व्याकरणमहाभाष्य खण्ड 60

विकिपुस्तकानि तः



(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-१/३३) दाश्वान् इति किम् निपात्यते ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-२/३३) दाशेः वसौ द्वित्वेट्प्रतिषेधौ ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-३/३३) दाशेः वसौ द्वित्वेट्प्रतिषेधौ निपात्येते ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-४/३३) दाश्वंसः दाशुषः सुतम् ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-५/३३) दाश्वान् ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-६/३३) साह्वान् इति किम् निपात्यते ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-७/३३) सहेः दीर्घत्वम् च ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-८/३३) किम् च ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-९/३३) द्वित्वेट्प्रतिषेधौ च ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-१०/३३) साह्वान् बलाहकः ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-११/३३) साह्वान् ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-१२/३३) मीढ्वान् इति किम् निपात्यते ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-१३/३३) मिहेः ढत्वम् च ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-१४/३३) किम् च ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-१५/३३) यत् च पूर्वयोः ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-१६/३३) किम् च पूर्वयोः ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-१७/३३) द्वित्वेट्प्रतिषेधौ दीर्घत्वम् च ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-१८/३३) मीढ्वः तोकय तनयाय मृडय ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-१९/३३) यथा इयम् इन्द्र मीढ्वः ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-२०/३३) मह्यर्थः वै गम्यते ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-२१/३३) कः पुनः मह्यर्थः ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-२२/३३) महतिः दानकर्मा ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-२३/३३) अतः किम् ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-२४/३३) इत्वम् अपि निपात्यम् ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-२५/३३) मह्यर्थः इति चेत् मिहेः तदर्थत्वात् सिद्धम् ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-२६/३३) मह्यर्थः इति चेत् मिहिः अपि मह्यर्थे वर्तते ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-२७/३३) कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-२८/३३) बह्वर्थाः अपि धातवः भवन्ति इति ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-२९/३३) अस्ति पुनः अन्यत्र अपि क्व चित् मिहिः मह्यर्थे वर्तते ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-३०/३३) अस्ति इति आह ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-३१/३३) मिहेः मेघः ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-३२/३३) मेघः च कस्मात् भवति ।

(पा-६,१.१२.१; अकि-३,१६.९-२३; रो-४,३१७-३१८; भा-३३/३३) अपः ददाति इति ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-१/२३) द्विर्वचनप्रकरणे कृञादीनाम् के ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-२/२३) द्विर्वचनप्रकरणे कृञादीनाम् के उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-३/२३) चक्रम् ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-४/२३) चिक्लिदम् ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-५/२३) चक्नम् इति ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-६/२३) कादिषु इति वक्तव्यम् इह अपि यथा स्यात् ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-७/२३) बभ्रुः ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-८/२३) ययुः इति ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-९/२३) चरिचलिपतिवदीनाम् अचि आक् च अभ्यासस्य ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-१०/२३) चरिचलिपतिवदीनाम् अचि द्वे भवतः इति वक्तव्यम् आक् च अभ्यासस्य ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-११/२३) चराचरः ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-१२/२३) चलाचलः ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-१३/२३) पतापतः ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-१४/२३) वदावदः ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-१५/२३) हन्तेः घः च ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-१६/२३) हन्तेः घः च वक्तव्यः ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-१७/२३) अचि द्वे भवतः आक् च अभ्यासस्य ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-१८/२३) घनाघनः ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-१९/२३) पाटेः णिलुक् च दीर्घः च अभ्यासस्य ऊक् च ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-२०/२३) पाटयतेः णिलुक् च वक्तव्यः ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-२१/२३) अचि द्वे भवतः इति वक्तव्यम् ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-२२/२३) दीर्घः च अभ्यासस्य ऊक् च आगमः ।

(पा-६,१.१२.२; अकि-३,१७.१-११; रो-४,३१८-३१९; भा-२३/२३) पाटुपटः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१/१६१) द्विर्वचनम् यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्त्वेभ्यः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-२/१६१) यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्त्वेभ्यः द्विर्वचनम् भवति विप्रतिषेधेन ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-३/१६१) द्विर्वचनस्य अवकाशः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-४/१६१) बिभिदतुः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-५/१६१) बिभिदुः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-६/१६१) यणादेशस्य अवकाशः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-७/१६१) दधि अत्र ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-८/१६१) मधु अत्र ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-९/१६१) इह उभयम् प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१०/१६१) चक्रतुः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-११/१६१) चक्रुः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१२/१६१) अयवायावादेशानाम् अवकाशः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१३/१६१) चयनम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१४/१६१) चायकः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१५/१६१) लवनम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१६/१६१) लावकः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१७/१६१) द्विर्वचनस्य सः एव ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१८/१६१) इह उभयम् प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१९/१६१) चिचाय ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-२०/१६१) चिचयिथ ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-२१/१६१) लुलाव ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-२२/१६१) लुलविथ ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-२३/१६१) आल्लोपस्य अवकाशः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-२४/१६१) । गोदः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-२५/१६१) कम्बलदः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-२६/१६१) द्विर्वचनस्य सः एव ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-२७/१६१) इह उभयम् प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-२८/१६१) ययतुः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-२९/१६१) ययुः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-३०/१६१) तस्थतुः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-३१/१६१) तस्थुः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-३२/१६१) उपधालोपास्य अवकाशः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-३३/१६१) श्लेष्मघ्नम् मधु ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-३४/१६१) पित्तघ्नम् घृतम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-३५/१६१) द्विर्वचनस्य सः एव ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-३६/१६१) इह उभयम् प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-३७/१६१) आटितत् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-३८/१६१) आशिशत् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-३९/१६१) उत्त्वस्य अवकाशः निपूर्ताः पिण्डाः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-४०/१६१) द्विर्वचनस्य सः एव ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-४१/१६१) इह उभयम् प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-४२/१६१) मित्रात्वरुणौ ततुरिः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-४३/१६१) दूरे ह्यध्वा जगुरिः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-४४/१६१) द्विर्वचनम् भवति पूर्वविप्रतिषेधेन ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-४५/१६१) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-४६/१६१) न वक्तव्यः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-४७/१६१) इष्टवाची परशब्दः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-४८/१६१) विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-४९/१६१) द्विर्वचनात् प्रसारणात्त्वधात्वादिविकाररीत्वेत्त्वोत्त्वगुणवृद्धिविधयः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-५०/१६१) द्विर्वचनात् प्रसारणात्त्वधात्वादिविकाररीत्वेत्त्वोत्त्वगुणवृद्धिविधयः भवन्ति विप्रतिषेधेन ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-५१/१६१) द्विर्वचनस्य अवकाशः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-५२/१६१) बिभिदतुः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-५३/१६१) बिभिदुः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-५४/१६१) सम्प्रसारणस्य अवकाशः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-५५/१६१) इष्टम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-५६/१६१) सुप्तम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-५७/१६१) इह उभयम् प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-५८/१६१) ईजतुः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-५९/१६१) ईजुः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-६०/१६१) न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-६१/१६१) अस्तु अत्र द्विर्वचनम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-६२/१६१) द्विर्वचने कृते परस्य रूपस्य किति इति भविष्यति पूर्वस्य लिटि अभ्यासस्य उभयेषाम् इति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-६३/१६१) इदम् तर्हि सोषुप्यते ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-६४/१६१) इदम् च अपि उदाहरणम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-६५/१६१) ईजतुः , ईजुः इति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-६६/१६१) ननु च उक्तम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-६७/१६१) अस्तु अत्र द्विर्वचनम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-६८/१६१) द्विर्वचने कृते परस्य रूपस्य किति इति भविष्यति पूर्वस्य लिटि अभ्यासस्य उभयेषाम् इति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-६९/१६१) न सिध्यति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-७०/१६१) न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-७१/१६१) अकारेण व्यव्हितत्वात् न भविष्यति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-७२/१६१) एकादेशे कृते न अस्ति व्यवधानम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-७३/१६१) एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-७४/१६१) एवम् तर्हि समानाङ्गग्रहणम् तत्र चोदयिष्यति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-७५/१६१) आत्त्वस्य अवकाशः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-७६/१६१) ग्लाता ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-७७/१६१) म्लाता ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-७८/१६१) द्विर्वचनस्य सः एव ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-७९/१६१) इह उभयम् प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-८०/१६१) जग्ले ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-८१/१६१) मम्ले ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-८२/१६१) धात्वादिविकाराणाम् अवकाशः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-८३/१६१) नमति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-८४/१६१) सिञ्चति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-८५/१६१) द्विर्वचनस्य सः एव ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-८६/१६१) इह उभयम् प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-८७/१६१) ननाम ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-८८/१६१) सिसेच ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-८९/१६१) सस्नौ ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-९०/१६१) रीत्वस्य अवकाशः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-९१/१६१) मात्रीयति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-९२/१६१) पित्रीयति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-९३/१६१) द्विर्वचनस्य सः एव ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-९४/१६१) इह उभयम् प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-९५/१६१) चेक्रीयते ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-९६/१६१) जेह्रीयते ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-९७/१६१) ईत्वस्य अवकाशः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-९८/१६१) पीयते ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-९९/१६१) गीयते ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१००/१६१) द्विर्वचनस्य सः एव ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१०१/१६१) इह उभयम् प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१०२/१६१) पेपीयते ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१०३/१६१) जेगीयते ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१०४/१६१) इत्त्वोत्त्वयोः अवकाशः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१०५/१६१) आस्तीर्णम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१०६/१६१) निपूर्ताः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१०७/१६१) द्विर्वचनस्य सः एव ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१०८/१६१) इह उभयम् प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१०९/१६१) आतेस्तीर्यते ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-११०/१६१) निपोपूर्यते ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१११/१६१) गुणवृद्ध्योः अवकाशः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-११२/१६१) चेता ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-११३/१६१) गौः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-११४/१६१) द्विर्वचनस्य सः एव ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-११५/१६१) इह उभयम् प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-११६/१६१) चिचाय ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-११७/१६१) चिचयिथ ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-११८/१६१) लुलाव ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-११९/१६१) लुलविथ ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१२०/१६१) न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१२१/१६१) अस्तु अत्र द्विर्वचनम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१२२/१६१) द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१२३/१६१) इदम् तर्हि प्रयोजनम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१२४/१६१) इयाय ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१२५/१६१) इययिथ ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१२६/१६१) ननु च उक्तम् न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१२७/१६१) अस्तु अत्र द्विर्वचनम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१२८/१६१) द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१२९/१६१) न सिध्यति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१३०/१६१) अन्तरङ्गत्वात् सवर्णदीर्घत्वम् प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१३१/१६१) वार्णात् आङ्गम् बलीयः इति गुणवृद्धी भविष्यतः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१३२/१६१) किम् वक्तव्यम् एतत् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१३३/१६१) न हि ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१३४/१६१) कथम् अनुच्यमानम् गंस्यते ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१३५/१६१) आचार्यप्रवृत्तिः ज्ञापयति वार्णात् आङ्गम् बलीयः भवति इति यत् अयम् अभ्यासस्य असवर्णे इति असवर्णग्रहणम् करोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१३६/१६१) कथम् कृत्वा ज्ञापकम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१३७/१६१) न हि अन्तरेण गुणवृद्धी असवर्णपरः अभ्यासः भवति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१३८/१६१) न एतत् अस्ति ज्ञापकम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१३९/१६१) अर्त्यर्थम् एतत् स्यात् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१४०/१६१) इयृतः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१४१/१६१) इयृथः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१४२/१६१) [उवोण ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१४३/१६१) उवोणिथः (ऋ)] ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१४४/१६१) यत् तर्हि दीर्घः इणः किति इति दीर्घत्वम् शास्ति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१४५/१६१) एतस्य अपि अस्ति वचने प्रयोजनम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१४६/१६१) किम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१४७/१६१) सवर्णदीर्घबाधनार्थम् एतत् स्यात् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१४८/१६१) सः यथा एव तर्हि सवर्णदीर्घत्वम् बाधते एवम् यणादेशम् अपि बाधेत ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१४९/१६१) एवम् तर्हि यणादेशे योगविभागः करिष्यते ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१५०/१६१) इदम् अस्ति इणः यण् भवति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१५१/१६१) ततः एः अनेकाचः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१५२/१६१) एः च अनेकाचः इणः यण् भवति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१५३/१६१) ततः असंयोगपूर्वस्य ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१५४/१६१) एः अनेकाचः इति एव ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१५५/१६१) असवर्णग्रहणम् एव तर्हि ज्ञापकम् ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१५६/१६१) ननु च उक्तम् अर्त्यर्थम् एतत् स्यात् इति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१५७/१६१) न एकम् उदाहरणम् असवर्णग्रहणम् प्रयोजयति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१५८/१६१) एवम् अपि स्थानिवद्भावात् इयङ् न प्राप्नोति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१५९/१६१) अथ सति अपि विप्रतिषेधे यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१६०/१६१) यः अनादिष्टात् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः ।

(पा-६,१.१२.३; अकि-३,१७.१२-१९.१०; रो-४,३१९-३२३; भा-१६१/१६१) आदिष्टात् च एषः अचः पूर्वः भवति ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-१/३६) ष्यङः सम्प्रसारणे पुत्रपत्योः तदादौ अतिप्रसङ्गः ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-२/३६) ष्यङः सम्प्रसारणे पुत्रपत्योः तदादौ अतिप्रसङ्गः भवति ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-३/३६) पुत्रपत्यादौ सम्प्रसारणम् प्राप्नोति ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-४/३६) कारीषगन्ध्यापुत्रकुलम् , कारीषगन्ध्यापतिकुलम् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-५/३६) वर्णग्रहणात् सिद्धम् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-६/३६) वर्णग्रहणे एतत् भवति यस्मिन् विधिः तदादौ इति न च इदम् वर्णग्रहणम् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-७/३६) वर्णग्रहणे इति चेत् तदन्तप्रतिषेधः ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-८/३६) वर्णग्रहणे इति चेत् तदन्तस्य प्रतिषेधः वक्तव्यः ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-९/३६) पुत्रपत्यन्ते सम्प्रसारणम् प्राप्नोति ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-१०/३६) कारीषगन्ध्यापरमपुत्रः , कारीषगन्ध्यापरमपतिः ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-११/३६) कौमुदगन्ध्यापरमपुत्रः , कौमुदगन्ध्यापरमपतिः ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-१२/३६) किम् कारणम् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-१३/३६) यत्र हि तदादिविधिः न अस्ति तदन्तविधिना तत्र भवितव्यम् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-१४/३६) सिद्धम् तु उत्तरपदवचनात् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-१५/३६) सिद्धम् एतत् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-१६/३६) कथम् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-१७/३६) उत्तरपदवचनात् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-१८/३६) पुत्रपत्योः उत्तरपदयोः इति वक्तव्यम् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-१९/३६) तत् तर्हि वक्तव्यम् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-२०/३६) न वक्तव्यम् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-२१/३६) पूर्वपदम् उत्तरपदम् इति सम्बन्धिशब्दौ एतौ ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-२२/३६) सति पूर्वपदे उत्तरपदम् भवति सति च उत्तरपदे पूर्वपदम् इति ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-२३/३६) न च अत्र पुत्रपती उत्तरपदे ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-२४/३६) इह अपि तर्हि न प्राप्नोति ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-२५/३६) कारीषगन्धीपुत्रः , कारीषगन्धीपतिः इति ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-२६/३६) किम् कारणम् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-२७/३६) पूर्वपदम् इति उच्यते ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-२८/३६) न हि अत्र ष्यङ् पूर्वपदम् अस्ति ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-२९/३६) ष्यङन्तम् एतत् पूर्वपदम् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-३०/३६) कथम् ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-३१/३६) प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-३२/३६) यदि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उच्यते परमकारीषगन्धीपुत्रः , परमकारीषगन्धीपतिः इति न सिध्यति ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-३३/३६) प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति अस्त्रीप्रत्ययेन इति ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-३४/३६) यदि अस्त्रीप्रत्ययेन इति उच्यते अतिक्रान्तः कारीषगन्ध्याम् अतिकारीषगन्ध्यः , तस्य पुत्रः अतिकारीषगन्ध्यपुत्रः , अतिकारीषगन्ध्यपतिः इति अत्र अपि प्राप्नोति ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-३५/३६) अस्त्रीप्रत्ययेन अनुपसर्जनेन ।

(पा-६,१.१३.१; अकि-३,२०.२-२२; रो-४,३२३-३२६; भा-३६/३६) यः हि उपसर्जनम् स्त्रीप्रत्ययः भवति एषा तत्र परिभाषा प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१/१५६) ष्यङन्ते यावन्तः यणः तेषाम् सर्वेषाम् सम्प्रसारणम् प्राप्नोति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-२/१५६) वाराहिपुत्रः , तार्णकर्णीपुत्रः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-३/१५६) तत्र अप्रत्ययस्थस्य प्रतिषेधः वक्तव्यः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-४/१५६) यथागृहीतस्य आदेशवचनात् अप्रत्ययस्थे सिद्धम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-५/१५६) निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् अप्रत्ययस्थस्य न भविष्यति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-६/१५६) अनन्त्यविकारे अन्त्यसदेशस्य वा ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-७/१५६) अथ वा अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति एषा परिभाषा कर्तव्या ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-८/१५६) कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत अप्रत्ययस्थस्य वा प्रतिषेधः उच्येत ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-९/१५६) अवश्यम् एषा परिभाषा कर्तव्या ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१०/१५६) बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-११/१५६) कानि ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१२/१५६) प्रयोजनम् न सम्प्रसारणे सम्प्रसारणम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१३/१५६) न सम्प्रसारणे सम्प्रसारणम् इति एतत् न वक्तव्यम् भवति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१४/१५६) कथम् व्यधेः विद्धः इति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१५/१५६) अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१६/१५६) न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१७/१५६) क्रियते न्यासे एव ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१८/१५६) सान्तमहतः दीर्घत्वे ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१९/१५६) सान्तमहतः दीर्घत्वे प्रयोजनम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-२०/१५६) पयांसि, यशांसि ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-२१/१५६) प इति अस्य अपि प्राप्नोति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-२२/१५६) अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-२३/१५६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-२४/१५६) नोपधायाः इति तत्र वर्तते ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-२५/१५६) एवम् अपि अनांसि, मनांसि इति अत्र अपि प्राप्नोति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-२६/१५६) न एषः दोषः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-२७/१५६) सान्तसंयोगेन नोपधाम् विशेषयिष्यामः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-२८/१५६) सान्तसंयोगस्य नोपाधायाः इति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-२९/१५६) एवम् अपि हंसशिरांसि , ध्वंसशिरांसै इति अत्र अपि प्राप्नोति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-३०/१५६) न एषः दोषः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-३१/१५६) हम्मतेः हंसः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-३२/१५६) कः पुनः आह हम्मतेः हंसः इति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-३३/१५६) किम् तर्हि हन्तेः हंसः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-३४/१५६) हन्ति अध्वानम् इति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-३५/१५६) एवम् तर्हि सर्वनामस्थाने इति वर्तते ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-३६/१५६) सर्वनामस्थानपरतया सान्तसंयोगम् विशेषयिष्यामः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-३७/१५६) सर्वनामस्थानपरस्य सान्तसंयोगस्य नोपाधायाः इति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-३८/१५६) अन्कारान्तस्य अल्लोपे ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-३९/१५६) अन्कारान्तस्य अल्लोपे प्रयोजनम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-४०/१५६) तक्ष्णा , तक्ष्णे इति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-४१/१५६) त इति अत्र अपि प्राप्नोति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-४२/१५६) अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-४३/१५६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-४४/१५६) अना अकारम् विशेषयिष्यामः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-४५/१५६) अनः यः अकारः इति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-४६/१५६) एवम् अपि अनसा , अनसे इति अत्र अपि प्राप्नोति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-४७/१५६) अन्कारेण अङ्गम् विशेषयिष्यामः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-४८/१५६) अन्कारान्तस्य अङ्गस्य अनः यः अकारः इति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-४९/१५६) एवम् अपि अनस्तक्ष्णा , अनस्तक्ष्णे इति अत्र अपि प्राप्नोति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-५०/१५६) एवम् तर्हि कार्यकालम् सञ्ज्ञापरिभाषम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-५१/१५६) यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-५२/१५६) भस्य इति उपस्थितम् इदम् भवति यचि भम् इति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-५३/१५६) तत्र यजादिपरत्या अन्कारम् विशेषयिष्यामः अना अकारम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-५४/१५६) यजादिपरस्य अनः यः अकारः इति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-५५/१५६) मृजेः वृद्धिविधौ ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-५६/१५६) मृजेः वृद्धिविधौ प्रयोजनम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-५७/१५६) न्यमार्ट् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-५८/१५६) अटः अपि वृद्धिः प्राप्नोति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-५९/१५६) अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-६०/१५६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-६१/१५६) यथापरिभाषितम् इकः गुणवृद्धी इति इकः एव वृद्धिः भविष्यति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-६२/१५६) एवम् अपि मिमार्जिषति इति अत्र प्राप्नोति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-६३/१५६) अस्तु ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-६४/१५६) अभ्यासनिर्ह्रासेन ह्रस्वः भविष्यति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-६५/१५६) वसोः सम्प्रसारणे च ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-६६/१५६) वसोः सम्प्रसारणे च प्रयोजनम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-६७/१५६) विदुषः पश्य ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-६८/१५६) विदिवकारस्य अपि प्राप्नोति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-६९/१५६) अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-७०/१५६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-७१/१५६) न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः भविष्यति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-७२/१५६) दकारेण (ऋ॒ इद्कारेण) व्यवहितत्वात् न प्राप्नोति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-७३/१५६) एवम् तर्हि निर्दिश्यमानस्य आदेशाः भवन्ति इति न भविष्यति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-७४/१५६) युवादीनाम् च ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-७५/१५६) युवादीनाम् च सम्प्रसारणे प्रयोजनम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-७६/१५६) यूनः , यूना , यूने ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-७७/१५६) यकारस्य अपि प्राप्नोति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-७८/१५६) अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-७९/१५६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-८०/१५६) न सम्प्रसारणे सम्प्रसारणम् इति न भविष्यति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-८१/१५६) उकारेण व्यवहितत्वात् न प्राप्नोति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-८२/१५६) एकादेशे कृते न अस्ति व्यवधानम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-८३/१५६) एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-८४/१५६) एवम् तर्हि समानाङ्गग्रहणम् अत्र चोदयिष्यति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-८५/१५६) र्वोः उपधाग्रहणम् च ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-८६/१५६) र्वोः उपधाग्रहणम् च न कर्तव्यम् भवति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-८७/१५६) इह कस्मात् न भवति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-८८/१५६) अबिभः भवान् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-८९/१५६) अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-९०/१५६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-९१/१५६) क्रियते न्यासे एव ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-९२/१५६) आदित्यदादिविधिसंयोगादिलोपकुत्वढत्वभष्भावषत्वणत्वेषु अतिप्रसङ्गः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-९३/१५६) आदिविधौ अतिप्रसङ्गः भवति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-९४/१५६) धात्वादेः षः सः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-९५/१५६) णः नः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-९६/१५६) इह एव स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-९७/१५६) नेता , सोता ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-९८/१५६) इह न स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-९९/१५६) नमति , सिञ्चति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१००/१५६) आदि ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१०१/१५६) त्यदादिविधि ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१०२/१५६) इह एव स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१०३/१५६) तत् , सः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१०४/१५६) त्यत् , स्यः इति अत्र न स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१०५/१५६) त्यदादिविधि ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१०६/१५६) संयोगादिलोप ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१०७/१५६) इह एव स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१०८/१५६) मङ्क्ता ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१०९/१५६) मङ्क्तव्यम् इति अत्र न स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-११०/१५६) संयोगादिलोप ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१११/१५६) कुत्व ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-११२/१५६) इह एव स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-११३/१५६) पक्ता ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-११४/१५६) पक्तव्यम्भष्भाव ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-११५/१५६) इति अत्र न स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-११६/१५६) कुत्व ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-११७/१५६) ढत्व ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-११८/१५६) इह एव स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-११९/१५६) लेढा ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१२०/१५६) लेढव्यम् इति अत्र न स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१२१/१५६) ढत्व ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१२२/१५६) भष्भाव ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१२३/१५६) इह एव स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१२४/१५६) अभुत्सि ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१२५/१५६) अभुत्साताम् इति अत्र न स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१२६/१५६) भष्भाव ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१२७/१५६) षत्व ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१२८/१५६) इह एव स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१२९/१५६) द्रष्टा ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१३०/१५६) द्रष्टव्यम् इति अत्र न स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१३१/१५६) षत्व ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१३२/१५६) णत्व ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१३३/१५६) इह एव स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१३४/१५६) माषावापेण ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१३५/१५६) माषावापाणाम् इति अत्र न स्यात् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१३६/१५६) णत्व ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१३७/१५६) एते दोषाः समाः भूयांसः वा ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१३८/१५६) तस्मात् न अर्थः अनया परिभाषया ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१३९/१५६) न हि दोषा सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१४०/१५६) न हि भिक्षुकाः सन्ति इति स्थाल्यः न अधिश्रीयन्ते न च मृगाः सन्ति इति यवाः न उप्यन्ते ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१४१/१५६) दोषाः खलु अपि साकल्येन परिगणिताः प्रयोजनानाम् उदाहरणमात्रम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१४२/१५६) कुत एतत् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१४३/१५६) न हि दोषाणाम् लक्षणम् अस्ति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१४४/१५६) तस्मात् यानि एतस्याः परिभाषायाः प्रयोजनानि तदर्थम् एषा परिभाषा कर्तव्या प्रतिविधेयम् च दोषेषु ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१४५/१५६) इदम् प्रतिविधीयते ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१४६/१५६) उदात्तनिर्देशात् सिद्धम् ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१४७/१५६) यत्र एषा परिभाषा इष्यते तत्र उदात्तनिर्देशः कर्तव्यः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१४८/१५६) ततः वक्तव्यम् अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति उदात्तनिर्देशे इति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१४९/१५६) सः तर्हि उदात्तनिर्देश्ः कर्तव्यः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१५०/१५६) न कर्तव्यः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१५१/१५६) यत्र एव अन्त्यसदेशः च अनन्त्यसदेशः च युगपत् समवस्थितौ तत्र एषा परिभाषा भवति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१५२/१५६) दोषेषु च अन्यत्र अन्त्यसदेशः अन्यत्र अनन्त्यसदेशः ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१५३/१५६) प्रयोजनेषु पुनः तत्र एव अन्त्यसदेशः च अनन्त्यसदेशः च ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१५४/१५६) तथाजातीयकानि खलु अपि आचार्येण प्रयोजनानि पठितानि यानि उभयवन्ति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१५५/१५६) इदम् एकम् यथा दोषः तथा र्वोः उपधाग्रहणम् इति ।

(पा-६,१.१३.२; अकि-३,२०.२३-२३.२५; रो-४,३२६-३३०; भा-१५६/१५६) तत् च अपि क्रियते न्यासे एव ।

(पा-६,१.१४; अकि-३,२४.२-५; रो-४,३३१; भा-१/९) मातच् ।

(पा-६,१.१४; अकि-३,२४.२-५; रो-४,३३१; भा-२/९) कारीषगन्ध्या माता अस्य कारीषगन्धीमातः , कारीषगन्ध्यामातः ।

(पा-६,१.१४; अकि-३,२४.२-५; रो-४,३३१; भा-३/९) मातच् ।

(पा-६,१.१४; अकि-३,२४.२-५; रो-४,३३१; भा-४/९) मातृक ।

(पा-६,१.१४; अकि-३,२४.२-५; रो-४,३३१; भा-५/९) कारीषगन्धीमातृकः , कारीषगन्ध्यामातृकः ।

(पा-६,१.१४; अकि-३,२४.२-५; रो-४,३३१; भा-६/९) मातृक ।

(पा-६,१.१४; अकि-३,२४.२-५; रो-४,३३१; भा-७/९) मातृ ।

(पा-६,१.१४; अकि-३,२४.२-५; रो-४,३३१; भा-८/९) कारीषगन्धीमाता , कारीषगन्ध्यामाता ।

(पा-६,१.१४; अकि-३,२४.२-५; रो-४,३३१; भा-९/९) मातृ ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-१/३९) वयिग्रहणम् किमर्थम् न वेञ् यजादिषु पठ्यते वेञः च वयिः आदेशः क्रियते तत्र यजादीनाम् किति इति एव सिद्धम् ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-२/३९) तत्र एतत् स्यात् ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-३/३९) ङिदर्थः अयम् आरम्भः इति ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-४/३९) तत् च न ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-५/३९) लिटि अयम् आदेशः लिट् च कित् एव ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-६/३९) अतः उत्तरम् पठति ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-७/३९) वयिग्रहणम् वेञः प्रतिषेधात् ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-८/३९) वयिग्रहणम् क्रियते वेञः प्रतिषेधात् ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-९/३९) वेञः लिटि प्रतिषेधम् वक्ष्यति ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-१०/३९) सः वयेः मा भूत् इति ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-११/३९) यथा एव हि वेञ्ग्रहणात् विधिः प्रार्थ्यते एवम् प्रतिषेधः अपि प्राप्नोति ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-१२/३९) न वा यकारप्रतिषेधः ज्ञापकः अप्रतिषेधस्य ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-१३/३९) न वा एषः दोषः ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-१४/३९) किम् कारणम् ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-१५/३९) यत् अयम् लिटि वयः यः इति वयेः यकारस्य सम्प्रसारणप्रतिषेधम् शास्ति तत् ज्ञापति आचार्यः न वेञ्ग्रहणात् सम्प्रसारणप्रतिषेधः भवति इति ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-१६/३९) न एतत् अस्ति ज्ञापकम् ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-१७/३९) पिति अभ्यासार्थम् एतत् स्यात् ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-१८/३९) वयेः पित्सु वचनेषु अभ्यासस्य यकारस्य सम्प्रसारणम् मा भूत् इति ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-१९/३९) ननु च वेञ्ग्रहणात् वयेः पित्सु अपि वचनेषु अभ्यासयकारस्य सम्प्रसारणप्रतिषेधः सिद्धः ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-२०/३९) न सिध्यति ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-२१/३९) किम् कारणम् ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-२२/३९) किति इति तत्र अनुवर्तते ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-२३/३९) एवम् अपि वयेः पित्सु अपि वचनेषु अभ्यासयकारस्य सम्प्रसारणम् न प्राप्नोति ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-२४/३९) किम् कारणम् ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-२५/३९) हलादिशेषेण बाध्यते ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-२६/३९) न अत्र हलादिशेषः प्राप्नोति ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-२७/३९) किम् कारणम् ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-२८/३९) वक्ष्यति हि एतत् अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-२९/३९) सः एषः वयेः यकारस्य सम्प्रसारणप्रतिषेधः पिति अभ्यासार्थः न ज्ञापकार्थः भवति ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-३०/३९) पिति अभ्यासार्थम् इति चेत् न अविशिष्टत्वात् ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-३१/३९) पिति अभ्यासार्थम् इति चेत् तत् न ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-३२/३९) किम् कारणम् ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-३३/३९) अविशिष्टत्वात् ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-३४/३९) अविशेषेण प्रतिषेधः ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-३५/३९) निवृत्तम् तत्र किति इति ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-३६/३९) आतः च अविशेषेण ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-३७/३९) वेञः अपि हि पित्सु वचनेषु अभ्यासस्य सम्प्रसारणम् न इष्यते ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-३८/३९) ववौ वविथ इति ।

(पा-६,१.१६; अकि-३,२४.८-२५.५; रो-४,३३१-३३३; भा-३९/३९) विकृतिग्रहणम् खलु अपि प्रतिषेधे क्रियते न च विकृतिः प्रकृतिम् गृह्णाति ।

(पा-६,१.१७.१; अकि-३,२५.७-१०; रो-४,३३३; भा-१/५) ग्रहिवृश्चतिपृच्छतिभृज्जतीनाम् अविशेषः ।

(पा-६,१.१७.१; अकि-३,२५.७-१०; रो-४,३३३; भा-२/५) यत् उच्यते वृश्चेः अविशेषः इति तत् न ।

(पा-६,१.१७.१; अकि-३,२५.७-१०; रो-४,३३३; भा-३/५) यदि अत्र रेफस्य सम्प्रसारणम् न स्यात् वकारस्य प्रसज्येत ।

(पा-६,१.१७.१; अकि-३,२५.७-१०; रो-४,३३३; भा-४/५) रेफस्य पुनः सम्प्रसारणे सति उः अदत्त्वस्य स्थानिवद्भावात् न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः सिद्धः भवति ।

(पा-६,१.१७.१; अकि-३,२५.७-१०; रो-४,३३३; भा-५/५) तस्मात् वक्तव्यम् ग्रहेः अविषेषः पृच्छतिभृज्जत्योः अविशेषः इति ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-१/२६) अथ उभयग्रहणम् किमर्थम् ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-२/२६) उभयेषाम् अभ्यासस्य सम्प्रसारणम् यथा स्यात् वचिस्वपियजादीनाम् ग्रहादीनाम् च ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-३/२६) न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-४/२६) प्रकृतम् उभयेषाम् ग्रहणम् अनुवर्तते ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-५/२६) यदि अनुवर्तते ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ङिति च इति यजादीनाम् ङिति अपि प्राप्नोति ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-६/२६) न एषः दोषः ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-७/२६) सम्बन्धम् अनुवर्तिष्यते ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-८/२६) वचिस्वपियजादीनाम् किति ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-९/२६) ग्रहादीनाम् ङिति च वचिस्वपियजादीनाम् किति ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-१०/२६) ततः लिटि अभ्यासस्य उभयेषाम् ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-११/२६) किति ङिति इति निवृत्तम् ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-१२/२६) अथ वा मण्डूकगतयः अधिकाराः ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-१३/२६) यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-१४/२६) अथ वा एकयोगः करिष्यते ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-१५/२६) वचिस्वपियजादीनाम् किति ग्रहादीनाम् ङिति च इति ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-१६/२६) ततः लिटि अभ्यासस्य इति ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-१७/२६) न च एकयोगे अनुवृत्तिः भवति ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-१८/२६) अथ वा उभयम् निवृत्तम् ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-१९/२६) तत् अपेक्षिष्यामहे ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-२०/२६) इदम् तर्हि उभयेषाङ्ग्रहणस्य प्रयोजनम् ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-२१/२६) उभयेषाम् अभ्यासस्य सम्प्रसारणम् एव यथा स्यात् ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-२२/२६) यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-२३/२६) किम् च अन्यत् प्राप्नोति ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-२४/२६) हलादिशेषः ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-२५/२६) अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति वक्ष्यति ।

(पा-६,१.१७.२; अकि-३,२५.११-२२; रो-४, ३३३-३३४; भा-२६/२६) सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-१/६१) अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-२/६१) अभ्याससम्प्रसारणम् हलादिशेषात् भवति [भवति हलादिशेषात् ॒ ऋ] विप्रतिषेधेन ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-३/६१) अभ्याससम्प्रसारणस्य अवकाशः ॒ इयाज, उवाप ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-४/६१) हलादिशेषस्य अवकाशः ॒ बिभिदतुः , बिभिदुः ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-५/६१) इह उभयम् प्राप्नोति विव्याध , विव्यधिथ ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-६/६१) अभ्याससम्प्रसारणम् भवति पूर्वविप्रतिषेधेन ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-७/६१) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-८/६१) न वा सम्प्रसारणाश्रयबलीयस्त्वात् अन्यत्र अपि ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-९/६१) न वा वक्तव्यः ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-१०/६१) किम् कारणम् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-११/६१) सम्प्रसारणाश्रयबलीयस्त्वात् अन्यत्र अपि ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-१२/६१) सम्प्रसारणम् सम्प्रसारणाश्रयम् च बलीयः भवति इति वक्तव्यम् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-१३/६१) अन्यत्र अपि न अवश्यम् इह एव वक्तव्यम् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-१४/६१) किम् प्रयोजनम् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-१५/६१) प्रयोजनम् रमाल्लोपेयिअङ्यणः ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-१६/६१) रम् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-१७/६१) भृष्टः, भृष्टवान् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-१८/६१) सम्प्रसारणम् च प्राप्नोति रम्भावः च ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-१९/६१) परत्वात् रम्भावः स्यात् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-२०/६१) सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-२१/६१) रम् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-२२/६१) आल्लोपः ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-२३/६१) जुहुवतुः , जुहुवुः ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-२४/६१) सम्प्रसारणम् च प्राप्नोति आल्लोपः च ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-२५/६१) परत्वात् आल्लोपः स्यात् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-२६/६१) सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-२७/६१) सम्प्रसारणे कृते पूर्वत्वम् च प्राप्नोति आल्लोपः च ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-२८/६१) परत्वात् आल्लोपः स्यात् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-२९/६१) सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वत्वम् यथा स्यात् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-३०/६१) इयङ् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-३१/६१) शुशुवतुः , शुशुवुः ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-३२/६१) सम्प्रसारणम् च प्राप्नोति इयङादेशः च ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-३३/६१) परत्वात् इयङादेशः स्यात् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-३४/६१) सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-३५/६१) यण् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-३६/६१) सम्प्रसारणे कृते पूर्वत्वम् च प्राप्नोति यणादेशः च ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-३७/६१) परत्वात् यणादेशः स्यात् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-३८/६१) सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वत्वम् यथा स्यात् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-३९/६१) इयङ् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-४०/६१) न एतानि सन्ति प्रयोजनानि ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-४१/६१) यत् तावत् उच्यते रम् इति इदम् इह सम्प्रधार्यम् ॒ रम्भावः क्रियताम् सम्प्रसारणम् इति ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-४२/६१) किम् अत्र कर्तव्यम् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-४३/६१) परत्वात् रम्भावः ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-४४/६१) नित्यम् सम्प्रसारणम् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-४५/६१) कृते अपि रम्भाबे प्राप्नोति अकृते अपि ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-४६/६१) रम्भावः अपि नित्यः ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-४७/६१) कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-४८/६१) कथम् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-४९/६१) यः असौ ऋकारे रेफः तस्य च उपधायाः च प्राप्नोति ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-५०/६१) अनित्यः रम्भावः ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-५१/६१) न हि कृते सम्प्रसारणे प्राप्नोति ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-५२/६१) किम् कारणम् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-५३/६१) उपदेशे इति वर्तते ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-५४/६१) तत् च अवश्यम् उपदेशग्रहणम् अनुवर्त्यम् बरीभृज्यते इति एवमर्थम् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-५५/६१) आल्लोपेयङ्यणः इति ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-५६/६१) नित्यम् सम्प्रसारणम् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-५७/६१) अन्तरङ्गम् पूर्वत्वम् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-५८/६१) तत् एतत् अनन्यार्थम् सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वविप्रतिषेधः वा वक्तव्यः ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-५९/६१) उभयम् न वक्तव्यम् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-६०/६१) उक्तम् अत्र उभयेषाङ्ग्रहणस्य प्रयोजनम् उभयेषाम् अभ्यासस्य सम्प्रसारणम् एव यथा स्यात् ।

(पा-६,१.१७.३; अकि-३,२५.२३-२७.३; रो-४,३३४-३३६; भा-६१/६१) यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

(पा-६,१.१७.४; अकि-३,२७.४-७; रो-४,३३६; भा-१/८) व्यचेः कुटादित्वम् अनसि अञ्णिति सम्प्रसारणार्थम् ।

(पा-६,१.१७.४; अकि-३,२७.४-७; रो-४,३३६; भा-२/८) व्यचेः कुटादित्वम् अनसि इति वक्तव्यम् ।

(पा-६,१.१७.४; अकि-३,२७.४-७; रो-४,३३६; भा-३/८) किम् प्रयोजनम् ।

(पा-६,१.१७.४; अकि-३,२७.४-७; रो-४,३३६; भा-४/८) अञ्णिति सम्प्रसारणार्थम् ।

(पा-६,१.१७.४; अकि-३,२७.४-७; रो-४,३३६; भा-५/८) अञ्णिति सम्प्रसारणम् यथा स्यात् ।

(पा-६,१.१७.४; अकि-३,२७.४-७; रो-४,३३६; भा-६/८) उद्विचिता , उद्विचितुम् , उद्विचितव्यम् ।

(पा-६,१.१७.४; अकि-३,२७.४-७; रो-४,३३६; भा-७/८) अनसि इति किमर्थम् ।

(पा-६,१.१७.४; अकि-३,२७.४-७; रो-४,३३६; भा-८/८) उरुव्यचाः कण्टकः ।

(पा-६,१.१८; अकि-३,२७.९-१०; रो-४,३३६-३३७; भा-१/३) चङ्ग्रहणम् शक्यम् अकर्तुम् ।

(पा-६,१.१८; अकि-३,२७.९-१०; रो-४,३३६-३३७; भा-२/३) कथम् ।

(पा-६,१.१८; अकि-३,२७.९-१०; रो-४,३३६-३३७; भा-३/३) ङिति इति वर्तते न च अन्यः स्वापेः ङित् अस्ति अन्यत् अतः चङः ।

(पा-६,१.२०; अकि-३,२७.१२-१६; रो-४,३३७; भा-१/११) वशेः यङि प्रतिषेधः ।

(पा-६,१.२०; अकि-३,२७.१२-१६; रो-४,३३७; भा-२/११) वशेः यङि प्रतिषेधः वक्तव्यः सम्प्रसारणस्य ।

(पा-६,१.२०; अकि-३,२७.१२-१६; रो-४,३३७; भा-३/११) वावश्यते ।

(पा-६,१.२०; अकि-३,२७.१२-१६; रो-४,३३७; भा-४/११) क्व मा भूत् ।

(पा-६,१.२०; अकि-३,२७.१२-१६; रो-४,३३७; भा-५/११) उष्टः , उशन्ति इति ।

(पा-६,१.२०; अकि-३,२७.१२-१६; रो-४,३३७; भा-६/११) सः तर्हि तथा प्रतिषेधः वक्तव्यः ।

(पा-६,१.२०; अकि-३,२७.१२-१६; रो-४,३३७; भा-७/११) न वक्तव्यः ।

(पा-६,१.२०; अकि-३,२७.१२-१६; रो-४,३३७; भा-८/११) यङि इति वर्तते ।

(पा-६,१.२०; अकि-३,२७.१२-१६; रो-४,३३७; भा-९/११) एवम् तर्हि अन्वाचष्टे यङि इति वर्तते इति ।

(पा-६,१.२०; अकि-३,२७.१२-१६; रो-४,३३७; भा-१०/११) न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति ।

(पा-६,१.२०; अकि-३,२७.१२-१६; रो-४,३३७; भा-११/११) एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन् इति ।

(पा-६,१.२७; अकि-३,२७.१८-२८.५; रो-४,३३७-३३८; भा-१/११) किम् निपात्यते ।

(पा-६,१.२७; अकि-३,२७.१८-२८.५; रो-४,३३७-३३८; भा-२/११) श्रास्रप्योः शृभावः ।

(पा-६,१.२७; अकि-३,२७.१८-२८.५; रो-४,३३७-३३८; भा-३/११) श्रास्रप्योः शृभावः निपात्यते ।

(पा-६,१.२७; अकि-३,२७.१८-२८.५; रो-४,३३७-३३८; भा-४/११) क्षीरहविषोः इति वक्तव्यम् ।

(पा-६,१.२७; अकि-३,२७.१८-२८.५; रो-४,३३७-३३८; भा-५/११) शृतम् क्षीरम् ।

(पा-६,१.२७; अकि-३,२७.१८-२८.५; रो-४,३३७-३३८; भा-६/११) शृतम् हविः ।

(पा-६,१.२७; अकि-३,२७.१८-२८.५; रो-४,३३७-३३८; भा-७/११) क्व मा भूत् ।

(पा-६,१.२७; अकि-३,२७.१८-२८.५; रो-४,३३७-३३८; भा-८/११) श्राणा यवागूः , श्रपिता यवागूः इति ।

(पा-६,१.२७; अकि-३,२७.१८-२८.५; रो-४,३३७-३३८; भा-९/११) श्रपेः शृतम् अन्यत्र हेतोः ।

(पा-६,१.२७; अकि-३,२७.१८-२८.५; रो-४,३३७-३३८; भा-१०/११) श्रपेः शृतम् अन्यत्र हेतोः इति वक्तव्यम् इह मा भूत् ।

(पा-६,१.२७; अकि-३,२७.१८-२८.५; रो-४,३३७-३३८; भा-११/११) श्रपितम् क्षीरम् देवदत्तेन यज्ञदत्तेन इति ।

(पा-६,१.२८; अकि-३,२८.७-१२; रो-४,३३८-३३९; भा-१/१४) आङ्पूर्वात् अन्धूधसोः ।

(पा-६,१.२८; अकि-३,२८.७-१२; रो-४,३३८-३३९; भा-२/१४) आङ्पूर्वात् अन्धूधसोः इति वक्तव्यम् ।

(पा-६,१.२८; अकि-३,२८.७-१२; रो-४,३३८-३३९; भा-३/१४) आपीनः अन्धुः , आपीनम् ऊधः ।

(पा-६,१.२८; अकि-३,२८.७-१२; रो-४,३३८-३३९; भा-४/१४) किम् प्रयोजनम् ।

(पा-६,१.२८; अकि-३,२८.७-१२; रो-४,३३८-३३९; भा-५/१४) नियमार्थम् ।

(पा-६,१.२८; अकि-३,२८.७-१२; रो-४,३३८-३३९; भा-६/१४) आङ्पूर्वात् अन्धूधसोः एव ।

(पा-६,१.२८; अकि-३,२८.७-१२; रो-४,३३८-३३९; भा-७/१४) क्व मा भूत् ।

(पा-६,१.२८; अकि-३,२८.७-१२; रो-४,३३८-३३९; भा-८/१४) आप्यानः चन्द्रमाः इति ।

(पा-६,१.२८; अकि-३,२८.७-१२; रो-४,३३८-३३९; भा-९/१४) उभयतः नियमः च अयम् द्रष्टव्यः ।

(पा-६,१.२८; अकि-३,२८.७-१२; रो-४,३३८-३३९; भा-१०/१४) आङ्पूर्वात् एव अन्धूधसोः , अन्धूधसोः एव आङ्पूर्वात् इति ।

(पा-६,१.२८; अकि-३,२८.७-१२; रो-४,३३८-३३९; भा-११/१४) क्व मा भूत् ।

(पा-६,१.२८; अकि-३,२८.७-१२; रो-४,३३८-३३९; भा-१२/१४) प्रप्यानः अन्धुः , प्रप्यानम् ऊधः ।

(पा-६,१.२८; अकि-३,२८.७-१२; रो-४,३३८-३३९; भा-१३/१४) आङ्पूर्वात् च एष नियमः द्रष्टव्यः ।

(पा-६,१.२८; अकि-३,२८.७-१२; रो-४,३३८-३३९; भा-१४/१४) भवति हि पीनम् मुखम् , पीनाः शम्बट्यः , श्लक्ष्णपीनमुखी कन्या इति ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-१/३१) श्वेः लिटि अभ्यासलक्षणप्रतिषेधः ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-२/३१) श्वेः लिटि अभ्यासलक्षणम् सम्प्रसारणम् नित्यम् प्राप्नोति ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-३/३१) तस्य प्रतिषेधः वक्तव्यः ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-४/३१) शिश्वियतुः , शिश्वियुः ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-५/३१) किम् उच्यते लिटि अभ्यासलक्षणस्य इति न पुनः किल्लक्षणस्य अपि ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-६/३१) किल्लक्षणम् अपि हि नित्यम् अत्र प्राप्नोति ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-७/३१) किल्लक्षणम् श्वयतिलक्षणम् बाधिष्यते ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-८/३१) यथा एव तर्हि किल्लक्षणम् श्वयतिलक्षणम् बाधते एवम् अभ्यासलक्षणम् अपि बाधेत ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-९/३१) न ब्रूमः अपवादत्वात् किल्लक्षणम् श्वयतिलक्षणम् बाधिष्यते इति ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-१०/३१) किम् तर्हि ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-११/३१) परत्वात् ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-१२/३१) श्वयतिलक्षणस्य अवकाशः पिति वचनानि ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-१३/३१) शुशाव, शुशविथ , शिश्वाय, शिश्वयिथ ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-१४/३१) किल्लक्षणस्य अवकाशः अन्ये कितः ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-१५/३१) शूनः, शूनवान् ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-१६/३१) इह उभयम् प्राप्नोति ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-१७/३१) शिश्वियतुः , शिश्वियुः इति ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-१८/३१) श्वयतिलक्षणम् भवति विप्रतिषेधेन ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-१९/३१) अभ्यासलक्षणात् अपि तर्हि श्वयतिलक्षणम् भविष्यति विप्रतिषेधेन ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-२०/३१) अभ्यासलक्षणस्य अवकाशः अन्ये यजादयः ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-२१/३१) इयाज, उवाप ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-२२/३१) श्वयतिलक्षणस्य अवकाशः परम् धातुरूपम् ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-२३/३१) शुशुवतुः , शुशुवुः , शुशुविथ ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-२४/३१) श्वयतेः अभ्यासस्य उभयम् प्राप्नोति ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-२५/३१) शिशिवियतुः , शिश्वियुः ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-२६/३१) श्वयतिलक्षणम् भविष्यति विप्रतिषेधेन ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-२७/३१) न एषः युक्तः विप्रतिषेधः ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-२८/३१) न हि श्वयतेः अभ्यासस्य अन्ये यजादयः अवकाशः ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-२९/३१) श्वयतेः यजादिषु यः पाठः सः अनवकाशः ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-३०/३१) तस्य अनवकाशत्वात् अयुक्तः विप्रतिषेधः ।

(पा-६,१.३०; अकि-३,२८.१४-२९.६; रो-४,३३९-३४०; भा-३१/३१) तस्मात् सुष्ठु उक्तम् श्वेः लिटि अभ्यासलक्षणप्रतिषेधः इति ।