यः ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-२९/३०) क्षत्तृभ्यः सङ्ग्रहीतृभ्यः ।

(पा-३,२.१३५; अकि-२,१३०.२१-१३१.१३; रो-३,२९८-३००; भा-३०/३०) क्षत्तृभ्यः सङ्ग्रहीतृभ्यः ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-१/५२) स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-२/५२) स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-३/५२) स्थास्नुः इति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-४/५२) घुमास्थागापाजहातिसाम् हलि इति ईत्त्वम् प्राप्नोति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-५/५२) एवम् तर्हि न कित् करिष्यते ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-६/५२) अकिति गुणप्रतिषेधः ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-७/५२) यदि अकित् गुणप्रतिषेधः वक्तव्यः ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-८/५२) जिष्णुः इति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-९/५२) भुवः इट्प्रतिषेधः च ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-१०/५२) भुवः इट्प्रतिषेधः च वक्तव्यः ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-११/५२) किम् च अन्यत् ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-१२/५२) गुणप्रतिषेधः च ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-१३/५२) भूष्णुः इति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-१४/५२) अस्तु तर्हि कित्. ननु च उक्तम् स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः इति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-१५/५२) न एषः दोषः ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-१६/५२) स्थादंशिभ्याम् स्नुः छन्दसि ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-१७/५२) स्थादंशिभ्याम् स्नुः छन्दसि वक्तव्यः ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-१८/५२) स्थास्नु जङ्गमम् ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-१९/५२) दङ्क्ष्णवः पशवः इति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-२०/५२) सः इदानीम् स्थः अविशेषेण विधास्यते ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-२१/५२) सूत्रम् तर्हि भिद्यते ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-२२/५२) यथान्यासम् अस्तु. ननु च उक्तम् स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः इति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-२३/५२) एवम् तर्हि गित् करिष्यते ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-२४/५२) स्थोः गित्त्वात् न स्थः ईकारः ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-२५/५२) स्थोः गित्त्वात् स्थः ईकारः न भविष्यति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-२६/५२) किम् कारणम् ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-२७/५२) क्ङितोः ईत्त्वशासनात् ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-२८/५२) क्ङितोः ईत्त्वम् शिष्यते ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-२९/५२) इह तर्हि जिष्णुः इति गुणः प्राप्नोति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-३०/५२) गुणाभावः त्रिषु स्मार्यः ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-३१/५२) गुणाभावः त्रिषु स्मर्तव्यः ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-३२/५२) गिति किति ङिति इति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-३३/५२) तत् गकारग्रहणम् कर्तव्यम् ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-३४/५२) न कर्तव्यम् ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-३५/५२) क्रियते न्यासे एव ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-३६/५२) ककारे गकारः चर्त्वभूतः निर्दिश्यते ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-३७/५२) क्क्ङिति च इति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-३८/५२) इह तर्हि भूष्णुः इति श्र्युकः किति इति इट्प्रतिषेधः न प्राप्नोति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-३९/५२) श्र्युको अनिट्त्वम् गकोः इतोः ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-४०/५२) श्र्युकः अनिट्त्वम् गकारककारयोः इति वक्तव्यम् ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-४१/५२) तत् गकारग्रहणम् कर्तव्यम् ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-४२/५२) न कर्तव्यम् ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-४३/५२) क्रियते न्यासः एव ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-४४/५२) ककारे गकारः चर्त्वभूतः निर्दिश्यते ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-४५/५२) श्र्युकः क्किति इति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-४६/५२) यदि एवम् चर्त्वस्य असिद्धत्वात् हशि इति उत्त्वम् प्राप्नोति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-४७/५२) सौत्रः निर्देशः ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-४८/५२) अथ वा असंहितया निर्देशः करिष्यते ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-४९/५२) श्र्युकः क्किति इति ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-५०/५२) स्थोः गित्त्वात् न स्थः ईकारः क्ङितोः ईत्त्वशासनात् ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-५१/५२) गुणाभावः त्रिषु स्मार्यः ।

(पा-३,२.१३९; अकि-२,१३१.१५-१३२.२०; रो-३,२९९-३००; भा-५२/५२) श्र्युको अनिट्त्वम् गकोः इतोः ।

(पा-३,२.१४१; अकि-२,१३२.२२-१३३.४; रो-३,३०१; भा-१/१३) घिनण् अयम् वक्तव्यः ।

(पा-३,२.१४१; अकि-२,१३२.२२-१३३.४; रो-३,३०१; भा-२/१३) घिनुणि हि सति शमिनौ शमिनः तमिनौ तमिनः उगिदचाम् सर्वनामस्थाने अधातोः इति नुम् प्रसज्येत ।

(पा-३,२.१४१; अकि-२,१३२.२२-१३३.४; रो-३,३०१; भा-३/१३) न एषः दोषः ।

(पा-३,२.१४१; अकि-२,१३२.२२-१३३.४; रो-३,३०१; भा-४/१३) झल्ग्रहणम् तत्र चोदयिष्यति ।

(पा-३,२.१४१; अकि-२,१३२.२२-१३३.४; रो-३,३०१; भा-५/१३) इह तर्हि ॒ शमिनितरा शमिनीतरा तमिनितरा तमिनीतरा ॒ उगितः घादिषु नद्याः अन्यतरस्याम् ह्रस्वः भवति इति अन्यरतस्याम् ह्रस्वत्वम् प्रसज्येत ।

(पा-३,२.१४१; अकि-२,१३२.२२-१३३.४; रो-३,३०१; भा-६/१३) इष्यते एव ह्रस्वत्वम् ।

(पा-३,२.१४१; अकि-२,१३२.२२-१३३.४; रो-३,३०१; भा-७/१३) घिनुण् अकर्मकाणाम् ।

(पा-३,२.१४१; अकि-२,१३२.२२-१३३.४; रो-३,३०१; भा-८/१३) घिनुण् अकर्मकाणाम् इति वक्तव्यम् ।

(पा-३,२.१४१; अकि-२,१३२.२२-१३३.४; रो-३,३०१; भा-९/१३) इह मा भूत् ।

(पा-३,२.१४१; अकि-२,१३२.२२-१३३.४; रो-३,३०१; भा-१०/१३) सम्पृणक्ति शाकम् इति ।

(पा-३,२.१४१; अकि-२,१३२.२२-१३३.४; रो-३,३०१; भा-११/१३) उक्तम् वा ।

(पा-३,२.१४१; अकि-२,१३२.२२-१३३.४; रो-३,३०१; भा-१२/१३) किम् उक्तम् ।

(पा-३,२.१४१; अकि-२,१३२.२२-१३३.४; रो-३,३०१; भा-१३/१३) अनभिधानात् इति ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-१/१९) किमर्थम् निन्दादिभ्यः वुञ् विधीयते न ण्वुला एव सिद्धम् ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-२/१९) न हि अस्ति विशेषः निन्दादिभ्यः ण्वुलः वा वुञः वा ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-३/१९) तत् एव रूपम् सः एव स्वरः ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-४/१९) वुञ्म् अनेकाचः ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-५/१९) वुञ्म् अनेकाचः प्रयोजयन्ति ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-६/१९) असूयकः ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-७/१९) अथ ये अत्र एकाचः पठ्यन्ते तेषाम् ग्रहणम् किमर्थम् न तेषाम् ण्वुला एव सिद्धम् ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-८/१९) न सिध्यति ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-९/१९) अयम् तच्छीलादिषु तृन् विधीयते ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-१०/१९) सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-११/१९) वासरूपन्यायेन ण्वुल् अपि भविष्यति ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-१२/१९) अतः उत्तरम् पठति ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-१३/१९) निन्दादिभ्यः वुञ्वचनम् अन्येभ्यः ण्वुलः प्रतिषेधार्थम् ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-१४/१९) निन्दादिभ्यः वुञ्वचनम् क्रियते ज्ञापकार्थम् ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-१५/१९) किम् ज्ञाप्यम् ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-१६/१९) एतत् ज्ञापयति आचार्यः तच्छीलादिषु वासरूपन्यायेन अन्येभ्यः ण्वुल् न भवति इति ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-१७/१९) तृजादिप्रतिषेधाऋथम् वा ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-१८/१९) अथ वा एतत् ज्ञापयति आचार्यः ।

(पा-३,२.१४६; अकि-२,१३३.७-१९; रो-३,३०१-३०२; भा-१९/१९) तच्छीलादिषु सर्वे एव तृजासयः वासरूपेण न भवन्ति इति ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-१/१८) पदिग्रहणम् अनर्थकम् अनुदात्तेतः च हलादेः इति सिद्धत्वात् ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-२/१८) पदिग्रहणम् अनर्थकम् ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-३/१८) किम् कारणम् ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-४/१८) अनुदात्तेतः च हलादेः इति एव अत्र युच् सिद्धः ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-५/१८) न सिध्यति ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-६/१८) अयम् पदेः उकञ् विधीयते लषपदपद्स्थाभूवृषहनकमगमशृ̄भ्यः उकञ् इति ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-७/१८) सः विशेषविहितः सामान्यविहितम् युचम् बाधेत ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-८/१८) वासरूपन्यायेन युच् अपि भविष्यति ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-९/१८) असरूपनिवृत्त्यर्थम् तु ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-१०/१८) असरूपनिवृत्त्यर्थम् तर्हि पदिग्रहणम् क्रियते ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-११/१८) एतत् ज्ञापयति आचार्यः ताच्छीलिकेषु ताच्छिलिकाः वासरूपेण न भवन्ति इति ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-१२/१८) यदि एतत् ज्ञाप्यते दूददीपदीक्षः च इति दीपग्रहणम् अनर्थकम् ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-१३/१८) अयम् दीपेः रः विधीयते ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-१४/१८) नमिकम्पिस्म्यजसहिंसदीपः रः इति ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-१५/१८) सः विशेषविहितः सामान्यविहितम् युचम् बाधिष्यते ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-१६/१८) एवम् तर्हि सिद्धे सति यत् दीपग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति युचः रेण समावेशः इति ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-१७/१८) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-३,२.१५०; अकि-२,१३३.२१-१३४.९; रो-३,३०२-३०३; भा-१८/१८) कम्रा कन्या कमना कन्या इति एतत् सिद्धम् भवति ।

(पा-३,२.१५८; अकि-२,१३४.११-१६; रो-३,३०३-३०४; भा-१/१०) किमर्थम् आलुच् उच्यते न लुश् एव उच्येत ।

(पा-३,२.१५८; अकि-२,१३४.११-१६; रो-३,३०३-३०४; भा-२/१०) का रूपसिद्धिः ॒ स्पृहयालुः गृहयालुः ।

(पा-३,२.१५८; अकि-२,१३४.११-१६; रो-३,३०३-३०४; भा-३/१०) शपि कृते अतः दीर्घः यञि इति दीर्घत्वम् भविष्यति ।

(पा-३,२.१५८; अकि-२,१३४.११-१६; रो-३,३०३-३०४; भा-४/१०) एवम् तर्हि सिद्धे सति यत् आलुचम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति ।

(पा-३,२.१५८; अकि-२,१३४.११-१६; रो-३,३०३-३०४; भा-५/१०) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-३,२.१५८; अकि-२,१३४.११-१६; रो-३,३०३-३०४; भा-६/१०) आलुचि शीङ्ग्रहणम् चोदयिष्यति ।

(पा-३,२.१५८; अकि-२,१३४.११-१६; रो-३,३०३-३०४; भा-७/१०) तत् न कर्तव्यम् भवति ।

(पा-३,२.१५८; अकि-२,१३४.११-१६; रो-३,३०३-३०४; भा-८/१०) आलुचि शीङ्ग्रहणम् ।

(पा-३,२.१५८; अकि-२,१३४.११-१६; रो-३,३०३-३०४; भा-९/१०) आलुचि शीङ्ग्रहणम् कर्तव्यम् ।

(पा-३,२.१५८; अकि-२,१३४.११-१६; रो-३,३०३-३०४; भा-१०/१०) शयालुः ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-१/३५) किमर्थम् किकिनोः कित्त्वम् उच्यते न असंयोगात् लिट् कित् इति एव सिद्धम् ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-२/३५) किकिनोः कित्त्वम् ऋ̄कारगुणप्रतिषेधाऋथम् ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-३/३५) किकिनोः कित्त्वम् क्रियते ऋ̄कारगुणप्रतिषेधाऋथम् ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-४/३५) अयम् ऋ̄कारारान्तानाम् लिटि गुणः प्रतिषेधविषये आरभ्यते ऋच्छत्यृ̄त्राम् इति ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-५/३५) सः यथा इह भवति आतस्तरतुः अतस्तरुः इति एवम् इह अपि प्रसज्येत मित्रावरुणौ ततुरिः दूरे हि अध्वा जगुरिः इति ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-६/३५) सः पुनः कित्त्वे बाध्यते ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-७/३५) उत्सर्गः छन्दसि सदादिभ्यः दर्शनात् ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-८/३५) उत्सर्गः छन्दसि किकिनौ वक्तव्यौ ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-९/३५) किम् प्रयोजनम् ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-१०/३५) सदादिभ्यः दर्शनात् ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-११/३५) सदादिभ्यः हि किकिनौ दृश्येते ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-१२/३५) सदिमनिरमिनमिविचीनाम् सेदिः मेनिः रेमिः ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-१३/३५) नेमिः चक्रम् इव अभवत् ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-१४/३५) विविचिम् रत्नधातमम् ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-१५/३५) भाषायाम् धाञ्कृसृजनिनिमिभ्यः । भाषायाम् धाञ्कृसृजनिनिमिभ्यः किकिनौ वक्तव्यौ ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-१६/३५) धाञ् ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-१७/३५) दधिः ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-१८/३५) धाञ् ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-१९/३५) कृ ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-२०/३५) चक्रिः ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-२१/३५) कृ ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-२२/३५) सृ ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-२३/३५) सस्रिः ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-२४/३५) सृ ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-२५/३५) जनि ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-२६/३५) जज्ञिः ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-२७/३५) जनि ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-२८/३५) नमि ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-२९/३५) नेमिः ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-३०/३५) सासहिवावहिचाचलिपापतीनाम् निपातनम् ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-३१/३५) सासहिवावहिचाचलिपापतीनाम् निपातनम् कर्तव्यम् ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-३२/३५) वृषा सहमानम् सासहिः ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-३३/३५) वावहिः चाचलिः पापतिः ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-३४/३५) अपरः आह ॒ सहिवहिचलिपतिभ्यः यङन्तेभ्यः किकिनौ वक्तव्यौ ।

(पा-३,२.१७१; अकि-२,१३४.१८-१३५.१२; रो-३,३०४-३०५; भा-३५/३५) एतानि एव उदाहरणानि ।

(पा-३,२.१७४; अकि-२,१३५.१४; रो-३,३०५; भा-१/२) भियः क्रुकन् अपि वक्तव्यः ।

(पा-३,२.१७४; अकि-२,१३५.१४; रो-३,३०५; भा-२/२) भीरुकः ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-१/२०) किमर्थम् इदम् उच्यते न क्विप् अन्येभ्यः अपि दृश्यते इति एव सिद्धम् ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-२/२०) क्विब्विधिः अनुपपदार्थः ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-३/२०) अनुपपदार्थः अयम् आरम्भः ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-४/२०) पचेः पक् ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-५/२०) भिदेः भित् ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-६/२०) छिदेः छित् ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-७/२०) अथ यः अत्र सोपसर्गः तस्य ग्रहणम् किमर्थम् न तेन एव सिद्धम् ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-८/२०) न सिध्यति ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-९/२०) इह के चित् आ क्वेः इति सूत्रम् पठन्ति के चित् प्राक् क्वेः इति ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-१०/२०) तत्र ये आ क्वेः इति पठन्ति तैः क्विप् अपि आक्षिप्तः भवति ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-११/२०) तत्र तच्छीलादिषु अर्थेषु किव्प् यथा स्यात् ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-१२/२०) न एतत् अस्ति प्रयोजनम् ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-१३/२०) यः एव असौ अविशेषविहितः सः तच्छीलादिषु भविष्यति अन्यत्र च ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-१४/२०) न सिध्यति ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-१५/२०) अयम् तच्छीलादिषु तृन् विधीयते ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-१६/२०) सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-१७/२०) वासरूपन्यायेन ण्वुल् अपि भविष्यति ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-१८/२०) न सिध्यति ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-१९/२०) इदानीम् एव हि उक्तम् तच्छीलादिषु वर्थेषु वासरूपेण तृजादयः न भवन्ति इति ।

(पा-३,२.१७८.१; अकि-२,१३५.१६-१३६.४; रो-३,३०५-३०६; भा-२०/२०) क्विप् च अपि तृजादिः ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-१/४९) वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घः च ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-२/४९) वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घत्वम् च वक्तव्यम् क्विप् च ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-३/४९) वचि ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-४/४९) वाक् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-५/४९) वचि ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-६/४९) प्रच्छि ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-७/४९) शब्दप्राट् प्रच्छि ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-८/४९) आयतस्तु ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-९/४९) आयतस्तूः ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-१०/४९) आयतस्तु ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-११/४९) कटप्रु ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-१२/४९) कटप्रूः ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-१३/४९) कटप्रु ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-१४/४९) जु ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-१५/४९) जूः ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-१६/४९) जु ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-१७/४९) श्रि ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-१८/४९) श्रीः ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-१९/४९) अपरः आह ॒ वचिप्रच्छ्योः असम्प्रसारणम् च इति वक्तव्यम् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-२०/४९) तत् तर्हि वक्तव्यम् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-२१/४९) न वक्तव्यम् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-२२/४९) दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-२३/४९) इदम् इह सम्प्रधार्यम् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-२४/४९) दीर्घत्वम् क्रियताम् सम्प्रसारणम् इति ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-२५/४९) किम् अत्र कर्तव्यम् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-२६/४९) परत्वात् सम्प्रसारणम् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-२७/४९) अन्तरङ्गम् दीर्घत्वम् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-२८/४९) का अन्तरङ्गता ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-२९/४९) प्रत्ययोत्पत्तिसन्नियोगेन दीर्घत्वम् उच्यते उत्पन्ने प्रत्यये सम्प्रसारणम् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-३०/४९) तत्र अन्तरङ्गत्वात् दीर्घत्वे कृते सम्प्रसारणम् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-३१/४९) प्रसारणपरपूर्वत्वे कृते कार्यकृतत्वात् पुनः दीर्घत्वम् न स्यात् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-३२/४९) तस्मात् सुष्ठु उच्यते दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति इति ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-३३/४९) द्युतिगमिजुहोतीनाम् द्वे च ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-३४/४९) द्युतिगमिजुहोतीनाम् द्वे च इति वक्तव्यम् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-३५/४९) दिद्युत्. द्युति ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-३६/४९) गमि ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-३७/४९) जगत् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-३८/४९) गमि ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-३९/४९) जुहोति ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-४०/४९) जुहोतेः दीर्घः च ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-४१/४९) जुहूः ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-४२/४९) दृणातेः ह्रस्वः च द्वे च क्विप् च इति वक्तव्यम् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-४३/४९) ददृत् ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-४४/४९) जुहूः जुहोतेः ह्वयतेः वा ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-४५/४९) ददृत् दृणातेः दीर्यतेः वा ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-४६/४९) जूः ज्वरतेः जीर्यतेः वा ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-४७/४९) धायतेः सम्प्रसारणम् च ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-४८/४९) धायतेः सम्प्रसारणम् च क्विप् च वक्तव्यः ।

(पा-३,२.१७८.२; अकि-२,१३६.४-२०; रो-३,३०६-३०७; भा-४९/४९) धीः ध्यायतेः वा दधातेः वा ।

(पा-३,२.१८०; अकि-२,१३६.२१-१३७.२; रो-३,३०७-३०८; भा-१/११) डुप्रकरणे मितद्र्वादिभ्यः उपसङ्ख्यानम् धातुविधितुक्प्रतिषेधार्थम् ।

(पा-३,२.१८०; अकि-२,१३६.२१-१३७.२; रो-३,३०७-३०८; भा-२/११) डुप्रकरणे मितद्र्वादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,२.१८०; अकि-२,१३६.२१-१३७.२; रो-३,३०७-३०८; भा-३/११) किम् प्रयोजनम् ।

(पा-३,२.१८०; अकि-२,१३६.२१-१३७.२; रो-३,३०७-३०८; भा-४/११) धातुविधितुक्प्रतिषेधार्थम् ।

(पा-३,२.१८०; अकि-२,१३६.२१-१३७.२; रो-३,३०७-३०८; भा-५/११) धातुविधेः तुकः च प्रतिषेधः यथा स्यात् ।

(पा-३,२.१८०; अकि-२,१३६.२१-१३७.२; रो-३,३०७-३०८; भा-६/११) मित्रद्रुः मितद्रू मितद्रवः ।

(पा-३,२.१८०; अकि-२,१३६.२१-१३७.२; रो-३,३०७-३०८; भा-७/११) अचि श्नुधातुभ्रुवाम् इति उवङादेशः मा भूत् ।

(पा-३,२.१८०; अकि-२,१३६.२१-१३७.२; रो-३,३०७-३०८; भा-८/११) इह च मितद्र्वा मितद्र्वे न ऊङ्धात्वोः इति प्रतिषेधः मा भूत् ।

(पा-३,२.१८०; अकि-२,१३६.२१-१३७.२; रो-३,३०७-३०८; भा-९/११) तुग्विधिः ।

(पा-३,२.१८०; अकि-२,१३६.२१-१३७.२; रो-३,३०७-३०८; भा-१०/११) मितद्रुः ।

(पा-३,२.१८०; अकि-२,१३६.२१-१३७.२; रो-३,३०७-३०८; भा-११/११) ह्रस्वस्य पिति कृति तुक् भवति इति तुक् मा भूत् ।

(पा-३,२.१८८; अकि-२,१३७.४-८; रो-३,३०८; भा-१/३) शीलितः रक्षितः क्षान्तः आक्रुष्टः जुष्टः इति अपि रुष्टः च रुषितः च उभौ अभिव्याहृतः इति अपि हृष्टतुष्टौ तथा कान्तः तथा उभौ संयोतोद्यतौ ।

(पा-३,२.१८८; अकि-२,१३७.४-८; रो-३,३०८; भा-२/३) कष्टम् भविष्यति इति आहुः ।

(पा-३,२.१८८; अकि-२,१३७.४-८; रो-३,३०८; भा-३/३) अमृताः पूर्ववत् स्मृताः । न म्रियन्ते अमृताः ।