प्रज्ञां-परिमित-हृदय-सूत्र

विकिपुस्तकानि तः

प्रज्ञां-परिमित-हृदय-सूत्र

|| नमः सर्वज्ञाय ||

आर्यावलोकितेश्वर बोधिसत्त्वो गम्भीरायां प्रज्ञांपारमितायां चर्यां चरमाणो व्यवलोकयति स्म|
पंच स्कन्धा:ताम्श्चा स्वभावशून्यान्पश्यति स्म ||

इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं|
रूपान्न पृथक् शून्यता शून्यताया न पृथग्रूपं|
यद्रूपं सा शून्यता या शून्यता तद्रूपं ||
एवमेव वेदानासंज्ञा संस्कार विज्ञानानि ||

इहं शरिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा
अमला विमलानोना न परिपूर्णः |
तस्माच्छारिपुत्र शून्यतायाम नरूपं नवेदना नसंज्ञा नसंस्कारा नविज्ञानानी |
न चक्षुः श्रोत्र घ्राण जिह्वा कायमनाम्सि ना रुपशब्दगन्धरस स्पर्श्तव्य धर्मः |
न चक्षुर्धातुरर्यावन्ना मनोविज्ञानधातुः ||
न विद्या नाविद्या नविद्याक्षयो नविद्याक्षयो यावन्ना जरामरणं ना जरामरणक्षयो
न दुःखसमुदयनिरोधमार्गा नज्ञानानां न प्रप्तिर्नाप्रप्ति: ||

बोधिसत्त्वस्य(श्चा?) प्रज्ञापारमितामाश्रित्य विहरति चित्तावारण:|
चित्तावरणनास्तित्वादात्रस्तो विपर्यासातिक्रान्तो निष्ठानिर्वाण: |
त्र्यध्वव्यवस्थिता सर्वबुद्धा: प्रज्ञापारमितामाश्रित्यानुत्तारां सम्याक्सम्बोधिमभिसम्बुद्धा: ||

तस्माज्ज्ञातव्यः प्रज्ञांपारमितामाहामंत्रो महाविद्यामंत्रो ऽनुत्तरमंत्रो ऽसमसममंत्र:
सर्वदु:खप्रशमन:मंत्र: सत्यममिथ्यत्वात् प्रज्ञांपारमितायामुक्तो मंत्र:|

प्रज्ञांपारमिता मंत्र:

तद्यथा | गते गते पारगते पारसंगते बोधि स्वाहा||

|| इति: प्रज्ञां-परिमित-हृदय-सूत्र सम्पूर्णम् || प्रज्ञापारमिताहृदयसुत्रम्। [विस्तरमातृका] ॥नमः सर्वज्ञाय॥ एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं महता च बोधिसत्त्वसंघेन। तेन खलु समयेन भगवान् गम्भीरावसंबोधं नाम समाधिं समापन्नः। तेन च समयेन आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणः एवं व्यवलोकयति स्म। पञ्च स्कन्धांस्तांश्च स्वभावशून्यं व्यवलोकयति॥ अथायुष्मान् शारिपुत्रो बुद्धानुभावेन आर्यावलोकितेश्वरं बोधिसत्त्वमेतदवोचत्- यः कश्चित् कुलपुत्रो [वा कुलदुहिता वा अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, कथं शिक्षितव्यः ? एवमुक्ते आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः आयुष्मन्तं शारिपुत्रमेतदवोचत्- यः कश्चिच्छारिपुत्र कुलपुत्रो व कुलदुहिता वा [अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, तेनैवं व्यवलोकितव्यम्- पञ्च स्कन्धांस्तांश्च स्वभावशून्यान् समनुपश्यति स्म। रूपं शून्यता, शून्यतैव रूपम्। रूपान्न पृथक् शून्यता, शून्यताया न पृथग् रूपम्। यद्रूपं सा शून्यता, या शून्यता तद्रूपम्। एवं वेदनासंज्ञासंस्कारविज्ञानानि च शून्यता। एवं शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला विमला अनूना असंपूर्णाः। तस्मात्तर्हि शारिपुत्र शून्यतायां न रूपम्, न वेदना, न संज्ञा, न संस्काराः, न विज्ञानम्, न चक्षुर्न श्रोत्रं न घ्राणं न जिह्वा न कायो न मनो न रूपं न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्मः। न चक्षुर्धातुर्यावन्न मनोधातुर्न धर्मधातुर्न मनोविज्ञानधातुः। न विद्या नाविद्या न क्षयो यावन्न जरामरणं न जरामरणक्षयः, न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः। तस्माच्छारिपुत्र अप्राप्तित्वेन बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य विहरति चित्तावरणः। चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः। त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः। तस्माद् ज्ञातव्यः प्रज्ञापारमितामहामन्त्रः अनुत्तरमन्त्रः असमसममन्त्रः सर्वदुःखप्रशमनमन्त्रः सत्यममिथ्यत्वात् प्रज्ञापारमितायामुक्तो मन्त्रः। तद्यथा- गते गते पारगते पारसंगते बोधि स्वाहा। एवं शारिपुत्र गम्भीरायां प्रज्ञापारमितायां चर्यायां शिक्षितव्यं बोधिसत्त्वेन॥ अथ खलु भगवान् तस्मात्समाधेर्व्युत्थाय आर्यावलोकितेश्वरस्य बोधिसत्त्वस्य साधुकारमदात्- साधु साधु कुलपुत्र। एवमेतत् कुलपुत्र, एवमेतद् गम्भीरायां प्रज्ञापारमितायां चर्यं चर्तव्यं यथा त्वया निर्दिष्टम्। अनुमोद्यते तथागतैरर्हद्भिः॥ इदमवोचद्भगवान्। आनन्दमना आयुष्मान् शारिपुत्रः आर्यावलोकितेश्वरश्च बोधिसत्त्वः सा च सर्वावती परिषत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्॥ इति प्रज्ञापारमिताहृदयसूत्रं समाप्तम्।