व्याकरणमहाभाष्य खण्ड 40

विकिपुस्तकानि तः



(पा-३,३.९४; अकि-२,१५१.२१-१५२.६; रो-३,३३७; भा-१/१२) स्त्रियाम् क्तिन् आबादिभ्यः च ।

(पा-३,३.९४; अकि-२,१५१.२१-१५२.६; रो-३,३३७; भा-२/१२) स्त्रियाम् क्तिन् इति अत्र आबादिभ्यः च इति वक्तव्यम् ।

(पा-३,३.९४; अकि-२,१५१.२१-१५२.६; रो-३,३३७; भा-३/१२) आप्तिः राद्धिः दीप्तिः ।

(पा-३,३.९४; अकि-२,१५१.२१-१५२.६; रो-३,३३७; भा-४/१२) निष्ठायाम् वा सेटः अकारवचनात् सिद्धम् ।

(पा-३,३.९४; अकि-२,१५१.२१-१५२.६; रो-३,३३७; भा-५/१२) अथ वा निष्ठायाम् सेटः अकारः भवति इति वक्तव्यम् ।

(पा-३,३.९४; अकि-२,१५१.२१-१५२.६; रो-३,३३७; भा-६/१२) यदि निष्ठायाम् सेटः अकारः भवति इति उच्यते स्रंसा ध्वंसा इति न सिध्यति ।

(पा-३,३.९४; अकि-२,१५१.२१-१५२.६; रो-३,३३७; भा-७/१२) स्रस्तिः ध्वस्तिः इति प्राप्नोति ।

(पा-३,३.९४; अकि-२,१५१.२१-१५२.६; रो-३,३३७; भा-८/१२) किम् पुनः इदम् परिगणनम् त्रयः एव आबादयः आहोस्वित् उदाहरणमात्रम् ।

(पा-३,३.९४; अकि-२,१५१.२१-१५२.६; रो-३,३३७; भा-९/१२) किम् च अतः ।

(पा-३,३.९४; अकि-२,१५१.२१-१५२.६; रो-३,३३७; भा-१०/१२) यदि परिगणनम् भेदः भवति ।

(पा-३,३.९४; अकि-२,१५१.२१-१५२.६; रो-३,३३७; भा-११/१२) अथ उदाहरणमात्रम् न अस्ति भेदः ।

(पा-३,३.९४; अकि-२,१५१.२१-१५२.६; रो-३,३३७; भा-१२/१२) स्रस्ति ध्वस्तिः इति एव भवितव्यम् ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-१/२६) स्थादिभ्यः सर्वापवादप्रसङ्गः ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-२/२६) स्थादिभ्यः सर्वापवादः क्तिन् प्राप्नोति ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-३/२६) सः यथा एव अङम् बाधते एवम् ण्वुलिञौ अपि बाधेत ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-४/२६) काम् त्वम् स्थायिकाम् अस्थाः ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-५/२६) काम् स्थायिम् ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-६/२६) सिद्धम् तु अङ्विधाने स्थादिप्रतिषेधात् ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-७/२६) सिद्धम् एतत् ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-८/२६) कथम् ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-९/२६) अङ्विधाने एव स्थादिप्रतिषेधः वक्तव्यः ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-१०/२६) प्रतिषिद्धे तस्मिन् क्तिन् एव भविष्यति ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-११/२६) सिध्यति ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-१२/२६) सूत्रम् तर्हि भिद्यते ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-१३/२६) यथान्यासम् एव अस्तु ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-१४/२६) ननु च उक्तम् स्थादिभ्यः सर्वापवादप्रसङ्गः इति ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-१५/२६) न एषः दोषः ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-१६/२६) पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् स्त्रियाम् क्तिन् अङम् बाधिष्यते ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-१७/२६) ण्वुलिञौ न बाधिष्यते ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-१८/२६) श्रुतिजिषिस्तुभ्यः करणे ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-१९/२६) श्रुतिजिषिस्तुभ्यः करणे क्तिन् वक्तव्यः ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-२०/२६) श्रूयते अनया श्रुतिः ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-२१/२६) इज्यते अनया इष्टिः ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-२२/२६) इष्यते अनया इष्टिः ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-२३/२६) स्तूयते अनया स्तुतिः ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-२४/२६) ग्लाज्याहाभ्यः निः ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-२५/२६) ग्लाज्याहाभ्यः निः वक्तव्यः ।

(पा-३,३.९५; अकि-२,१५२.८-२०; रो-३,३३८; भा-२६/२६) ग्लानिः ज्यानिः हानिः ।

(पा-३,३.९८; अकि-२,१५२.२२-२३; रो-३,३३९; भा-१/३) क्यब्विधिः अधिकरणे च ।

(पा-३,३.९८; अकि-२,१५२.२२-२३; रो-३,३३९; भा-२/३) क्यब्विधिः अधिकरणे च इति वक्तव्यम् ।

(पा-३,३.९८; अकि-२,१५२.२२-२३; रो-३,३३९; भा-३/३) समजन्ति तस्याम् समज्या ।

(पा-३,३.१००; अकि-२,१५३.२-३; रो-३,३३९; भा-१/३) कृञः श च इति वावचनम् क्तिनर्थम् ।

(पा-३,३.१००; अकि-२,१५३.२-३; रो-३,३३९; भा-२/३) कृञः श च इति वावचनम् कर्तव्यम् क्तिन् अपि यथा स्यात् ।

(पा-३,३.१००; अकि-२,१५३.२-३; रो-३,३३९; भा-३/३) कृतिः ।

(पा-३,३.१०२; अकि-२,१५३.५-७; रो-३,३३९; भा-१/६) किम् निपात्यते ।

(पा-३,३.१०२; अकि-२,१५३.५-७; रो-३,३३९; भा-२/६) इषेः शे यगभावः ।

(पा-३,३.१०२; अकि-२,१५३.५-७; रो-३,३३९; भा-३/६) अत्यल्पम् इदम् उच्यते इच्छा इति ।

(पा-३,३.१०२; अकि-२,१५३.५-७; रो-३,३३९; भा-४/६) इच्छापरिचर्यापरिसर्यामृगयाटाट्यानाम् निपातनम् कर्तव्यम् ।

(पा-३,३.१०२; अकि-२,१५३.५-७; रो-३,३३९; भा-५/६) जागर्तेः अकारः वा ।

(पा-३,३.१०२; अकि-२,१५३.५-७; रो-३,३३९; भा-६/६) जागर्य जागरा ।

(पा-३,३.१०४; अकि-२,१५३.९-१८; रो-३,३४०; भा-१/१४) भिदा विदारणे ।

(पा-३,३.१०४; अकि-२,१५३.९-१८; रो-३,३४०; भा-२/१४) भिदा विदारणे इति वक्तव्यम् ।

(पा-३,३.१०४; अकि-२,१५३.९-१८; रो-३,३४०; भा-३/१४) भित्तिः अन्या ।

(पा-३,३.१०४; अकि-२,१५३.९-१८; रो-३,३४०; भा-४/१४) छिधा द्वैधीकरणे ।

(पा-३,३.१०४; अकि-२,१५३.९-१८; रो-३,३४०; भा-५/१४) छिधा द्वैधीकरणे इति वक्तव्यम् ।

(पा-३,३.१०४; अकि-२,१५३.९-१८; रो-३,३४०; भा-६/१४) छित्तिः अन्या ।

(पा-३,३.१०४; अकि-२,१५३.९-१८; रो-३,३४०; भा-७/१४) आरा शस्त्र्याम् ।

(पा-३,३.१०४; अकि-२,१५३.९-१८; रो-३,३४०; भा-८/१४) आरा शस्त्र्याम् इति वक्तव्यम् ।

(पा-३,३.१०४; अकि-२,१५३.९-१८; रो-३,३४०; भा-९/१४) आर्तिः अन्या ।

(पा-३,३.१०४; अकि-२,१५३.९-१८; रो-३,३४०; भा-१०/१४) धारा प्रपाते ।

(पा-३,३.१०४; अकि-२,१५३.९-१८; रो-३,३४०; भा-११/१४) धारा प्रपाते इति वक्तव्यम् ।

(पा-३,३.१०४; अकि-२,१५३.९-१८; रो-३,३४०; भा-१२/१४) धृतिः अन्या ।

(पा-३,३.१०४; अकि-२,१५३.९-१८; रो-३,३४०; भा-१३/१४) गुहा गिर्योषध्योः । गुहा गिर्योषध्योः इति वक्तव्यम् ।

(पा-३,३.१०४; अकि-२,१५३.९-१८; रो-३,३४०; भा-१४/१४) गूढिः अन्या

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-१/१९) किमर्थः चकारः ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-२/१९) स्वरार्थः ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-३/१९) चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-४/१९) न एतत् अस्ति प्रयोजनम् ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-५/१९) उदात्तः इति वर्तते भूवीराः उदात्तः इति ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-६/१९) यदि उदात्तः इति वर्तते वजयजोः भावे क्यप् किमर्थः पकारः ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-७/१९) तुगर्थः ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-८/१९) ह्रस्वस्य पिति कृति तुक् इति ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-९/१९) उदात्तः इति वर्तते ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-१०/१९) एवम् अपि कुतः एतत् तदन्तस्य उदात्तत्वम् भविष्यति न पुनः आदेः इति ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-११/१९) उदात्तः इति अनुवर्तनसामर्थ्यात् यस्य अप्राप्तः स्वरः तस्य भवति ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-१२/१९) कस्य च अप्राप्तः ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-१३/१९) अन्त्यस्य ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-१४/१९) सामान्यग्रहणाविघातार्थः तर्हि ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-१५/१९) क्व सामान्यग्रहणाविघातार्थेन अर्थः ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-१६/१९) युवोः अनाकौ इति ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-१७/१९) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-१८/१९) वक्ष्यति एतत् ।

(पा-३,३.१०७.१; अकि-२,१५३.२०-१५४.७; रो-३,३४०-३४१; भा-१९/१९) सिद्धम् तु युवोः अनुनासिकवचनात् इति ।

(पा-३,३.१०७.२; अकि-२,१५४.८-१३; रो-३,३४१; भा-१/१०) युच्प्रकरणे घट्टिवन्दिविधिभ्यः च उपसङ्ख्यानम् ।

(पा-३,३.१०७.२; अकि-२,१५४.८-१३; रो-३,३४१; भा-२/१०) युच्प्रकरणे घट्टिवन्दिविधिभ्यः च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,३.१०७.२; अकि-२,१५४.८-१३; रो-३,३४१; भा-३/१०) घट्टना वन्दना वेदना ।

(पा-३,३.१०७.२; अकि-२,१५४.८-१३; रो-३,३४१; भा-४/१०) इषेः अनिच्छार्थस्य ।

(पा-३,३.१०७.२; अकि-२,१५४.८-१३; रो-३,३४१; भा-५/१०) इषेः अनिच्छार्थस्य इति वक्तव्यम् ।

(पा-३,३.१०७.२; अकि-२,१५४.८-१३; रो-३,३४१; भा-६/१०) अन्विष्यते अन्वेषणा ।

(पा-३,३.१०७.२; अकि-२,१५४.८-१३; रो-३,३४१; भा-७/१०) परेः वा ।

(पा-३,३.१०७.२; अकि-२,१५४.८-१३; रो-३,३४१; भा-८/१०) परेः वा इति वक्तव्यम् ।

(पा-३,३.१०७.२; अकि-२,१५४.८-१३; रो-३,३४१; भा-९/१०) अन्याम् परीष्टिम् चर ।

(पा-३,३.१०७.२; अकि-२,१५४.८-१३; रो-३,३४१; भा-१०/१०) अन्याम् पर्येषणाम् चर ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-१/३०) धात्वर्तनिर्देशे ण्वुल् ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-२/३०) धात्वर्तनिर्देशे ण्वुल् वक्तव्यः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-३/३०) का नाम आसिका अन्येषु ईहमानेषु ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-४/३०) का नाम् शायिका अन्येषु अधीयानेषु ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-५/३०) इक्श्तिपौ धातुनिर्देशे ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-६/३०) इक्श्तिपौ इति एतौ प्रत्ययौ धातुनिर्देशे वक्तव्यौ ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-७/३०) पचेः ब्रूहि ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-८/३०) पचतेः ब्रूहि ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-९/३०) वर्णात् कारः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-१०/३०) वर्णात् कारप्रत्ययः वक्तव्यः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-११/३०) अकारः इकारः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-१२/३०) रात् इफः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-१३/३०) रात् इफः वक्तव्यः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-१४/३०) रेफः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-१५/३०) मत्वर्थात् छः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-१६/३०) मत्वर्थात् छः वक्तव्यः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-१७/३०) मत्वर्थीयः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-१८/३०) इण् अजादिभ्यः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-१९/३०) इण् अजादिभ्यः वक्तव्यः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-२०/३०) आजिः आतिः आदिः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-२१/३०) इञ् वपादिभ्यः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-२२/३०) इञ् वपादिभ्यः वक्तव्यः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-२३/३०) वापिः वासिः वादिः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-२४/३०) इक् कृष्यादिभ्यः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-२५/३०) इक् कृष्यादिभ्यः वक्तव्यः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-२६/३०) कृषिः किरिः गिरिः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-२७/३०) सम्पदादिभ्यः क्विप् ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-२८/३०) सम्पदादिभ्यः क्विप् वक्तव्यः ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-२९/३०) सम्पत् विपत् प्रतिपत् आपत् परिषत् ।

(पा-३,३.१०८; अकि-२,१५४.१५-१५५.१०; रो-३,३४३४१-३४२; भा-३०/३०)

(पा-३,३.११३; अकि-२,१५५.१२-१३; रो-३,३४३; भा-१/५) कृतः बहुलम् इति वक्तव्यम् पादहारकाद्यर्थम् ।

(पा-३,३.११३; अकि-२,१५५.१२-१३; रो-३,३४३; भा-२/५) पादाभ्याम् ह्रियते पादहारकः ।

(पा-३,३.११३; अकि-२,१५५.१२-१३; रो-३,३४३; भा-३/५) गले चोप्यते गलेचोपकः ।

(पा-३,३.११३; अकि-२,१५५.१२-१३; रो-३,३४३; भा-४/५) श्वः अग्नीन् आधास्यमानेन ।

(पा-३,३.११३; अकि-२,१५५.१२-१३; रो-३,३४३; भा-५/५) श्वः सोमेन यक्ष्यमाणेन ।

(पा-३,३.११९; अकि-२,१५५.१५-१७; रो-३,३४३; भा-१/४) गोचरादीनाम् अग्रहणम् प्रायवचनात् यथा कषः निकषः इति ।

(पा-३,३.११९; अकि-२,१५५.१५-१७; रो-३,३४३; भा-२/४) गोचरादीनाम् ग्रहणम् शक्यम् अकर्तुम् ।

(पा-३,३.११९; अकि-२,१५५.१५-१७; रो-३,३४३; भा-३/४) घञ् कस्मात् न भवति ।

(पा-३,३.११९; अकि-२,१५५.१५-१७; रो-३,३४३; भा-४/४) प्रायवचनात् यथा कषः निकषः इति प्रायवचनात् घञ् न भवति ।

(पा-३,३.१२१; अकि-२,१५५.१९-२१; रो-३,३४४; भा-१/५) घञ्विधौ अवहाराधारावायानाम् उपसङ्ख्यानम् ।

(पा-३,३.१२१; अकि-२,१५५.१९-२१; रो-३,३४४; भा-२/५) घञ्विधौ अवहाराधारावायानाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,३.१२१; अकि-२,१५५.१९-२१; रो-३,३४४; भा-३/५) अवह्रियन्ते अस्मिन् अवहारः ।

(पा-३,३.१२१; अकि-२,१५५.१९-२१; रो-३,३४४; भा-४/५) आध्रियन्ते अस्मिन् आधारः ।

(पा-३,३.१२१; अकि-२,१५५.१९-२१; रो-३,३४४; भा-५/५) एत्य एतस्मिन् वयन्ति आवायः ।

(पा-३,३.१२३; अकि-२,१५६.२-७; रो-३,३४४; भा-१/८) किमर्थम् इदम् उच्यते न हलः च इति एव सिद्धम् ।

(पा-३,३.१२३; अकि-२,१५६.२-७; रो-३,३४४; भा-२/८) अनुदके इत् वक्ष्यामि इति ।

(पा-३,३.१२३; अकि-२,१५६.२-७; रो-३,३४४; भा-३/८) इह मा भूत् ।

(पा-३,३.१२३; अकि-२,१५६.२-७; रो-३,३४४; भा-४/८) उदकोदञ्चनः ।

(पा-३,३.१२३; अकि-२,१५६.२-७; रो-३,३४४; भा-५/८) उदङ्कः अनुदकग्रहणानर्थक्यम् च प्रायवचनात् यथा गोदोहनः प्रसाधनः इति ।

(पा-३,३.१२३; अकि-२,१५६.२-७; रो-३,३४४; भा-६/८) उदङ्कः अनुदकग्रहणम् च अनर्थकम् ।

(पा-३,३.१२३; अकि-२,१५६.२-७; रो-३,३४४; भा-७/८) घञ् कस्मात् न भवति ।

(पा-३,३.१२३; अकि-२,१५६.२-७; रो-३,३४४; भा-८/८) प्रायवचनात् यथा गोदोहनः प्रसाधनः इति ।

(पा-३,३.१२५; अकि-२,१५६.९-१०; रो-३,३४४; भा-१/८) डः वक्तव्यः ।

(पा-३,३.१२५; अकि-२,१५६.९-१०; रो-३,३४४; भा-२/८) आखः ।

(पा-३,३.१२५; अकि-२,१५६.९-१०; रो-३,३४४; भा-३/८) डरः वक्तव्यः ।

(पा-३,३.१२५; अकि-२,१५६.९-१०; रो-३,३४४; भा-४/८) आखरः ।

(पा-३,३.१२५; अकि-२,१५६.९-१०; रो-३,३४४; भा-५/८) इकः वक्तव्यः ।

(पा-३,३.१२५; अकि-२,१५६.९-१०; रो-३,३४४; भा-६/८) आखनिकः ।

(पा-३,३.१२५; अकि-२,१५६.९-१०; रो-३,३४४; भा-७/८) इकवकः वक्तव्यः ।

(पा-३,३.१२५; अकि-२,१५६.९-१०; रो-३,३४४; भा-८/८) आखनिकवकः ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-१/२६) अजब्भ्याम् स्त्रीखलनाः ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-२/२६) अजब्भ्याम् स्त्रीखलनाः भवन्ति विप्रतिषेधेन ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-३/२६) अजपोः अवकाशः चयः लवः ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-४/२६) स्त्रीप्रत्ययानाम् अवकाशः कृतिः हृतिः ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-५/२६) इह उभयम् प्राप्नोति ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-६/२६) चितिः स्तुतिः ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-७/२६) खलः अवकाशः ईषद्भेदः सुभेदः ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-८/२६) अजपोः सः एव ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-९/२६) इह उभयम् प्राप्नोति ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-१०/२६) ईषच्चयः सुचयः ईषल्लवः सुलवः ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-११/२६) अनस्य अवकाशः इध्मप्रव्रश्चनः ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-१२/२६) अजपोः सः एव ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-१३/२६) इह उभयम् प्राप्नोति ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-१४/२६) पलाशचयनः अविलवनः ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-१५/२६) स्त्रीखलनाः भवन्ति विप्रतिषेधेन ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-१६/२६) स्त्रियाः खलनौ विप्रतिषेधेन ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-१७/२६) स्त्रियाः खलनौ भवतः विप्रतिषेधेन ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-१८/२६) स्त्रीप्रत्ययानाम् अवकाशः कृतिः हृतिः ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-१९/२६) खलः अवकाशः ईषद्भेदः सुभेदः ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-२०/२६) इह उभयम् प्राप्नोति ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-२१/२६) ईषद्भेदा सुभेदा ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-२२/२६) अनस्य अवकाशः इध्मप्रव्रश्चनः ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-२३/२६) स्त्रीप्रत्ययानाम् सः एव ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-२४/२६) इह उभयम् प्राप्नोति ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-२५/२६) सक्तुधानी तिलपीडनी ।

(पा-३,३.१२६; अकि-२,१५६.१२-२२; रो-३,३४५; भा-२६/२६) खलनौ भवतः विप्रतिषेधेन ।

(पा-३,३.१२७) Kआ१५७.२-७; रो-३,३४५-३४६; भा-१/७) खल् कर्तृकरणयोः च्व्यर्थयोः ।

(पा-३,३.१२७) Kआ१५७.२-७; रो-३,३४५-३४६; भा-२/७) खल् कर्तृकरणयोः च्व्यर्थयोः इति वक्तव्यम् ।

(पा-३,३.१२७) Kआ१५७.२-७; रो-३,३४५-३४६; भा-३/७) अनाढ्येन भवता ईषदाढ्येन शक्यम् भवितुम् ईषदाढ्यम्भवम् भवता ।

(पा-३,३.१२७) Kआ१५७.२-७; रो-३,३४५-३४६; भा-४/७) दुराढ्यम्भवम् स्वाढ्यम्भवम् ।

(पा-३,३.१२७) Kआ१५७.२-७; रो-३,३४५-३४६; भा-५/७) कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् । कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् द्रष्टव्यम् ।

(पा-३,३.१२७) Kआ१५७.२-७; रो-३,३४५-३४६; भा-६/७) द्वेष्यम् विजानीयात् ॒ अभिधेययोः इति ।

(पा-३,३.१२७) Kआ१५७.२-७; रो-३,३४५-३४६; भा-७/७) तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ॒ कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् इति

(पा-३,३.१३०; अकि-२,१५७.९-१२; रो-३,३४६; भा-१/५) भाषायाम् शासियुधिदृशिधृषिभ्यः युच् ।

(पा-३,३.१३०; अकि-२,१५७.९-१२; रो-३,३४६; भा-२/५) भाषायाम् शासियुधिदृशिधृषिभ्यः युच् वक्तव्यः ।

(पा-३,३.१३०; अकि-२,१५७.९-१२; रो-३,३४६; भा-३/५) दुःशासनः दुर्योधनः दुर्दर्शनः दुर्धर्षणः ।

(पा-३,३.१३०; अकि-२,१५७.९-१२; रो-३,३४६; भा-४/५) मृषेः च इति वक्तव्यम् ।

(पा-३,३.१३०; अकि-२,१५७.९-१२; रो-३,३४६; भा-५/५) दुर्मर्षणः ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-१/२६) वत्करणम् किमर्थम् ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-२/२६) वर्तमानसामीप्ये वर्त्मानाः वा इति इयति उच्यमाने वर्तमाने ये प्रत्ययाः विहिताः वर्तमानसामीप्ये धातुमात्रात् स्युः ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-३/२६) वत्करणे पुनः क्रियमाणे न दोषः भवति ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-४/२६) यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण वर्तमाने प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण वर्तमानसामीप्ये भवन्ति ततः अमीवर्तमानवत् कृताः स्युः ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-५/२६) अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमीवर्तमानवत् कृताः स्युः ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-६/२६) इह वर्तमानसामीप्ये वर्तमानवत् वा इति उक्त्वा लोट् एव उदाह्रियते ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-७/२६) यदि पुनः वा लट् भवति इति एव उच्येत ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-८/२६) अतः उत्तरम् पठति ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-९/२६) वर्तमानसामीप्ये वर्तमानवद्वचनम् शत्राद्यर्थम् ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-१०/२६) वर्तमानसामीप्ये वर्तमानवद्वचनम् क्रियते शत्राद्यर्थम् ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-११/२६) शत्राद्यर्थः अयम् आरम्भः ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-१२/२६) एषः अस्मि पचन् ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-१३/२६) एषः अस्मि पचमानः इति ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-१४/२६) न एतत् अस्ति प्रयोजनम् ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-१५/२६) लडादेशौ शतृशानचौ ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-१६/२६) तत्र वा लट् भवति इति एव सिद्धम् ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-१७/२६) यौ तर्हि अलडादेशौ ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-१८/२६) एषः अस्मि पवमानः ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-१९/२६) एषः अस्मि यजमानः ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-२०/२६) यौ च अपि लडादेशौ तौ अपि प्रयोजयतः ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-२१/२६) वर्तमानविहितस्य लटः शतृशानचौ उच्येते ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-२२/२६) अविशेषेण विहितः च अयम् योगः ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-२३/२६) शत्राद्यर्थम् इति खलु अपि उच्यते ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-२४/२६) बहवः च शत्रादयः ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-२५/२६) एषः अस्मि अलङ्करिष्णुः ।

(पा-३,३.१३१; अकि-२,१५८.२-१६; रो-३,३४६-३४८; भा-२६/२६) एषः अस्मि प्रजनिष्णुः ।

(पा-३,३.१३२.१; अकि-२,१५८.१८-२४; रो-३,३४७; भा-१/१४) आशंसा नाम भविष्यत्काला ।

(पा-३,३.१३२.१; अकि-२,१५८.१८-२४; रो-३,३४७; भा-२/१४) आशंसायाम् भूतवदतिदेशे लङ्लिटोः प्रतिषेधः ।

(पा-३,३.१३२.१; अकि-२,१५८.१८-२४; रो-३,३४७; भा-३/१४) आशंसायाम् भूतवदतिदेशे लङ्लिटोः प्रतिषेधः वक्तव्यः ।

(पा-३,३.१३२.१; अकि-२,१५८.१८-२४; रो-३,३४७; भा-४/१४) न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् ।

(पा-३,३.१३२.१; अकि-२,१५८.१८-२४; रो-३,३४७; भा-५/१४) न वा वक्तव्यः ।

(पा-३,३.१३२.१; अकि-२,१५८.१८-२४; रो-३,३४७; भा-६/१४) किम् कारणम् ।

(पा-३,३.१३२.१; अकि-२,१५८.१८-२४; रो-३,३४७; भा-७/१४) अपवादस्य निमित्ताभावात् ।

(पा-३,३.१३२.१; अकि-२,१५८.१८-२४; रो-३,३४७; भा-८/१४) न अत्र अपवादस्य निमित्तम् अस्ति ।

(पा-३,३.१३२.१; अकि-२,१५८.१८-२४; रो-३,३४७; भा-९/१४) कथम् ।

(पा-३,३.१३२.१; अकि-२,१५८.१८-२४; रो-३,३४७; भा-१०/१४) अनद्यतने हि तयोः विधानम् ।

(पा-३,३.१३२.१; अकि-२,१५८.१८-२४; रो-३,३४७; भा-११/१४) अनद्यतने हि तौ विधीयेते लङ्लिटौ ।

(पा-३,३.१३२.१; अकि-२,१५८.१८-२४; रो-३,३४७; भा-१२/१४) न च अत्र अनद्यतनः कालः विवक्षितः ।

(पा-३,३.१३२.१; अकि-२,१५८.१८-२४; रो-३,३४७; भा-१३/१४) कः तर्हि ।

(पा-३,३.१३२.१; अकि-२,१५८.१८-२४; रो-३,३४७; भा-१४/१४) भूतकालसामान्यम्

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-१/२१) आशंसासम्भावनयोः अविशेषात् तद्विधानस्य अप्राप्तिः । आशंसा सम्भावनम् इति अविशिष्टौ एतौ अर्थौ ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-२/२१) आशंसासम्भावनयोः अविशेषात् तद्विधानस्य अप्राप्तिः ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-३/२१) आशंसायाम् ये विधीयन्ते ते सम्भावने अपि प्राप्नुवन्ति ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-४/२१) ये च सम्भावने विधीयन्ते ते आशंसायाम् अपि प्राप्नुवन्ति ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-५/२१) किम् तर्हि उच्यते अप्राप्तिः इति ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-६/२१) न साधीयः प्राप्तिः भवति ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-७/२१) इष्टा व्यवस्था न प्रकल्पेत ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-८/२१) न सर्वे सर्वत्र इष्यन्ते ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-९/२१) न वा सम्भावनावयवत्वात् आशंसायाः ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-१०/२१) न वा एषः दोषः ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-११/२१) किम् कारणम् ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-१२/२१) सम्भावनावयवत्वात् आशंसायाः ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-१३/२१) सम्भावनावयवात्मिका आशंसा ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-१४/२१) आशंसा नाम प्रधारितः अर्थः अभिनीतः च अनभिनीतः च ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-१५/२१) सम्भावनम् नाम प्रधारितः अर्थः अभिनीतः एव. अर्थासन्देहः वा अलमर्थत्वात् सम्भावनस्य ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-१६/२१) अथ वा अर्थासन्देहः एव पुनः अस्य ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-१७/२१) किम् कारणम् ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-१८/२१) अलमर्थत्वात् सम्भावनस्य ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-१९/२१) सम्भावने आलमर्थ्यम् गम्यते आसंशायाम् पुनः अनालमर्थ्यम् ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-२०/२१) आचार्यप्रवृत्तिः ज्ञापयति सम्भावने अपि अनालमर्थ्यम् गम्यते इति यत् अयम् सम्भावने अलम् इति आह ।

(पा-३,३.१३२.२; अकि-२,१५९.१-१४; रो-३,३४८-३५०; भा-२१/२१) तस्मात् सुष्ठु उच्यते न वा सम्भावनावयवत्वात् आशंसायाः इति ।

(पा-३,३.१३३.१; अकि-२,१५९.१६-२०१.२; रो-३,३५०; भा-१/९) क्षिप्रवचने लृअः आशंसावचने लिङ् विप्रतिषेधेन ।

(पा-३,३.१३३.१; अकि-२,१५९.१६-२०१.२; रो-३,३५०; भा-२/९) क्षिप्रवचने लृअः आशंसावचने लिङ् भवति विप्रतिषेधेन ।

(पा-३,३.१३३.१; अकि-२,१५९.१६-२०१.२; रो-३,३५०; भा-३/९) क्षिप्रवचने लृट् भवति इति अस्य अवकाशः ।

(पा-३,३.१३३.१; अकि-२,१५९.१६-२०१.२; रो-३,३५०; भा-४/९) उपाध्यायः चेत् आगतः क्षिप्रम् अध्येष्यामहे ।

(पा-३,३.१३३.१; अकि-२,१५९.१६-२०१.२; रो-३,३५०; भा-५/९) आशंसावचबे लिङ् भवति इति अस्य अवकाशः ।

(पा-३,३.१३३.१; अकि-२,१५९.१६-२०१.२; रो-३,३५०; भा-६/९) उपाध्यायः चेत् आगतः आशंसे युक्तः अधीयीय ।

(पा-३,३.१३३.१; अकि-२,१५९.१६-२०१.२; रो-३,३५०; भा-७/९) इह उभयम् प्राप्नोति ।

(पा-३,३.१३३.१; अकि-२,१५९.१६-२०१.२; रो-३,३५०; भा-८/९) उपाध्यायः चेत् आगतः आशंसे क्षिप्रम् अधीयीय ।

(पा-३,३.१३३.१; अकि-२,१५९.१६-२०१.२; रो-३,३५०; भा-९/९) लिङ् भवति विप्रतिषेधेन ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-१/२८) अनिष्पन्ने निष्पन्नशब्दः शिष्यः अनिष्पन्नत्वात् ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-२/२८) अनिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-३/२८) किम् कारणम् ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-४/२८) अनिष्पन्नत्वात् ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-५/२८) देवः चेत् वृष्टः निष्पन्नाः शालयः ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-६/२८) तत्र भवितव्यम् सम्पत्स्यन्ते शालयः इति ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-७/२८) सिद्धम् तु भविष्यत्प्रतिषेधात् ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-८/२८) सिद्धम् एतत् ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-९/२८) कथम् ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-१०/२८) भविष्यत्प्रतिषेधात् ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-११/२८) यत् लोकः भविष्यद्वाचिनः शब्दस्य प्रयोगम् न मृष्यति ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-१२/२८) कः चित् आह ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-१३/२८) देवः चेत् वृष्टः सम्पत्स्यन्ते शालयः इति ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-१४/२८) सः उच्यते ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-१५/२८) मा एवम् वोचः ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-१६/२८) सम्पन्नाः शालयः इति एवम् ब्रूहि ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-१७/२८) हेतुभूतकालसम्प्रेक्षितत्वात् वा ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-१८/२८) हेतुभूतकालसम्प्रेक्षितत्वात् वा पुनः सिद्धम् एतत् ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-१९/२८) हेतुभूतकालम् वर्षम् वर्षाकाला च क्रिया ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-२०/२८) यदि तर्हि निष्पन्नः अर्थः किम् निष्पन्नकार्याणि न क्रियन्ते ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-२१/२८) कानि ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-२२/२८) भोजनादीनि ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-२३/२८) अन्यत् इदानीम् एतत् उच्यते किम् निष्पन्नकार्याणि न क्रियन्ते इति ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-२४/२८) यत् तु तत् निष्पन्नः अर्थः न निष्पन्नः इति ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-२५/२८) सः निष्पन्नः अर्थः ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-२६/२८) अवश्यम् खलु अपि कोष्ठगतेषु अपि शालिषु अवहननादीनि प्रतीक्ष्याणि ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-२७/२८) एवम् इह अपि निष्पन्नः अर्थः ।

(पा-३,३.१३३.२; अकि-२,१५९.२१-१६०.९; रो-३,३५०-३५१; भा-२८/२८) अवश्यम् तु जननादीनि प्रतीक्ष्याणि ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-१/३४) अस्त्यर्थानाम् भवन्त्यर्थे सर्वाः विभक्तयः । अस्त्यर्थानाम् भवन्त्यर्थे सर्वाः विभक्तयः ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-२/३४) कूपः अस्ति ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-३/३४) कूपः भविष्यति ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-४/३४) कूपः भविता ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-५/३४) कूपः अभूत् ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-६/३४) कूपः आसीत् ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-७/३४) कूपः बभूव इति ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-८/३४) कथम् पुनः ज्ञायते भवन्त्याः एषः अर्थः इति ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-९/३४) कर्तुः विद्यमानत्वात् ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-१०/३४) कर्ता अत्र विद्यते ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-११/३४) कथम् पुनः ज्ञायते कर्ता अत्र विद्यते इति ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-१२/३४) कूपः अनेन कदा चित् दृष्टः ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-१३/३४) न च अस्य कम् चिद् अपि अपायम् पश्यति ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-१४/३४) सः तु तत्र बुद्ध्या नित्याम् सत्ताम् अध्यवस्यति ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-१५/३४) कूपः अस्ति इति ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-१६/३४) सिद्धम् तु यथास्वम् कालसमुच्चारणात् ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-१७/३४) सिद्धम् एतत् ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-१८/३४) कथम् ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-१९/३४) यथास्वम् एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-२०/३४) कथम् पुनः ज्ञायते यथास्वम् एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-२१/३४) अवात्वात् ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-२२/३४) यत् न वा भाष्यन्ते ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-२३/३४) असिद्धविपर्यासः च । असिद्धः च विपर्यासः ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-२४/३४) न हि कः चित् कूपः अस्ति इति प्रयोक्तव्ये कूपः अभूत् इति प्रयुङ्क्ते ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-२५/३४) किम् पुनः कारणम् ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-२६/३४) न वा भाष्यन्ते असिद्धः च विपर्यासः ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-२७/३४) इह किम् चित् इन्द्रियकर्म किम् चित् बुद्धिकर्म ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-२८/३४) इन्द्रियकर्म समासादनम् बुद्धिकर्मव्यवसायः ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-२९/३४) एवम् हि कः चित् पाटलिपुत्रम् जिगमिषुः आह ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-३०/३४) यः अयम् अध्वा गन्तव्यः आ पाटलिपुत्रात् एतस्मिन् कूपः भविष्यति ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-३१/३४) समासाद्य अतिक्रम्य उषित्वा कूपः आसीत् इति ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-३२/३४) समासाद्य अतिक्रम्य उषित्वा विस्मृत्य कूपः बभूव इति ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-३३/३४) तत् यदा इन्द्रियकर्म तदा एताः विभक्तयः ।

(पा-३,३.१३३.३; अकि-२,१६०.१०-१६१.२; रो-३,३५१-३५२; भा-३४/३४) यदा हि बुद्धिकर्म तदा वर्तमाना भविष्यति ।

(पा-३,३.१३५; अकि-२,१६१.४-१४; रो-३,३५३-३५४; भा-१/१२) किमर्थम् इमौ द्वौ प्रतिषेधौ उच्येते न अद्यतनवत् इति एव उच्येत ।

(पा-३,३.१३५; अकि-२,१६१.४-१४; रो-३,३५३-३५४; भा-२/१२) न अनद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः ।

(पा-३,३.१३५; अकि-२,१६१.४-१४; रो-३,३५३-३५४; भा-३/१२) न अनद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः द्रष्टव्यः ।

(पा-३,३.१३५; अकि-२,१६१.४-१४; रो-३,३५३-३५४; भा-४/१२) अद्यतनवद्वचने हि विधानम् ।

(पा-३,३.१३५; अकि-२,१६१.४-१४; रो-३,३५३-३५४; भा-५/१२) अद्यतनवद्वचने हि सति विधिः इयम् विज्ञायेत ।

(पा-३,३.१३५; अकि-२,१६१.४-१४; रो-३,३५३-३५४; भा-६/१२) तत्र कः दोषः ।

(पा-३,३.१३५; अकि-२,१६१.४-१४; रो-३,३५३-३५४; भा-७/१२) तत्र लड्विधिप्रसङ्गः ।

(पा-३,३.१३५; अकि-२,१६१.४-१४; रो-३,३५३-३५४; भा-८/१२) तत्र लड्विधिः प्रसज्येत ।

(पा-३,३.१३५; अकि-२,१६१.४-१४; रो-३,३५३-३५४; भा-९/१२) लुङ्लृटोः च अयथाकालम् । लुङ्लृटोः च अयथाकालम् प्रयोगः प्रसज्येत ।

(पा-३,३.१३५; अकि-२,१६१.४-१४; रो-३,३५३-३५४; भा-१०/१२) लुङः अपि विषये लृट् स्यात् लृटः च विषये लुङ् स्यात् ।

(पा-३,३.१३५; अकि-२,१६१.४-१४; रो-३,३५३-३५४; भा-११/१२) अद्य पुनः अयम् द्वौ प्रतिषेधौ उक्त्वा तूष्णीम् आस्ते ।

(पा-३,३.१३५; अकि-२,१६१.४-१४; रो-३,३५३-३५४; भा-१२/१२) यथाप्राप्तेम् एव अद्यतने भविष्यति इति ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-१/२८) किमर्थम् इदम् उच्यते न न अनद्यतनवत् इति एव सिद्धम् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-२/२८) भविष्यति मर्यादावचने अवरस्मिन् इति अक्रियाप्रबन्धार्थम् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-३/२८) अक्रियाप्रबन्धार्थः अयम् आरम्भः ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-४/२८) किम् उच्यते अक्रियाप्रबन्धः ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-५/२८) न पुनः क्रियाप्रबन्धार्थः अपि स्यात् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-६/२८) क्रियाप्रबन्धार्थम् इति चेत् वचनानर्थक्यम् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-७/२८) क्रियाप्रबन्धार्थम् इति चेत् वचनम् अनर्थकम् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-८/२८) सिद्धम् क्रियाप्रबन्धे पूर्वेण एव ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-९/२८) इदम् तर्हि प्रयोजनम् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-१०/२८) अनहोरात्राणाम् इति वक्ष्यामि इति ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-११/२८) इह मा भूत् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-१२/२८) यः अयम् त्रिंशद्रात्रः आगामी तस्य यः अवरः पञ्चदशरात्रः इति ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-१३/२८) अहोरात्रप्रतिषेधार्थम् इति चेत् न अनिष्टत्वात् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-१४/२८) अहोरात्रप्रतिषेधार्थम् इति चेत् तत् न अनिष्टत्वात् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-१५/२८) किम् कारणम् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-१६/२८) अनिष्टत्वात् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-१७/२८) अत्र अपि न अनद्यतनवत् इति एव इष्यते ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-१८/२८) इदम् तर्हि प्रयोजनम् ॒ भविष्यति इति वक्ष्यामि इति ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-१९/२८) इह म भूत् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-२०/२८) यः अयम् अध्वा गतः आ पाटलिपुत्रात् तस्य यत् अवरम् साकेतात् इति ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-२१/२८) न अनिष्टत्वात् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-२२/२८) अत्र अपि न अनद्यतनवत् इति एव इष्यते ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-२३/२८) इदम् तर्हि प्रयोजनम् मर्यादावचने इति वक्ष्यामि इति ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-२४/२८) इह मा भूत् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-२५/२८) यः अयम् अध्वा अपरिमाणः गन्तव्यः तस्य यत् अवरम् साकेतात् इति ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-२६/२८) अत्र अपि न अनद्यतनवत् इति एव इष्यते ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-२७/२८) तस्मात् सुष्ठु उच्यते भविष्यति मर्यादावचने अवरस्मिन् इति अक्रियाप्रबन्धार्थम् ।

(पा-३,३.१३६; अकि-२,१६१.१६-१६२.१३; रो-३,३५४-३५५; भा-२८/२८) क्रियाप्रबन्धार्थम् इति चेत् वचनानर्थक्यम् इति ।

(पा-३,३.१३७; अकि-२,१६२.१५-२१; रो-३,३५६; भा-१/८) अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः ।

(पा-३,३.१३७; अकि-२,१६२.१५-२१; रो-३,३५६; भा-२/८) अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः वक्तव्यः ।

(पा-३,३.१३७; अकि-२,१६२.१५-२१; रो-३,३५६; भा-३/८) यः अयम् त्रिंशद्रात्रः आगामीतस्य यः अवरः अर्धमासः ।

(पा-३,३.१३७; अकि-२,१६२.१५-२१; रो-३,३५६; भा-४/८) तैः च विभागे ।

(पा-३,३.१३७; अकि-२,१६२.१५-२१; रो-३,३५६; भा-५/८) तैः च विभागे इति वक्तव्यम् ॒ यः अयम् मासः आगामीतस्य यः अवरः पञ्चदशरात्रः इति ।

(पा-३,३.१३७; अकि-२,१६२.१५-२१; रो-३,३५६; भा-६/८) द्वेष्यम् विजानीयात् ॒ अहोरात्राणाम् एव अहोरात्रैः विभागे प्रतिषेधः इति ।

(पा-३,३.१३७; अकि-२,१६२.१५-२१; रो-३,३५६; भा-७/८) तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ॒ अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः ।

(पा-३,३.१३७; अकि-२,१६२.१५-२१; रो-३,३५६; भा-८/८) तैः च विभागे इति ।

(पा-३,३.१३८; अकि-२,१६२.२३; रो-३,३५६); भा-१/४) कस्मिन् परस्मिन् ।

(पा-३,३.१३८; अकि-२,१६२.२३; रो-३,३५६); भा-२/४) कालविभागे ।

(पा-३,३.१३८; अकि-२,१६२.२३; रो-३,३५६); भा-३/४) कुतः एतत् ।

(पा-३,३.१३८; अकि-२,१६२.२३; रो-३,३५६); भा-४/४) योगविभागकरणसामर्थ्यात् ।

(पा-३,३.१३९; अकि-२,१६३.२-५; रो-३,३५७; भा-१/६) साधनातिपत्तौ इति अपि वक्तव्यम् इह अपि यथा स्यात् ।

(पा-३,३.१३९; अकि-२,१६३.२-५; रो-३,३५७; भा-२/६) अभोक्ष्यत भवान् मांसेन यदि मत्समीपे आसिष्यत इति ।

(पा-३,३.१३९; अकि-२,१६३.२-५; रो-३,३५७; भा-३/६) तत् तर्हि वक्तव्यम् ।

(पा-३,३.१३९; अकि-२,१६३.२-५; रो-३,३५७; भा-४/६) न वक्तव्यम् ।

(पा-३,३.१३९; अकि-२,१६३.२-५; रो-३,३५७; भा-५/६) न अन्तरेण साधनम् क्रियायाः प्रवृत्तिः अस्ति इति साधनातिपत्तिः चेत् क्रियातिपत्तिः अपि भवति ।

(पा-३,३.१३९; अकि-२,१६३.२-५; रो-३,३५७; भा-६/६) तत्र क्रियातिपत्तौ इति एव सिद्धम् ।

(पा-३,३.१४०; अकि-२,१६३.७-८; रो-३,३५७; भा-१/४) भूते लृङ् उताप्यादिषु ।

(पा-३,३.१४०; अकि-२,१६३.७-८; रो-३,३५७; भा-२/४) भूते लृङ् उताप्यादिषु द्रष्टव्यः ।

(पा-३,३.१४०; अकि-२,१६३.७-८; रो-३,३५७; भा-३/४) उत अध्याइष्यत ।

(पा-३,३.१४०; अकि-२,१६३.७-८; रो-३,३५७; भा-४/४) अपि अध्यैष्यत ।

(पा-३,३.१४१; अकि-२,१६३.१०-१३; रो-३,३५७-३५८; भा-१/४) विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् ।

(पा-३,३.१४१; अकि-२,१६३.१०-१३; रो-३,३५७-३५८; भा-२/४) विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् इति वक्तव्यम् ।

(पा-३,३.१४१; अकि-२,१६३.१०-१३; रो-३,३५७-३५८; भा-३/४) वा आ उताप्योः इति हि उच्यमाने सन्देहः स्यात् ॒ प्राक् वा उतापिभ्याम् सह वा इति ।

(पा-३,३.१४१; अकि-२,१६३.१०-१३; रो-३,३५७-३५८; भा-४/४) तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् इति ।

(पा-३,३.१४२; अकि-२,१६३.१५-२०; रो-३,३५८; भा-१/१०) गर्हायाम् लड्विधानानर्थक्यम् क्रियासमाप्तिविवक्षितत्वात् ।

(पा-३,३.१४२; अकि-२,१६३.१५-२०; रो-३,३५८; भा-२/१०) गर्हायाम् लड्विधिः नर्थकः ।

(पा-३,३.१४२; अकि-२,१६३.१५-२०; रो-३,३५८; भा-३/१०) किम् कारणम् ।

(पा-३,३.१४२; अकि-२,१६३.१५-२०; रो-३,३५८; भा-४/१०) क्रियासमाप्तिविवक्षितत्वात् ।

(पा-३,३.१४२; अकि-२,१६३.१५-२०; रो-३,३५८; भा-५/१०) क्रियायाः अत्र असमाप्तिः गम्यते ।

(पा-३,३.१४२; अकि-२,१६३.१५-२०; रो-३,३५८; भा-६/१०) एषः च नाम न्याय्यः वर्तमानः कालः यत्र क्रिया अपरिसमाप्ता भवति ।

(पा-३,३.१४२; अकि-२,१६३.१५-२०; रो-३,३५८; भा-७/१०) तत्र वर्तमाने लट् इति एव सिद्धम् ।

(पा-३,३.१४२; अकि-२,१६३.१५-२०; रो-३,३५८; भा-८/१०) यदि वर्तमाने लट् इति एवम् अत्र लट् भवति शतृशानचौ प्राप्नुतः ।

(पा-३,३.१४२; अकि-२,१६३.१५-२०; रो-३,३५८; भा-९/१०) इष्येते च शतृशानचौ ॒ अपि माम् याजयन्तम् पश्य ।

(पा-३,३.१४२; अकि-२,१६३.१५-२०; रो-३,३५८; भा-१०/१०) अपि माम् याजयमानम् पश्य ।

(पा-३,३.१४५; अकि-२,१६४.२-८; रो-३,३५८-३५९; भा-१/१०) किंवृत्तस्य अनधिकारात् उत्तरत्र अकिंवृत्तग्रहणानर्थक्यम् ।

(पा-३,३.१४५; अकि-२,१६४.२-८; रो-३,३५८-३५९; भा-२/१०) किंवृत्तस्य अनधिकारात् उत्तरत्र अकिंवृत्तग्रहणम् अनर्थकम् ।

(पा-३,३.१४५; अकि-२,१६४.२-८; रो-३,३५८-३५९; भा-३/१०) निवृत्तम् किंवृत्ते इति ।

(पा-३,३.१४५; अकि-२,१६४.२-८; रो-३,३५८-३५९; भा-४/१०) तस्मिन् निवृत्ते अविशेषेण किंवृत्ते अकिंवृत्ते च भविष्यति ।

(पा-३,३.१४५; अकि-२,१६४.२-८; रो-३,३५८-३५९; भा-५/१०) इदम् तर्हि प्रयोजनम् उपपदसञ्ज्ञाम् वक्ष्यामि इति ।

(पा-३,३.१४५; अकि-२,१६४.२-८; रो-३,३५८-३५९; भा-६/१०) उपपदसञ्ज्ञावचने किम् प्रयोजनम् ।

(पा-३,३.१४५; अकि-२,१६४.२-८; रो-३,३५८-३५९; भा-७/१०) उपपदम् अतिङ् इति समासः यथा स्यात् ।

(पा-३,३.१४५; अकि-२,१६४.२-८; रो-३,३५८-३५९; भा-८/१०) अतिङ् इति प्रतिषेधः प्राप्नोति ।

(पा-३,३.१४५; अकि-२,१६४.२-८; रो-३,३५८-३५९; भा-९/१०) यदा तर्हि लृटः सत्सञ्ज्ञौ तदा उपपदसञ्ज्ञा भविष्यति ।

(पा-३,३.१४५; अकि-२,१६४.२-८; रो-३,३५८-३५९; भा-१०/१०) भविष्यदधिकारविहितस्य लृटः सत्स्ञ्ज्ञौ उच्येते अविशेषविहितः च अयम् ।

(पा-३,३.१४७; अकि-२,१६४.१०-१२; रो-३,३५९; भा-१/४) जातुयदोः लिङ्विधाने यदायद्योः उपसङ्ख्यानम् ।

(पा-३,३.१४७; अकि-२,१६४.१०-१२; रो-३,३५९; भा-२/४) जातुयदोः लिङ्विधाने यदायद्योः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,३.१४७; अकि-२,१६४.१०-१२; रो-३,३५९; भा-३/४) यदा भवद्विधः क्षत्रियम् याजयेत् ।

(पा-३,३.१४७; अकि-२,१६४.१०-१२; रो-३,३५९; भा-४/४) यदि भवद्विधः क्षत्रियम् याजयेत् ।

(पा-३,३.१५१; अकि-२,१६४.१४-१६; रो-३,३५९-३६०; भा-१/७) चित्रीकरणे यदिप्रतिषेधानर्थक्यम् अर्थान्यत्वात् ।

(पा-३,३.१५१; अकि-२,१६४.१४-१६; रो-३,३५९-३६०; भा-२/७) चित्रीकरणे यदिप्रतिषेधः अनर्थकः ।

(पा-३,३.१५१; अकि-२,१६४.१४-१६; रो-३,३५९-३६०; भा-३/७) किम् कारणम् ।

(पा-३,३.१५१; अकि-२,१६४.१४-१६; रो-३,३५९-३६०; भा-४/७) अर्थान्यत्वात् ।

(पा-३,३.१५१; अकि-२,१६४.१४-१६; रो-३,३५९-३६०; भा-५/७) न हि यदौ उपपदे चित्रीकरणम् गम्यते ।

(पा-३,३.१५१; अकि-२,१६४.१४-१६; रो-३,३५९-३६०; भा-६/७) किम् तर्हि ।

(पा-३,३.१५१; अकि-२,१६४.१४-१६; रो-३,३५९-३६०; भा-७/७) सम्भावनम् ।

(पा-३,३.१५६; अकि-२,१६४.१८-१६५.५; रो-३,३६०; भा-१/१३) हेतुहेतुमतोः लिङ् वा ।

(पा-३,३.१५६; अकि-२,१६४.१८-१६५.५; रो-३,३६०; भा-२/१३) हेतुहेतुमतोः लिङ् वा इति वक्तव्यम् ।

(पा-३,३.१५६; अकि-२,१६४.१८-१६५.५; रो-३,३६०; भा-३/१३) अनेन चेत् यायात् न शकटम् पर्याभवेत् ।

(पा-३,३.१५६; अकि-२,१६४.१८-१६५.५; रो-३,३६०; भा-४/१३) अनेन चेत् यास्यति न शकटम् पर्याभविष्यति ।

(पा-३,३.१५६; अकि-२,१६४.१८-१६५.५; रो-३,३६०; भा-५/१३) भविष्यदधिकारे ।

(पा-३,३.१५६; अकि-२,१६४.१८-१६५.५; रो-३,३६०; भा-६/१३) भविष्यदधिकारे इति वक्तव्यम् ।

(पा-३,३.१५६; अकि-२,१६४.१८-१६५.५; रो-३,३६०; भा-७/१३) इह मा भूत् ।

(पा-३,३.१५६; अकि-२,१६४.१८-१६५.५; रो-३,३६०; भा-८/१३) वर्षति इति धावति ।

(पा-३,३.१५६; अकि-२,१६४.१८-१६५.५; रो-३,३६०; भा-९/१३) हन्ति इति पलयते ।

(पा-३,३.१५६; अकि-२,१६४.१८-१६५.५; रो-३,३६०; भा-१०/१३) अथ इदानीम् शतृशानचौ अत्र कस्मात् न भवतः ।

(पा-३,३.१५६; अकि-२,१६४.१८-१६५.५; रो-३,३६०; भा-११/१३) देवत्रातः गलः ग्राहः इतियोगे च सद्विधिः ।

(पा-३,३.१५६; अकि-२,१६४.१८-१६५.५; रो-३,३६०; भा-१२/१३) मिथः ते न विभाष्यन्ते ।

(पा-३,३.१५६; अकि-२,१६४.१८-१६५.५; रो-३,३६०; भा-१३/१३) गवाक्षः संशितव्रतः ।

(पा-३,३.१५७; अकि-२,१६५.७-८; रो-३,३६१; भा-१/४) कामप्रवेदनम् चेत् ।

(पा-३,३.१५७; अकि-२,१६५.७-८; रो-३,३६१; भा-२/४) कामप्रवेदनम् चेत् गम्यते इति वक्तव्यम् ।

(पा-३,३.१५७; अकि-२,१६५.७-८; रो-३,३६१; भा-३/४) इह मा भूत् ।

(पा-३,३.१५७; अकि-२,१६५.७-८; रो-३,३६१; भा-४/४) इच्छन् कटम् करोति ।

(पा-३,३.१६१.१; अकि-२,१६५.१०-१५; रो-३,३६१; भा-१/१२) विध्यधीष्टयोः कः विशेषः ।

(पा-३,३.१६१.१; अकि-२,१६५.१०-१५; रो-३,३६१; भा-२/१२) विधिः नाम प्रेषणम् ।

(पा-३,३.१६१.१; अकि-२,१६५.१०-१५; रो-३,३६१; भा-३/१२) अधीष्टम् नाम् सत्कार्पूर्विका व्यापारणा ।

(पा-३,३.१६१.१; अकि-२,१६५.१०-१५; रो-३,३६१; भा-४/१२) अथ निमन्त्रणामन्त्रणयोः कः विशेषः ।

(पा-३,३.१६१.१; अकि-२,१६५.१०-१५; रो-३,३६१; भा-५/१२) सन्निहितेन निमन्त्रणम् भवति असन्निहितेन च आमन्त्रणम् ।

(पा-३,३.१६१.१; अकि-२,१६५.१०-१५; रो-३,३६१; भा-६/१२) न एषः अस्ति विशेषः ।

(पा-३,३.१६१.१; अकि-२,१६५.१०-१५; रो-३,३६१; भा-७/१२) असन्निहितेन अपि निमन्त्रणम् भवति सन्निहितेन च आमन्त्रणम् ।

(पा-३,३.१६१.१; अकि-२,१६५.१०-१५; रो-३,३६१; भा-८/१२) एवम् तर्हि यत् नियोगतः कर्तव्यम् तत् निमन्त्रणम् ।

(पा-३,३.१६१.१; अकि-२,१६५.१०-१५; रो-३,३६१; भा-९/१२) किम् पुनः तत् ।

(पा-३,३.१६१.१; अकि-२,१६५.१०-१५; रो-३,३६१; भा-१०/१२) हव्यम् कव्यम् वा ।

(पा-३,३.१६१.१; अकि-२,१६५.१०-१५; रो-३,३६१; भा-११/१२) ब्राह्मणेन सिद्धम् भुज्यताम् इति उक्ते अधर्मः प्रत्याख्यातुः ।

(पा-३,३.१६१.१; अकि-२,१६५.१०-१५; रो-३,३६१; भा-१२/१२) आमन्त्रणे कामचारः ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-१/५१) कथम् पुनः इदम् विज्ञायते ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-२/५१) निमन्त्रणादीईनाम् अर्थे इति आहोस्वित् निमन्त्रणादिषु गम्यमानेषु इति ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-३/५१) कः च अत्र विशेषः ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-४/५१) निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वात् ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-५/५१) निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-६/५१) किम् कारणम् ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-७/५१) प्रकृत्या अभिहितत्वात् ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-८/५१) प्रकृत्या अभिहितः सः अर्थः इति कृत्वा प्रत्ययः न प्राप्नोति ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-९/५१) द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वात् ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-१०/५१) द्विवचनबहुवनयोः च अ प्रसिद्धिः ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-११/५१) किम् कारणम् ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-१२/५१) एकार्थत्वात् ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-१३/५१) एकः अयम् अर्थः निमन्त्रणम् नाम ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-१४/५१) तस्य एकत्वात् एकवचनम् एव प्राप्नोति ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-१५/५१) अस्तु तर्हि निमन्त्रणादिषु गम्यमानेषु ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-१६/५१) इह अपि तर्हि प्राप्नोति ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-१७/५१) देवदत्तः भवन्तम् आमन्त्रयते ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-१८/५१) देवदत्तः भवन्तम् निमन्त्रयते इति ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-१९/५१) सिद्धम् तु द्वितीयाकाङ्क्षस्य प्रकृते प्रत्ययार्थे प्रत्ययविधानात् ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-२०/५१) सिद्धम् एतत् ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-२१/५१) कथम् ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-२२/५१) द्वितीयाकाङ्क्षस्य धातोः प्रकृते प्रत्ययार्थे प्रत्ययः भवति इति वक्तव्यम् ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-२३/५१) के च प्रकृताः अर्थाः ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-२४/५१) भावकर्मकर्तारः ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-२५/५१) भवेत् सिद्धम् प्राप्नोतु भवान् आमन्त्रणम् अनुभवतु भवान् अमन्त्रणम् इति यत्र द्वितीयः आकाङ्क्यते ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-२६/५१) इदम् तु न सिध्यति आमन्त्रयै निमन्त्रयै इति ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-२७/५१) अत्र अपि द्वितीयः आकाङ्क्यते ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-२८/५१) कः ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-२९/५१) निमन्त्रिः एव ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-३०/५१) आमन्त्रयै आमन्त्रणम् ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-३१/५१) निमन्त्रयै निमन्त्रणम् ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-३२/५१) कथम् पुनः निम्नत्रिः निमन्त्रणम् आकाङ्क्षेत् ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-३३/५१) दृष्टः च भावेन भावयोगः ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-३४/५१) तत् यथा इषिः इषिणा युज्यते स्त्रीत्वम् च स्त्रीत्वेन ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-३५/५१) यावता अत्र द्वितीयः आकाङ्क्ष्यते अस्ति तर्हि निमन्त्रणादीनाम् अर्थे इति ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-३६/५१) ननु च उक्तम् निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वात् इति ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-३७/५१) न एषः दोषः ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-३८/५१) यः असौ द्वितीयः आकाङ्क्ष्यते सः एव मम प्रत्ययार्थः भविष्यति ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-३९/५१) अयम् तर्हि दोषः द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वात् इति ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-४०/५१) न एषः दोषः ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-४१/५१) सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-४२/५१) तथा तिङाम् ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-४३/५१) प्रसिद्धः नियमः तत्र ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-४४/५१) प्रसिद्धः तत्र नियमः ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-४५/५१) नियमः प्रकृतेषु वा ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-४६/५१) अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-४७/५१) के च प्रकृताः ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-४८/५१) एकत्वादयः ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-४९/५१) एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-५०/५१) द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु ।

(पा-३,३.१६१.२; अकि-२,१६५.१६-१६६.२२; रो-३,३६२-३६५; भा-५१/५१) बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-१/१८) किमर्थम् प्रैषादिषु अर्थेषु कृत्याः विधीयन्ते न अविशेषेण विहिताः कृत्याः ते प्रैषादिषु भविष्यन्ति अन्यत्र च ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-२/१८) प्रैषादिषु कृत्यानाम् विधानम् नियमार्थम् ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-३/१८) नियमार्थः अयम् आरम्भः ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-४/१८) प्रैषादिषु एव कृत्याः यथा स्युः इति ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-५/१८) प्रैषादिषु कृत्यानाम् वचनम् नियमार्थम् इति चेत् तत् अनिष्टम् । प्रैषादिषु कृत्यानाम् वचनम् नियमार्थम् इति चेत् तत् अनिष्टम् प्राप्नोति ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-६/१८) न हि प्रैषादिषु एव कृत्याः इष्यन्ते ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-७/१८) किम् तर्हि ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-८/१८) अविशेषेण इष्यन्ते ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-९/१८) बुसोपेन्ध्यम् तृणोपेन्ध्यम् घन्घात्यम् ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-१०/१८) विध्यर्थम् तु स्त्रियाः प्राक् इति वचनात् ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-११/१८) विध्यर्थम् तु प्रैषादिषु कृत्यानाम् वचनम् ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-१२/१८) अयम् प्रैषादिषु लोट् विधीयते ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-१३/१८) सः विशेषविहितः सामान्यविहितान् कृत्यान् बाधेत ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-१४/१८) वासरूपेण कृत्याः अपि भविष्यन्ति ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-१५/१८) न स्युः ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-१६/१८) किम् कारणम् ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-१७/१८) स्त्रियाः प्राक् इति वचनात् ।

(पा-३,३.१६३; अकि-२,१६६.२४-१६७.७; रो-३,३६५-३६६; भा-१८/१८) प्राक् स्त्रियाः वा असरूपः ।

(पा-३,३.१६७; अकि-२,१६७.९-१२; रो-३,३६६; भा-१/१०) प्रथमान्तेषु इति वक्तव्यम् ।

(पा-३,३.१६७; अकि-२,१६७.९-१२; रो-३,३६६; भा-२/१०) किम् प्रयोजनम् ।

(पा-३,३.१६७; अकि-२,१६७.९-१२; रो-३,३६६; भा-३/१०) इह मा भूत् ।

(पा-३,३.१६७; अकि-२,१६७.९-१२; रो-३,३६६; भा-४/१०) काले भुङ्क्ते ।

(पा-३,३.१६७; अकि-२,१६७.९-१२; रो-३,३६६; भा-५/१०) तत् तर्हि वक्तव्यम् ।

(पा-३,३.१६७; अकि-२,१६७.९-१२; रो-३,३६६; भा-६/१०) न वक्तव्यम् ।

(पा-३,३.१६७; अकि-२,१६७.९-१२; रो-३,३६६; भा-७/१०) प्रैषादिषु इति वर्तते ।

(पा-३,३.१६७; अकि-२,१६७.९-१२; रो-३,३६६; भा-८/१०) तत् च अवश्यम् प्रैषादिग्रहणम् अनुवर्त्यम् ।

(पा-३,३.१६७; अकि-२,१६७.९-१२; रो-३,३६६; भा-९/१०) प्रथमान्तेषु इति हि उच्यमाने इह अपि प्रसज्येत ।

(पा-३,३.१६७; अकि-२,१६७.९-१२; रो-३,३६६; भा-१०/१०) कालः पचति भूतानि कालः संहरति प्रजाः ।