मकारलेखनम्

विकिपुस्तकानि तः

संस्कृतभाषां देवनागरीलिप्या लेखनावसरे मकारलेखनविषये अवश्यम् अवधातव्यम् । अधः कानिचन वाक्यानि लिखितानि सन्ति । कृपया परिशील्यताम् ।

स्वरे परे[सम्पाद्यताम्]

१ माता अनुजं आहूतवती । २ गिरीशः मधुरं इच्छति । ३ ललिता कारणं ऊहते ।

उपरितनेषु वाक्येषु अनुस्वारः यः लिखितः सः दोषाय ।

प्रथमवाक्ये 'अनुज'शब्दे जकारोत्तरम् अनुस्वारः लिखितः अस्ति । तस्य पुरतः 'आ'कारः अस्ति ।
द्वितीयवाक्ये 'मधुर'शब्दे रेफोत्तरम् अनुस्वारः लिखितः । तस्य पुरतः 'इ'कारः अस्ति ।
तृतीयवाक्ये 'कारण'शब्दे णकारोत्तरम् अनुस्वारः लिखितः । तस्य पुरतः 'इ'कारः अस्ति ।


नियमः - अनुस्वारात् स्वरे परे मकारः एव लेखनीयः, न तु अनुस्वारः ।


अतः तानि वाक्यानि एवं लेखनीयानि ।

१ माता अनुजम् आहूतवती । २ गिरीशः मधुरम् इच्छति । ३ ललिता कारणम् ऊहते ।

व्यञ्जने परे[सम्पाद्यताम्]

१ शिशुः कन्दुकम् नयति । २ नव्या शाटिकाम् पश्यति । ३ विक्रमः मित्रम् ताडयति ।

उपरितनेषु वाक्येषु अनुस्वारस्य स्थाने मकारस्य लेखनं दोषाय ।

प्रथमवाक्ये 'कन्दुक'शब्दे ककारोत्तरम् मकारः लिखितः अस्ति । तस्य पुरतः 'न'कारः अस्ति ।
द्वितीयवाक्ये 'शाटिका'शब्दे काकारोत्तरम् मकारः लिखितः अस्ति । तस्य पुरतः 'प'कारः अस्ति ।
तृतीयवाक्ये 'मित्र'शब्दे रकारोत्तरम् मकारः लिखितः अस्ति । तस्य पुरतः 'त'कारः अस्ति ।


नियमः - अनुस्वारात् व्यञ्जने परे अनुस्वारः एव लेखनीयः, न तु मकारः । अतः तानि वाक्यानि एवं लेखनीयानि ।

१ शिशुः कन्दुकं नयति । २ नव्या शाटिकां पश्यति । ३ विक्रमः मित्रं ताडयति ।

वाक्यस्य अन्ते[सम्पाद्यताम्]

१ सुमनया क्षीरं पीतं ।
२ सन्दीपेन कार्यं करणीयं ।
३ महेशेन पद्यं पठितं ।


नियमः - अवसाने अपि मकारः एव लेखनीयः ।


अतः तानि वाक्यानि एवं लेखनीयानि ।

१ सुमनया क्षीरं पीतम् ।
२ सन्दीपेन कार्यं करणीयम् ।
३ महेशेन पद्यं पठितम् ।


अभ्यासः[सम्पाद्यताम्]


अधः दत्तानि वाक्यानि शुद्धं लिखत ।

१ सात्त्विकजीवनम् यापितवान् कश्चन वृद्धः कदाचित् शय्यां आश्रितवान् ।
२ किञ्चित् श्रीगन्धचूर्णं पुष्पम् फलं च आनीयतां ।
३ सत्यं उक्तं भवता ।
४ अन्येन दत्तम् स्वीकर्तुं न इच्छति मम मित्रं ।
५ अनुजेन सह अधिकम् सम्भाषणम् न कृतं ।
"https://sa.wikibooks.org/w/index.php?title=मकारलेखनम्&oldid=6565" इत्यस्माद् प्रतिप्राप्तम्