सामग्री पर जाएँ

याज्ञवल्क्यस्मृतिः प्रायश्चित्ताध्यायः

विकिपुस्तकानि तः

याज्ञवल्क्यस्मृतिः


[१. आशौचप्रकरणम्]

ऊनद्विवर्षं निखनेन् न कुर्याद् उदकं ततः ।
आश्मशानाद् अनुव्रज्य इतरो ज्ञातिभिर् वृतः ॥ यास्मृ३.१ ॥

यमसूक्तं तथा गाथा जपद्भिर् लौकिकाग्निना ।
स दग्धव्य उपेतश् चेद् आहिताग्न्यावृतार्थवत् ॥ यास्मृ३.२ ॥

सप्तमाद् दशमाद् वापि ज्ञातयोऽभ्युपयन्त्य् अपः ।
अप नः शोशुचद् अघम् अनेन पितृदिङ्मुखाः ॥ यास्मृ३.३ ॥

एवं मातामहाचार्य- प्रेतानाम् उदकक्रिया ।
कामोदकं सखिप्रत्ता- स्वस्रीयश्वशुरर्त्विजाम् ॥ यास्मृ३.४ ॥

सकृत् प्रसिञ्चन्त्य् उदकं नामगोत्रेण वाग्यताः ।
न ब्रह्मचारिणः कुर्युर् उदकं पतितास् तथा ॥ यास्मृ३.५ ॥

पाखण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः ।
सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ यास्मृ३.६ ॥

कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थितान् ।
स्नातान् अपवदेयुस् तान् इतिहासैः पुरातनैः ॥ यास्मृ३.७ ॥

मानुष्ये कदलीस्तम्भ- निःसारे सारमार्गणम् ।
करोति यः स सम्मूढो जलबुद्बुदसंनिभे ॥ यास्मृ३.८ ॥

पञ्चधा संभृतः कायो यदि पञ्चत्वम् आगतः ।
कर्मभिः स्वशरीरोत्थैस् तत्र का परिदेवना ॥ यास्मृ३.९ ॥

गन्त्री वसुमती नाशम् उदधिर् दैवतानि च ।
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ यास्मृ३.१० ॥

श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ यास्मृ३.११ ॥

इति संश्रुत्य गच्छेयुर् गृहं बालपुरःसराः ।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ यास्मृ३.१२ ॥

आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् ।
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ यास्मृ३.१३ ॥

प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनाम् अपि ।
इच्छतां तत्क्षणाच् छुद्धिः परेषां स्नानसंयमान् ॥ यास्मृ३.१४ ॥

आचार्यपितृउपाध्यायान् निर्हृत्यापि व्रती व्रती ।
संकटान्नं च नाश्नीयान् न च तैः सह संवसेत् ॥ यास्मृ३.१५ ॥

क्रीतलब्धाशना भूमौ स्वपेयुस् ते पृथक् क्षितौ ।
पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥ यास्मृ३.१६ ॥

जलम् एकाहम् आकाशे स्थाप्यं क्षीरं च मृन्मये ।
वैतानाउपासनाः कार्याः क्रियाश् च श्रुतिचोदनात् ॥ यास्मृ३.१७ ॥

त्रिरात्रं दशरात्रं वा शावम् आशौचम् इष्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुर् एव हि ॥ यास्मृ३.१८ ॥

पित्रोस् तु सूतकं मातुस् तद् असृग्दर्शनाद् ध्रुवम् ।
तद् अहर् न प्रदुष्येत पूर्वेषां जन्मकारणात् ॥ यास्मृ३.१९ ॥

अन्तरा जन्ममरणे शेषाहोभिर् विशुध्यति ।
गर्भस्रावे मासतुल्या निशाः शुद्धेस् तु कारणम् ॥ यास्मृ३.२० ॥

हतानां नृपगोविप्रैर् अन्वक्षं चात्मघातिनाम् ।
प्रोषिते कालशेषः स्यात् पूर्णे दत्त्वोदकं शुचिः ॥ यास्मृ३.२१ ॥

क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु ।
त्रिंशद्दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः ॥ यास्मृ३.२२ ॥

आदन्तजन्मनः सद्या अचूडान् नैशिकी स्मृता ।
त्रिरात्रम् आव्रतादेशाद् दशरात्रम् अतः परम् ॥ यास्मृ३.२३ ॥

अहस् त्व् अदत्तकन्यासु बालेषु च विशोधनम् ।
गुर्वन्तेवास्यनूचानम् आतुलश्रोत्रियेषु च ॥ यास्मृ३.२४ ॥

अनौरसेषु पुत्रेषु भार्यास्व् अन्यगतासु च ।
निवासराजनि प्रेते तद् अहः शुद्धिकारणम् ॥ यास्मृ३.२५ ॥

ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः क्वचित् ।
अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक् शुचिः ॥ यास्मृ३.२६ ॥

महीपतीनां नाशौचं हतानां विद्युता तथा ।
गोब्राह्मणार्थं संग्रामे यस्य चेच्छति भूमिपः ॥ यास्मृ३.२७ ॥

ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् ।
सत्रिव्रतिब्रह्मचारि- दातृब्रह्मविदां तथा ॥ यास्मृ३.२८ ॥

दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्यपि हि कष्टायां सद्यः शौचं विधीयते ॥ यास्मृ३.२९ ॥

उदक्याशुचिभिः स्नायात् संस्पृष्टस् तैर् उपस्पृशेत् ।
अब्लिङ्गानि जपेच् चैव गायत्रीं मनसा सकृत् ॥ यास्मृ३.३० ॥

कालोऽग्निः कर्म मृद् वायुर् मनो ज्ञानं तपो जलम् ।
पश्चात् तापो निराहारः सर्वेऽमी शुद्धिहेतवः ॥ यास्मृ३.३१ ॥

अकार्यकारिणां दानं वेगो नद्याश् च शुद्धिकृत् ।
शोध्यस्य मृच् च तोयं च संन्यासो वै द्विजन्मनाम् ॥ यास्मृ३.३२ ॥

तपो वेदविदां क्षान्तिर् विदुषां वर्ष्मणो जलम् ।
जपः प्रच्छन्नपानानां मनसः सत्यम् उच्यते ॥ यास्मृ३.३३ ॥

भूतात्मनस् तपोविद्ये बुद्धेर् ज्ञानं विशोधनम् ।
क्षेत्रज्ञस्येश्वरज्ञानाद् विशुद्धिः परमा मता ॥ यास्मृ३.३४ ॥


[२. आपद्धर्मप्रकरणम्]

क्षात्रेण कर्मणा जीवेद् विशां वाप्य् आपदि द्विजः ।
निस्तीर्य ताम् अथात्मानं पावयित्वा न्यसेत् पथि ॥ यास्मृ३.३५ ॥

फलोपलक्षौमसोम- मनुष्यापूपवीरुधः ।
तिलौदनरसक्षारान् दधि क्षीरं घृतं जलम् ॥ यास्मृ३.३६ ॥

शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः ।
मृच्चर्मपुष्पकुतप- केशतक्रविषक्षितिः ॥ यास्मृ३.३७ ॥

कौशेयनीललवण- मांसैकशफसीसकान् ।
शकार्द्रौषधिपिण्याक- पशुगन्धांस् तथैव च ॥ यास्मृ३.३८ ॥

वैश्यवृत्त्यापि जीवन् नो विक्रीणीत कदाचन ।
धर्मार्थं विक्रयं नेयास् तिला धान्येन तत्समाः ॥ यास्मृ३.३९ ॥

लाक्षालवणमांसानि पतनीयानि विक्रये ।
पायो दधि च मद्यं च हीनवर्णकराणि तु ॥ यास्मृ३.४० ॥

आपद्गतः संप्रगृह्णन् भुञ्जानो वा यतस् ततः ।
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥ यास्मृ३.४१ ॥

कृषिः शिल्पं भृतिर् विद्या कुसीदं शकटं गिरिः ।
सेवानूपं नृपो भैक्षम् आपत्तौ जीवनानि तु ॥ यास्मृ३.४२ ॥

बुभुक्षितस् त्र्यहं स्थित्वा धान्यम् अब्राह्मणाद् हरेत् ।
प्रतिगृह्य तद् आख्येयम् अभियुक्तेन धर्मतः ॥ यास्मृ३.४३ ॥

तस्य वृत्तं कुलं शीलं श्रुतम् अध्ययनं तपः ।
ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् ॥ यास्मृ३.४४ ॥


[३. वानप्रस्थधर्मप्रकरणम्]

सुतविन्यस्तपत्नीकस् तया वानुगतो वनम् ।
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ यास्मृ३.४५ ॥

अफालकृष्तेनाग्नींश् च पितॄन् देवातिथीन् अपि ।
भृत्यांश् च तर्पयेत् श्मश्रु- जटालोमभृद् आत्मवान् ॥ यास्मृ३.४६ ॥

अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा ।
अर्थस्य संचयं कुर्यात् कृतम् आश्वयुजे त्यजेत् ॥ यास्मृ३.४७ ॥

दान्तस् त्रिषवणस्नायी निवृत्तश् च प्रतिग्रहात् ।
स्वाध्यायवान् दानशीलः सर्वसत्त्वहिते रतः ॥ यास्मृ३.४८ ॥

दन्तोलूखलिकः काल- पक्वाशी वाश्मकुट्टकः ।
श्रौत्रं स्मार्तं फलस्नेहैः कर्म कुर्यात् तथा क्रियाः ॥ यास्मृ३.४९ ॥

चान्द्रायणैर् नयेत् कालं कृच्छ्रैर् वा वर्तयेत् सदा ।
पक्षे गते वाप्य् अश्नीयान् मासे वाहनि वा गते ॥ यास्मृ३.५० ॥

स्वप्याद् भूमौ शुची रात्रौ दिवा संप्रपदैर् नयेत् ।
स्थानासनविहारैर् वा योगाभ्यासेन वा तथा ॥ यास्मृ३.५१ ॥

ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास् तु हेमन्ते शक्त्या वापि तपश् चरेत् ॥ यास्मृ३.५२ ॥

यः कण्टकैर् वितुदति चन्दनैर् यश् च लिंपति ।
अक्रुद्धोऽपरितुष्टश् च समस्तस्य च तस्य च ॥ यास्मृ३.५३ ॥

अग्नीन् वाप्य् आत्मसात्कृत्वा वृक्षावासो मिताशनः ।
वानप्रस्थगृहेष्व् एव यात्रार्थं भैक्षम् आचरेत् ॥ यास्मृ३.५४ ॥

ग्रामाद् आहृत्य वा ग्रासान् अष्टौ भुञ्जीत वाग्यतः ।
वायुभक्षः प्रागुदीचीं गच्छेद् वावर्ष्मसंक्षयात् ॥ यास्मृ३.५५ ॥


[४. यतिधर्मप्रकरणम्]

वनाद् गृहाद् वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् ।
प्राजापत्यां तदन्ते तान् अग्नीन् आरोप्य चात्मनि ॥ यास्मृ३.५६ ॥

अधीतवेदो जपकृत् पुत्रवान् अन्नदोऽग्निमान् ।
शक्त्या च यज्ञकृन् मोक्षे मनः कुर्यात् तु नान्यथा ॥ यास्मृ३.५७ ॥

सर्वभूतहितः शान्तस् त्रिदण्डी सकमण्डलुः ।
एकारामः परिव्रज्य भिक्षार्थी ग्रामम् आश्रयेत् ॥ यास्मृ३.५८ ॥

अप्रमत्तश् चरेद् भैक्षं सायाह्नेऽनभिलक्षितः ।
रहिते भिक्षुकैर् ग्रामे यात्रामात्रम् अलोलुपः ॥ यास्मृ३.५९ ॥

यतिपात्राणि मृद्वेणु- दार्वलाबुमयानि च ।
सलिलं शुद्धिर् एतेषां गोवालैश् चावघर्षणम् ॥ यास्मृ३.६० ॥

संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च ।
भयं हित्वा च भूतानाम् अमृतीभवति द्विजः ॥ यास्मृ३.६१ ॥

कर्तव्याशयशुद्धिस् तु भिक्षुकेण विशेषतः ।
ज्ञानोत्पत्तिनिमित्तत्वात् स्वातन्त्र्यकरणाय च ॥ यास्मृ३.६२ ॥

अवेक्ष्या गर्भवासाश् च कर्मजा गतयस् तथा ।
आधयो व्याधयः क्लेशा जरा रूपविपर्ययः ॥ यास्मृ३.६३ ॥

भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः ।
ध्यानयोगेन संपश्येत् सूक्ष्म आत्मात्मनि स्थितः ॥ यास्मृ३.६४ ॥

नाश्रमः कारणं धर्मे क्रियमाणो भवेद् हि सः ।
अतो यद् आत्मनोऽपथ्यं परेषां न तद् आचरेत् ॥ यास्मृ३.६५ ॥

सत्यम् अस्तेयम् अक्रोधो ह्रीः शौचं धीर् धृतिर् दमः ।
संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः ॥ यास्मृ३.६६ ॥

निःसरन्ति यथा लोह- पिण्डात् तप्तात् स्फुलिङ्गकाः ।
सकाशाद् आत्मनस् तद्वद् आत्मानः प्रभवन्ति हि ॥ यास्मृ३.६७ ॥

तत्रात्मा हि स्वयं किंचित् कर्म किंचित् स्वभावतः ।
करोति किंचिद् अभ्यासाद् धर्माधर्मोभयात्मकम् ॥ यास्मृ३.६८ ॥

निमित्तम् अक्षरः कर्ता बोद्धा गुणी वशी ।
अजः शरीरग्रहणात् स जात इति कीर्त्यते ॥ यास्मृ३.६९ ॥

सर्गादौ स यथाकाशं वायुं ज्योतिर् जलं महीम् ।
सृजत्य् एकोत्तरगुणांस् तथादत्ते भवन्न् अपि ॥ यास्मृ३.७० ॥

आहुत्याप्यायते सूर्यः सूर्याद् वृष्टिर् अथौषधिः ।
तद् अन्नं रसरूपेण शुक्रत्वम् अधिगच्छति ॥ यास्मृ३.७१ ॥

स्त्रीपुंसयोस् तु संयोगे विशुद्धे शुक्रशोणिते ।
पञ्चधातून् स्वयं षष्ठ आदत्ते युगपत् प्रभुः ॥ यास्मृ३.७२ ॥

इन्द्रियाणि मनः प्राणो ज्ञानम् आयुः सुखं धृतिः ।
धारणा प्रेरणं दुःखम् इच्छाहंकार एव च ॥ यास्मृ३.७३ ॥

प्रयत्न आकृतिर् वर्णः स्वरद्वेषौ भवाभवौ ।
तस्यैतद् आत्मजं सर्वम् अनादेर् आदिम् इच्छतः ॥ यास्मृ३.७४ ॥

प्रथमे मासि संक्लेद- भूतो धातुविमूर्च्छितः ।
मास्य् अर्बुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर् युतः ॥ यास्मृ३.७५ ॥

आकाशाल् लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् ।
वायोश् च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यम् एव च ॥ यास्मृ३.७६ ॥

पित्तात् तु दर्शनं पक्तिम् औष्ण्यं रूपं प्रकाशिताम् ।
रसात् तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ॥ यास्मृ३.७७ ॥

भूमेर् गन्धं तथा घ्राणं गौरवं मूर्तिम् एव च ।
आत्मा गृह्णात्य् अजः सर्वं तृतीये स्पन्दते ततः ॥ यास्मृ३.७८ ॥

दौहृदस्याप्रदानेन गर्भो दोषम् अवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात् कार्यं प्रियं स्त्रियाः ॥ यास्मृ३.७९ ॥

स्थैर्यं चतुर्थे त्व् अङ्गानां पञ्चमे शोणितोद्भवः ।
षष्ठे बलस्य वर्णस्य नखरोम्णां च संभवः ॥ यास्मृ३.८० ॥

मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुशिरायुतः ।
सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमान् अपि ॥ यास्मृ३.८१ ॥

पुनर् धात्रीं पुनर् घर्मम् ओजस् तस्य प्रधावति ।
अष्टमे मास्य् अतो गर्भो जातः प्राणैर् वियुज्यते ॥ यास्मृ३.८२ ॥

नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥ यास्मृ३.८३ ॥

तस्य षोढा शरीराणि शट् त्वचो धारयन्ति च ।
सडङ्गानि तथास्थ्नां च सह षष्ट्या शतत्रयम् ॥ यास्मृ३.८४ ॥

स्थालैः सह चतुःषष्टिर् दन्ता वै विंशतिर् नखाः ।
पाणिपादशलाकाश् च तेषां स्थानचतुष्टयम् ॥ यास्मृ३.८५ ॥

षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर् गुल्फेषु च चतुष्टयम् ।
चत्वार्यरत्निकास्थीनि जङ्घयोस् तावद् एव तु ॥ यास्मृ३.८६ ॥

द्वे द्वे जानुकपोलोरु- फलकांससमुद्भवे ।
अक्षतालूषके श्रोणी- फलके च विनिर्दिशेत् ॥ यास्मृ३.८७ ॥

भगास्थ्य् एकं तथा पृष्ठे चत्वारिंशच् च पञ्च च ।
ग्रीवा पञ्चदशास्थिः स्याज् जत्र्व् एकैकं तथा हनुः ॥ यास्मृ३.८८ ॥

तन्मूले द्वे ललाटाक्षि- गण्डे नासा घनास्थिका ।
पार्श्वकाः स्थालकैः सार्धम् अर्बुदैश् च द्विसप्ततिः ॥ यास्मृ३.८९ ॥

द्वौ शङ्खकौ कपालानि चत्वारि शिरसस् तथा ।
उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ यास्मृ३.९० ॥

गन्धरूपरसस्पर्श- शब्दाश् च विषयाः स्मृताः ।
नासिका लोचने जिह्वा त्वक् श्रोत्रं च इन्द्रियाणि च ॥ यास्मृ३.९१ ॥

हस्तौ पायुर् उपस्थं च जिह्वा पादौ च पञ्च वै ।
कर्मेन्द्रियाणि जानीयान् मनश् चैवोभयात्मकम् ॥ यास्मृ३.९२ ॥

नाभिर् ओजो गुदं शुक्रं शोणितं शङ्खकौ तथा ।
मूर्धांसकण्ठहृदयं प्राणस्यायतनानि तु ॥ यास्मृ३.९३ ॥

वपा वसावहननं नाभिः क्लोम यकृत् प्लिहा ।
क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानम् एव च ॥ यास्मृ३.९४ ॥

आमाशयोऽथ हृदयं स्थूलान्त्रं गुद एव च ।
उदरं च गुदौ कोष्ठ्यौ विस्तारोऽयम् उदाहृतः ॥ यास्मृ३.९५ ॥

कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ ।
कर्णौ शङ्खौ भ्रुवौ दन्त- वेष्टाव् ओष्ठौ ककुन्दरे ॥ यास्मृ३.९६ ॥

वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातजौ स्तनौ ।
उपजिह्वास्फिजौ बाहू जङ्घोरुषु च पिण्डिका ॥ यास्मृ३.९७ ॥

तालूदरं बस्तिशीर्षं चिबुके गलशुण्डिके ।
अवटश् चैवम् एतानि स्थानान्य् अत्र शरीरके ॥ यास्मृ३.९८ ॥

अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च ।
नव छिद्राणि तान्य् एव प्राणस्यायतनानि तु ॥ यास्मृ३.९९ ॥

शिराः शतानि सप्तैव नव स्नायुशतानि च ।
धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥ यास्मृ३.१०० ॥

एकोनत्रिंशल्लक्षाणि तथा नव शतानि च ।
षट्पञ्चाशच् च जानीत शिरा धमनिसंज्ञिताः ॥ यास्मृ३.१०१ ॥

त्रयो लक्षास् तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् ।
सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा ॥ यास्मृ३.१०२ ॥

रोम्णां कोट्यस् तु पञ्चाशच् चतस्रः कोट्य एव च ।
सप्तषष्टिस् तथा लक्षाः सार्धाः स्वेदायनैः सह ॥ यास्मृ३.१०३ ॥

वायवीयैर् विगण्यन्ते विभक्ताः परमाणवः ।
यद्य् अप्य् एकोऽनुवेत्त्य् एषां भावनां चैव संस्थितिम् ॥ यास्मृ३.१०४ ॥

रसस्य नव विज्ञेया जलस्याञ्जलयो दश ।
सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥ यास्मृ३.१०५ ॥

षट् श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रम् एव च ।
वसा त्रयो द्वौ तु मेदो मज्जैकोर्ध्वम् तु मस्तके ॥ यास्मृ३.१०६ ॥

श्लेष्मौजसस् तावद् एव रेतसस् तावद् एव तु ।
इत्य् एतद् अस्थिरं वर्ष्म यस्य मोक्षाय कृत्य् असौ ॥ यास्मृ३.१०७ ॥

द्वासप्ततिसहस्राणि हृदयाद् अभिनिःसृताः ।
हिताहिता नाम नाड्यस् तासां मध्ये शशिप्रभम् ॥ यास्मृ३.१०८ ॥

मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः ।
स ज्ञेयस् तं विदित्वेह पुनर् आजायते न तु ॥ यास्मृ३.१०९ ॥

ज्ञेयं चारण्यकम् अहं यद् आदित्याद् अवाप्तवान् ।
योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगम् अभीप्सता ॥ यास्मृ३.११० ॥

अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।
ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत् प्रभुः ॥ यास्मृ३.१११ ॥

यथाविधानेन पठन् सामगायम् अविच्युतम् ।
सावधानस् तद् अभ्यासात् परं ब्रह्माधिगच्छति ॥ यास्मृ३.११२ ॥

अपरान्तकम् उल्लोप्यं मद्रकं प्रकरीं तथा ।
औवेणकं सरोबिन्दुम् उत्तरं गीतकानि च ॥ यास्मृ३.११३ ॥

ऋग्गाथा पाणिका दक्ष- विहिता ब्रह्मगीतिका ।
गेयम् एतत् तदभ्यास- करणान् मोक्षसंज्ञितम् ॥ यास्मृ३.११४ ॥

वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः ।
तालज्ञश् चाप्रयासेन मोक्षमार्गं नियच्छति ॥ यास्मृ३.११५ ॥

गीतज्ञो यदि योगेन नाप्नोति परमं पदम् ।
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ यास्मृ३.११६ ॥

अनादिर् आत्मा कथितस् तस्यादिस् तु शरीरकम् ।
आत्मनस् तु जगत् सर्वं जगतश् चात्मसंभवः ॥ यास्मृ३.११७ ॥

कथम् एतद् विमुह्यामः सदेवासुरमानवम् ।
जगदुद्भूतम् आत्मा च कथं तस्मिन् वदस्व नः ॥ यास्मृ३.११८ ॥

मोहजालम् अपास्येह पुरुषो दृश्यते हि यः ।
सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रकः ॥ यास्मृ३.११९ ॥

स आत्मा चैव यज्ञश् च विश्वरूपः प्रजापतिः ।
विराजः सोऽन्नरूपेण यज्ञत्वम् उपगच्छति ॥ यास्मृ३.१२० ॥

यो द्रव्यदेवतात्याग- संभूतो रस उत्तमः ।
देवान् संतर्प्य स रसो यजमानं फलेन च ॥ यास्मृ३.१२१ ॥

संयोज्य वायुना सोमं नीयते रश्मिभिस् ततः ।
ऋग्यजुः सामविहितं सौरं धामोपनीयते ॥ यास्मृ३.१२२ ॥

खमण्डलाद् असौ सूर्यः सृजत्य् अमृतम् उत्तमम् ।
यज् जन्म सर्वभूतानाम् अशनानशनात्मनाम् ॥ यास्मृ३.१२३ ॥

तस्माद् अन्नात् पुनर् यज्ञः पुनर् अन्नं पुनः क्रतुः ।
एवम् एतद् अनाद्यन्तं चक्रं संपरिवर्तते ॥ यास्मृ३.१२४ ॥

अनादिर् आत्मा संभूतिर् विद्यते नान्तरात्मनः ।
समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ॥ यास्मृ३.१२५ ॥

सहस्रात्मा मया यो व आदिदेव उदाहृतः ।
मुखबाहूरुपज्जाः स्युस् तस्य वर्णा यथाक्रमम् ॥ यास्मृ३.१२६ ॥

पृथिवी पादतस् तस्य शिरसो द्यौर् अजायत ।
नस्तः प्राणा दिशः श्रोत्रात् स्पर्शाद् वायुर् मुखाच् छिखी ॥ यास्मृ३.१२७ ॥

मनसश् चन्द्रमा जातश् चक्षुषश् च दिवाकरः ।
जघनाद् अन्तरिक्षं च जगच् च सचराचरम् ॥ यास्मृ३.१२८ ॥

यद्य् एवं स कथं ब्रह्मन् पापयोनिषु जायते ।
ईश्वरः स कथं भावैर् अनिष्टैः संप्रयुज्यते ॥ यास्मृ३.१२९ ॥

करणैर् अन्वितस्यापि पूर्वं ज्ञानं कथं च न ।
वेत्ति सर्वगतां कस्मात् सर्वगोऽपि न वेदनाम् ॥ यास्मृ३.१३० ॥

अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः ।
दोषैः प्रयाति जीवोऽयं भवं योनिशतेषु च ॥ यास्मृ३.१३१ ॥

अनन्ताश् च यथा भावाः शरीरेषु शरीरिणाम् ।
रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् ॥ यास्मृ३.१३२ ॥

विपाकः कर्मणां प्रेत्य केषांचिद् इह जायते ।
इह वामुत्र वैकेषां भावस् तत्र प्रयोजनम् ॥ यास्मृ३.१३३ ॥

परद्रव्याण्य् अभिध्यायंस् तथानिष्टानि चिन्तयन् ।
वितथाभिनिवेशी च जायतेऽन्यासु योनिषु ॥ यास्मृ३.१३४ ॥

पुरुषोऽनृतवादी च पिशुनः परुषस् तथा ।
अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥ यास्मृ३.१३५ ॥

अदत्तादाननिरतः परदारोपसेवकः ।
हिंसकश् चाविधानेन स्थावरेष्व् अभिजायते ॥ यास्मृ३.१३६ ॥

आत्मज्ञः शौचवान् दान्तस् तपस्वी विजितेन्द्रियः ।
धर्मकृद् वेदविद्यावित् सात्त्विको देवयोनिताम् ॥ यास्मृ३.१३७ ॥

असत्कार्यरतोऽधीर आरम्भी विषयी च यः ।
स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ यास्मृ३.१३८ ॥

निद्रालुः क्रूरकृल् लुब्धो नास्तिको याचकस् तथा ।
प्रमादवान् भिन्नवृत्तो भवेत् तिर्यक्षु तामसः ॥ यास्मृ३.१३९ ॥

रजसा तमसा चैवं समाविष्टो भ्रमन्न् इह ।
भावैर् अनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥ यास्मृ३.१४० ॥

मलिनो हि यथा आदर्शो रूपालोकस्य न क्षमः ।
तथाविपक्वकरण आत्मज्ञानस्य न क्षमः ॥ यास्मृ३.१४१ ॥

कट्वेर् वारौ यथापक्वे मधुरः सन् रसोऽपि न ।
प्राप्यते ह्य् आत्मनि तथा नापक्वकरणे ज्ञता ॥ यास्मृ३.१४२ ॥

सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् ।
योगी मुक्तश् च सर्वासां यो न चाप्नोति वेदनाम् ॥ यास्मृ३.१४३ ॥

आकाशम् एकं हि यथा घटादिषु पृथग् भवेत् ।
तथात्मा एको ह्य् अनेकश् च जलाधारेष्व् इवांशुमान् ॥ यास्मृ३.१४४ ॥

ब्रह्मखानिलतेजांसि जलं भूश् चेति धातवः ।
इमे लोका एष चात्मा तस्माच् च सचराचरम् ॥ यास्मृ३.१४५ ॥

मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम् ।
करोति तृणमृत्काष्ठैर् गृहं वा गृहकारकः ॥ यास्मृ३.१४६ ॥

हेममात्रम् उपादाय रूपं वा हेमकारकः ।
निजलालासमायोगात् कोशं वा कोशकारकः ॥ यास्मृ३.१४७ ॥

कारणान्य् एवम् आदाय तासु तास्व् इह योनिषु ।
सृजत्य् आत्मानम् आत्मा च संभूय करणानि च ॥ यास्मृ३.१४८ ॥

महाभूतानि सत्यानि यथात्मापि तथैव हि ।
कोऽन्यथैकेन नेत्रेण दृष्टम् अन्येन पश्यति ॥ यास्मृ३.१४९ ॥

वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् ।
अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥ यास्मृ३.१५० ॥

जातिरूपवयोवृत्त- विद्यादिभिर् अहंकृतः ।
शब्दादिविषयोद्योगं कर्मणा मनसा गिरा ॥ यास्मृ३.१५१ ॥

स संदिग्धमतिः कर्म- फलम् अस्ति न वेति वा ।
विप्लुतः सिद्धम् आत्मानम् असिद्धोऽपि हि मन्यते ॥ यास्मृ३.१५२ ॥

मम दाराः सुतामात्या अहम् एषाम् इति स्थितिः ।
हिताहितेषु भावेषु विपरीतमतिः सदा ॥ यास्मृ३.१५३ ॥

ज्ञेयज्ञे प्रकृतौ चैव विकारे चाविशेषवान् ।
अनाशकानलाघात- जलप्रपतनोद्यमी ॥ यास्मृ३.१५४ ॥

एवंवृत्तोऽविनीतात्मा वितथाभिनिवेशवान् ।
कर्मणा द्वेषमोहाभ्याम् इच्छया चैव बध्यते ॥ यास्मृ३.१५५ ॥

आचार्योपासनं वेद- शास्त्रार्थेषु विवेकिता ।
तत्कर्मणाम् अनुष्ठानं सङ्गः सद्भिर् गिरः शुभाः ॥ यास्मृ३.१५६ ॥

स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् ।
त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥ यास्मृ३.१५७ ॥

विषयेन्द्रियसंरोधस् तन्द्रालस्यविवर्जनम् ।
शरीरपरिसंख्यानं प्रवृत्तिष्व् अघदर्शनम् ॥ यास्मृ३.१५८ ॥

नीरजस्तमसा सत्त्व- शुद्धिर् निःस्पृहता शमः ।
एतैर् उपायैः संशुद्धः सत्त्वयोग्य् अमृती भवेत् ॥ यास्मृ३.१५९ ॥

तत्त्वस्मृतेर् उपस्थानात् सत्त्वयोगात् परिक्षयात् ।
कर्मणां संनिकर्षाच् च सतां योगः प्रवर्तते ॥ यास्मृ३.१६० ॥

शरीरसंक्षये यस्य मनः सत्त्वस्थम् ईश्वरम् ।
अविप्लुतमतिः सम्यक् स जातिसंस्मरताम् इयात् ॥ यास्मृ३.१६१ ॥

यथा हि भरतो वर्णैर् वर्णयत्य् आत्मनस् तनुम् ।
नानारूपाणि कुर्वाणस् तथात्मा कर्मजास् तनूः ॥ यास्मृ३.१६२ ॥

कालकर्मात्मबीजानां दोषैर् मातुस् तथैव च ।
गर्भस्य वैकृतं दृष्टम् अङ्गहीनादि जन्मनः ॥ यास्मृ३.१६३ ॥

अहंकारेण मनसा गत्या कर्मफलेन च ।
शरीरेण च नात्मायं मुक्तपूर्वः कथंचन ॥ यास्मृ३.१६४ ॥

वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः ।
विक्रियापि च दृष्टैवम् अकाले प्राणसंक्षयः ॥ यास्मृ३.१६५ ॥

अनन्ता रश्मयस् तस्य दीपवद् यः स्थितो हृदि ।
सितासिताः कर्बुरूपाः कपिला नीललोहिताः ॥ यास्मृ३.१६६ ॥

ऊर्ध्वम् एकः स्थितस् तेषां यो भित्त्वा सूर्यमण्डलम् ।
ब्रह्मलोकम् अतिक्रम्य तेन याति परां गतिम् ॥ यास्मृ३.१६७ ॥

यद् अस्यान्यद् रश्मिशतम् ऊर्ध्वम् एव व्यवस्थितम् ।
तेन देवशरीराणि सधामानि प्रपद्यते ॥ यास्मृ३.१६८ ॥

येऽनेकरूपाश् चाधस्ताद् रश्मयोऽस्य मृदुप्रभाः ।
इह कर्मोपभोगाय तैः संसरति सोऽवशः ॥ यास्मृ३.१६९ ॥

वेदैः शास्त्रैः सविज्ञानैर् जन्मना मरणेन च ।
आर्त्या गत्या तथागत्या सत्येन ह्य् अनृतेन च ॥ यास्मृ३.१७० ॥

श्रेयसा सुखदुःखाभ्यां कर्मभिश् च शुभाशुभैः ।
निमित्तशाकुनज्ञान- ग्रहसंयोगजैः फलैः ॥ यास्मृ३.१७१ ॥

तारानक्षत्रसंचारैर् जागरैः स्वप्नजैर् अपि ।
आकाशपवनज्योतिर्- जलभूतिमिरैस् तथा ॥ यास्मृ३.१७२ ॥

मन्वन्तरैर् युगप्राप्त्या मन्त्रौषधिफलैर् अपि ।
वित्तात्मानं वेद्यमानं कारणं जगतस् तथा ॥ यास्मृ३.१७३ ॥

अहंकारः स्मृतिर् मेधा द्वेषो बुद्धिः सुखं धृतिः ।
इन्द्रियान्तरसंचार इच्छा धारणजीविते ॥ यास्मृ३.१७४ ॥

स्वर्गः स्वप्नश् च भावानां प्रेरणं मनसो गतिः ।
निमेषश् चेतना यत्न आदानं पाञ्चभौतिकम् ॥ यास्मृ३.१७५ ॥

यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः ।
तस्माद् अस्ति परो देहाद् आत्मा सर्वग ईश्वरः ॥ यास्मृ३.१७६ ॥

बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च ।
अहंकारश् च बुद्धिश् च पृथिव्यादीनि चैव हि ॥ यास्मृ३.१७७ ॥

अव्यक्तम् आत्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते ।
ईश्रवः सर्वभूतस्थः सन्न् असन् सद् असच् च यः ॥ यास्मृ३.१७८ ॥

बुद्धेर् उत्पत्तिर् अव्यक्तात् ततोऽहंकारसंभवः ।
तन्मात्रादीन्य् अहंकाराद् एकोत्तरगुणानि च ॥ यास्मृ३.१७९ ॥

शब्दः स्पर्शश् च रूपं च रसो गन्धश् च तद्गुणाः ।
यो यस्मान् निःसृतश् चैषां स तस्मिन्न् एव लीयते ॥ यास्मृ३.१८० ॥

यथात्मानं सृजत्य् आत्मा तथा वः कथितो मया ।
विपाकात् त्रिप्रकाराणां कर्मणाम् ईश्वरोऽपि सन् ॥ यास्मृ३.१८१ ॥

सत्त्वं रजस् तमश् चैव गुणास् तस्यैव कीर्तिताः ।
रजस्तमोभ्याम् आविष्टश् चक्रवद् भ्राम्यते ह्य् असौ ॥ यास्मृ३.१८२ ॥

अनादिर् आदिमांश् चैव स एव पुरुषः परः ।
लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः ॥ यास्मृ३.१८३ ॥

पितृयानोऽजवीथ्याश् च यद् अगस्त्यस्य चान्तरम् ।
तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति ॥ यास्मृ३.१८४ ॥

ये च दानपराः सम्यग् अष्टाभिश् च गुणैर् युताः ।
तेऽपि तेनैव मार्गेण सत्यव्रतपरायणाः ॥ यास्मृ३.१८५ ॥

तत्राष्टाशीतिसाहस्र- मुनयो गृहमेधिनः ।
पुनरावर्तिनो बीज- भूता धर्मप्रवर्तकाः ॥ यास्मृ३.१८६ ॥

सप्तर्षिनागवीथ्यन्तर् देवलोकं समाश्रिताः ।
तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥ यास्मृ३.१८७ ॥

तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ।
तत्र गत्वावतिष्ठन्ते यावद् आभूतसंप्लवम् ॥ यास्मृ३.१८८ ॥

यतो वेदाः पुराणानि विद्योपनिषदस् तथा ।
श्लोका सूत्राणि भाष्याणि यच् च किंचन वाङ्मयम् ॥ यास्मृ३.१८९ ॥

वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः ।
श्रद्धोपवासः स्वातन्त्र्यम् आत्मनो ज्ञानहेतवः ॥ यास्मृ३.१९० ॥

स ह्य् आश्रमैर् विजिज्ञास्यः समस्तैर् एवम् एव तु ।
द्रष्टव्यस् त्व् अथ मन्तव्यः श्रोतव्यश् च द्विजातिभिः ॥ यास्मृ३.१९१ ॥

य एनम् एवं विन्दन्ति य वारण्यकम् आश्रिताः ।
उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥ यास्मृ३.१९२ ॥

क्रमात् ते संभवन्त्य् अर्चिर् अहः शुक्लं तथोत्तरम् ।
अयनं देवलोकं च सवितारं सवैद्युतम् ॥ यास्मृ३.१९३ ॥

ततस् तान् पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् ।
करोति पुनरावृत्तिस् तेषाम् इह न विद्यते ॥ यास्मृ३.१९४ ॥

यज्ञेन तपसा दानैर् ये हि स्वर्गजितो नराः ।
धूमं निशां कृष्णपक्षं दक्षिणायनम् एव च ॥ यास्मृ३.१९५ ॥

पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् ।
क्रमात् ते संभवन्तीह पुनर् एव व्रजन्ति च ॥ यास्मृ३.१९६ ॥

एतद् यो न विजानाति मार्गद्वितयम् आत्मवान् ।
दन्दशूकः पतङ्गो वा भवेत् कीटोऽथ वा कृमिः ॥ यास्मृ३.१९७ ॥

ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् ।
उत्तानं किंचिद् उन्नाम्य मुखं विष्टभ्य चोरसा ॥ यास्मृ३.१९८ ॥

निमीलिताक्षः सत्त्वस्थो दन्तैर् दन्तान् असंस्पृशन् ।
तालुस्थाचलजिह्वश् च संवृतास्यः सुनिश्चलः ॥ यास्मृ३.१९९ ॥

संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः ।
द्विगुणं त्रिगुणं वापि प्राणायामम् उपक्रमेत् ॥ यास्मृ३.२०० ॥

ततो ध्येयः स्थितो योऽसौ हृदये दीपवत् प्रभुः ।
धारयेत् तत्र चात्मानं धारणां धारयन् बुधः ॥ यास्मृ३.२०१ ॥

अन्तर्धानं स्मृतिः कान्तिर् दृष्टिः श्रोत्रज्ञता तथा ।
निजं शरीरम् उत्सृज्य परकायप्रवेशनम् ॥ यास्मृ३.२०२ ॥

अर्थानां छन्दतः सृष्टिर् योगसिद्धेर् हि लक्षणम् ।
सिद्धे योगे त्यजन् देहम् अमृतत्वाय कल्पते ॥ यास्मृ३.२०३ ॥

अथ वाप्य् अभ्यसन् वेदं न्यस्तकर्मा वने वसन् ।
अयाचिताशी मितभुक् परां सिद्धिम् अवाप्नुयात् ॥ यास्मृ३.२०४ ॥

न्यायागतधनस् तत्त्व- ज्ञाननिष्ठोऽतिथिप्रियः ।
श्राधकृत् सत्यवादी च गृहस्थोऽपि हि मुच्यते ॥ यास्मृ३.२०५ ॥


[५. प्रायश्चित्तप्रकरणम्]

महापातकजान् घोरान् नरकान् प्राप्य दारुणान् ।
कर्मक्षयात् प्रजायन्ते महापातकिनस् त्व् इह ॥ यास्मृ३.२०६ ॥

मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिम् ऋच्छति ।
खरपुल्कसवेनानां सुरापो नात्र संशयः ॥ यास्मृ३.२०७ ॥

कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् ।
तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥ यास्मृ३.२०८ ॥

ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः ।
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ यास्मृ३.२०९ ॥

यो येन संवसत्य् एषां स तल्लिङ्गोऽभिजायते ।
अन्नहर्तामयावी स्यान् मूको वागपहारकः ॥ यास्मृ३.२१० ॥

धान्यमिश्रोऽतिरिक्ताञ्गः पिशुनः पूतिनासिकः ।
तैलहृत् तैलपायी स्यात् पूतिवक्त्रस् तु सूचकः ॥ यास्मृ३.२११ ॥

परस्य योषितं हृत्वा ब्रह्मस्वम् अपहृत्य च ।
अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ यास्मृ३.२१२ ॥

हीनजातौ प्रजायेत पररत्नापहारकः ।
पत्रशाकं शिखी हत्वा गन्धान् छुच्छुन्दरी शुभान् ॥ यास्मृ३.२१३ ॥

मूषको धान्यहारी स्याद् यानम् उष्ट्रः कपिः फलम् ।
जलं प्लवः पयः काको गृहकारी ह्य् उपस्करम् ॥ यास्मृ३.२१४ ॥

मधु दंशः पलं गृध्रो गां गोधाग्निं बकस् तथा ।
श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः ॥ यास्मृ३.२१५ ॥

प्रदर्शनार्थम् एतत् तु मयोक्तं स्तेयकर्मणि ।
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ यास्मृ३.२१६ ॥

यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् ।
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥ यास्मृ३.२१७ ॥

ततो निष्कल्मषीभूताः कुले महति भोगिनः ।
जायन्ते विद्ययोपेता धनधान्यसमन्विताः ॥ यास्मृ३.२१८ ॥

विहितस्याननुष्ठानान् निन्दितस्य च सेवनात् ।
अनिग्रहाच् चेन्द्रियाणां नरः पतनम् ऋच्छति ॥ यास्मृ३.२१९ ॥

तस्मात् तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये ।
एवम् अस्यान्तरात्मा च लोकश् चैव प्रसीदति ॥ यास्मृ३.२२० ॥

प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः ।
अपश्चात्तापिनः कष्टान् नरकान् यान्ति दारुणान् ॥ यास्मृ३.२२१ ॥

तामिस्रं लोहशङ्कुं च महानिरयशाल्मली ।
रौरवं कुड्मलं पूति- मृत्तिकं कालसूत्रकम् ॥ यास्मृ३.२२२ ॥

संघातं लोहितोदं च सविषं संप्रपातनम् ।
महानरककाकोलं संजीवनमहापथम् ॥ यास्मृ३.२२३ ॥

अवीचिम् अन्धतामिस्रं कुम्भीपाकं तथैव च ।
असिपत्रवनं चैव तापनं चैकविंशकम् ॥ यास्मृ३.२२४ ॥

महापातकजैर् घोरैर् उपपातकजैस् तथा ।
अन्विता यान्त्य् अचरित- प्रायश्चित्ता नराधमाः ॥ यास्मृ३.२२५ ॥

प्रायश्चित्तैर् अपैत्य् एनो यद् अज्ञानकृतं भवेत् ।
कामतो व्यवहार्यस् तु वचनाद् इह जायते ॥ यास्मृ३.२२६ ॥

ब्रह्महा मद्यपः स्तेनस् तथैव गुरुतल्पगः ।
एते महापातकिनो यश् च तैः सह संवसेत् ॥ यास्मृ३.२२७ ॥

गुरूणाम् अध्यधिक्षेपो वेदनिन्दा सुहृद्वधः ।
ब्रह्महत्यासमं ज्ञेयम् अधीतस्य च नाशनम् ॥ यास्मृ३.२२८ ॥

निषिद्धभक्षणं जैह्म्यम् उत्कर्षे च वचोऽनृतम् ।
रजस्वलामुखास्वादः सुरापानसमानि तु ॥ यास्मृ३.२२९ ॥

अश्वरत्नमनुष्यस्त्री- भूधेनुहरणं तथा ।
निक्षेपस्य च सर्वं हि सुवर्णस्तेयसम्मितम् ॥ यास्मृ३.२३० ॥

सखिभार्याकुमारीषु स्वयोनिष्व् अन्त्यजासु च ।
सगोत्रासु सुतन्त्रीषु गुरुतल्पसमं स्मृतम् ॥ यास्मृ३.२३१ ॥

पितुः स्वसारं मातुश् च मतुलानीं स्नुषाम् अपि ।
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ॥ यास्मृ३.२३२ ॥

आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ।
लिङ्गं छित्त्वा वधस् तस्य सकामायाः स्त्रिया अपि ॥ यास्मृ३.२३३ ॥

गोवधो व्रात्यता स्तेयम् ऋणानां चानपाक्रिया ।
अनाहिताग्नितापण्य- विक्रयः परिदेवनम् ॥ यास्मृ३.२३४ ॥

भृताद् अध्ययनादानं भृतकाध्यापनं तथा ।
पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया ॥ यास्मृ३.२३५ ॥

स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् ।
नास्तिक्यं व्रतलोपश् च सुतानां चैव विक्रयः ॥ यास्मृ३.२३६ ॥

धान्यकुप्यपशुस्तेयम् अयाज्यानां च याजनम् ।
पितृमातृसुतत्यागस् तडागारामविक्रयः ॥ यास्मृ३.२३७ ॥

कन्यासंदूषणं चैव परिविन्दकयाजनम् ।
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥ यास्मृ३.२३८ ॥

आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् ।
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥ यास्मृ३.२३९ ॥

इन्धनार्थं द्रुमछेदः स्त्रीहिंसाउषधजीवनम् ।
हिंस्रयन्त्रविधानं च व्यसनान्य् आत्मविक्रयः ॥ यास्मृ३.२४० ॥

शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम् ।
तथैवानाश्रमे वासः परान्नपरिपुष्टता ॥ यास्मृ३.२४१ ॥

असच्छास्त्राधिगमनम् आकरेष्व् अधिकारिता ।
भार्याया विक्रयश् चैषाम् एकैकम् उपपातकम् ॥ यास्मृ३.२४२ ॥

शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् ।
ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिम् आप्नुयात् ॥ यास्मृ३.२४३ ॥

ब्राह्मणस्य परित्राणाद् गवां द्वादशकस्य च ।
तथाश्वमेधावभृथ- स्नानाद् वा शुद्धिम् आप्नुयात् ॥ यास्मृ३.२४४ ॥

दीर्घतीव्रामयग्रस्तं ब्राह्मणं गाम् अथापि वा ।
दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः ॥ यास्मृ३.२४५ ॥

आनीय विप्रसर्वस्वं हृतं घातित एव वा ।
तन्निमित्तं क्षतः शस्त्रैर् जीवन्न् अपि विशुध्यति ॥ यास्मृ३.२४६ ॥

लोमभ्यः स्वाहेत्य् एवं हि लोमप्रभृति वै तनुम् ।
मज्जान्तां जुहुयाद् वापि मन्त्रैर् एभिर् यथाक्रमम् ॥ यास्मृ३.२४७ ॥

संग्रामे वा हतो लक्ष्य- भूतः शुद्धिम् अवाप्नुयात् ।
मृतकल्पः प्रहारार्तो जीवन्न् अपि विशुध्यति ॥ यास्मृ३.२४८ ॥

अरण्ये नियतो जप्त्वा त्रिर् वै वेदस्य संहिताम् ।
शुध्येत वा मिताशित्वात् प्रतिस्रोतः सरस्वतीम् ॥ यास्मृ३.२४९ ॥

पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिम् अवाप्नुयात् ।
आदातुश् च विशुद्ध्यर्थम् इष्टैर् वैश्वानरी स्मृता ॥ यास्मृ३.२५० ॥

यागस्थक्षत्रविड्घाती चरेद् ब्रह्महणि व्रतम् ।
गर्भहा च यथावर्णं तथात्रेयीनिषूदकः ॥ यास्मृ३.२५१ ॥

चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः ।
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आदिशेत् ॥ यास्मृ३.२५२ ॥

सुराम्बुघृतगोमूत्र- पयसाम् अग्निसंनिभम् ।
सुरापोऽन्यतमं पीत्वा मरणाच् छुद्धिम् ऋच्छति ॥ यास्मृ३.२५३ ॥

वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत् ।
पिण्याकं वा कणान् वापि भक्षयेत् त्रिसमा निशि ॥ यास्मृ३.२५४ ॥

अज्ञानात् तु सुरां पीत्वा रेतो विण्मूत्रम् एव च ।
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ यास्मृ३.२५५ ॥

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् ।
इहैव सा शुनी गृध्री सूकरी चोपजायते ॥ यास्मृ३.२५६ ॥

ब्राह्मणस्वर्णहारी तु राज्ञे मुसलम् अर्पयेत् ।
स्वकर्म व्याख्यायंस् तेन हतो मुक्तोऽपि वाशुचिः ॥ यास्मृ३.२५७ ॥

अनिवेद्य नृपे शुध्येत् सुरापव्रतम् आचरन् ।
आत्मतुल्यं सुवर्णं वा दद्याद् वा विप्रतुष्टिकृत् ॥ यास्मृ३.२५८ ॥

तप्तेऽयःशयने सार्धम् आयस्या योषिता स्वपेत् ।
गृहीत्वोत्कृत्य वृषणौ नैरृत्यां चोत्सृजेत् तनुम् ॥ यास्मृ३.२५९ ॥

प्राजापत्यं चरेत् कृच्छ्रं समा वा गुरुतल्पगः ।
चान्द्रायणं वा त्रीन् मासान् अभ्यसेद् वेदसंहिताम् ॥ यास्मृ३.२६० ॥

एभिस् तु संवसेद् यो वै वत्सरं सोऽपि तत्समः ।
कन्यां समुद्वहेद् एषां सोपवासाम् अकिंचनाम् ॥ यास्मृ३.२६१ ॥

चान्द्रायणं चरेत् सर्वान् अवकृष्टान् निहत्य तु ।
शूद्रोऽधिकारहीनोपि कालेनानेन शुध्यति ॥ यास्मृ३.२६२ ॥

पञ्चगव्यं पिबेद् गोघ्नो मासम् आसीत संयतः ।
गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति ॥ यास्मृ३.२६३ ॥

कृच्छ्रं चैवातिकृच्छ्रं च चरेद् वापि समाहितः ।
दद्यात् त्रिरात्रं चोपोष्य वृषभैकादशास् तु गाः ॥ यास्मृ३.२६४ ॥

उपपातकशुद्धिः स्याद् एवं चान्द्रायणेन वा ।
पयसा वापि मासेन पराकेणाथ वा पुनः ॥ यास्मृ३.२६५ ॥

ऋषभैकसहस्रा गा दद्यात् क्षत्रवधे पुमान् ।
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥ यास्मृ३.२६६ ॥

वैश्यहाब्दं चरेद् एतद् दद्याद् वैकशतं गवाम् ।
षण्मासाच् छूद्रहाप्य् एतद् धेनुर् दद्याद् दशाथ वा ॥ यास्मृ३.२६७ ॥

दुर्वृत्तब्रह्मविट्क्षत्र- शूद्रयोषाः प्रमाप्य तु ।
दृतिं धनुर् बस्तम् अविं क्रमाद् दद्याद् विशुद्धये ॥ यास्मृ३.२६८ ॥

अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ।
अस्थिमतां सहस्रं तु तथानस्थिमताम् अनः ॥ यास्मृ३.२६९ ॥

मार्जारगोधानकुल- मण्डूकांश् च पतत्रिणः ।
हत्वा त्र्यहं पिबेत् क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥ यास्मृ३.२७० ॥

गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः ।
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ॥ यास्मृ३.२७१ ॥

हंसश्येनकपिक्रव्याज् जलस्थलशिखण्डिनः ।
भासं च हत्वा दद्याद् गाम् अक्रव्यादस् तु वत्सिकाम् ॥ यास्मृ३.२७२ ॥

उरगेष्व् आयसो दण्डः पण्डके त्रपु सीसकम् ।
कोले घृतघटो देय उष्ट्रे गुञ्जा हयेऽंशुकम् ॥ यास्मृ३.२७३ ॥

तित्तिरौ तु तिलद्रोणं गजादीनाम् अशक्नुवन् ।
दानं दातुं चरेत् कृच्छ्रम् एकैकस्य विशुद्धये ॥ यास्मृ३.२७४ ॥

फलपुष्पान्नरसज- सत्त्वघाते घृताशनम् ।
किंचित् सास्थिवधे देयं प्राणायामस् त्व् अनस्थिके ॥ यास्मृ३.२७५ ॥

वृक्षगुल्मलतावीरु- च्छेदने जप्यम् ऋक्शतम् ।
स्याद् ओषधिवृथाछेदे क्षीराशी गोऽनुगो दिनम् ॥ यास्मृ३.२७६ ॥

पुंश्चलीवानरखरैर् दष्टश्वोष्ट्रादिवायसैः ।
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ यास्मृ३.२७७ ॥

यन् मेऽद्य रेत इत्याभ्यां स्कन्नं रेतोऽभिमन्त्रयेत् ।
स्तनान्तरं भ्रुवोर् मध्यं तेनानामिकया स्पृशेत् ॥ यास्मृ३.२७८ ॥

मयि तेज इति छायां स्वां दृष्ट्वाम्बुगतां जपेत् ।
सावित्रीम् अशुचौ दृष्टे चापल्ये चानृतेऽपि च ॥ यास्मृ३.२७९ ॥

अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् ।
गर्दभं पशुम् आलभ्य नैरृतं स विशुध्यति ॥ यास्मृ३.२८० ॥

भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रम् अनातुरः ।
कामावकीर्ण इत्य् आभ्यां जुहुयाद् आहुतिद्वयम् ॥ यास्मृ३.२८१ ॥

उपस्थानं ततः कुर्यात् सं मा सिंचन्त्व् अनेन तु ।
मधुमांसाशने कार्यः कृच्छ्रः शेषव्रतानि च ॥ यास्मृ३.२८२ ॥

प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति ।
कृच्छ्रत्रयं गुरुः कुर्यान् म्रियते प्रहितो यदि ॥ यास्मृ३.२८३ ॥

क्रियमाणोपकारे तु मृते विप्रे न पातकम् ।
विपाके गोवृषाणां तु भेषजाग्निक्रियासु च ॥ यास्मृ३.२८३॒१ ॥

मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः ।
मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन् ॥ यास्मृ३.२८४ ॥

महापापोपपापाभ्यां योऽभिशंसेन् मृषा परम् ।
अब्भक्षो मासम् आसीत स जापी नियतेन्द्रियः ॥ यास्मृ३.२८५ ॥

अभिशस्तो मृषा कृच्छ्रं चरेद् आग्नेयम् एव वा ।
निर्वपेत् तु पुरोडाशं वायव्यं पशुम् एव वा ॥ यास्मृ३.२८६ ॥

अनियुक्तो भ्रातृजायां गच्छंश् चान्द्रायणं चरेत् ।
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥ यास्मृ३.२८७ ॥

त्रीन् कृच्छ्रान् आचरेद् व्रात्य- याजकोऽभिचरन्न् अपि ।
वेदप्लावी यवाश्य् अब्दं त्यक्त्वा च शरणागतम् ॥ यास्मृ३.२८८ ॥

गोष्ठे वसन् ब्रह्मचारी मासम् एकं पयोव्रतम् ।
गायत्रीजप्यनिरतः शुध्यतेऽसत्प्रतिग्रहात् ॥ यास्मृ३.२८९ ॥

प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः ।
नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥ यास्मृ३.२९० ॥

गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः ।
बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद् दिनम् ॥ यास्मृ३.२९१ ॥

विप्रदण्डोद्यमे कृच्छ्रस् त्व् अतिकृच्छ्रो निपातने ।
कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते ॥ यास्मृ३.२९२ ॥

देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः ।
प्रायश्चित्तं प्रकल्प्यं स्याद् यत्र चोक्ता न निष्कृतिः ॥ यास्मृ३.२९३ ॥

दाषीकुम्भं बहिर्ग्रामान् निनयेरन् स्वबान्धवाः ।
पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ॥ यास्मृ३.२९४ ॥

चरितव्रत आयाते निनयेरन् नवं घटम् ।
जुगुप्सेरन् न चाप्य् एनं संवसेयुश् च सर्वशः ॥ यास्मृ३.२९५ ॥

पतितानाम् एष एव विधिः स्त्रीणां प्रकीर्तितः ।
वासो गृहान्तके देयम् अन्नं वासः सरक्षणम् ॥ यास्मृ३.२९६ ॥

नीचाभिगमनं गर्भ- पातनं भर्तृहिंसनम् ।
विशेषपतनीयानि स्त्रीमाम् एतान्य् अपि ध्रुवम् ॥ यास्मृ३.२९७ ॥

शरणागतबालस्त्री- हिंसकान् संवसेन् न तु ।
चीर्णव्रतान् अपि सतः कृतघ्नसहितान् इमान् ॥ यास्मृ३.२९८ ॥

घटेऽपवर्जिते ज्ञाति- मध्यस्थो यवसं गवाम् ।
स दद्यात् प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया ॥ यास्मृ३.२९९ ॥

विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम् ।

[रहस्यप्रायश्चित्तम्]

अनभिख्यातदोषस् तु रहस्यं व्रतम् आचरेत् ॥ यास्मृ३.३०० ॥

त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्व् अघमर्षणम् ।
अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनाम् ॥ यास्मृ३.३०१ ॥

लोमभ्यः स्वाहेत्य् अथ वा दिवसं मारुताशनः ।
जले स्थित्वाभिजुहुयाच् चत्वारिंशद्घृताहुतीः ॥ यास्मृ३.३०२ ॥

त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर् घृतं शुचिः ।
ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः ॥ यास्मृ३.३०३ ॥

सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः ।
गौर् देया कर्मणोऽस्यान्ते पृथग् एभिः पयस्विनी ॥ यास्मृ३.३०४ ॥

प्राणायामशतं कार्यं सर्वपापापनुत्तये ।
उपपातकजातानाम् अनादिष्टस्य चैव हि ॥ यास्मृ३.३०५ ॥

ओंकाराभिष्टुतं सोम- सलिलं पावनं पिबेत् ।
कृत्वा हि रेतोविण्मूत्र- प्राशनं तु द्विजोत्तमः ॥ यास्मृ३.३०६ ॥

निशायां वा दिवा वापि यद् अज्ञानकृतं भवेत् ।
त्रैकाल्यसंध्याकरणात् तत् सर्वं विप्रणश्यति ॥ यास्मृ३.३०७ ॥

शुक्रियारण्यकजपो गायत्र्याश् च विशेषतः ।
सर्वपापहरा ह्य् एते रुद्रैकादशिनी तथा ॥ यास्मृ३.३०८ ॥

यत्र यत्र च संकीर्णम् आत्मानं मन्यते द्विजः ।
तत्र तत्र तिलैर् होमो गायत्र्या वाचनं तथा ॥ यास्मृ३.३०९ ॥

वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् ।
न स्पृशन्तीह पापानि महापातकजान्य् अपि ॥ यास्मृ३.३१० ॥

वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् ।
जप्त्वा सहस्रं गायत्र्याः शुध्येद् ब्रह्मवधाद् ऋते ॥ यास्मृ३.३११ ॥

ब्रह्मचर्यं दया क्षान्तिर् दानं सत्यम् अकल्कता ।
अहिंसा स्तेयमाधुर्ये दमश् चेति यमाः स्मृताः ॥ यास्मृ३.३१२ ॥

स्नानं मौनोपवासेज्या- स्वाध्यायोपस्थनिग्रहाः ।
नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ॥ यास्मृ३.३१३ ॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
जग्ध्वा परेऽह्न्य् उपवसेत् कृच्छ्रं सान्तपनं चरेत् ॥ यास्मृ३.३१४ ॥

पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥ यास्मृ३.३१५ ॥

पर्णोदुम्बरराजीव- बिल्वपत्रकुशोदकैः ।
प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥ यास्मृ३.३१६ ॥

तप्तक्षीरघृताम्बूनाम् एकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश् च तप्तकृच्छ्र उदाहृतः ॥ यास्मृ३.३१७ ॥

एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः ॥ यास्मृ३.३१८ ॥

यथाकथंचित् त्रिगुणः प्राजापत्योऽयम् उच्यते ।
अयम् एवातिकृच्छ्रः स्यात् पाणिपूरान्नभोजनः ॥ यास्मृ३.३१९ ॥

कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् ।
द्वादशाहोपवासेन पराकः परिकीर्तितः ॥ यास्मृ३.३२० ॥

पिण्याकाचामतक्राम्बु- सक्तूनां प्रतिवासरम् ।
एकरात्रोपवासश् च कृच्छ्रः सौम्योऽयम् उच्यते ॥ यास्मृ३.३२१ ॥

एषां त्रिरात्रम् अभ्यासाद् एकैकस्य यथाक्रमम् ।
तुलापुरुष इत्य् एष ज्ञेयः पञ्चदशाहिकः ॥ यास्मृ३.३२२ ॥

तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसम्मितान् ।
एकैकं ह्रासयेत् कृष्ने पिण्डं चान्द्रायणं चरन् ॥ यास्मृ३.३२३ ॥

यथाकथंचित् पिण्डानां चत्वारिंशच् छतद्वयम् ।
मासेनैवोपभुञ्जीत चान्द्रायणम् अथापरम् ॥ यास्मृ३.३२४ ॥

कुर्यात् त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा ।
पवित्राणि जपेत् पिण्डान् गायत्र्या चाभिमन्त्रयेत् ॥ यास्मृ३.३२५ ॥

अनादिष्टेषु पापेषु शुद्धिश् चान्द्रायणेन च ।
धर्मार्थं यश् चरेद् एतच् चन्द्रस्यैति सलोकताम् ॥ यास्मृ३.३२६ ॥

कृच्छ्रकृद् धर्मकामस् तु महतीं श्रियम् आप्नुयात् ।
यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः ॥ यास्मृ३.३२७ ॥

श्रुत्वैतान् ऋषयो धर्मान् याज्ञवल्क्येन भाषितान् ।
इदम् ऊचुर् महात्मानं योगीन्द्रम् अमितौजसम् ॥ यास्मृ३.३२८ ॥

य इदं धारयिष्यन्ति धर्मशास्त्रम् अतन्द्रिताः ।
इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥ यास्मृ३.३२९ ॥

विद्यार्थी प्राप्नुयाद् विद्यां धनकामो धनं तथा ।
आयुष्कामस् तथैवायुः श्रीकामो महतीं श्रियम् ॥ यास्मृ३.३३० ॥

श्लोकत्रयम् अपि ह्य् अस्माद् यः श्राद्धे श्रावयिष्यति ।
पितॄणां तस्य तृप्तिः स्याद् अक्षय्या नात्र संशयः ॥ यास्मृ३.३३१ ॥

ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् ।
वैश्यश् च धान्यधनवान् अस्य शास्त्रस्य धारणात् ॥ यास्मृ३.३३२ ॥

य इदं श्रावयेद् विद्वान् द्विजान् पर्वसु पर्वसु ।
अश्वमेधफलं तस्य तद् भवान् अनुमन्यताम् ॥ यास्मृ३.३३३ ॥

श्रुत्वैतद् याज्ञवक्ल्योऽपि प्रीतात्मा मुनिभाषितम् ।
एवम् अस्त्व् इति होवाच नमस्कृत्य स्वयंभुवे ॥ यास्मृ३.३३४ ॥