परसवर्णलेखनम्

विकिपुस्तकानि तः

संस्कृतभाषां देवनागरीलिप्या लेखनावसरे केषुचित् विषयेषु अवधातव्यं भवति । तेषु अनुस्वार-मकारयोः लेखनं कश्चन विषयः। अपरः अंशः अस्ति परसवर्णलेखनम् । अत्र सः विषयः प्रस्तूयते ।

नित्यम्[सम्पाद्यताम्]

अधः लिखितानि पदानि परिशीलयत ।

अंगणम् पंकजम्, क्रौंचः,
गांधारम्, किंतु, गच्छंति,
चिंतयति, चंद्रः, शांतिः,
परंपरा, चंपकम्, तंबूरम्
कंटकः, अंडम्, कंडोलः

किम् एतानि शुद्धानि ? न ।

अनुस्वारस्य पुरतः वर्गीयव्यञ्जनानि यवलाश्च यदा भवन्ति तदा सदृशः परसवर्णः लेखनीयः ।


सूत्रम् - अनुस्वारस्य ययि परसवर्णः (८-४-५८) इति पाणिनिसूत्रम् ।

एतादृशेषु स्थलेषु परसवर्णरहितानि (अनुस्वारसहितानि) रूपाणि असाधूनि एव । अतः उपरिलिखितानां शब्दानां शुद्धानि रूपाणि एवं सन्ति -

अङ्गणम् पङ्कजम्, क्रौञ्चः,
गान्धारम्, किन्तु, गच्छन्ति,
चिन्तयति, चन्द्रः, शान्तिः,
परम्परा, चम्पकम्, तम्बूरम्
कण्टकः, अण्डम्, कण्डोलः

इदं नित्यं सम्भवति ।

विकल्पेन[सम्पाद्यताम्]

पदान्ते तु परसवर्णः विकल्पेन ।



सूत्रम् - अनुस्वारस्य ययि परसवर्णः (८-४-५८) इति पाणिनिसूत्रम् ।

अतः

सङ्घटनम् / संघटनम्
सञ्चयः / संचयः
सम्भवति / संभवति

इति रूपद्वयमपि साधु एव । उपसर्गस्य पदत्वं (पदसंज्ञा) अस्ति इत्यतः ।

अभ्यासः[सम्पाद्यताम्]

अधः दत्तान् शब्दान् शुद्धं लिखत ।

किंचित्
भूखंडः
गंतुम्
पारांतरितम्
संक्षिप्तम्
दंपती
संबंधः
"https://sa.wikibooks.org/w/index.php?title=परसवर्णलेखनम्&oldid=4721" इत्यस्माद् प्रतिप्राप्तम्