व्याकरणमहाभाष्य खण्ड 41

विकिपुस्तकानि तः



(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-१/८०) हिस्वोः परस्मैपदात्मनेपदग्रहणम् लादेशप्रतिषेधार्थम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-२/८०) हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् हिः परस्मैपदानाम् यथा स्यात् स्वः आत्मनेपदानाम् इति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-३/८०) किम् प्रयोजनम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-४/८०) लादेशप्रतिषेधार्थम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-५/८०) लादेशौ हिस्वौ मा भूताम् इति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-६/८०) किम् च स्यात् यदि लादेशौ हिस्वौ स्याताम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-७/८०) तिङन्तम् पदम् इति पदसञ्ज्ञा न स्यात् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-८/८०) मात् भूत् एवम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-९/८०) सुबन्तम् पदम् इति पदसञ्ज्ञा भविष्यति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-१०/८०) कथम् स्वाद्युत्पत्तिः ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-११/८०) लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-१२/८०) लकारः कृत् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-१३/८०) तस्य कृत्त्वात् कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-१४/८०) प्रातिपदिकाश्रया स्वाद्युत्पत्तिः अपि भविष्यति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-१५/८०) यदि स्वाद्युत्पत्तिः सुपाम् श्रवणम् प्राप्नोति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-१६/८०) अव्ययात् इति सुब्लुक् भविष्यति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-१७/८०) कथम् अव्ययत्वम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-१८/८०) विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-१९/८०) निपातम् अव्ययम् इति अव्ययसञ्ज्ञा ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-२०/८०) इह तर्हि सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति तिङ् अतिङः इति निघातः न प्राप्नोति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-२१/८०) समसङ्ख्यार्थम् च ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-२२/८०) समसङ्ख्यार्थम् च हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् हिः परस्मैपदानाम् यथा स्यात् स्वः आत्मनेपदानाम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-२३/८०) व्यतिकरः मा भूत् इति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-२४/८०) न वा तध्वमोः आदेशवचनम् ज्ञापकम् पदादेशस्य ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-२५/८०) न वा हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-२६/८०) किम् कारणम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-२७/८०) तध्वमोः आदेशवचनम् ज्ञापकम् पदादेशस्य ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-२८/८०) यत् अयम् वा च तध्वमोः इति आह तत् ज्ञापयति आचार्यः पदादेशौ हिस्वौ इति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-२९/८०) तत्र पदादेशे पित्त्वाटोः प्रतिषेधः ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-३०/८०) तत्र पदादेशे पित्त्वस्य आटः च प्रतिषेधः वक्तव्यः ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-३१/८०) पित्त्वस्य तावत् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-३२/८०) सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-३३/८०) आटः खलु अपि ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-३४/८०) सः अहम् लुनीहि लुनीहि इति एवम् लुनानि ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-३५/८०) पित्त्वस्य तावत् न वक्तव्यः ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-३६/८०) पित्प्रतिषेधे योगविभागः करिष्यते ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-३७/८०) इह सेः हि भवति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-३८/८०) ततः अपित् च ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-३९/८०) अपित् च भवति यावान् हिः नाम ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-४०/८०) आटः च अपि न वक्तव्यः ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-४१/८०) आटि कृते साट्कस्य आदेशः भविष्यति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-४२/८०) इदम् इह सम्प्रधार्यम् ॒ आट् क्रियताम् आदेशः इति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-४३/८०) किम् अत्र कर्तव्यम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-४४/८०) परत्वात् आडागमः ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-४५/८०) नित्यः आदेशः ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-४६/८०) कृते अपि आटि प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-४७/८०) आट् अपि नित्यः ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-४८/८०) कृते अपि आदेशे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-४९/८०) अनित्यः आट् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-५०/८०) अन्यस्य कृते अपि आदेशे प्राप्नोति अन्यस्य अकृते अपि प्राप्नोति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-५१/८०) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-५२/८०) आदेशः अपि अनित्यः ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-५३/८०) अन्यस्य कृते आटि प्राप्नोति अन्यस्य अकृते ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-५४/८०) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-५५/८०) उभयोः अनित्ययोः परत्वात् आडागमः ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-५६/८०) आटि कृते साट्कस्य आदेशः भविष्यति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-५७/८०) इदम् तर्हि सः अहम् भुङ्क्ष्व भुङ्क्ष्व इति एवम् भुनजै इति श्नसोः अल्लोपः इति अकारलोपः न प्राप्नोति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-५८/८०) समसङ्ख्यार्थत्वम् च अपि अपरिहृतम् एव. सिद्धम् तु लोड्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनात् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-५९/८०) सिद्धम् एतत् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-६०/८०) कथम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-६१/८०) लोड्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्वे भवतः इति वक्तव्यम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-६२/८०) केन विहितस्य क्रियासमभिहारे लोड्मध्यमपुरुषैकवचनस्य द्विर्वचनम् उच्यते ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-६३/८०) एतत् एव ज्ञापयति आचार्यः भवति क्रियासमभिहारे लोट् इति यत् अयम् क्रियासमभिहारे लोड्मध्यमपुरुषैकवचनस्य द्विर्वचनम् शास्ति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-६४/८०) कुतः नु खलु एतत् ज्ञापकात् अत्र लोट् भविष्यति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-६५/८०) न पुनः यः एव असौ अविशेषविहितः सः यदा क्रियासमभिहारे भवति तदा अस्य द्विर्वचनम् भवति इति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-६६/८०) लोड्मध्यमपुरुषैकवचने एव खलु अपि सिद्धम् स्यात् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-६७/८०) इमौ च अन्यौ हिस्वौ सर्वेषाम् पुरुषाणाम् सर्वेषाम् वचनानाम् इष्येते ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-६८/८०) सूत्रम् च भिद्यते ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-६९/८०) यथान्यासम् एव अस्तु ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-७०/८०) ननु च उक्तम् हिस्वोः परस्मैपदात्मनेपदग्रहणम् लादेशप्रतिषेधार्थम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-७१/८०) समसङ्ख्यार्थम् च इति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-७२/८०) न एषः दोषः ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-७३/८०) योगविभागात् सिद्धम् ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-७४/८०) योगविभागः करिष्यते ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-७५/८०) क्रियासमभिहारे लोट् भवति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-७६/८०) ततः लोटः हिस्वौ भवतः ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-७७/८०) लोट् इति एव अनुवर्तते ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-७८/८०) लोटः यौ हिस्वौ इति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-७९/८०) कथम् वा च तध्वमोः इति ।

(पा-३,४.२; अकि-२,१६८.१८-१७०.१४; रो-३,३६९-३७३; भा-८०/८०) वा च तध्वम्भाविनः लोटः इति एवम् एतत् विज्ञायते ।

(पा-३,४.४; अकि-२,१७०.१६-१९; रो-३,३७३; भा-१/१०) किमर्थम् इदम् उच्यते ।

(पा-३,४.४; अकि-२,१७०.१६-१९; रो-३,३७३; भा-२/१०) अनुप्रयोगः यथा स्यात् ।

(पा-३,४.४; अकि-२,१७०.१६-१९; रो-३,३७३; भा-३/१०) न एतत् अस्ति प्रयोजनम् ।

(पा-३,४.४; अकि-२,१७०.१६-१९; रो-३,३७३; भा-४/१०) हिस्वान्तम् अव्यक्तपदार्थकम् ।

(पा-३,४.४; अकि-२,१७०.१६-१९; रो-३,३७३; भा-५/१०) तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।

(पा-३,४.४; अकि-२,१७०.१६-१९; रो-३,३७३; भा-६/१०) इदम् तर्हि प्रयोजनम् ।

(पा-३,४.४; अकि-२,१७०.१६-१९; रो-३,३७३; भा-७/१०) यथाविधि इति वक्ष्यामि इति ।

(पा-३,४.४; अकि-२,१७०.१६-१९; रो-३,३७३; भा-८/१०) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,४.४; अकि-२,१७०.१६-१९; रो-३,३७३; भा-९/१०) समुच्चये सामान्यवचनस्य इति वक्ष्यति ।

(पा-३,४.४; अकि-२,१७०.१६-१९; रो-३,३७३; भा-१०/१०) तत्र अन्तरेण वचनम् यथाविधि अनुप्रयोगः भविष्यति ।

(पा-३,४.५; अकि-२,१७०.२१-२४; रो-३,३७३-३७४; भा-१/९) किमर्थम् इदम् उच्यते ।

(पा-३,४.५; अकि-२,१७०.२१-२४; रो-३,३७३-३७४; भा-२/९) अनुप्रयोगः यथा स्यात् ।

(पा-३,४.५; अकि-२,१७०.२१-२४; रो-३,३७३-३७४; भा-३/९) न एतत् अस्ति प्रयोजनम् ।

(पा-३,४.५; अकि-२,१७०.२१-२४; रो-३,३७३-३७४; भा-४/९) हिस्वान्तम् अव्यक्तपदार्थकम् ।

(पा-३,४.५; अकि-२,१७०.२१-२४; रो-३,३७३-३७४; भा-५/९) तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।

(पा-३,४.५; अकि-२,१७०.२१-२४; रो-३,३७३-३७४; भा-६/९) इदम् तर्हि प्रयोजनम् ।

(पा-३,४.५; अकि-२,१७०.२१-२४; रो-३,३७३-३७४; भा-७/९) सामान्यवचनस्य इति वक्ष्यामि इति ।

(पा-३,४.५; अकि-२,१७०.२१-२४; रो-३,३७३-३७४; भा-८/९) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,४.५; अकि-२,१७०.२१-२४; रो-३,३७३-३७४; भा-९/९) सामान्यवचनस्य अनुप्रयोगः अस्तु विशेषवचनस्य इति सामान्यवचनस्य अनुप्रयोगः भविष्यति लघुत्वात् ।

(पा-३,४.८; अकि-२,१७१.२-६; रो-३,३७४; भा-१/१०) उपसंवादाशङ्कयोः वचनानर्थक्यम् लिङर्थत्वात् ।

(पा-३,४.८; अकि-२,१७१.२-६; रो-३,३७४; भा-२/१०) उपसंवादाशङ्कयोः वचनम् नर्थकम् ।

(पा-३,४.८; अकि-२,१७१.२-६; रो-३,३७४; भा-३/१०) किम् कारणम् ।

(पा-३,४.८; अकि-२,१७१.२-६; रो-३,३७४; भा-४/१०) लिङर्थत्वात् ।

(पा-३,४.८; अकि-२,१७१.२-६; रो-३,३७४; भा-५/१०) लिङर्थे लेट् इति एव सिद्धम् ।

(पा-३,४.८; अकि-२,१७१.२-६; रो-३,३७४; भा-६/१०) कः पुनः लिङर्थः ।

(पा-३,४.८; अकि-२,१७१.२-६; रो-३,३७४; भा-७/१०) के चित् तावत् आहुः ।

(पा-३,४.८; अकि-२,१७१.२-६; रो-३,३७४; भा-८/१०) हेतुहेतुमतोः लिङ् इति ।

(पा-३,४.८; अकि-२,१७१.२-६; रो-३,३७४; भा-९/१०) अपरे आहुः ॒ वक्तव्यः एव एतस्मिन् विशेषे लिङ् ।

(पा-३,४.८; अकि-२,१७१.२-६; रो-३,३७४; भा-१०/१०) प्रयुज्यते हि लोके यदि मे भवान् इदम् कुर्यात् अहम् अपि ते इदम् दद्याम् ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-१/१६) तुमर्थे इति उच्यते ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-२/१६) कः तुमर्थः ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-३/१६) कर्ता ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-४/१६) यदि एवम् न अर्थः तुमर्थग्रहणेन ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-५/१६) येन एव खलु अपि हेतुना कर्तरि तुमुन् भवति तेन एव हेतुना सयादयः अपि भविष्यन्ति ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-६/१६) एवम् तर्हि सिद्धे सति यत् तुमर्थग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति अन्यः कर्तुः तुमुनः अर्थः इति ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-७/१६) कः पुनः असौ ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-८/१६) भावः ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-९/१६) कुतः नु खलु एतत् भावे तुमुन् भविष्यति ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-१०/१६) न पुनः कर्मादिषु कारकेषु इति ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-११/१६) ज्ञापकात् अयम् कर्तुः अपकृष्यते ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-१२/१६) न च अन्यस्मिन् अर्थे आदिश्यते ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-१३/१६) अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यति तत् यथा गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-१४/१६) सः असौ स्वार्थे भवन् भावे भविष्यति ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-१५/१६) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-३,४.९; अकि-२,१७१.९-१७; रो-३,३७५; भा-१६/१६) अव्ययकृतः भावे भवन्ति इति एतत् न वक्तव्यम् भवति ।

(पा-३,४.१९) Kआ१७१.१९-१७२.४; रो-३,३७५-३७६; भा-१/१२) किमर्थम् मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् क्रियते न उदीचाम् मेङः इति एव उच्येत ।

(पा-३,४.१९) Kआ१७१.१९-१७२.४; रो-३,३७५-३७६; भा-२/१२) तत्र अयम् अपि अर्थः ।

(पा-३,४.१९) Kआ१७१.१९-१७२.४; रो-३,३७५-३७६; भा-३/१२) उदीचाम् मेङः इति व्यतिहारग्रहणम् न कर्तव्यम् भवति ।

(पा-३,४.१९) Kआ१७१.१९-१७२.४; रो-३,३७५-३७६; भा-४/१२) किम् कारणम् ।

(पा-३,४.१९) Kआ१७१.१९-१७२.४; रो-३,३७५-३७६; भा-५/१२) तद्विषयः हि सः ।

(पा-३,४.१९) Kआ१७१.१९-१७२.४; रो-३,३७५-३७६; भा-६/१२) वय्तिहारविषयः एव मयतिः ।

(पा-३,४.१९) Kआ१७१.१९-१७२.४; रो-३,३७५-३७६; भा-७/१२) एवम् तर्हि सिद्धे सति यत् मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति तत् ज्ञापयति आचार्यः न अनुबन्धकृतम् अनेजन्तत्वम् भवति इति ।किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-३,४.१९) Kआ१७१.१९-१७२.४; रो-३,३७५-३७६; भा-८/१२) तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति उक्तम् ।

(पा-३,४.१९) Kआ१७१.१९-१७२.४; रो-३,३७५-३७६; भा-९/१२) तत् न वक्तव्यम् भवति ।

(पा-३,४.१९) Kआ१७१.१९-१७२.४; रो-३,३७५-३७६; भा-१०/१२) किमर्थम् पुनः इदम् उच्यते न समानकर्तृकयोः पूर्वकाले इति एव सिद्धम् ।

(पा-३,४.१९) Kआ१७१.१९-१७२.४; रो-३,३७५-३७६; भा-११/१२) अपूर्वकालार्थः अयम् आरम्भः ।

(पा-३,४.१९) Kआ१७१.१९-१७२.४; रो-३,३७५-३७६; भा-१२/१२) पूर्वम् हि असौ याचते पश्चात् अपमयते ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-१/१७) इह कस्मात् न भवति ॒ पूर्वम् भुङ्क्ते पश्चात् व्रजति ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-२/१७) स्वशब्देन उक्तत्वात् न भवति ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-३/१७) न तर्हि इदानीम् इदम् भवति ॒ पूर्वम् भुक्त्वा ततः व्रजति इति ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-४/१७) न एतत् क्रियापौर्वकाल्यम् ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-५/१७) किम् तर्हि ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-६/१७) कर्तृपौर्वकाल्यम् ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-७/१७) पूर्वम् हि असौ भुक्त्वा अन्येभ्यः भोक्तृभ्यः ततः पश्चात् व्रजति अन्येभ्यः व्रजितृभ्यः ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-८/१७) इह कस्मात् न भवति ॒ आस्यते भोक्तुम् इति ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-९/१७) कुतः कस्मात् न भवति ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-१०/१७) किम् आसेः आहोस्वित् भुजेः ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-११/१७) भुजेः कस्मात् न भवति ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-१२/१७) अपूर्वकालत्वात् ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-१३/१७) आसेः तर्हि कस्मात् न भवति ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-१४/१७) यस्मात् अत्र लट् भवति ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-१५/१७) एतत् अत्र प्रष्टव्यम् ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-१६/१७) लट् अत्र कथम् भवति इति ।

(पा-३,४.२१.१; अकि-२,१७२.६-१३; रो-३,३७६-३७७; भा-१७/१७) लट् च अत्र वासरूपेण भविष्यति ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-१/४०) समानकर्तृकयोः इति बहुषु अप्राप्तिः ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-२/४०) समानकर्तृकयोः इति बहुषु क्त्वा न प्राप्नोति ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-३/४०) स्नात्वा भुक्त्वा पीत्वा व्रजति इति ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-४/४०) किम् पुन कारणम् न सिध्यति ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-५/४०) द्विवचननिर्देशात् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-६/४०) द्विवचनेन अयम् निर्देशः क्रियते ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-७/४०) तेन द्वयोः एव पौर्वकाल्ये स्यात् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-८/४०) बहूनाम् न स्यात् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-९/४०) सिद्धम् तु क्रियाप्रधनत्वात् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-१०/४०) सिद्धम् एतत् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-११/४०) कथम् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-१२/४०) क्रियाप्रधनत्वात् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-१३/४०) क्रियाप्रधानः अयम् निर्देशः ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-१४/४०) न अत्र निर्देशः तन्त्रम् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-१५/४०) कथम् पुनः तेन एव नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-१६/४०) तत्कारी च भवान् तद्द्वेषी च ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-१७/४०) नान्तरीयकत्वात् अत्र द्विवचनेन निर्देशः क्रियते ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-१८/४०) अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्यः ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-१९/४०) तत् यथा कः चित् अन्नार्थी शालिकलापम् सतुषम् सपलालम् आहरति नान्तरीयकत्वात् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-२०/४०) सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-२१/४०) तथा कः चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-२२/४०) सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-२३/४०) एवम् इह अपि नान्तरीयकत्वात् द्विवचनेन निर्देशः क्रियते ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-२४/४०) न हि अत्र निर्देशः तन्त्रम् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-२५/४०) एवम् अपि लोकविज्ञानात् न सिध्यति । तत् यथा ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-२६/४०) लोके ब्राह्मणानाम् पूर्वम् आनीयताम् इति उक्ते सर्वपूर्वः आनीयते ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-२७/४०) एवम् इह अपि सर्वपूर्वायाः क्रियायाः प्राप्नोति ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-२८/४०) अनन्त्यवचनात् तु सिद्धम् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-२९/४०) समानकर्तृकयोः अनन्त्यस्य इति वक्तव्यम् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-३०/४०) सिध्यति ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-३१/४०) सूत्रम् तर्हि भिद्यते ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-३२/४०) यथान्यासम् एव अस्तु ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-३३/४०) ननु च उक्तम् समानकर्तृकयोः इति बहुषु अप्राप्तिः इति ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-३४/४०) परिहृतम् एतत् सिद्धम् तु क्रियाप्रधनत्वात् इति ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-३५/४०) ननु च उक्तम् एवम् अपि लोकविज्ञानात् न सिध्यति इति ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-३६/४०) न एषः दोषः सर्वेषाम् अत्र व्रजिक्रियाम् प्रति पौर्वकाल्यम् ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-३७/४०) स्नात्वा व्रजति भुक्त्वा व्रजति पीत्वा व्रजति इति ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-३८/४०) एवम् च कृत्वा प्रयोगः अनियतः भवति ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-३९/४०) स्नात्वा भुक्त्व पीत्वा व्रजति ।

(पा-३,४.२१.२; अकि-२,१७२.१४-१७३.१०; रो-३,३७७-३७८; भा-४०/४०) पीत्वा स्नात्वा भुत्वा व्रजति इति ।

(पा-३,४.२१.३; अकि-२,१७३.११-१६; रो-३,३७९; भा-१/११) व्यादाय स्वपिति इति उपसङ्ख्यानम् अपूर्वकालत्वात् ।

(पा-३,४.२१.३; अकि-२,१७३.११-१६; रो-३,३७९; भा-२/११) व्यादाय स्वपिति इति उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,४.२१.३; अकि-२,१७३.११-१६; रो-३,३७९; भा-३/११) किम् पुनः कारणम् न सिध्यति ।

(पा-३,४.२१.३; अकि-२,१७३.११-१६; रो-३,३७९; भा-४/११) अपूर्वकालत्वात् ।

(पा-३,४.२१.३; अकि-२,१७३.११-१६; रो-३,३७९; भा-५/११) पूर्वम् हि असौ स्वपिति पश्चात् व्याददाति ।

(पा-३,४.२१.३; अकि-२,१७३.११-१६; रो-३,३७९; भा-६/११) न वा स्वप्नस्य अवकालत्वात् ।

(पा-३,४.२१.३; अकि-२,१७३.११-१६; रो-३,३७९; भा-७/११) न वा कर्तव्यम् ।

(पा-३,४.२१.३; अकि-२,१७३.११-१६; रो-३,३७९; भा-८/११) किम् कारणम् ।

(पा-३,४.२१.३; अकि-२,१७३.११-१६; रो-३,३७९; भा-९/११) स्वप्नस्य अवकालत्वात् ।

(पा-३,४.२१.३; अकि-२,१७३.११-१६; रो-३,३७९; भा-१०/११) अवरकालः स्वप्नः ।

(पा-३,४.२१.३; अकि-२,१७३.११-१६; रो-३,३७९; भा-११/११) अवश्यम् असौ व्यादाय मुहुर्तम् अपि स्वपिति ।

(पा-३,४.२४; अकि-२,१७३.१८-२५; रो-३,३७९-३८१; भा-१/१३) किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।

(पा-३,४.२४; अकि-२,१७३.१८-२५; रो-३,३७९-३८१; भा-२/१३) कथम् च प्राप्ते कथम् वा अप्राप्ते ।

(पा-३,४.२४; अकि-२,१७३.१८-२५; रो-३,३७९-३८१; भा-३/१३) आभीक्ष्ण्ये इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते ।

(पा-३,४.२४; अकि-२,१७३.१८-२५; रो-३,३७९-३८१; भा-४/१३) किम् च अतः ।

(पा-३,४.२४; अकि-२,१७३.१८-२५; रो-३,३७९-३८१; भा-५/१३) यदि प्राप्ते आभीक्ष्ण्ये अनिष्टा विभाषा प्राप्नोति अन्यत्र च इष्टा न सिध्यति ।

(पा-३,४.२४; अकि-२,१७३.१८-२५; रो-३,३७९-३८१; भा-६/१३) अथ अप्राप्ते ।

(पा-३,४.२४; अकि-२,१७३.१८-२५; रो-३,३७९-३८१; भा-७/१३) अग्रादिषु अप्राप्तविधेः समासप्रतिषेधः ।

(पा-३,४.२४; अकि-२,१७३.१८-२५; रो-३,३७९-३८१; भा-८/१३) अग्रादिषु अप्राप्तविधेः समासप्रतिषेधः वक्तव्यः ।

(पा-३,४.२४; अकि-२,१७३.१८-२५; रो-३,३७९-३८१; भा-९/१३) सः तर्हि वक्तव्यः ।

(पा-३,४.२४; अकि-२,१७३.१८-२५; रो-३,३७९-३८१; भा-१०/१३) न वक्तव्यः ।

(पा-३,४.२४; अकि-२,१७३.१८-२५; रो-३,३७९-३८१; भा-११/१३) उक्तम् एतत् अमा एव अव्ययेन इति अत्र एवकारकरणस्य प्रजोजनम् ।

(पा-३,४.२४; अकि-२,१७३.१८-२५; रो-३,३७९-३८१; भा-१२/१३) अमा एव अव्ययेन यत् तुल्यविधानम् उपपदम् तत्र समासः यथा स्यात् ।

(पा-३,४.२४; अकि-२,१७३.१८-२५; रो-३,३७९-३८१; भा-१३/१३) अमा च अन्येन च यत् तुल्यविधानम् उपपदम् तत्र मा भूत् इति ।

(पा-३,४.२६.१; अकि-२,१७४.२-८; रो-३,३८१; भा-१/१०) किमर्थम् स्वादुमि मकारान्तत्वम् निपात्यते न खमुञ् प्रकृतः सः अनुवर्तिष्यते ।

(पा-३,४.२६.१; अकि-२,१७४.२-८; रो-३,३८१; भा-२/१०) स्वादुमि मान्तनिपातनम् ईकाराभावार्थम् ।

(पा-३,४.२६.१; अकि-२,१७४.२-८; रो-३,३८१; भा-३/१०) स्वादुमि मान्तनिपातनम् क्रियते ईकाराभावार्थम् ।

(पा-३,४.२६.१; अकि-२,१७४.२-८; रो-३,३८१; भा-४/१०) ईकारः मा भूत् इति ।

(पा-३,४.२६.१; अकि-२,१७४.२-८; रो-३,३८१; भा-५/१०) स्वाद्वीम् कृत्वा यवागूम् भुङ्क्ते ।

(पा-३,४.२६.१; अकि-२,१७४.२-८; रो-३,३८१; भा-६/१०) स्वादुङ्कारम् यवागूम् भुङ्क्ते ।

(पा-३,४.२६.१; अकि-२,१७४.२-८; रो-३,३८१; भा-७/१०) च्व्यन्तस्य च मकारान्तार्थम् ।

(पा-३,४.२६.१; अकि-२,१७४.२-८; रो-३,३८१; भा-८/१०) च्व्यन्तस्य च मकारान्तत्वम् निपात्यते ।

(पा-३,४.२६.१; अकि-२,१७४.२-८; रो-३,३८१; भा-९/१०) अस्वादु स्वादु कृत्वा भुङ्क्ते ।

(पा-३,४.२६.१; अकि-२,१७४.२-८; रो-३,३८१; भा-१०/१०) स्वादुङ्कारम् भुङ्क्ते ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-१/७१) आ च तुमुनः समानाधिकरणे ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-२/७१) आ च तुमुनः प्रत्ययाः समानाधिकरणे वक्तव्याः ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-३/७१) केन ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-४/७१) अनुप्रयोगेण ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-५/७१) किम् प्रयोजनम् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-६/७१) स्वादुङ्कारम् यवागूः भुज्यते देवदत्तेन इति देवदत्ते तृतीया यथा स्यात् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-७/७१) किम् च कारणम् न स्यात् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-८/७१) णमुला अभिहितः कर्ता इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-९/७१) ननु च भुजिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-१०/७१) यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया यवाग्वाम् द्वितीया प्राप्नोति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-११/७१) किम् कारणम् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-१२/७१) णमुला अनभिहितम् कर्म इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-१३/७१) यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-१४/७१) इह हि स्वादुङ्कारम् यवागूम् भुङ्क्ते देवदत्तः इति यवाग्वाम् द्वितीया न स्यात् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-१५/७१) किम् कारणम् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-१६/७१) णमुला अभिहितम् कर्म इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-१७/७१) ननु च भुजिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-१८/७१) यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-१९/७१) किम् कारणम् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-२०/७१) णमुला अनभिहितः कर्ता इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-२१/७१) अथ अनेन क्त्वायाम् अर्थः ॒ पक्त्वा ओदनः भुज्यते देवदत्तेन इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-२२/७१) बाढम् अर्थः ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-२३/७१) देवदत्ते तृतीया यथा स्यात् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-२४/७१) किम् च कारणम् न स्यात् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-२५/७१) क्त्वया अभिहितः कर्ता इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-२६/७१) ननु च भुजिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-२७/७१) यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ओदने द्वितीया प्राप्नोति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-२८/७१) किम् कारणम् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-२९/७१) क्त्वया अनभिहितम् कर्म इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-३०/७१) यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-३१/७१) इह हि पक्त्वा ओदनम् भुङ्क्ते देवदत्तः इति ओदने द्वितीया न स्यात् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-३२/७१) किम् कारणम् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-३३/७१) क्त्वया अभिहितम् कर्म इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-३४/७१) ननु च भुजिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-३५/७१) यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-३६/७१) किम् कारणम् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-३७/७१) क्त्वया अनभिहितः कर्ता इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-३८/७१) अथ अनेन तुमुनि अर्थः ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-३९/७१) भोक्तुम् ओदनः पच्यते देवदत्तेन ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-४०/७१) बाढम् अर्थः ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-४१/७१) देवदत्ते तृतीया यथा स्यात् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-४२/७१) किम् च कारणम् न स्यात् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-४३/७१) तुमुना अभिहितः कर्ता इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-४४/७१) ननु च पचिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-४५/७१) यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ओदने द्वितीया प्राप्नोति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-४६/७१) किम् कारणम् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-४७/७१) तुमुना अनभिहितम् कर्म इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-४८/७१) यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-४९/७१) इह हि भोक्तुम् ओदनम् पचति देवदत्तः इति ओदने द्वितीया न स्यात् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-५०/७१) किम् कारणम् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-५१/७१) तुमुना अभिहितम् कर्म इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-५२/७१) ननु च पचिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-५३/७१) यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-५४/७१) किम् कारणम् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-५५/७१) तुमुना अनभिहितः कर्ता इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-५६/७१) अथ अनेन इह अर्थः पक्त्वा ओदनम् ग्रामः गम्यते देवदत्तेन ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-५७/७१) बाढम् अर्थः ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-५८/७१) देवदत्ते तृतीया यथा स्यात् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-५९/७१) किम् च कारणम् न स्यात् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-६०/७१) क्त्वया अभिहितः कर्ता इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-६१/७१) ननु च गमिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-६२/७१) यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया यत् उक्तम् ओदने द्वितीया प्राप्नोति इति सः दोषः न जायते ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-६३/७१) तत् तर्हि वक्तव्यम् आ च तुमुनः समानाधिकरणे इति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-६४/७१) न वक्तव्यम् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-६५/७१) अव्ययकृतः भावे भवन्ति इति भावे भविष्यन्ति ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-६६/७१) किम् वक्तव्यम् एतत् ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-६७/७१) न हि ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-६८/७१) कथम् अनुच्यमानम् गंस्यते ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-६९/७१) तुमर्थे इति वर्तते ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-७०/७१) तुमर्थः च कः ।

(पा-३,४.२६.२; अकि-२,१७४.९-१७५.२२; रो-३,३८२-३८५; भा-७१/७१) भावः ।

(पा-३,४.३२; अकि-२,१७५.२४-२६; रो-३,३८५; भा-१/७) ऊलोपश्चास्यान्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् ।

(पा-३,४.३२; अकि-२,१७५.२४-२६; रो-३,३८५; भा-२/७) कथम् गोष्पदम् वृष्टः देवः इति ।

(पा-३,४.३२; अकि-२,१७५.२४-२६; रो-३,३८५; भा-३/७) प्रातिः पूरणकर्मा ।

(पा-३,४.३२; अकि-२,१७५.२४-२६; रो-३,३८५; भा-४/७) तस्मात् एषः कः ।

(पा-३,४.३२; अकि-२,१७५.२४-२६; रो-३,३८५; भा-५/७) यदि कः विभतीनाम् श्रवणम् प्राप्नोति ।

(पा-३,४.३२; अकि-२,१७५.२४-२६; रो-३,३८५; भा-६/७) श्रूयन्ते एव अत्र विभक्तयः ।

(पा-३,४.३२; अकि-२,१७५.२४-२६; रो-३,३८५; भा-७/७) तत् यथा एकेन गोष्पदप्रेण ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-१/२०) हनः करणे अनर्थकम् वचनम् हिंसार्थेभ्यः णमुल्विधानात् ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-२/२०) हनः करणे अनर्थकम् वचनम् ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-३/२०) किम् कारणम् ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-४/२०) हिंसार्थेभ्यः णमुल्विधानात् ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-५/२०) हिंसार्थेभ्यः णमुल्विधीयते ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-६/२०) तेन एव सिद्धम् ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-७/२०) अर्थवत् तु अहिंसार्थस्य विधानात् ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-८/२०) अर्थवत् तु हन्तेः णमुल्वचनम् ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-९/२०) कः अर्थः ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-१०/२०) अहिंसार्थस्य विधानात् ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-११/२०) अहिंसार्थानाम् णमुल् यथा स्यात् ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-१२/२०) अस्ति पुनः अयम् क्व चित् हन्तिः अहिंसार्थः यदर्थः विधिः स्यात् ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-१३/२०) अस्ति इति आह ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-१४/२०) पाण्युपघातम् वेदिम् हन्ति ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-१५/२०) नित्यसमासार्थम् च ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-१६/२०) नित्यसमासार्थम् च हिंसार्थात् अपि हन्तेः अनेन विधिः एषितव्यः ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-१७/२०) कथम् पुनः इच्छता अपि हिंसार्थात् हन्तेः अनेन विधिः लभ्यः ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-१८/२०) अनेन अस्तु तेन वा इति तेन स्यात् विप्रतिषेधेन ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-१९/२०) हन्तेः पूर्वविप्रतिषेधः वार्त्तिकेन एव ज्ञापितः ।

(पा-३,४.३७; अकि-२,१७६.२-१४; रो-३,३८६; भा-२०/२०) यत् अयम् नित्यसमासार्थम् च इति आह तत् ज्ञापयति आचार्यः हिंसार्थात् अपि हन्तेः अनेन विधिः भवति इति ।

(पा-३,४.४१; अकि-२,१७६.१६-१८; रो-३,३८७; भा-१/७) इह कस्मात् न भवति ।

(पा-३,४.४१; अकि-२,१७६.१६-१८; रो-३,३८७; भा-२/७) ग्रामे बद्धः इति ।

(पा-३,४.४१; अकि-२,१७६.१६-१८; रो-३,३८७; भा-३/७) एवम् वक्ष्यामि ।

(पा-३,४.४१; अकि-२,१७६.१६-१८; रो-३,३८७; भा-४/७) अधिकरणे बन्धः सञ्ज्ञायाम् ।

(पा-३,४.४१; अकि-२,१७६.१६-१८; रो-३,३८७; भा-५/७) ततः कर्त्रोः जीवपुरुषयोः नशिवहोः इति ।

(पा-३,४.४१; अकि-२,१७६.१६-१८; रो-३,३८७; भा-६/७) कथम् अट्टालिकाबन्धम् बद्धः चण्डालिकाबनधम् बद्धः ।

(पा-३,४.४१; अकि-२,१७६.१६-१८; रो-३,३८७; भा-७/७) उपमाने कर्मणि च इति एवम् भविष्यति ।

(पा-३,४.६०; अकि-२,१७६.२०; रो-३,३८७; भा-१/३) अयुक्तः अयम् निर्देशः ।

(पा-३,४.६०; अकि-२,१७६.२०; रो-३,३८७; भा-२/३) तिरश्चि इति भवितव्यम् ।

(पा-३,४.६०; अकि-२,१७६.२०; रो-३,३८७; भा-३/३) सौत्रः अयम् निर्देशः ।

(पा-३,४.६२; अकि-२,१७६.२२-१७७.३; रो-३,३८७-३८८; भा-१/६) अर्थग्रहणम् किमर्थम् ।

(पा-३,४.६२; अकि-२,१७६.२२-१७७.३; रो-३,३८७-३८८; भा-२/६) नाधाप्रत्यये इति इयति उच्यमाने इह एव स्यात् द्विधाकृत्य ।

(पा-३,४.६२; अकि-२,१७६.२२-१७७.३; रो-३,३८७-३८८; भा-३/६) इह न स्यात् द्वैधङ्कृत्य ।

(पा-३,४.६२; अकि-२,१७६.२२-१७७.३; रो-३,३८७-३८८; भा-४/६) अर्थग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-३,४.६२; अकि-२,१७६.२२-१७७.३; रो-३,३८७-३८८; भा-५/६) नाधाप्रत्यये सिद्धम् भवति यः च अन्यः तेन समानार्थः ।

(पा-३,४.६२; अकि-२,१७६.२२-१७७.३; रो-३,३८७-३८८; भा-६/६) अथ प्रत्ययग्रहणम् किमर्थम् इह मा भूत् हिरुक् कृत्वा पृथक् कृत्वा

(पा-३,४.६४; अकि-२,१७७.५; रो-३,३८८; भा-१/३) अयुक्तः अयम् निर्देशः ।

(पा-३,४.६४; अकि-२,१७७.५; रो-३,३८८; भा-२/३) अनूचि इति भवितव्यम् ।

(पा-३,४.६४; अकि-२,१७७.५; रो-३,३८८; भा-३/३) सौत्रः अयम् निर्देशः ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-१/८६) किमर्थम् इदम् उच्यते ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-२/८६) कर्तरि कृद्वचनम् अनादेशे स्वाऋथविज्ञानात् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-३/८६) कर्तरि कृतः भवन्ति इति उच्यते अनादेशे स्वाऋथविज्ञानात् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-४/८६) अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-५/८६) तत् यथा ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-६/८६) गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-७/८६) एवम् इमे अपि प्रत्ययाः स्वार्थे स्युः ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-८/८६) स्वार्थे मा भूवन् कर्तरि यथा स्युः इति एवमर्थम् इदम् उच्यते ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-९/८६) न एतत् अस्ति प्रयोजनम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-१०/८६) यम् इच्छति स्वार्थे आह तम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-११/८६) भावे घञ् भवति इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-१२/८६) कर्मणि तर्हि मा भूवन् इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-१३/८६) कर्मणि अपि यम् इच्छति आह तम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-१४/८६) धः कर्मणि ष्ट्रन् इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-१५/८६) करणाधिकरणयोः तर्हि मा भूवन् इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-१६/८६) करणाधिकरणयोः अपि यम् इच्छति आह तम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-१७/८६) ल्युट् करणाधिकरणयोः भवति इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-१८/८६) सम्प्रदानापादानयोः तर्हि मा भूवन् इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-१९/८६) सम्प्रदानापादानयोः अपि यम् इच्छति आह तम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-२०/८६) दाशगोघ्नौ सम्प्रदाने भीमादयः अपादाने इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-२१/८६) यः इदानीम् अन्यः प्रत्ययः शेषः सः अन्तरेण वचनम् कर्तरि एव भविष्यति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-२२/८६) तत् एव तर्हि प्रयोजनम् स्वार्थे मा भूवन् इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-२३/८६) ननु च उक्तम् यम् इच्छति स्वार्थे आह तम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-२४/८६) भावे घञ् भवति इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-२५/८६) अन्यः सः भावः बाह्यः प्रकृत्यर्थात् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-२६/८६) अनेन इदानीम् आभ्यन्तरे भावे स्युः ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-२७/८६) तत्र मा भूवन् इति कर्तृग्रहणम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-२८/८६) कः पुनः अनयोः भावयोः विशेषः ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-२९/८६) उक्तः भावभेदः भाष्ये ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-३०/८६) अस्ति प्रयोजनम् एतत् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-३१/८६) किम् तर्हि इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-३२/८६) तत्र ख्युनादिप्रतिषेधः नानावाक्यत्वात् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-३३/८६) तत्र ख्युनादीनाम् प्रतिषेधः वक्तव्यः ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-३४/८६) ख्युनादयः कर्तरि मा भूवन् इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-३५/८६) ननु च करणे खुनादयः विधीयन्ते ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-३६/८६) ते कर्तरि न भविष्यन्ति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-३७/८६) तेन च करणे स्युः अनेन च कर्तरि ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-३८/८६) ननु च अपवादत्वात् ख्युनादय्ः बाधकाः स्युः ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-३९/८६) न स्युः ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-४०/८६) किम् कारणम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-४१/८६) नानावाक्यत्वात् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-४२/८६) नानावाक्यम् तत् च इदम् च ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-४३/८६) समानवाक्ये अपवादैः उत्सर्गाह्ः बाध्यन्ते ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-४४/८६) नानावाक्यत्वात् बाधनम् न प्राप्नोति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-४५/८६) तद्वत् च कृत्येषु एवकारकरणम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-४६/८६) एवम् च कृत्वा कृत्येषु एवकारः क्रियते ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-४७/८६) तयोः एव कृत्यक्तखलर्थाः इति भावे च अकर्मकेभ्यः इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-४८/८६) किम् प्रयोजनम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-४९/८६) तत् च भव्याद्यर्थम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-५०/८६) भव्यादिषु समावेशः सिद्धः भवति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-५१/८६) गेयः माणवकः साम्नाम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-५२/८६) गेयानि माणवकेन सामानि इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-५३/८६) ऋषिदेवतयोः तु कृद्भिः समावेशवचनम् ज्ञापकम् असमावेशस्य ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-५४/८६) यत् अयम् कर्तरि च ऋषिदेवतयोः इति सिद्धे सति समावेशे समावेशार्थम् चकारम् शास्ति तत् ज्ञापयति आचार्यः न भवति समावेशः इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-५५/८६) किमर्थम् तर्हि कृत्येषु एवकारः क्रियते ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-५६/८६) एवकारकरणम् च चार्थे ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-५७/८६) एवकारकरणम् च चार्थे द्रष्टव्यम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-५८/८६) तयोः भावकर्मणोः कृत्या भवन्ति भव्यादीनाम् कर्तरि च इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-५९/८६) किम् प्रयोजनम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-६०/८६) तत् च भव्याद्यर्थम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-६१/८६) भव्यादिषु समावेशः सिद्धः भवति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-६२/८६) गेयः माणवकः साम्नाम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-६३/८६) गेयानि माणवकेन सामानि इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-६४/८६) यत् तावत् उच्यते ऋषिदेवतयोः तु कृद्भिः समावेशवचनम् ज्ञापकम् असमावेशस्य इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-६५/८६) न एतत् ज्ञापकसाध्यम् अपवादैः उत्सर्गाः अपवादैः बाध्यन्ते इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-६६/८६) एषः एव न्यायः यत् उत अपवादैः उत्सर्गाः बाध्येरन् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-६७/८६) ननु च उक्तम् नानावाक्यत्वात् बाधनम् न प्राप्नोति इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-६८/८६) न विदेशस्थम् इति कृत्वा नानावाक्यम् भवति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-६९/८६) विदेशस्थम् अपि सत् एकवाक्यम् भवति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-७०/८६) तत् यथा द्वितीये अध्याये लुक् उच्यते ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-७१/८६) तस्य चतुर्थषष्ठयोः अलुक् उच्यते अपवादः ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-७२/८६) यत् अपि उच्यते एवकारकरणम् च चार्थे इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-७३/८६) कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-७४/८६) कथम् एवकारः चार्थे वर्तते ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-७५/८६) सः एषः एवकारः स्वार्थे वर्तते ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-७६/८६) किम् प्रयोजनम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-७७/८६) ज्ञापकार्थम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-७८/८६) एतत् ज्ञापयति अचार्यः इतः उत्तरम् समावेशः भवति इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-७९/८६) किम् एतस्य ज्ञपने प्रयोजनम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-८०/८६) तत् च भव्याद्यर्थम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-८१/८६) भव्यादिषु समावेशः सिद्धः भवति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-८२/८६) गेयः माणवकः साम्नाम् ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-८३/८६) गेयानि माणवकेन सामानि इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-८४/८६) यदि एतत् ज्ञप्यते इह अपि समावेशः प्राप्नोति दाशगोघ्नौ सम्प्रदाने भीमादयः अपादाने इति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-८५/८६) अत्र अपि सिद्धम् भवति ।

(पा-३,४.६७.१; अकि-२,१७७.७-१७९.७; रो-३,३८८-३९३; भा-८६/८६) यत् अयम् आदिकर्मणि क्तः कर्तरि च इति सिद्धे समावेशे समावेशम् शास्ति तत् ज्ञपयति आचार्यः प्राक् अमुतः समावेशः भवति इति ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-१/२७) किम् पुनः अयम् प्रत्ययनियमः ॒ धातोः परः अकारः अकशब्दः वा नियोगतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च भवति प्रत्ययसञ्ज्ञः च इति ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-२/२७) आहोस्वित् सञ्ज्ञानियमः ॒ धातोः परः अकारः अकशब्दः वा स्वभावतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च भवति प्रत्ययसञ्ज्ञः च इति ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-३/२७) कः च अत्र विशेषः ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-४/२७) तत्र प्रत्ययनियमे अनिष्टप्रसङ्गः ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-५/२७) तत्र प्रत्ययनियमे सति अनिष्टम् प्राप्नोति ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-६/२७) काष्ठभित् अब्राह्मणः , बलभित् अब्राह्मणः ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-७/२७) एषः अपि नियोगतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च स्यात् प्रत्ययसञ्ज्ञः च ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-८/२७) सञ्ज्ञानियमे सिद्धम् ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-९/२७) सञ्ज्ञानियमे सति सिद्धम् भवति ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-१०/२७) यदि सञ्ज्ञानियमः विभक्तादिषु दोषः ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-११/२७) विभक्ताः भ्रातरः पीताः गावः इति न सिध्यति ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-१२/२७) प्रत्ययनियमे पुनः सति परिगणिताभ्यः प्रकृतिभ्यः परः क्तः नियोगतः कर्तारम् आह ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-१३/२७) न च इमाः तत्र परिगण्यन्ते प्रकृतयः ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-१४/२७) विभक्तादिषु च अप्राप्तिः प्रकृतेः प्रत्ययपरवचनात् ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-१५/२७) विभक्तादिषु च प्रत्ययनियमस्य अप्राप्तिः ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-१६/२७) किम् कारणम् ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-१७/२७) प्रकृतेः प्रत्ययपरवचनात् ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-१८/२७) परिगणिताभ्यः प्रकृतिभ्यः परः क्तः स्वभावतः कर्तारम् आह ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-१९/२७) न च इमाः तत्र परिगण्यन्ते ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-२०/२७) न तर्हि इदानीम् अयम् साधुः भवति ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-२१/२७) भवति साधुः न तु कर्तरि ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-२२/२७) कथम् तर्हि इदानीम् अत्र कर्तृत्वम् गम्यते ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-२३/२७) अकारः मत्वर्थीयः ॒ विभक्तम् एषाम् अस्ति विभक्ताः ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-२४/२७) पीतम् एषाम् अस्ति पिताः इति ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-२५/२७) अथ वा उत्तरपदलोपः अत्र द्रष्टव्यः ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-२६/२७) विभक्तधनाः विभक्ताः ।

(पा-३,४.६७.२; अकि-२,१७९.८-२५; रो-३,३९३-३९६; भा-२७/२७) पीतोदकाः पिताः इति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-१/७०) किमर्थम् इदम् उच्यते ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-२/७०) लः एषु साधनेषु यथा स्यात् कर्तरि च कर्मणि च भावे च अकर्मकेभ्यः इति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-३/७०) न एतत् अस्ति प्रयोजनम् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-४/७०) भावकर्मणोः आत्मनेपदम् विधीयते शेषात् कर्तरि परस्मैपदम् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-५/७०) एतावान् च लः यत् उत परस्मैपदम् आत्मनेपदम् च ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-६/७०) सः च अयम् एवम् विहितः ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-७/७०) अतः उत्तरम् पठति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-८/७०) लग्रहणम् सकर्मकनिवृत्त्यर्थम् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-९/७०) लग्रहणम् क्रियते सकर्मकनिवृत्त्यर्थम् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-१०/७०) सकर्मकाणाम् भावे लः मा भूते इति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-११/७०) यदि पुनः तत्र एव अकर्मकग्रहणम् क्रियेत ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-१२/७०) तत्र अकर्मकग्रहणम् कर्तव्यम् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-१३/७०) ननु च इह अपि क्रियते भावे च अकर्मकेभ्यः इति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-१४/७०) परार्थम् एतत् भविष्यति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-१५/७०) तयोः एव कृत्यक्तखलर्थाः भावे च अकर्मकेभ्यः ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-१६/७०) यावत् इह लग्रहणम् तावत् तत्र अकर्मकग्रहणम् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-१७/७०) इह वा लग्रहणम् क्रियेत तत्र वा अकर्मकग्रहणम् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-१८/७०) कः नु अत्र विशेषः ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-१९/७०) अयम् अस्ति विशेषः ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-२०/७०) इह लग्रहणे क्रियमाणे आनः कर्तरि सिद्धः भवति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-२१/७०) तत्र पुनः अकर्मकग्रहणे क्रियमाणे आनः कर्तरि न प्राप्नोति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-२२/७०) तत्र अपि अकर्मकग्रहणे क्रियमाणे आनः कर्तरि सिद्धः भवति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-२३/७०) कथम् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-२४/७०) भावकर्मणोः इति अतः अन्यत् यत् आत्मनेपदानुक्रमणम् सर्वम् तत् कर्त्रर्थम् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-२५/७०) विप्रतिषेधात् वा आनः कर्तरि ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-२६/७०) विप्रतिषेधात् वा आनः कर्तरि भविष्यति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-२७/७०) तत्र भावकर्मणोः इति एतत् अस्तु कर्तरि कृत् इति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-२८/७०) कर्तरि कृत् इति एतत् भविष्यति विप्रतिषेधेन ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-२९/७०) सर्वप्रसङ्गः तु ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-३०/७०) सर्वेभ्यः तु धातुभ्यः आनः कर्तरि प्राप्नोति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-३१/७०) परस्मैपदिभ्यः अपि ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-३२/७०) न एषः दोषः ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-३३/७०) अनुदात्तङितः इति एषः योगः नियमार्थः भविष्यति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-३४/७०) यदि एषः योगः नियमार्थः विधिः न प्रकल्पते ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-३५/७०) आस्ते शेते इति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-३६/७०) अथ विध्यर्थः आनस्य नियमः न प्राप्नोति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-३७/७०) आसीनः शयानः ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-३८/७०) तथा नेः विशः इति एवमादि अनुक्रमणम् यदि नियमाऋथः विधिः न प्रकल्पते ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-३९/७०) अथ विध्यर्थः आनस्य नियमः न प्राप्नोति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-४०/७०) अस्तु तर्हि नियमार्थम् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-४१/७०) ननु च उक्तम् विधिः न प्रकल्पते इति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-४२/७०) विधिः च प्रक्ल्̥प्तः ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-४३/७०) कथम् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-४४/७०) भावकर्मणोः इति अत्र अनुदात्तङितः इति एतत् अनुवर्तिष्यते ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-४५/७०) यदि अनुवर्तते एवम् अपि अनुदात्तङितः एव भावकर्मणोः आत्मनेपदम् प्राप्नोति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-४६/७०) एवम् तर्हि योगविभागः करिष्यते ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-४७/७०) अनुदात्तङितः आत्मनेपदम् भवति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-४८/७०) ततः भावकर्मणोः ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-४९/७०) ततः कर्तरि ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-५०/७०) कर्तरि च आत्मनेपदम् भवति अनुदात्तङितः इति एव ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-५१/७०) भावकर्मणोः इति निवृत्तम् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-५२/७०) ततः कर्मव्यतिहारे ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-५३/७०) कर्तरि इति एव अनुवर्तते ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-५४/७०) अनुदात्तङितः इति अपि निवृत्तम् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-५५/७०) यत् अपि उच्यते नेः विशः इति एवमादि अनुक्रमणम् यदि नियमार्थम् विधिः न प्रकल्पते ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-५६/७०) अथ विध्यर्थः आनस्य नियमः न प्राप्नोति इति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-५७/७०) अस्तु विध्यर्थम् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-५८/७०) ननु च उक्तम् आनस्य नियमः न प्राप्नोति इति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-५९/७०) न एषः दोषः ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-६०/७०) यथा एव अत्र अप्राप्ताः तङः भवन्ति एवम् आनः अपि भविष्यति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-६१/७०) सर्वत्र अप्रसङ्गः तु ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-६२/७०) सर्वेषु तु साधनेषु आनः न प्राप्नोति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-६३/७०) विप्रतिषेधात् वा आनः कर्तरि इति भावकर्मणोः न स्यात् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-६४/७०) कर्तरि एव स्यात् ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-६५/७०) इह पुनः लग्रहणे क्रियमाणे कर्तरि कृत् इति एतत् अस्तु लः कर्मणि च भावे च अकर्मकेभ्यः इति लः कर्मणि च भावे च अकर्मकेभ्यः इति एतत् भविष्यत् विप्रतिषेधेन ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-६६/७०) सर्वप्रसङ्गः तु ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-६७/७०) लादेशः सर्वेषु साधनेषु प्राप्नोति ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-६८/७०) शतृक्वसूच भावकर्मणोः अपि प्राप्नुतः ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-६९/७०) न एषः दोषः ।

(पा-३,४.६९; अकि-२,१७९.२७-१८१.७; रो-३,३९६-४००; भा-७०/७०) शेषात् परस्मैपदम् कर्तरि इति एवम् तौ कर्तारम् ह्रियेते ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-१/३१) लादेशे सर्वप्रसङ्गः अविशेषात् ल्̥आदेशे सर्वप्रसङ्गः ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-२/३१) सर्वस्य लकारस्य आदेशः प्राप्नोति ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-३/३१) अस्य अपि प्राप्नोति ॒ लुनाति लभते ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-४/३१) किम् कारणम् ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-५/३१) अविशेषात् ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-६/३१) न हि कः चित् विशेषः उपादीयते ॒ एवञ्जातीयकस्य लकारस्य आदेशः भवति इति ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-७/३१) अनुपादीयमाने विशेषे सर्वप्रसङ्गः ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-८/३१) अर्थवद्ग्रहणात् सिद्धम् ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-९/३१) अर्थवतः लकारस्य ग्रहणम् न च एषः अर्तह्वत् ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-१०/३१) अर्थवद्ग्रहणात् सिद्धम् इति चेत् न वर्णग्रहणेषु । अर्थवद्ग्रहणात् सिद्धम् इति चेत् तत् न ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-११/३१) किम् कारणम् ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-१२/३१) वर्णग्रहणम् इदम् ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-१३/३१) न च एतत् वर्णग्रहणेषु भवति अर्थवद्ग्रहणे न अनर्थकस्य इति ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-१४/३१) तस्मात् विशिष्तग्रहणम् ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-१५/३१) तस्मात् विशिष्तस्य लकारस्य ग्रहणम् कर्तव्यम् ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-१६/३१) न कर्तव्यम् ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-१७/३१) धातोः इति वर्तते ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-१८/३१) एवम् अपि शाला माला मल्लः इति अत्र प्राप्नोति ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-१९/३१) उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-२०/३१) एवम् अपि नन्दनः अत्र प्राप्नोति ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-२१/३१) इत्सञ्ज्ञा अत्र बाधिका भविष्यति ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-२२/३१) इह अपि तर्हि बाधेत ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-२३/३१) पचति पठति इति ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-२४/३१) इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-२५/३१) इदम् अस्ति इत्कार्यम् लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-२६/३१) लिति इति उच्यते ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-२७/३१) न च अत्र लितम् पश्यामः ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-२८/३१) अथ अपि कथम् चित् वचनात् वा अनुवर्तनात् वा इत्सञ्ज्ञ्कानाम् आदेशः स्यात् एवम् अपि न दोषः ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-२९/३१) आचार्यप्रवृत्तिः ज्ञापयति न लादेशे लित्कार्यम् भवति इति यत् अयम् णलम् लितम् करोति ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-३०/३१) अथ अपि उणादयः व्युत्पाद्यन्ते एवम् अपि नो दोषः ।

(पा-३,४.७७.१; अकि-२,१८१.८-२५; रो-३,४००-४०२; भा-३१/३१) क्रियते विशिष्टग्रहणम् लस्य इति ।

(पा-३,४.७७.२; अकि-२,१८२.१-६; रो-३,४०२; भा-१/१२) लादेशः वर्णविधेः पूर्वविप्रतिषिद्धम् । लादेशः वर्णविधेः भवति पूर्वविप्रतिषेधेन ।

(पा-३,४.७७.२; अकि-२,१८२.१-६; रो-३,४०२; भा-२/१२) लादेशस्य अवकाशः पचतु पठतु ।

(पा-३,४.७७.२; अकि-२,१८२.१-६; रो-३,४०२; भा-३/१२) वर्णविधेः अवकाशः दध्यत्र मध्वत्र ।

(पा-३,४.७७.२; अकि-२,१८२.१-६; रो-३,४०२; भा-४/१२) इह उभयम् प्राप्नोति ।

(पा-३,४.७७.२; अकि-२,१८२.१-६; रो-३,४०२; भा-५/१२) पचतु अत्र ।

(पा-३,४.७७.२; अकि-२,१८२.१-६; रो-३,४०२; भा-६/१२) पठतु अत्र ।

(पा-३,४.७७.२; अकि-२,१८२.१-६; रो-३,४०२; भा-७/१२) लादेशः भवति पूर्वविप्रतिषेधेन ।

(पा-३,४.७७.२; अकि-२,१८२.१-६; रो-३,४०२; भा-८/१२) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-३,४.७७.२; अकि-२,१८२.१-६; रो-३,४०२; भा-९/१२) न वक्तव्यः ।

(पा-३,४.७७.२; अकि-२,१८२.१-६; रो-३,४०२; भा-१०/१२) उक्तम् वा ।

(पा-३,४.७७.२; अकि-२,१८२.१-६; रो-३,४०२; भा-११/१२) किम् उक्तम् ।

(पा-३,४.७७.२; अकि-२,१८२.१-६; रो-३,४०२; भा-१२/१२) लादेशः वर्णविधेः इति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-१/४०) टितः एत्वे आत्मनेपदेषु आनप्रतिषेधः ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-२/४०) टितः एत्वे आत्मनेपदेषु आनप्रतिषेधः वक्तव्यः ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-३/४०) पचमानः यजमानः ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-४/४०) टितः इति एत्वम् प्राप्नोति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-५/४०) उक्तम् वा ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-६/४०) किम् उक्तम् ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-७/४०) ज्ञापकम् वा सानुबन्धकस्य आदेशवचने इत्कार्याभावस्य इति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-८/४०) न एतत् अस्ति उक्तम् ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-९/४०) एवम् किल तत् उक्तम् स्यात् यदि एवम् विज्ञायेत ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-१०/४०) टित् आत्मनेपदम् टिदात्मनेपदम् ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-११/४०) टिदात्मनेपदानाम् इति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-१२/४०) तत् च न ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-१३/४०) टितः लकारस्य यानि आत्मनेपदानि इति एवम् एतत् विज्ञायते ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-१४/४०) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-१५/४०) टित् आत्मनेपदम् टिदात्मनेपदम् ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-१६/४०) टिदात्मनेपदानाम् इति विज्ञायमाने अकुर्वि अत्र अपि प्रसज्येत ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-१७/४०) न एषः टित् ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-१८/४०) कः तर्हि ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-१९/४०) ठित् ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-२०/४०) सः च अवश्यम् ठित् कर्तव्यः आदिः मा भूत् इति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-२१/४०) कथम् इटः अत् इति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-२२/४०) इठः अत् इति वक्ष्यामि इति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-२३/४०) तत् च अवश्यम् वक्तव्यम् पर्यवपाद्यस्य मा भूत् ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-२४/४०) लविषीष्ट ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-२५/४०) इह तर्हि इषम् ऊर्जम् अहम् इतः आदि आतः लोपः इटि च इति आकारलोपः न प्राप्नोति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-२६/४०) तस्मात् टित् एषः ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-२७/४०) आदिः तर्हि कस्मात् न भवति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-२८/४०) सप्तदश आदेशाः स्थानेयोगत्वम् प्रयोजयन्ति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-२९/४०) तान् एकः न उत्सहते विहन्तुम् इति कृत्वा आदिः न भविष्यति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-३०/४०) पर्यवपाद्यस्य कस्मात् न भवति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-३१/४०) लविषीष्ट इति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-३२/४०) असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-३३/४०) इदम् तर्हि उक्तम् प्राकृतानाम् आत्मनेपदानाम् एत्वम् भवति इति ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-३४/४०) के च प्रकृताः ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-३५/४०) तादयः ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-३६/४०) आने मुक् ज्ञापकम् तु एत्वे टित्तङाम् ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-३७/४०) इशिसीरिचः डारौरःसु ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-३८/४०) टित् अटितः ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-३९/४०) प्रकृते तत् ।

(पा-३,४.७९; अकि-२,१८२.८-१८३.१; रो-३,४०३-४०४; भा-४०/४०) गुणे कथम् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-१/५०) णलः शित्करणम् सर्वादेशार्थम् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-२/५०) णल् शित् कर्तव्यः ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-३/५०) किम् प्रयोजनम् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-४/५०) सर्वादेशार्थम् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-५/५०) शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-६/५०) अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-७/५०) उक्तम् वा ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-८/५०) किम् उक्तम् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-९/५०) अनित्त्वात् सिद्धम् इति ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-१०/५०) णकारः क्रियते ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-११/५०) तस्य अनित्त्वात् सिद्धम् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-१२/५०) कः एषः परिहारः न्याय्यः ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-१३/५०) शकारम् असि चोदितः ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-१४/५०) णकारम् करिष्यामि शकारम् न करिष्यामि इति ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-१५/५०) णकारः अत्र क्रियेत शकारः वा कः नु अत्र विशेषः ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-१६/५०) अवश्यम् अत्र णकारः वृद्ध्यर्थः कर्तव्यः णिति इति वृद्धिः यथा स्यात् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-१७/५०) न अर्थः वृद्ध्यर्थेन णकारेण ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-१८/५०) णित्त्वे योगविभागः करिष्यते ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-१९/५०) इदम् अस्ति गोतः णित् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-२०/५०) ततः अल् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-२१/५०) अल् च णित् भवति ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-२२/५०) ततः उत्तमः वा इति ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-२३/५०) एवम् तर्हि लकारः क्रियते ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-२४/५०) तस्य अनित्त्वात् सिद्धम् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-२५/५०) कः एषः परिहारः न्याय्यः ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-२६/५०) शकारम् असि चोदितः ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-२७/५०) लकारम् करिष्यामि शकारम् न करिष्यामि इति ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-२८/५०) लकारः अत्र क्रियेत शकारः वा कः नु अत्र विशेषः ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-२९/५०) अवश्यम् एव अत्र स्वरार्थः लकारः कर्तव्यः लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-३०/५०) न एतत् अस्ति प्रयोजनम् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-३१/५०) धातुस्वरे कृते द्विर्वचनम् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-३२/५०) तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः भविष्यति ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-३३/५०) कथम् पुनः अयम् अन्तोदात्तः स्यात् यदा एकाच् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-३४/५०) व्यपदेशिवद्भावेन ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-३५/५०) यथा एव तर्हि व्यपदेशिवद्भावेन अन्तोदात्तः एवम् आद्युदात्तः अपि ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-३६/५०) तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः प्रसज्येत ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-३७/५०) सत्यम् एतत् ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-३८/५०) न तु इदम् लक्षणम् अस्ति धातोः आदिः उदात्तः भवति इति ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-३९/५०) इदम् पुनः अस्ति धातोः अन्तः उदात्तः भवति इति ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-४०/५०) सः असौ लक्षणेन अन्तोदात्तः ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-४१/५०) तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः भविष्यति ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-४२/५०) एतत् अपि आदेशे न अस्ति आदेशस्य अन्तः उदात्तः भवति इति ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-४३/५०) प्रकृतितः अनेन स्वरः लभ्यः ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-४४/५०) प्रकृतिः च अस्य यथा एव अन्तोदात्ता एवम् आद्युदात्ता अपि ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-४५/५०) द्विःप्रयोगे च अपि द्विर्वचने उभयोः अन्तोदात्तत्वम् प्रसज्येत ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-४६/५०) अनुदात्तम् पदम् एकवर्जम् इति न अस्ति यौगपद्येन सम्भवः ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-४७/५०) पर्यायः प्रसज्येत ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-४८/५०) तस्मात् स्वरार्थः लकारः कर्तव्यः ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-४९/५०) लकारः क्रियते ।

(पा-३,४.८२.१; अकि-२,१८३.३-१८४.२; रो-३,४०५-४०७; भा-५०/५०) तस्य अनित्त्वात् सिद्धम् ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-१/१८) अकारस्य शित्करणम् सर्वादेशार्थम् ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-२/१८) अकारः शित्कर्तव्यः ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-३/१८) किम् प्रयोजनम् ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-४/१८) सर्वादेशार्थम् ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-५/१८) शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-६/१८) अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-७/१८) ननु च अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण शकारम् सर्वादेशः भविष्यति ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-८/१८) अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-९/१८) किम् ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-१०/१८) अकारवचनम् समसङ्ख्यार्थम् ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-११/१८) सङ्ख्यातानुदेशः यथा स्यात् ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-१२/१८) तस्मात् शित्करणम् ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-१३/१८) तस्मात् शकारः कर्तव्यः ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-१४/१८) न कर्तव्यः ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-१५/१८) क्रियते न्यासे एव ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-१६/१८) प्रश्लिष्टनिर्देशः अयम् ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-१७/१८) अ* अ* अ ।

(पा-३,४.८२.२; अकि-२,१८४.३-११; रो-३,४०७-४०८; भा-१८/१८) सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-१/२१) लङ्वदतिदेशे जुस्भावप्रतिषेधः ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-२/२१) लङ्वदतिदेशे जुस्भावस्य प्रतिषेधः वक्तव्यः ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-३/२१) यान्तु वान्तु ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-४/२१) लङः शाकटायनस्य एव इति जुस्भावः प्राप्नोति ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-५/२१) उत्ववचनात् सिद्धम् ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-६/२१) उत्वम् अत्र बाधकम् भविष्यति ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-७/२१) अनवकाशाः हि विधयः बाधकाः भवन्ति ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-८/२१) सावकाशम् च उत्वम् ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-९/२१) कः अवकाशः ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-१०/२१) पचतु पठतु ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-११/२१) अत्र अपि इकारलोपः प्राप्नोति ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-१२/२१) तत् यथा एव उत्वम् इकारलोपम् बाधते एवम् जुस्भावम् अपि बाधते ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-१३/२१) न बाधते ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-१४/२१) किम् कारणम् ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-१५/२१) येन न अप्राप्ते तस्य बाधनम् भवति ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-१६/२१) न च अप्राप्ते इकारलोपे उत्वम् आरभ्यते ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-१७/२१) जुस्भावे पुनः प्राप्ते च अप्राप्ते च ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-१८/२१) अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् उत्वम् इकारलोपम् बाधते जुभावम् न बाधते ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-१९/२१) एवम् तर्हि वक्ष्यति तत्र लङ्ग्रहणस्य प्रयोजनम् ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-२०/२१) लङ् एव यः लङ् तत्र यथा स्यात् ।

(पा-३,४.८५; अकि-२,१८४.१४-२४; रो-३,४०८-४०९; भा-२१/२१) लङ्वद्भावेन यः लङ् तत्र मा भूत् इति ।

(पा-३,४.८७, ८९; अकि-२,१८५.३-९; रो-३,४०९; भा-१/११) हिन्योः उत्वप्रतिषेधः ।

(पा-३,४.८७, ८९; अकि-२,१८५.३-९; रो-३,४०९; भा-२/११) हिन्योः उकारस्य प्रतिषेधः वक्तव्यः ।

(पा-३,४.८७, ८९; अकि-२,१८५.३-९; रो-३,४०९; भा-३/११) लुनीहि लुनानि ।

(पा-३,४.८७, ८९; अकि-२,१८५.३-९; रो-३,४०९; भा-४/११) एः उः इति उत्वम् प्राप्नोति ।

(पा-३,४.८७, ८९; अकि-२,१८५.३-९; रो-३,४०९; भा-५/११) न वा उच्चारणसामर्थ्यात् ।

(पा-३,४.८७, ८९; अकि-२,१८५.३-९; रो-३,४०९; भा-६/११) न वा वक्तव्यः ।

(पा-३,४.८७, ८९; अकि-२,१८५.३-९; रो-३,४०९; भा-७/११) किम् कारणम् ।

(पा-३,४.८७, ८९; अकि-२,१८५.३-९; रो-३,४०९; भा-८/११) उच्चारणसामर्थ्यात् अत्र उत्वम् न भविष्यति ।

(पा-३,४.८७, ८९; अकि-२,१८५.३-९; रो-३,४०९; भा-९/११) अलघीयः च एव हि इकारोच्चारणम् उकारोच्चारणात् ।

(पा-३,४.८७, ८९; अकि-२,१८५.३-९; रो-३,४०९; भा-१०/११) इकारम् च उच्चारयति उकारम् च न उच्चारयति ।

(पा-३,४.८७, ८९; अकि-२,१८५.३-९; रो-३,४०९; भा-११/११) तस्य एतत् प्रयोजनम् उत्वम् मा भूत् इति ।

(पा-३,४.९३; अकि-२,१८५.११-१६; रो-३,४०९-४१०; भा-१/११) एतः ऐत्वे आद्गुणप्रतिषेधः ।

(पा-३,४.९३; अकि-२,१८५.११-१६; रो-३,४०९-४१०; भा-२/११) एतः ऐत्वे आद्गुणस्य प्रतिषेधः वक्तव्यः ।

(पा-३,४.९३; अकि-२,१८५.११-१६; रो-३,४०९-४१०; भा-३/११) पचाव इदम्

(पचावेदम्) ।

(पा-३,४.९३; अकि-२,१८५.११-१६; रो-३,४०९-४१०; भा-४/११) पचाम इदम्

(पचामेदम्) ।

(पा-३,४.९३; अकि-२,१८५.११-१६; रो-३,४०९-४१०; भा-५/११) आद्गुणे कृते एत ऐत् इति ऐत्वम् प्राप्नोति ।

(पा-३,४.९३; अकि-२,१८५.११-१६; रो-३,४०९-४१०; भा-६/११) न वा बहिरङ्गलक्षणत्वात् ।

(पा-३,४.९३; अकि-२,१८५.११-१६; रो-३,४०९-४१०; भा-७/११) न वा वक्तव्यः ।

(पा-३,४.९३; अकि-२,१८५.११-१६; रो-३,४०९-४१०; भा-८/११) किम् कारणम् ।

(पा-३,४.९३; अकि-२,१८५.११-१६; रो-३,४०९-४१०; भा-९/११) बहिरङ्गलक्षणत्वात् ।

(पा-३,४.९३; अकि-२,१८५.११-१६; रो-३,४०९-४१०; भा-१०/११) बहिरङ्गलक्षणः आद्गुणः अन्तरङ्गलक्षणम् ऐत्वम् ।

(पा-३,४.९३; अकि-२,१८५.११-१६; रो-३,४०९-४१०; भा-११/११) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-१/२६) यासुडादेः सीयुट्प्रतिषेधः ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-२/२६) यासुडादेः सीयुटः प्रतिषेधः वक्तव्यः ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-३/२६) चिनुयुः सुनुयुः ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-४/२६) लिङः सीयुट् इति सीयुट् प्राप्नोति ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-५/२६) न वा वाक्यापकर्षात् ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-६/२६) न वा वक्तव्यः ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-७/२६) किम् कारणम् ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-८/२६) वाक्यापकर्षात् ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-९/२६) वाक्यापकर्षात् यासुट् सीयुटम् बाधिष्यते ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-१०/२६) सुट्तिथोः तु अपकर्षविज्ञानम् ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-११/२६) सुटः तिथोः तु अपकर्षः विज्ञायेत ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-१२/२६) कृषीष्ट कृषीष्ठाः ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-१३/२६) अनादेः च सुड्वचनम् ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-१४/२६) अनादेः च सुट् वक्तव्यः ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-१५/२६) कृषीयास्ताम् कृषीयास्थाम् ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-१६/२६) तकारथकारादेः लिङः इति सुट् न प्राप्नोति ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-१७/२६) न वा तिथोः प्रधानभावात् तद्विशेषणम् लिङ्ग्रहणम् ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-१८/२६) न वा वक्तव्यम् ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-१९/२६) किम् कारणम् ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-२०/२६) तिथोः प्रधानभावात् ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-२१/२६) तिथौ एव तत्र प्रधानम् ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-२२/२६) तद्विशेषणम् लिङ्ग्रहणम् ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-२३/२६) न एवम् विज्ञायते ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-२४/२६) तकारथकारयोः लिङः इति ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-२५/२६) कथम् तर्हि ।

(पा-३,४.१०२; अकि-२,१८५.१८-१८६.१२; रो-३,४१०-४११; भा-२६/२६) तकारथकारयोः सुट् भवति तौ चेत् लिङः इति ।

(पा-३,४.१०३; अकि-२,१८६.१४-२३; रो-३,४११-४१२; भा-१/१३) किमर्थम् यासुटः ङित्त्वम् उच्यते ।

(पा-३,४.१०३; अकि-२,१८६.१४-२३; रो-३,४११-४१२; भा-२/१३) यासुटः ङिद्वचनम् पिदर्थम् ।

(पा-३,४.१०३; अकि-२,१८६.१४-२३; रो-३,४११-४१२; भा-३/१३) पिति वचनानि प्रयोजयन्ति ।

(पा-३,४.१०३; अकि-२,१८६.१४-२३; रो-३,४११-४१२; भा-४/१३) अथ किमर्थम् उदात्तवचनम् क्रियते ।

(पा-३,४.१०३; अकि-२,१८६.१४-२३; रो-३,४११-४१२; भा-५/१३) उदात्तवचनम् च ।

(पा-३,४.१०३; अकि-२,१८६.१४-२३; रो-३,४११-४१२; भा-६/१३) किम् ।

(पा-३,४.१०३; अकि-२,१८६.१४-२३; रो-३,४११-४१२; भा-७/१३) पिदर्थम् एव ।

(पा-३,४.१०३; अकि-२,१८६.१४-२३; रो-३,४११-४१२; भा-८/१३) आगमानुदात्तार्थम् वा ।

(पा-३,४.१०३; अकि-२,१८६.१४-२३; रो-३,४११-४१२; भा-९/१३) अथ वा एतत् ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति इति ।

(पा-३,४.१०३; अकि-२,१८६.१४-२३; रो-३,४११-४१२; भा-१०/१३) असति अन्यस्मिन् प्रयोजने ज्ञापकम् भवति ।

(पा-३,४.१०३; अकि-२,१८६.१४-२३; रो-३,४११-४१२; भा-११/१३) उक्तम् च एतत् यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति ।

(पा-३,४.१०३; अकि-२,१८६.१४-२३; रो-३,४११-४१२; भा-१२/१३) शक्यम् अनेन वक्तुम् यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति ।

(पा-३,४.१०३; अकि-२,१८६.१४-२३; रो-३,४११-४१२; भा-१३/१३) सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-१/४७) किम् इदम् जुसि आकारग्रहणम् नियमार्थम् आहोस्वित् प्रापकम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-२/४७) कथम् च नियमार्थम् स्यात् कथम् वा प्रापकम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-३/४७) यदि सिज्ग्रहणम् अनुवर्तते ततः नियमार्थम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-४/४७) अथ निवृत्तम् ततः प्रापकम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-५/४७) कः च अत्र विशेषः ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-६/४७) जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-७/४७) जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् कर्तव्यम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-८/४७) आतः सिज्लुगन्तात् इति वक्तव्यम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-९/४७) इह मा भूत् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-१०/४७) अकार्षुः अहार्षुः ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-११/४७) अस्तु तर्हि प्रापकम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-१२/४७) प्रापकम् इति चेत् प्रत्ययलक्षणप्रतिषेधः । प्रापकम् इति चेत् प्रत्ययलक्षणप्रतिषेधः वक्तव्यः ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-१३/४७) अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-१४/४७) एवकारकरणम् च ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-१५/४७) एवकारकरणम् च कर्तव्यम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-१६/४७) लङः शाकटायनस्य एव इति ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-१७/४७) नियमाऋथः पुनः सति न अर्थः एवकारेण ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-१८/४७) ननु च प्रापके अपि सति सिद्धि विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थः भविष्यति ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-१९/४७) इष्टतः अवधारणार्थः तर्हि एवकारः कर्तव्यः ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-२०/४७) यथा एवम् विज्ञायेत लङः शाकटायनस्य एव ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-२१/४७) मा एवम् विज्ञायि लङः एव शाकटायनस्य इति ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-२२/४७) किम् च स्यात् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-२३/४७) लुङः शाकटायनस्य न स्यात् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-२४/४७) अदुः अपुः अधुः अस्थुः ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-२५/४७) लङ्ग्रहणम् च ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-२६/४७) लङ्ग्रहणम् च कर्तव्यम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-२७/४७) लङः शाकटायनस्य एव इति ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-२८/४७) नियमार्थे पुनः सति न अर्थः लङ्ग्रहणेन ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-२९/४७) आतः ङितः इति वर्तते ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-३०/४७) न च अन्यः आकारात् अनन्तरः ङित् अस्ति अन्यत् अतः लङः ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-३१/४७) अस्तु तर्हि नियमार्थः ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-३२/४७) ननु च उक्तम् जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् इति ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-३३/४७) न एषः दोषः ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-३४/४७) तुल्यजातीयस्य नियमः ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-३५/४७) कः च तुल्यजातीयः ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-३६/४७) यः द्वाभ्याम् अनन्तरः आतः च सिचः च ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-३७/४७) अथ तत् एवकारकरणम् न एव कर्तव्यम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-३८/४७) कर्तव्यम् च ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-३९/४७) किम् प्रयोजनम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-४०/४७) उत्तरार्थम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-४१/४७) लिट् च लिङ् आशिषि आर्धधातुकम् एव यथा स्यात् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-४२/४७) इतरथा हि वचनात् आर्धधातुकसञ्ज्ञा स्यात् तिङ्ग्रहणेन च ग्रहणात् सार्वधातुकसञ्ज्ञा ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-४३/४७) अथ तत् लङ्ग्रहणम् न एव कर्तव्यम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-४४/४७) कर्तव्यम् च ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-४५/४७) किम् प्रयोजनम् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-४६/४७) लङ् एव यः लङ् तत्र यथा स्यात् ।

(पा-३,४.११०; अकि-२,१८७.२-१८८.२; रो-३,४१२-४१४; भा-४७/४७) लङ्वद्भावेन यः लङ् तत्र मा भूत् इति ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-१/२१) आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-२/२१) आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् कर्तव्यम् ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-३/२१) धातोः परस्य आर्धधातुकसञ्ज्ञा यथा स्यात् ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-४/२१) इह मा भूत् ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-५/२१) वृक्षत्वम् वृक्षता इति ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-६/२१) क्रियमाणे च अपि धातुग्रहणे स्वादिप्रतिषेधः ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-७/२१) स्वादीनाम् प्रतिषेधः वक्तव्यः ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-८/२१) इह मा भूत् ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-९/२१) लूभ्याम् लूभिः इति ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-१०/२१) अनुक्रान्तापेक्षम् शेषग्रहणम् ।एवम् अपि अग्निकाम्प्यति वायुकाम्यति इति प्राप्नोति ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-११/२१) तस्मात् धातुग्रहणम् कर्तव्यम् ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-१२/२१) न कर्तव्यम् ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-१३/२१) आ तृतीयाध्यायपरिसमाप्तेः धात्वधिकारः प्रकृतः अनुवर्तते ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-१४/२१) क्व प्रकृतः ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-१५/२१) धातोः एकाचः हलादेः इति ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-१६/२१) एवम् अपि श्रीकाम्यति भूकाम्यति इति प्राप्नोति ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-१७/२१) तद्विधानात् सिद्धम् ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-१८/२१) विहितविशेषणम् धातुग्रहणम् ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-१९/२१) धातोः यः विहितः इति ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-२०/२१) धातोः एषः विहितः ।

(पा-३,४.११४; अकि-२,१८८.४-१५; रो-३,४१४-४१५; भा-२१/२१) सङ्कीर्त्य धातोः इति एवम् यः विहितः इति.