व्याकरणमहाभाष्य खण्ड 86

विकिपुस्तकानि तः



(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-१/२७) सग्रहणम् किमर्थम् न सहेः साडः मूर्धन्यः भवति इति एव उच्येत ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-२/२७) सहेः साडः मूर्धन्यः भवति इति उच्यमाने अन्त्यस्य प्रसज्येत ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-३/२७) ननु च अन्त्यस्य मूर्धन्यवचने प्रयोजनम् न अस्ति इति कृत्वा सकारस्य भविष्यति ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-४/२७) कुतः नु खलु एतत् अनन्त्यार्थे आरम्भे सकारस्य भविष्यति ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-५/२७) न पुनः आकारस्य स्यात् ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-६/२७) स्थने अन्तरतमः भवति इति सकारस्य भविष्यति ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-७/२७) भवेत् प्रकृतितः अन्तरतमनिर्वृत्तौ सत्याम् सिद्धम् स्यात् ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-८/२७) आदेशतः तु अन्तरतमनिर्वृत्तौ सत्याम् आकारस्य प्रसज्येत ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-९/२७) तस्मात् सकारग्रहणम् कर्तव्यम् ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-१०/२७) उत्तरार्थम् च सकारग्रहणम् क्रियते ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-११/२७) आदेशप्रत्यययोः सकारस्य यथा स्यात् ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-१२/२७) इह मा भूत् ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-१३/२७) चितम् , स्तुतम् ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-१४/२७) अथ सहिग्रहणम् किमर्थम् न साडः सः भवति इति एव उच्येत ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-१५/२७) सहेः एव साड्रूपम् भवति न अन्यस्य ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-१६/२७) यदि एवं ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-१७/२७) साडः षत्वे समानशब्दप्रतिषेधः ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-१८/२७) साडः षत्वे समानशब्दानाम् प्रतिषेधः वक्तव्यः ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-१९/२७) साडः दण्डः. साडः वृश्चिकः इति ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-२०/२७) अर्थवद्ग्रहणात् सिद्धम् ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-२१/२७) अर्थवतः साड्शब्दस्य ग्रहणम् न च एषः अर्थवान् ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-२२/२७) अर्थवद्ग्रहणात् सिद्धम् इति चेत् तद्धितलोपे अर्थवत्त्वात् प्रतिषेधः । अर्थवद्ग्रहणात् सिद्धम् इति चेत् तद्धितलोपे अर्थवत्त्वात् प्रतिषेधः वक्तव्यः ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-२३/२७) सह अडेन साडः साडस्य अपत्यम् साडिः अत्र प्राप्नोति ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-२४/२७) न वक्तव्यः ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-२५/२७) षत्वतुकोः एकादेशस्य असिद्धत्वात् न एषः साड्शब्दः ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-२६/२७) एवम् अपि सह डेन सडः सडस्य अपत्रम् साडिः अत्र प्राप्नोति ।

(पा-८,३.५६; अकि-३,४३८.१-१९; रो-५,४६४-४६५; भा-२७/२७) तस्मात् सहिग्रहणम् कर्तव्यम्

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-१/२४) नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेधः ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-२/२४) नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेदः वक्तव्यः ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-३/२४) निंस्से निंस्स्व इति ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-४/२४) तत् तर्हि वक्तव्यम् ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-५/२४) न वक्तव्यम् ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-६/२४) नुमा एव व्यवाये विसर्जनीयेन एव व्यवाये शरा एव व्यवाये इति ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-७/२४) किम् वक्तव्यम् एतत् ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-८/२४) न हि ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-९/२४) कथम् अनुच्यमानम् गंस्यते ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-१०/२४) प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-११/२४) तत् यथा ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-१२/२४) गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-१३/२४) ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-१४/२४) तत् यथा ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-१५/२४) गर्गाः शतम् दण्ड्यन्ताम् ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-१६/२४) अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-१७/२४) एवम् तर्हि ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-१८/२४) योगविभागात् सिद्धम् । योगविभागः करिष्यते ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-१९/२४) नुम्व्यवाये ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-२०/२४) ततः विसर्जनीयव्यवाये ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-२१/२४) ततः शर्व्यवाये ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-२२/२४) सः तर्हि योगविभागः कर्तव्यः ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-२३/२४) न कर्तव्यः ।

(पा-८,३.५७-५८; अकि-३,४३८.२०-४३९.९; रो-५,४६५-४६६; भा-२४/२४) प्रत्येकम् व्यवायशब्दः परिसमाप्यते

(पा-८,३.५९.१; अकि-३,४३९.१०-१८; रो-५,४६६-४६७; भा-१/११) आदेशप्रत्यययोः षत्वे सरकः प्रतिषेधः । आदेशप्रत्यययोः षत्वे सरकः प्रतिषेदः वक्तव्यः ॒ कृसरः , धूसरः ।

(पा-८,३.५९.१; अकि-३,४३९.१०-१८; रो-५,४६६-४६७; भा-२/११) अत्यल्पम् इदम् उच्यते ॒ सरकः इति ।

(पा-८,३.५९.१; अकि-३,४३९.१०-१८; रो-५,४६६-४६७; भा-३/११) सरगादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् ॒ वर्सम् तर्सम् इति ।

(पा-८,३.५९.१; अकि-३,४३९.१०-१८; रो-५,४६६-४६७; भा-४/११) तत् तर्हि वक्तव्यम् ।

(पा-८,३.५९.१; अकि-३,४३९.१०-१८; रो-५,४६६-४६७; भा-५/११) न वक्तव्यम् ।

(पा-८,३.५९.१; अकि-३,४३९.१०-१८; रो-५,४६६-४६७; भा-६/११) उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।

(पा-८,३.५९.१; अकि-३,४३९.१०-१८; रो-५,४६६-४६७; भा-७/११) न वै एतत् षत्वे शक्यम् विज्ञातुम् उणदयः अव्युत्पन्नानि प्रातिपदिकानि इति ।

(पा-८,३.५९.१; अकि-३,४३९.१०-१८; रो-५,४६६-४६७; भा-८/११) इह हि न स्यात् ।

(पा-८,३.५९.१; अकि-३,४३९.१०-१८; रो-५,४६६-४६७; भा-९/११) सर्पिषः यजुषः इति ।

(पा-८,३.५९.१; अकि-३,४३९.१०-१८; रो-५,४६६-४६७; भा-१०/११) एवम् तर्हि ।

(पा-८,३.५९.१; अकि-३,४३९.१०-१८; रो-५,४६६-४६७; भा-११/११) बहुलवचनात् सिद्धम् । बहुलम् प्रत्ययसञ्ज्ञा भवति

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-१/४७) किम् पुनः इयम् अवयवषष्ठी ॒ आदेशस्य यः सकारः प्रत्ययस्य यः सकारः इति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-२/४७) आहोस्वित् समानाधिकरणा ॒ आदेशः यः सकारः प्रत्ययः यः सकारः इति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-३/४७) कः च अत्र विशेषः ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-४/४७) आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-५/४७) आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः वक्तव्यः ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-६/४७) बिसम् बिसम् ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-७/४७) मुसलम् मुसलम् ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-८/४७) समानाधिकरणानाम् च अप्राप्तिः । समानाधिकरणानाम् च षत्वस्य अप्राप्तिः ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-९/४७) एषः , अकार्षीत् ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-१०/४७) अस्तु तर्हि समानाधिकरणा ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-११/४७) यदि समानाधिकरणा सिषेच सुष्वाप , अत्र न प्राप्नोति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-१२/४७) न धातुद्विर्वचने स्थाने द्विर्वचनम् शक्यम् आस्थातुम् ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-१३/४७) इह अपि हि प्रसज्येत सरीसृप्यते इति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-१४/४७) तस्मात् तत्र द्विःप्रयोगः द्विर्वचनम् ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-१५/४७) इह तर्हि करिष्यति हरिष्यति प्रत्ययः यः सकारः इति षत्वम् न प्राप्नोति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-१६/४७) अस्तु तर्हि आदेशः यः सकारः प्रत्ययस्य यः सकारः इति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-१७/४७) इह तर्हि अकार्षीत् प्रत्ययस्य यः सकारः इति षत्वम् न प्राप्नोति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-१८/४७) मा भूत् एवम् आदेशः यः सकारः इति एवम् भविष्यति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-१९/४७) इह तर्हि ॒ जोषिषत् , मन्दिषत् इति प्रत्ययस्य यः सकारः इति षत्वम् न प्राप्नोति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-२०/४७) एषः अपि इटि कृते प्रत्ययस्य सकारः ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-२१/४७) इह तर्हि इन्द्रः मा वक्षत् सः , सः देवन् यक्षत् ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-२२/४७) नानाविभक्तीनाम् च समासानुपपत्तिः । नानाविभक्तीनाम् च समासः न उपपद्यते आदेशप्रत्यययोः इति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-२३/४७) योगविभागात् सिद्धम् । योगविभागः करिष्यते ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-२४/४७) आदेशस्य षः भवति इति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-२५/४७) ततः प्रत्ययसकारस्य षः भवति इति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-२६/४७) स तर्हि योगविभागः कर्तव्यः ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-२७/४७) न कर्तव्यः ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-२८/४७) कथम् ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-२९/४७) अस्तु तावत् अवयवषष्ठी ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-३०/४७) ननु च उक्तम् आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः इति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-३१/४७) न एषः दोषः ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-३२/४७) द्विःप्रयोगः द्विर्वचनम् ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-३३/४७) यत् अपि उच्यते समानाधिकरणानाम् च अप्राप्तिः इति व्यपदेशिवद्भावेन भविष्यति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-३४/४७) अथ वा पुनः अस्तु समानाधिकरणा ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-३५/४७) कथम् करिष्यति हरिष्यति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-३६/४७) आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् षत्वम् इति यत् अयम् सात्पदाद्योः इति सात्प्रतिषेधम् शास्ति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-३७/४७) अथ वा पुनः अस्तु आदेशः यः सकारः प्रत्ययस्य यः सकारः इति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-३८/४७) कथम् इन्द्रः मा , वक्षत् सः देवान् यक्षत् ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-३९/४७) व्यपदेशिवद्भावेन भविष्यति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-४०/४७) सः तर्हि व्यपदेशिवद्भावः वक्तव्यः ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-४१/४७) न वक्तव्यः ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-४२/४७) उक्तम् वा । किम् उक्तम् ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-४३/४७) तत्र व्यपदेशिवद्वचनम् एकाचः द्वे प्रथमार्थम् षत्वे च आदेशसम्प्रत्ययार्थम् अवचनात् लोकविज्ञनात् सिद्धम् इति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-४४/४७) यत् अपि नानाविभक्तीनाम् च समासानुपपत्तिः इति आचार्यप्रवृत्तिः ज्ञापयति नानाविभक्त्योः एषः समासः इति यत् अयम् शासिवसिघसीनाञ्च इति घसिग्रहणम् करोति ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-४५/४७) कथम् कृत्वा ज्ञापकम् ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-४६/४७) यदि हि आदेशस्य यः सकारः इति एवम् स्यात् घसिग्रहणम् अनर्थकम् स्यात् ।

(पा-८,३.५९.२; अकि-३,४३९.१९-४४१.५; रो-५,४६७-४६९; भा-४७/४७) पश्यति तु आचार्यः आदेशः यः सकारः तस्य षत्वम् इति ततः घसिग्रहणम् करोति ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-१/३५) स्तौतिणिग्रहणम् किमर्थम् ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-२/३५) अस्तौतिण्यन्तानाम् मा भूत् ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-३/३५) सिसिक्षति ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-४/३५) अथ एवकारः किमर्थः ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-५/३५) नियमार्थः ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-६/३५) स्थौतिण्यन्तानाम् एव न अन्येषाम् इति ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-७/३५) न एतत् अस्ति प्रयोजनम् ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-८/३५) सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारकरणम् नियमार्थः भविष्यति ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-९/३५) इष्टतः अवधारणार्थः तर्हि ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-१०/३५) यथा एवम् विज्ञायेत स्तौतिण्योः एव षणि इति ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-११/३५) मा एवम् विज्ञायि स्तौतिण्योः षणि एव इति ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-१२/३५) इह न स्यात् तुष्टाव ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-१३/३५) अथ षणि इति किमर्थम् ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-१४/३५) सेषीव्यते ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-१५/३५) कः विनते अनुरोधः ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-१६/३५) अविनते नियमः मा भूत् ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-१७/३५) सुषुप्सति इति ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-१८/३५) कः सानुबन्धे अनुरोधः ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-१९/३५) षशब्दमात्रे नियमः मा भूत् ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-२०/३५) सुषुपिषे इन्द्रम् ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-२१/३५) सुषुपिषे इह इति ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-२२/३५) अभ्यासात् इति किमर्थम् ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-२३/३५) अभ्यासात् या प्राप्तिः तस्याः नियमः यथा स्यात् उपसर्गात् या प्राप्तिः तस्याः नियमः मा भूत् ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-२४/३५) अभिषिषिक्षति ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-२५/३५) न एतत् अस्ति ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-२६/३५) असिद्धम् उपसर्गात् षत्वम् तस्य असिद्धत्वात् नियमः न भविष्यति ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-२७/३५) इदम् तर्हि प्रयोजनम् ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-२८/३५) सनि यः अभ्यासः तस्मात् या प्राप्तिः तस्याः नियमः यथा स्यात् यङि यः अभ्यासः तस्मात् या प्राप्तिः तत्र नियमः मा भूत् इति ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-२९/३५) सोषुप्यतेः सन् सोषुपिषते ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-३०/३५) अथ वा अभ्यासात् या प्राप्तिः तस्याः नियमः यथा स्यात् धातोः या प्राप्तिः तस्याः नियमः मा भूत् ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-३१/३५) अधीषिषति ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-३२/३५) ननु च षणि इति उच्यते ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-३३/३५) षणि इति न एषा परसप्तमी शक्या विज्ञातुम् सन्यङन्तम् हि द्विरुच्यते ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-३४/३५) तस्मात् एषा सत्सप्तमी षणि सति इति ।

(पा-८,३.६१; अकि-३,४४१.६-२१; रो-५,४७०-४७१; भा-३५/३५) सत्सप्तमी चेत् प्राप्नोति

(पा-८,३.६४; अकि-३,४४१.२२-४४२.८; रो-५,४७२; भा-१/१३) किमर्थम् इदम् उच्यते ।

(पा-८,३.६४; अकि-३,४४१.२२-४४२.८; रो-५,४७२; भा-२/१३) स्थादिषु अभ्यासवचनम् नियमार्थम् ।

(पा-८,३.६४; अकि-३,४४१.२२-४४२.८; रो-५,४७२; भा-३/१३) नियमार्थः अयम् आरम्भः ।

(पा-८,३.६४; अकि-३,४४१.२२-४४२.८; रो-५,४७२; भा-४/१३) स्थादिषु एव अभ्यासस्य यथा स्यात् ।

(पा-८,३.६४; अकि-३,४४१.२२-४४२.८; रो-५,४७२; भा-५/१३) इह मा भूत् ।

(पा-८,३.६४; अकि-३,४४१.२२-४४२.८; रो-५,४७२; भा-६/१३) अभिसुसूषति ।

(पा-८,३.६४; अकि-३,४४१.२२-४४२.८; रो-५,४७२; भा-७/१३) अथ किमर्थम् अभ्यासेन च इति उच्यते ।

(पा-८,३.६४; अकि-३,४४१.२२-४४२.८; रो-५,४७२; भा-८/१३) तद्व्यवाये च अषोपदेशार्थम् । तद्व्यवाये अभ्यासव्यवाये च अषोपदेशस्य अपि यथा स्यात् ।

(पा-८,३.६४; अकि-३,४४१.२२-४४२.८; रो-५,४७२; भा-९/१३) अभिषिषेणयिषति ।

(पा-८,३.६४; अकि-३,४४१.२२-४४२.८; रो-५,४७२; भा-१०/१३) अवर्णार्थम् षणि प्रतिषेधार्थम् च । अवणार्थम् तवत् ।

(पा-८,३.६४; अकि-३,४४१.२२-४४२.८; रो-५,४७२; भा-११/१३) अभितष्ठौ ।

(पा-८,३.६४; अकि-३,४४१.२२-४४२.८; रो-५,४७२; भा-१२/१३) षणि प्रतिषेधार्थम् ।

(पा-८,३.६४; अकि-३,४४१.२२-४४२.८; रो-५,४७२; भा-१३/१३) अभिषिषिक्षति

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-१/२३) उपसर्गात् षत्वे निसः उपसङ्ख्यानम् अनिणन्तत्वात् ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-२/२३) उपसर्गात् षत्वे निसः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-३/२३) निःषुणोति निःषिञ्चति ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-४/२३) किम् पुनः कारणम् न सिध्यति ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-५/२३) अनिणन्तत्वात् ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-६/२३) इणन्तात् उपसर्गात् षत्वम् उच्यते न च निस्* इणन्तः ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-७/२३) न वा वर्णाश्रयत्वात् षत्वस्य तद्विशेषकः उपसर्गः धातुः च ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-८/२३) न वा वक्तव्यम् ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-९/२३) किम् कारणम् ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-१०/२३) वर्णाश्रयत्वात् षत्वस्य ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-११/२३) वर्णाश्रयम् षत्वम् ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-१२/२३) तद्विशेषकः उपसर्गः धातुः च ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-१३/२३) न एवम् विज्ञायते इणन्तात् उपसर्गात् इति ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-१४/२३) कथम् तर्हि ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-१५/२३) इणः उत्तरस्य सकारस्य सः चेत् इण् उपसर्गस्य सः चेत् सकारः सुनोत्यादीनाम् इति ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-१६/२३) तत्र शर्व्यवाये इति एव सिद्धम् ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-१७/२३) यदि एवम् धातूपसर्गयोः अभिसम्बन्धः अकृतः भवति ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-१८/२३) तत्र कः दोषः ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-१९/२३) इह अपि प्राप्नोति ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-२०/२३) विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-२१/२३) धातूपसर्गयोः च अभिसम्बन्धः कृतः ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-२२/२३) कथम् ।

(पा-८,३.६५.१; अकि-३,४४२.९-२१; रो-५,४७३-४७४; भा-२३/२३) सुनोत्यादिभिः अत्र उपसर्गम् विशेषयिष्यामः सुनोत्यादीनाम् यः उपसर्गः तस्य यः इण् इति

(पा-८,३.६५.२; अकि-३,४४२.२१-४४३.४; रो-५,४७४; भा-१/१०) सुनोत्यादीनाम् षत्वे ण्यन्तस्य उपसङ्ख्यानम् अधिकत्वात् ।

(पा-८,३.६५.२; अकि-३,४४२.२१-४४३.४; रो-५,४७४; भा-२/१०) सुनोत्यादीनाम् षत्वे ण्यन्तस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,३.६५.२; अकि-३,४४२.२१-४४३.४; रो-५,४७४; भा-३/१०) अभिषावयति ।

(पा-८,३.६५.२; अकि-३,४४२.२१-४४३.४; रो-५,४७४; भा-४/१०) किम् कारणम् ।

(पा-८,३.६५.२; अकि-३,४४२.२१-४४३.४; रो-५,४७४; भा-५/१०) अधिकत्वात् ।

(पा-८,३.६५.२; अकि-३,४४२.२१-४४३.४; रो-५,४७४; भा-६/१०) व्यतिरिक्तः सुनोत्यादिः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति ।

(पा-८,३.६५.२; अकि-३,४४२.२१-४४३.४; रो-५,४७४; भा-७/१०) न वा अवयवस्य अनन्यत्वात् । न वा वक्तव्यम् ।

(पा-८,३.६५.२; अकि-३,४४२.२१-४४३.४; रो-५,४७४; भा-८/१०) किम् कारणम् ।

(पा-८,३.६५.२; अकि-३,४४२.२१-४४३.४; रो-५,४७४; भा-९/१०) अवयवस्य अनन्यत्वात् ।

(पा-८,३.६५.२; अकि-३,४४२.२१-४४३.४; रो-५,४७४; भा-१०/१०) अवयवः अत्र अनन्यः

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-१/१६) नामधातोः तु प्रतिषेधः ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-२/१६) नामधातोः तु प्रतिषेधः वक्तव्यः ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-३/१६) सावकम् इच्छति अभिसावकीयति परिसावकीयति ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-४/१६) न वा अनुपसर्गत्वात् । न वा वक्तव्यः ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-५/१६) किम् कारणम् ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-६/१६) अनुपसर्गत्वात् ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-७/१६) यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च अत्र सुनोतिम् प्रति क्रियायोगः ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-८/१६) किम् तर्हि सावकीयतिम् प्रति ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-९/१६) इह अपि तर्हि न प्राप्नोति ॒ अभिषावयति ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-१०/१६) अत्र अपि न सुनोतिम् प्रति क्रियायोगः ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-११/१६) किम् तर्हि सावयतिम् प्रति ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-१२/१६) सुनोतिम् प्रति अत्र क्रियायोगः ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-१३/१६) कथम् ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-१४/१६) न असौ एवम् प्रेष्यते सुनु अभि इति ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-१५/१६) किम् तर्हि ।

(पा-८,३.६५.३; अकि-३,४४३.५-४४३.१२; रो-५,४७४-४७५; भा-१६/१६) उपसर्गविशिष्टाम् असौ क्रियाम् प्रेष्यते अभिषुणु इति

(पा-८,३.६७; अकि-३,४४३.१३-१८; रो-५,४७५; भा-१/१२) अप्रतेः इति वर्तते उताहो निवृत्तम् ।

(पा-८,३.६७; अकि-३,४४३.१३-१८; रो-५,४७५; भा-२/१२) निवृत्तम् इति आह ।

(पा-८,३.६७; अकि-३,४४३.१३-१८; रो-५,४७५; भा-३/१२) कथम् ज्ञायते ।

(पा-८,३.६७; अकि-३,४४३.१३-१८; रो-५,४७५; भा-४/१२) योगविभागकरणसामर्थ्यात् ।

(पा-८,३.६७; अकि-३,४४३.१३-१८; रो-५,४७५; भा-५/१२) इतरथा हि सदिस्तम्भ्योः अप्रतेः इति एव ब्रूयात् ।

(पा-८,३.६७; अकि-३,४४३.१३-१८; रो-५,४७५; भा-६/१२) अस्ति अन्यत् योगविभागकरणे प्रयोजनम् ।

(पा-८,३.६७; अकि-३,४४३.१३-१८; रो-५,४७५; भा-७/१२) किम् ।

(पा-८,३.६७; अकि-३,४४३.१३-१८; रो-५,४७५; भा-८/१२) अवाच्चालम्बनाविदूर्वयोः इति वक्ष्यति तत् स्तम्भेः एव यथा स्यात् सदेः मा भूत् इति ।

(पा-८,३.६७; अकि-३,४४३.१३-१८; रो-५,४७५; भा-९/१२) न एतत् अस्ति प्रयोजनम् ।

(पा-८,३.६७; अकि-३,४४३.१३-१८; रो-५,४७५; भा-१०/१२) एकयोगे अपि सति यस्य आलम्बनाविदूर्ये स्तः तस्य भविष्यति ।

(पा-८,३.६७; अकि-३,४४३.१३-१८; रो-५,४७५; भा-११/१२) कस्य च आलम्बनाविदूर्ये स्तः ।

(पा-८,३.६७; अकि-३,४४३.१३-१८; रो-५,४७५; भा-१२/१२) स्तम्भेः एव

(पा-८,३.७२; अकि-३,४४३.१९-२३; रो-५,४७५; भा-१/७) अथ यः प्राणी अप्राणी च कथम् तत्र भवितव्यम् ।

(पा-८,३.७२; अकि-३,४४३.१९-२३; रो-५,४७५; भा-२/७) अनुष्यन्देते मत्स्योदके इति ।

(पा-८,३.७२; अकि-३,४४३.१९-२३; रो-५,४७५; भा-३/७) आहोस्वित् अनुस्यन्देते मत्स्योदके इति ।

(पा-८,३.७२; अकि-३,४४३.१९-२३; रो-५,४७५; भा-४/७) यदि तावत् अप्राणी विधिना आश्रीयते अस्ति अत्र अप्राणी इति कृत्वा भवितव्यम् षत्वेन ।

(पा-८,३.७२; अकि-३,४४३.१९-२३; रो-५,४७५; भा-५/७) अथ प्राणी प्रतिषेधेन आश्रीयते अस्ति अत्र प्राणी इति कृत्वा भवितव्यम् प्रतिषेएधेन ।

(पा-८,३.७२; अकि-३,४४३.१९-२३; रो-५,४७५; भा-६/७) किम् पुनः अत्र अर्थसतत्त्वम् ।

(पा-८,३.७२; अकि-३,४४३.१९-२३; रो-५,४७५; भा-७/७) देवाः ज्ञातुम् अर्हन्ति

(पा-८,३.७४; अकि-३,४४४.१-४; रो-५,४७६; भा-१/५) अनिष्ठायाम् इति वर्तते उताहो निवृत्तम् ।

(पा-८,३.७४; अकि-३,४४४.१-४; रो-५,४७६; भा-२/५) निवृत्तम् इति आह ।

(पा-८,३.७४; अकि-३,४४४.१-४; रो-५,४७६; भा-३/५) कथम् ज्ञायते ।

(पा-८,३.७४; अकि-३,४४४.१-४; रो-५,४७६; भा-४/५) योगविभागकरणसामर्थ्यात् ।

(पा-८,३.७४; अकि-३,४४४.१-४; रो-५,४७६; भा-५/५) इतरथा हि विपरिभ्याम् च स्कन्देः अनिष्ठायाम् इति एव ब्रूयात्

(पा-८,३.७८-७९; अकि-३,४४४.५-९; रो-५,४७६; भा-१/४) इण्ग्रहणम् किमर्थम् ।

(पा-८,३.७८-७९; अकि-३,४४४.५-९; रो-५,४७६; भा-२/४) इण्ग्रहणम् ढत्वे कवर्गनिवृत्त्यर्थम् ।

(पा-८,३.७८-७९; अकि-३,४४४.५-९; रो-५,४७६; भा-३/४) इण्घ्रहणम् क्रियते कवर्गात् ढत्वम् मा भूत् इति ।

(पा-८,३.७८-७९; अकि-३,४४४.५-९; रो-५,४७६; भा-४/४) पक्षीध्वम् यक्षीध्वम्

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-१/४५) किम् पुनः इदम् इण्ग्रहणम् प्रत्ययविशेषणम् ॒ इणः उत्तरेषाम् षीध्वंलुङ्लिटाम् यः धकारः इति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-२/४५) आहोस्वित् धकारविशेषणम् ॒ इणः उत्तरस्य धकारस्य सः चेत् षीध्वंलुङ्लिटाम् धकारः इति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-३/४५) कः च अत्र विशेषः ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-४/४५) तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् परादित्वात् । तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् न प्राप्नोति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-५/४५) लुलुविढ्वे लुलुविध्वे इति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-६/४५) किम् कारणम् ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-७/४५) परादित्वात् ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-८/४५) इट् परादिः ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-९/४५) वचनात् भविष्यति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-१०/४५) अस्ति वचने प्रयोजनम् ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-११/४५) किम् ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-१२/४५) अलविढ्वम् अलविध्वम् ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-१३/४५) अस्तु तर्हि धकारविशेषणम् ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-१४/४५) धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषाभावः ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-१५/४५) धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषा न प्राप्नोति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-१६/४५) लविषीढ्वम् लविषीध्वम् इति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-१७/४५) वचनात् भविष्यति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-१८/४५) अस्ति वचने प्रयोजनम् ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-१९/४५) किम् ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-२०/४५) लुलुविढ्वे लुलुविध्वे इति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-२१/४५) इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः । इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वम् प्राप्नोति ॒ पक्षीध्वम् , यक्षीध्वम् इति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-२२/४५) न एषः दोषः ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-२३/४५) अङ्गात् इति वक्ष्यामि ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-२४/४५) अङ्गग्रहणात् च दोषः ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-२५/४५) इह न प्राप्नोति ॒ उपदिदीयिध्वे , उपदिदीयिढ्वे ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-२६/४५) यः हि अत्र अङ्गान्त्यः इण् न तस्मात् उत्तरः इट् यस्मात् च उत्तरः इट् न असौ अङ्गान्त्यः इण् इति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-२७/४५) यथा इच्छसि तथा अस्तु ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-२८/४५) अस्तु तावत् प्रत्ययविशेषणम् ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-२९/४५) ननु च उक्तम् तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् परादित्वात् लुलुविढ्वे लुलुविध्वे इति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-३०/४५) वचनात् भविष्यति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-३१/४५) ननु च उक्तम् अस्ति वचने प्रयोजनम् ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-३२/४५) किम् ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-३३/४५) अलविढ्वम् अलविध्वम् इति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-३४/४५) यत् एतस्मिन् योगे लिड्ग्रहणम् तदनवकाशम् तस्य अनवकाशत्वात् वचनात् भविष्यति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-३५/४५) अथ वा पुनः अस्तु धकारविशेषणम् इति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-३६/४५) ननु च उक्तम् धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषाभावः लविषीढ्वम् लविषीध्वम् इति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-३७/४५) वचनात् भविष्यति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-३८/४५) ननु च उक्तम् अस्ति वचने प्रयोजनम् ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-३९/४५) किम् ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-४०/४५) लुलुविढ्वे लुलुविध्वे इति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-४१/४५) यत् एतस्मिन् योगे षीध्वङ्ग्रहणम् तत् अनवकाशम् तस्य अनवकाशत्वात् वचनात् भविष्यति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-४२/४५) यत् अपि उच्यते इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः इति अङ्गात् इति वक्ष्यामि ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-४३/४५) ननु च उक्तम् अङ्गग्रहणात् च दोषः इति ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-४४/४५) पूर्वस्मिन् योगे यत् अङ्गग्रहणम् तत् उत्तरत्र निवृत्तम् ।

(पा-८,३.७९; अकि-३,४४४.१०-४४५.१४; रो-५,४७६-४७८; भा-४५/४५) अथ वा पूर्वस्मिन् योगे इण्ग्रहणम् प्रत्ययविशेषणम् उत्तरत्र धकारविशेषणम्

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-१/१६) अग्नेः दीर्घात् सोमस्य ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-२/१६) अग्नेः दीर्घात् सोमस्य इति वक्तव्यम् ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-३/१६) अग्नीषोमौ ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-४/१६) इतरथा हि अनिष्टप्रसङ्गः । इतरथा हि अनिष्टम् प्रसज्येत ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-५/१६) अग्निसोमौ माणवकौ इति ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-६/१६) तत् तर्हि वक्तव्यम् ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-७/१६) न वक्तव्यम् ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-८/१६) गौणमुख्ययोः मुख्ये सम्प्रतिप्रत्तिः ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-९/१६) तत् यथा ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-१०/१६) गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-११/१६) कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-१२/१६) गौः तिष्ठति ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-१३/१६) गाम् आनय इति ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-१४/१६) अर्थाश्रये एतत् एवम् भवति ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-१५/१६) यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति ।

(पा-८,३.८२; अकि-३,४४५.१५-२३; रो-५,४७८-४७९; भा-१६/१६) शब्दाश्रये च वृद्ध्यात्वे

(पा-८,३.८५; अकि-३,४४६.१-६; रो-५,४८०; भा-१/९) सान्ताभ्याम् च इति वक्तव्यम् ।

(पा-८,३.८५; अकि-३,४४६.१-६; रो-५,४८०; भा-२/९) इह अपि यथा स्यात् ।

(पा-८,३.८५; अकि-३,४४६.१-६; रो-५,४८०; भा-३/९) मातुःष्वसा मातुःस्वसा ।

(पा-८,३.८५; अकि-३,४४६.१-६; रो-५,४८०; भा-४/९) पितुःष्वसा पितुःस्वसेति ।

(पा-८,३.८५; अकि-३,४४६.१-६; रो-५,४८०; भा-५/९) मातुः पितुः इति सान्तग्रहणानर्थक्यम् एकदेशविकृतस्य अनन्यत्वात् ।

(पा-८,३.८५; अकि-३,४४६.१-६; रो-५,४८०; भा-६/९) मातुः पितुः इति सान्तग्रहणम् अनर्थकम् ।

(पा-८,३.८५; अकि-३,४४६.१-६; रो-५,४८०; भा-७/९) किम् कारणम् ।

(पा-८,३.८५; अकि-३,४४६.१-६; रो-५,४८०; भा-८/९) एकदेशविकृतस्य अनन्यत्वात् ।

(पा-८,३.८५; अकि-३,४४६.१-६; रो-५,४८०; भा-९/९) एकदेशविकृतम् अनन्यवत् भवति इति सान्तस्य अपि भविष्यति

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-१/२०) अस्तिग्रहणम् किमर्थम् ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-२/२०) इह मा भूत् ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-३/२०) अनुसृतम् , विसृतम् इति ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-४/२०) न एतत् अस्ति प्रयोजनम् ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-५/२०) यद्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतम् सकारम् प्रति क्रियायोगः ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-६/२०) इह अपि तर्हि न प्राप्नोति अभिषन्ति विषन्ति इति न हि अस्तिः क्रियावचनः ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-७/२०) कः पुनः आह न अस्तिः क्रियावचनः इति ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-८/२०) क्रियावचनः अस्तिः ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-९/२०) आतः च क्रियावचनः व्यत्यनुषते कर्तरिकर्मव्यतिहारे इति अनेन आत्मनेपदम् भवति ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-१०/२०) कर्मव्यतिहारः च कः ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-११/२०) क्रियाव्यतिहारः ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-१२/२०) प्रादुःशब्दात् तर्हि मा भूत् ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-१३/२०) प्रादुःशब्दः च नियतविषयः कृभ्वस्तियोगे एव वर्तते ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-१४/२०) उपसर्गात् तर्हि स्यतेः मा भूत् इति ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-१५/२०) इष्यते उपसर्गात् स्यतेः षत्वम् ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-१६/२०) आतश् च इष्यते ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-१७/२०) एवम् हि आह ॒ उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वङ्जाम् इति ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-१८/२०) प्रादुःशब्दात् तर्हि स्यतेः मा भूत् इति ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-१९/२०) प्रादुःशब्दः च नियतविषयः कृभ्वस्तियोगे एव वर्तते ।

(पा-८,३.८७; अकि-३,४४६.७-१८; रो-५,४८०-४८१; भा-२०/२०) इदम् तर्हि प्रयोजनम् इह मा भूत् ॒ अनुसूतेः अप्रत्ययः अनुसूः अनुस्वः अपत्यम् आनुसेयः

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-१/२५) किमर्थम् स्वपेः सुपिभूतस्य ग्रहणम् क्रियते ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-२/२५) सुपेः षत्वम् स्वपेः मा भूत् ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-३/२५) सुपेः षत्वम् उच्यते तत् स्वपेः मा भूत् इति ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-४/२५) सुस्वप्नः विस्वप्नक् इति ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-५/२५) विसुष्वाप इति केन न । विसुष्वाप इति अत्र कस्मात् न भवति ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-६/२५) हलादिशेषात् न सुपिः । हलादिशेषे कृते न एषः सुपिः भवति ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-७/२५) इदम् इह सम्प्रधार्यम् ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-८/२५) हलादिशेषः क्रियताम् सम्प्रसारणम् इति किम् अत्र कर्तव्यम् ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-९/२५) परत्वात् हलादिशेषः ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-१०/२५) इष्टम् पूर्वम् प्रसारणम् । इष्यते हलादिशेषात् पूर्वम् सम्प्रसारणम् ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-११/२५) आतः च इष्यते ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-१२/२५) एवम् हि आह ॒ अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-१३/२५) एवम् तर्हि स्थादिषु अभ्यासस्य इति एतस्मात् नियमात् न भविष्यति ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-१४/२५) स्थादीनाम् नियमः न अत्र प्राक् सितात् उत्तरः सुपिः । प्राक् सितसंशब्दनात् सः नियमः उत्तरः च सुपिः पठ्यते ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-१५/२५) एवम् तर्हि अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-१६/२५) अनर्थके विषुषुपुः । यदि अर्थवतः ग्रहणम् विषुषुपुः इति न सिध्यति ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-१७/२५) न एषः दोषः ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-१८/२५) कथम् ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-१९/२५) सुपिभूतः द्विः उच्यते । सुपिभुतस्य द्विर्वचनम् ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-२०/२५) सुपेः षत्वम् स्वपेः मा भूत् ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-२१/२५) विसुष्वाप इति केन न ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-२२/२५) हलादिशेषात् न सुपिः ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-२३/२५) इष्टम् पूर्वम् प्रसारणम् ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-२४/२५) स्थादीनाम् नियमः न अत्र प्राक् सितात् उत्तरः सुपिः ।

(पा-८,३.८८; अकि-३,४४६.१९-४४७.२०; रो-५,४८१-४८३; भा-२५/२५) अनर्थके विषुषुपुः सुपिभूतः द्विः उच्यते ।

(पा-८,३.९१; अकि-३,४४७.२१-४४८.२; रो-५,४८३-४८४; भा-१/११) कपिष्ठलः गोत्रप्रकृतौ ।

(पा-८,३.९१; अकि-३,४४७.२१-४४८.२; रो-५,४८३-४८४; भा-२/११) कपिष्ठलः गोत्रप्रकृतौ इति वक्तव्यम् ।

(पा-८,३.९१; अकि-३,४४७.२१-४४८.२; रो-५,४८३-४८४; भा-३/११) गोत्रे इति उच्यमाने इह एव स्यात् ।

(पा-८,३.९१; अकि-३,४४७.२१-४४८.२; रो-५,४८३-४८४; भा-४/११) कापिष्ठलिः ।

(पा-८,३.९१; अकि-३,४४७.२१-४४८.२; रो-५,४८३-४८४; भा-५/११) इह न स्यात् ।

(पा-८,३.९१; अकि-३,४४७.२१-४४८.२; रो-५,४८३-४८४; भा-६/११) कपिष्ठलः कापिष्ठलायनः ।

(पा-८,३.९१; अकि-३,४४७.२१-४४८.२; रो-५,४८३-४८४; भा-७/११) तत् तर्हि वक्तव्यम् ।

(पा-८,३.९१; अकि-३,४४७.२१-४४८.२; रो-५,४८३-४८४; भा-८/११) न वक्तव्यम् ।

(पा-८,३.९१; अकि-३,४४७.२१-४४८.२; रो-५,४८३-४८४; भा-९/११) न एवम् विज्ञायते कपिष्ठलः इति गोत्रे निपात्यते इति ।

(पा-८,३.९१; अकि-३,४४७.२१-४४८.२; रो-५,४८३-४८४; भा-१०/११) कथम् तर्हि ।

(पा-८,३.९१; अकि-३,४४७.२१-४४८.२; रो-५,४८३-४८४; भा-११/११) गोत्रे यः कपिष्ठलशब्दः तस्य षत्वम् निपात्यते यत्र वा तत्र वा इति

(पा-८,३.९७; अकि-३,४४८.३-९; रो-५,४८४; भा-१/११) स्थः इति किम् इदम् धातुग्रहणम् आहोस्वित् रूपग्रहणम् ।

(पा-८,३.९७; अकि-३,४४८.३-९; रो-५,४८४; भा-२/११) किम् च अतः ।

(पा-८,३.९७; अकि-३,४४८.३-९; रो-५,४८४; भा-३/११) यदि धातुग्रहणम् गोस्थानम् इति अत्र प्राप्नोति ।

(पा-८,३.९७; अकि-३,४४८.३-९; रो-५,४८४; भा-४/११) अथ रूपग्रहणम् सव्येष्ठाः , परमेष्ठी , सव्येष्ठा सारथिः इति अत्र न प्राप्नोति ।

(पा-८,३.९७; अकि-३,४४८.३-९; रो-५,४८४; भा-५/११) यथा इच्छसि तथा अस्तु ।

(पा-८,३.९७; अकि-३,४४८.३-९; रो-५,४८४; भा-६/११) अस्तु तावत् धातुग्रहणम् ।

(पा-८,३.९७; अकि-३,४४८.३-९; रो-५,४८४; भा-७/११) कथम् गोस्थानम् इति ।

(पा-८,३.९७; अकि-३,४४८.३-९; रो-५,४८४; भा-८/११) सवनादिषु पाठः करिष्यते ।

(पा-८,३.९७; अकि-३,४४८.३-९; रो-५,४८४; भा-९/११) अथ वा पुनः अस्तु रूपग्रहणम् ।

(पा-८,३.९७; अकि-३,४४८.३-९; रो-५,४८४; भा-१०/११) कथम् सव्येष्ठाः , पर्मेष्ठी , सव्येष्ठा सारथिः इति ।

(पा-८,३.९७; अकि-३,४४८.३-९; रो-५,४८४; भा-११/११) स्थः स्थास्थिन्स्थृ̄णाम् इति वक्तव्यम्

(पा-८,३.९८; अकि-३,४४८.१०-११; रो-५,४८५; भा-१/१) अविहितलक्षणः मूर्धन्यः सुषामादिषु द्रष्टव्यः

(पा-८,३.१०१; अकि-३,४४८.१२-१४; रो-५,४८५; भा-१/३) ह्रस्वात् तादौ तिङि प्रतिषेधः ।

(पा-८,३.१०१; अकि-३,४४८.१२-१४; रो-५,४८५; भा-२/३) ह्रस्वात् तादौ तिङि प्रतिषेधः वक्तव्यः ।

(पा-८,३.१०१; अकि-३,४४८.१२-१४; रो-५,४८५; भा-३/३) भिन्द्युस्तराम् छिन्द्युस्तराम् इति

(पा-८,३.१०५; अकि-३,४४८.१५-१८; रो-५,४८५; भा-१/५) स्तुतस्तोमयोः छन्दसि अनर्थकम् वचनम् पूर्वपदात् इति सिद्धत्वात् ।

(पा-८,३.१०५; अकि-३,४४८.१५-१८; रो-५,४८५; भा-२/५) स्तुतस्तोमयोः छन्दसि वचनम् अनर्थकम् ।

(पा-८,३.१०५; अकि-३,४४८.१५-१८; रो-५,४८५; भा-३/५) किम् कारणम् ।

(पा-८,३.१०५; अकि-३,४४८.१५-१८; रो-५,४८५; भा-४/५) पूर्वपदात् इति सिद्धत्वात् ।

(पा-८,३.१०५; अकि-३,४४८.१५-१८; रो-५,४८५; भा-५/५) पूर्वपदात् इति एव सिद्धम्

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-१/२०) सनोतेः अनः इति च ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-२/२०) किम् ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-३/२०) वचनम् अनर्थकम् इति एव ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-४/२०) किम् कारणम् ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-५/२०) पूर्वपदात् इति सिद्धत्वात् ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-६/२०) नियमार्थम् तर्हि इदम् वक्तव्यम् ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-७/२०) सनोतेः अनकारस्य एव यथा स्यात् ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-८/२०) इह मा भूत् ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-९/२०) गोसनिम् इति ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-१०/२०) सनोतेः अनः इति नियमार्थम् इति चेत् सवनादिकृतत्वात् सिद्धम् । सनोतेः अनः इति नियमार्थम् इति चेत् सवनादिषु पाठः करिष्यते ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-११/२०) सनर्थम् तु । सनर्थम् तु इदम् वक्तव्यम् ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-१२/२०) सिसनिषति ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-१३/२०) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-१४/२०) स्तौतिण्योरेवषण्यभ्यासात् इति एतस्मात् नियमात् न भविष्यति ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-१५/२०) ण्यर्थम् तर्हि इदम् वक्तव्यम् ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-१६/२०) सिसानयिषति ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-१७/२०) कथम् पुनः अण्यन्तस्य प्रतिषेधे ण्यन्तः शक्यः विज्ञातुम् ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-१८/२०) सामर्थ्यात् ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-१९/२०) अण्यन्तस्य प्रतिषेधवचने प्रयोजनम् न अस्ति इति कृत्वा ण्यन्ते विज्ञास्यते ।

(पा-८,३.१०८; अकि-३,४४९.१-१३; रो-५,४८५-४८६; भा-२०/२०) अथ वा अयम् अस्ति अण्यन्तः ॒ सिसनिषतेः अप्रत्ययः सिसनीः

(पा-८,३.११०; अकि-३,४४९.१४-२०; रो-५,४८६; भा-१/११) किमर्थम् सवादिषु अश्वसनिशब्दः पठ्यते ।

(पा-८,३.११०; अकि-३,४४९.१४-२०; रो-५,४८६; भा-२/११) पूर्वपदात् इति षत्वम् प्राप्नोति ।

(पा-८,३.११०; अकि-३,४४९.१४-२०; रो-५,४८६; भा-३/११) तद्बाधनार्थम् ।

(पा-८,३.११०; अकि-३,४४९.१४-२०; रो-५,४८६; भा-४/११) न एतत् अस्ति प्रयोजनम् ।

(पा-८,३.११०; अकि-३,४४९.१४-२०; रो-५,४८६; भा-५/११) इणन्तात् इति तत्र अनुवर्तते अनिणन्तः च अयम् ।

(पा-८,३.११०; अकि-३,४४९.१४-२०; रो-५,४८६; भा-६/११) न एव प्राप्नोति न अर्थः प्रतिषेधेन ।

(पा-८,३.११०; अकि-३,४४९.१४-२०; रो-५,४८६; भा-७/११) एवम् तर्हि सिद्धे सति यत् सवनादिषु अश्वसनिशब्दम् पठति तत् ज्ञापयति आचार्यः अनिणन्तात् अपि षत्वम् भवति इति ।

(पा-८,३.११०; अकि-३,४४९.१४-२०; रो-५,४८६; भा-८/११) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-८,३.११०; अकि-३,४४९.१४-२०; रो-५,४८६; भा-९/११) जलाषाहम् माषः इति एतत् सिद्धम् भवति ।

(पा-८,३.११०; अकि-३,४४९.१४-२०; रो-५,४८६; भा-१०/११) अथ वा एकदेशविकृतार्थः अयम् आरम्भः ।

(पा-८,३.११०; अकि-३,४४९.१४-२०; रो-५,४८६; भा-११/११) अश्वषाः इति

(पा-८,३.११२; अकि-३,४५०.१-८; रो-५,४८६-४८७; भा-१/९) उपसर्गात् इति या प्राप्तिः भवितव्यम् तस्याः प्रतिषेधेन उताहो न ।

(पा-८,३.११२; अकि-३,४५०.१-८; रो-५,४८६-४८७; भा-२/९) न भवितव्यम् ।

(पा-८,३.११२; अकि-३,४५०.१-८; रो-५,४८६-४८७; भा-३/९) किम् कारणम् ।

(पा-८,३.११२; अकि-३,४५०.१-८; रो-५,४८६-४८७; भा-४/९) उपसर्गात् षत्वम् प्रतिषेधविषये आरभ्यते तत् यथा एव पदादिलक्षणम् प्रतिषेधम् बाधते एवम् सिचः यङि इति एतम् अपि बाधते ।

(पा-८,३.११२; अकि-३,४५०.१-८; रो-५,४८६-४८७; भा-५/९) न बाधते ।

(पा-८,३.११२; अकि-३,४५०.१-८; रो-५,४८६-४८७; भा-६/९) किम् कारणम् ।

(पा-८,३.११२; अकि-३,४५०.१-८; रो-५,४८६-४८७; भा-७/९) येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते पदादिलक्षणे प्रतिषेधे उपसर्गात् षत्वम् आरभ्यते सिचः यङि इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च ।

(पा-८,३.११२; अकि-३,४५०.१-८; रो-५,४८६-४८७; भा-८/९) अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् उपसर्गात् षत्वम् पदादिलक्षणम् प्रतिषेधम् बाधिष्यते सिचः यङि इति एतम् न बाधिष्यते ।

(पा-८,३.११२; अकि-३,४५०.१-८; रो-५,४८६-४८७; भा-९/९) तस्मात् अभिसेसिच्यते इति भवितव्यम्

(पा-८,३.११५; अकि-३,४५०.९-११; रो-५,४८७; भा-१/४) किमर्थम् सहिः सोढभूतः गृह्यते ।

(पा-८,३.११५; अकि-३,४५०.९-११; रो-५,४८७; भा-२/४) यत्र अस्य एतत् रूपम् तत्र यथा स्यात् ।

(पा-८,३.११५; अकि-३,४५०.९-११; रो-५,४८७; भा-३/४) इह मा भूत् ।

(पा-८,३.११५; अकि-३,४५०.९-११; रो-५,४८७; भा-४/४) परिषहते इति

(पा-८,३.११६; अकि-३,४५०.१२-१६; रो-५,४८७; भा-१/६) स्तम्भुसिवुसहाम् चङि उपसर्गात् ।

(पा-८,३.११६; अकि-३,४५०.१२-१६; रो-५,४८७; भा-२/६) स्तम्भुसिवुसहाम् चङि उपसर्गात् इति वक्तव्यम् ।

(पा-८,३.११६; अकि-३,४५०.१२-१६; रो-५,४८७; भा-३/६) किम् प्रयोजनम् ।

(पा-८,३.११६; अकि-३,४५०.१२-१६; रो-५,४८७; भा-४/६) उपसर्गात् या प्राप्तिः तस्याः प्रतिषेधः यथा स्यात् ।

(पा-८,३.११६; अकि-३,४५०.१२-१६; रो-५,४८७; भा-५/६) अभ्यासात् या प्राप्तिः तस्याः प्रतिषेधः मा भूत् इति ।

(पा-८,३.११६; अकि-३,४५०.१२-१६; रो-५,४८७; भा-६/६) पर्यसीषहत्

(पा-८,३.११७; अकि-३,४५०.१७-२१; रो-५,४८७; भा-१/९) सनि किम् उदाहरणम् ।

(पा-८,३.११७; अकि-३,४५०.१७-२१; रो-५,४८७; भा-२/९) सुसूषति ।

(पा-८,३.११७; अकि-३,४५०.१७-२१; रो-५,४८७; भा-३/९) न एतत् अस्ति प्रयोजनम् ।

(पा-८,३.११७; अकि-३,४५०.१७-२१; रो-५,४८७; भा-४/९) स्तौतिण्योः एव षणि इति एतस्मात् नियमात् न भविष्यति ।

(पा-८,३.११७; अकि-३,४५०.१७-२१; रो-५,४८७; भा-५/९) इदम् तर्हि ।

(पा-८,३.११७; अकि-३,४५०.१७-२१; रो-५,४८७; भा-६/९) अभिसुसूषति ।

(पा-८,३.११७; अकि-३,४५०.१७-२१; रो-५,४८७; भा-७/९) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-८,३.११७; अकि-३,४५०.१७-२१; रो-५,४८७; भा-८/९) स्थादिष्वभ्यासेनचाभ्यासस्य इति एतस्मात् नियमात् न भविष्यति ।

(पा-८,३.११७; अकि-३,४५०.१७-२१; रो-५,४८७; भा-९/९) इदम् तर्हि प्रयोजनम् ॒ अभिसुसूषतेः अप्रत्ययः अभिसुसूः

(पा-८,३.११८; अकि-३,४५१.१-३; रो-५,४८७; भा-१/३) सदः लिटि प्रतिषेधे स्वञ्जेः उपसङ्ख्यनम् ।

(पा-८,३.११८; अकि-३,४५१.१-३; रो-५,४८७; भा-२/३) सदः लिटि प्रतिषेधे स्वञ्जेः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,३.११८; अकि-३,४५१.१-३; रो-५,४८७; भा-३/३) परिषस्वजे