सामग्री पर जाएँ

०१आयुष्कामीय:

विकिपुस्तकानि तः

अथात आयुष्कामीयमध्यायं व्याख्यास्यामः॥
इति ह स्माहुरात्रेयादयो महर्षयः॥
पदच्छेदः–
अथ अतः आयुष्कामीयम्–अध्यायं वि–आ–ख्यास्यामः।
इति ह स्म आहुः आत्रेय–आदयः महर्षयः।
अन्वयः–
अथ अतः आयुष्कामीयम्–अध्यायं वि–आ–ख्यास्यामः।
इति ह आत्रेय–आदयः महर्षयः आहुः स्म।

आयुः कामयमानेन धर्मार्थसुखसाधनम्। आयुर्वेदोपदेशेषु विधेयः परम् आदरः ॥ २ ॥
पदच्छेद:-
आयुः कामयमानेन धर्म-अर्थ-सुख-साधनम्। आयुर्वेद-उपदेशेषु विधेयः परम-आदरः ॥ २ ॥
अन्वयः–
धर्म-अर्थ-सुख-साधनम् आयुः कामयमानेन आयुर्वेद-उपदेशेषु परम-आदरः विधेयः॥


ब्रह्मा स्मृत्वायुषो वेदं प्रजापतिमजिग्रहत् । सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान् मुनीन् ॥ ३ ॥

पदच्छेद:-

ब्रह्मा स्मृत्वा आयुष: वेदं प्रजापतिम् अजिग्रहत् ।स: अश्विनौ तौ सहस्र-अक्षं स: अत्रि-पुत्र-आदिकान् मुनीन् ॥ ३ ॥


ते ऽग्निवेशादिकांस् ते तु पृथक् तन्त्राणि तेनिरे ।तेभ्यो ऽति-विप्रकीर्णेभ्यः प्रायः सार-तरोच्चयः ॥ ४ ॥

पदच्छेद:-

ते अग्निवेश-आदिकान् ते तु पृथक् तन्त्राणि तेनिरे ।तेभ्य: अति-विप्रकीर्णेभ्यः प्रायः सारतर-उच्चयः ॥ ४ ॥


क्रियते ऽष्टाङ्ग-हृदयं नाति-संक्षेप-विस्तरम् ।काय-बाल-ग्रहोर्ध्वाङ्ग-शल्य-दंष्ट्रा-जरा-वृषान् ॥ ५ ॥

पदच्छेद:-

क्रियते अष्ट-अङ्ग-हृदयं न-अति-संक्षेप-विस्तरम् ।काय-बाल-ग्रह-ऊर्ध्व-अङ्ग-शल्य-दंष्ट्रा-जरा-वृषान् ॥ ५ ॥


अष्टाव् अङ्गानि तस्याहुश् चिकित्सा येषु संश्रिता ।वायुः पित्तं कफश् चेति त्रयो दोषाः समासतः ॥ ६ ॥

पदच्छेद:-

अष्टौ अङ्गानि तस्य आहु: चिकित्सा येषु संश्रिता ।वायुः पित्तं कफ: च इति त्रय: दोषाः समासतः ॥ ६ ॥


विकृता-विकृता देहं घ्नन्ति ते वर्तयन्ति च ।ते व्यापिनो ऽपि हृन्-नाभ्योर् अधो-मध्योर्ध्व-संश्रयाः ॥ ७ ॥

पदच्छेद:-

विकृत-अविकृता: देहं घ्नन्ति ते वर्तयन्ति च ।ते व्यापिन: अपि हृत्-नाभ्यो: अध:-मध्य-ऊर्ध्व-संश्रयाः ॥ ७ ॥


वयो-ऽहो-रात्रि-भुक्तानां ते ऽन्त-मध्यादि-गाः क्रमात् ।तैर् भवेद् विषमस् तीक्ष्णो मन्दश् चाग्निः समैः समः ॥ ८ ॥

पदच्छेद:-

वय:अहन्-रात्रि-भुक्तानां ते अन्त-मध्य-आदि-गाः क्रमात् ।तै: भवेद् विषम: तीक्ष्ण: मन्द: च अग्निः समैः समः ॥ ८ ॥


कोष्ठः क्रूरो मृदुर् मध्यो मध्यः स्यात् तैः समैर् अपि ।शुक्रार्तव-स्थैर् जन्मादौ विषेणेव विष-क्रिमेः ॥ ९ ॥

पदच्छेद:-

कोष्ठः क्रूर: मृदु: मध्य: मध्यः स्यात् तैः समै: अपि ।शुक्र-आर्तव-स्थै: जन्म-आदौ विषेण इव विष-क्रिमेः ॥ ९ ॥


तैश् च तिस्रः प्रकृतयो हीन-मध्योत्तमाः पृथक् ।सम-धातुः समस्तासु श्रेष्ठा निन्द्या द्वि-दोष-जाः ॥ १० ॥

पदच्छेद:-

तै: च तिस्रः प्रकृतय: हीन-मध्य-उत्तमाः पृथक् ।सम-धातुः समस्तासु श्रेष्ठा निन्द्या: द्वि-दोष-जाः ॥ १० ॥


तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश् चलो ऽनिलः ।पित्तं स-स्नेह-तीक्ष्णोष्णं लघु विस्रं सरं द्रवम् ॥ ११ ॥

पदच्छेद:-

तत्र रूक्ष: लघुः शीतः खरः सूक्ष्म: चल: अनिलः ।पित्तं स-स्नेह-तीक्ष्ण-उष्णं लघु विस्रं सरं द्रवम् ॥ ११ ॥

स्निग्धः शीतो गुरुर् मन्दः श्लक्ष्णो मृत्स्नः स्थिरः कफः ।संसर्गः संनिपातश् च तद्-द्वि-त्रि-क्षय-कोपतः ॥ १२ ॥

पदच्छेद:-

स्निग्धः शीत: गुरु: मन्दः श्लक्ष्ण: मृत्स्नः स्थिरः कफः ।संसर्गः संनिपात: च तद्-द्वि-त्रि-क्षय-कोपतः ॥ १२ ॥


रसासृङ्-मांस-मेदो-ऽस्थि-मज्ज-शुक्राणि धातवः ।सप्त दूष्या मला मूत्र-शकृत्-स्वेदादयो ऽपि च ॥ १३ ॥

पदच्छेद:- रस-असृक्-मांस-मेद:-अस्थि-मज्ज-शुक्राणि धातवः ।सप्त दूष्या: मला: मूत्र-शकृत्-स्वेद-आदय: अपि च ॥ १३ ॥

वृद्धिः समानैः सर्वेषां विपरीतैर् विपर्ययः ।रसाः स्वाद्व्-अम्ल-लवण-तिक्तोषण-कषायकाः ॥ १४ ॥

पदच्छेद:- वृद्धिः समानैः सर्वेषां विपरीतै: विपर्ययः ।रसाः स्वादु-अम्ल-लवण-तिक्त-उषण-कषायकाः ॥ १४ ॥


षड् द्रव्यम् आश्रितास् ते च यथा-पूर्वं बलावहाः ।तत्राद्या मारुतं घ्नन्ति त्रयस् तिक्तादयः कफम् ॥ १५ ॥

पदच्छेद:- षड् द्रव्यम् आश्रिता: ते च यथा-पूर्वं बल-आवहाः ।तत्र आद्या: मारुतं घ्नन्ति त्रय: तिक्त-आदयः कफम् ॥ १५ ॥


कषाय-तिक्त-मधुराः पित्तम् अन्ये तु कुर्वते ।शमनं कोपनं स्वस्थ-हितं द्रव्यम् इति त्रि-धा ॥ १६ ॥

पदच्छेद:-

कषाय-तिक्त-मधुराः पित्तम् अन्ये तु कुर्वते ।शमनं कोपनं स्वस्थ-हितं द्रव्यम् इति त्रि-धा ॥ १६ ॥


उष्ण-शीत-गुणोत्कर्षात् तत्र वीर्यं द्वि-धा स्मृतम् ।त्रि-धा विपाको द्रव्यस्य स्वाद्व्-अम्ल-कटुकात्मकः ॥ १७ ॥

पदच्छेद:-

उष्ण-शीत-गुण-उत्कर्षात् तत्र वीर्यं द्वि-धा स्मृतम् ।त्रि-धा विपाक: द्रव्यस्य स्वादु-अम्ल-कटुक-आत्मकः ॥ १७ ॥


गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिराः ।गुणाः स-सूक्ष्म-विशदा विंशतिः स-विपर्ययाः ॥ १८ ॥

पदच्छेद:-

गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिराः ।गुणाः स-सूक्ष्म-विशदा: विंशतिः स-विपर्ययाः ॥ १८ ॥


कालार्थ-कर्मणां योगो हीन-मिथ्याति-मात्रकः ।सम्यग्-योगश् च विज्ञेयो रोगारोग्यैक-कारणम् ॥ १९ ॥

पदच्छेद:- काल-अर्थ-कर्मणां योगो हीन-मिथ्या-अति-मात्रकः ।सम्यग्-योग: च विज्ञेय: रोग-आरोग्य-एक-कारणम् ॥ १९ ॥


रोगस् तु दोष-वैषम्यं दोष-साम्यम् अ-रोग-ता ।निजागन्तु-विभागेन तत्र रोगा द्वि-धा स्मृताः ॥ २० ॥

पदच्छेद:-

रोग: तु दोष-वैषम्यं दोष-साम्यम् अ-रोग-ता ।निज-आगन्तु-विभागेन तत्र रोगा: द्वि-धा स्मृताः ॥ २० ॥


तेषां काय-मनो-भेदाद् अधिष्ठानम् अपि द्वि-धा ।रजस् तमश् च मनसो द्वौ च दोषाव् उदाहृतौ ॥ २१ ॥

पदच्छेद:-

तेषां काय-मनो-भेदाद् अधिष्ठानम् अपि द्वि-धा ।रज: तम: च मनस: द्वौ च दोषौ उदाहृतौ ॥ २१ ॥


दर्शन-स्पर्शन-प्रश्नैः परीक्षेत च रोगिणम् ।रोगं निदान-प्राग्-रूप-लक्षणोपशयाप्तिभिः ॥ २२ ॥

पदच्छेद:-

दर्शन-स्पर्शन-प्रश्नैः परीक्षेत च रोगिणम् ।रोगं निदान-प्राग्-रूप-लक्षण-उपशय-आप्तिभिः ॥ २२ ॥

१.२२bv संपरीक्षेत रोगिणम् १.२२bv परीक्षेताथ रोगिणम्

भूमि-देह-प्रभेदेन देशम् आहुर् इह द्वि-धा ।जाङ्गलं वात-भूयिष्ठम् आनूपं तु कफोल्बणम् ॥ २३ ॥

पदच्छेद:-

भूमि-देह-प्रभेदेन देशम् आहु: इह द्वि-धा ।जाङ्गलं वात-भूयिष्ठम् आनूपं तु कफोल्बणम् ॥ २३ ॥


साधारणं सम-मलं त्रि-धा भू-देशम् आदिशेत् ।क्षणादिर् व्याध्य्-अवस्था च कालो भेषज-योग-कृत् ॥ २४ ॥

पदच्छेद:-

साधारणं सम-मलं त्रि-धा भू-देशम् आदिशेत् ।क्षण-आदि: व्याधि-अवस्था च काल: भेषज-योग-कृत् ॥ २४ ॥


शोधनं शमनं चेति समासाद् औषधं द्वि-धा ।शरीर-जानां दोषाणां क्रमेण परमौषधम् ॥ २५ ॥

पदच्छेद:-

शोधनं शमनं च इति समासाद् औषधं द्वि-धा ।शरीर-जानां दोषाणां क्रमेण परम-औषधम् ॥ २५ ॥


बस्तिर् विरेको वमनं तथा तैलं घृतं मधु ।धी-धैर्यात्मादि-विज्ञानं मनो-दोषौषधं परम् ॥ २६ ॥

पदच्छेद:-

बस्ति: विरेक: वमनं तथा तैलं घृतं मधु ।धी-धैर्य-आत्मा-आदि-विज्ञानं मन:-दोष-औषधं परम् ॥ २६ ॥


भिषग् द्रव्याण्य् उपस्थाता रोगी पाद-चतुष्टयम् ।चिकित्सितस्य निर्दिष्टं प्रत्य्-एकं तच् चतुर्-गुणम् ॥ २७ ॥

पदच्छेद:- भिषग् द्रव्याणि उपस्थाता रोगी पाद-चतुष्टयम् ।चिकित्सितस्य निर्दिष्टं प्रत्येकं तत् चतुर्-गुणम् ॥ २७ ॥


दक्षस् तीर्थात्त-शास्त्रार्थो दृष्ट-कर्मा शुचिर् भिषक् ।बहु-कल्पं बहु-गुणं संपन्नं योग्यम् औषधम् ॥ २८ ॥

पदच्छेद:- दक्ष: तीर्थ-आत्त-शास्त्र-अर्थ: दृष्ट-कर्मा शुचि: भिषक् ।बहु-कल्पं बहु-गुणं संपन्नं योग्यम् औषधम् ॥ २८ ॥


अनुरक्तः शुचिर् दक्षो बुद्धि-मान् परिचारकः ।आढ्यो रोगी भिषग्-वश्यो ज्ञापकः सत्-त्व-वान् अपि ॥ २९ ॥

पदच्छेद:-

अनुरक्तः शुचि: दक्ष: बुद्धि-मान् परिचारकः ।आढ्य: रोगी भिषग्-वश्य: ज्ञापकः सत्त्ववान् अपि ॥ २९ ॥


साध्यो ऽ-साध्य इति व्याधिर् द्वि-धा तौ तु पुनर् द्वि-धा ।सु-साध्यः कृच्छ्र-साध्यश् च याप्यो यश् चान्-उपक्रमः ॥ २९+(१) ॥

पदच्छेद:-

साध्य: असाध्य: इति व्याधि: द्वि-धा तौ तु पुनर् द्वि-धा ।सु-साध्यः कृच्छ्र-साध्य: च याप्य: य: च अनुपक्रमः ॥ २९+(१) ॥


सर्वौषध-क्षमे देहे यूनः पुंसो जितात्मनः ।अ-मर्म-गो ऽल्प-हेत्व्-अग्र-रूप-रूपो ऽन्-उपद्रवः ॥ ३० ॥

पदच्छेद:-

सर्व-औषध-क्षमे देहे यूनः पुंस: जित-आत्मनः ।अ-मर्म-ग: अल्प-हेतु-अग्ररूप-रूप: अनुपद्रवः ॥ ३० ॥


अ-तुल्य-दूष्य-देशर्तु-प्रकृतिः पाद-संपदि ।ग्रहेष्व् अनु-गुणेष्व् एक-दोष-मार्गो नवः सुखः ॥ ३१ ॥

पदच्छेद:- अ-तुल्य-दूष्य-देश-ऋतु-प्रकृतिः पाद-संपदि ।ग्रहेषु अनुगुणेषु एक-दोष-मार्ग: नवः सुखः ॥ ३१ ॥


शस्त्रादि-साधनः कृच्छ्रः संकरे च ततो गदः ।शेष-त्वाद् आयुषो याप्यः पथ्याभ्यासाद् विपर्यये ॥ ३२ ॥

पदच्छेद:-

शस्त्र-आदि-साधनः कृच्छ्रः संकरे च तत: गदः ।शेषत्वाद् आयुष: याप्यः पथ्य-अभ्यासाद् विपर्यये ॥ ३२ ॥


अन्-उपक्रम एव स्यात् स्थितो ऽत्य्-अन्त-विपर्यये ।औत्सुक्य-मोहा-रति-कृद् दृष्ट-रिष्टो ऽक्ष-नाशनः ॥ ३३ ॥

पदच्छेद:-

अन्-उपक्रम एव स्यात् स्थित: अत्यन्त-विपर्यये ।औत्सुक्य-मोह-अरति-कृद् दृष्ट-रिष्ट: अक्ष-नाशनः ॥ ३३ ॥


त्यजेद् आर्तं भिषग्-भूपैर् द्विष्टं तेषां द्विषं द्विषम् ।हीनोपकरणं व्यग्रम् अ-विधेयं गतायुषम् ॥ ३४ ॥

पदच्छेद:-

त्यजेद् आर्तं भिषग् भूपै: द्विष्टं तेषां द्विषं द्विषम् ।हीन-उपकरणं व्यग्रम् अ-विधेयं गत-आयुषम् ॥ ३४ ॥


चण्डं शोकातुरं भीरुं कृत-घ्नं वैद्य-मानिनम् ।तन्त्रस्यास्य परं चातो वक्ष्यते ऽध्याय-संग्रहः ॥ ३५ ॥

पदच्छेद:-

चण्डं शोक-आतुरं भीरुं कृत-घ्नं वैद्य-मानिनम् ।तन्त्रस्य अस्य परं च अत: वक्ष्यते अध्याय-संग्रहः ॥ ३५ ॥

आयुष्-काम-दिनर्त्व्-ईहा-रोगान्-उत्पादन-द्रवाः ।अन्न-ज्ञानान्न-संरक्षा-मात्रा-द्रव्य-रसाश्रयाः ॥ ३६ ॥

पदच्छेद:-

आयुष्-काम-दिन-ऋतु-ईहा-रोग-अनुत्पादन-द्रवाः ।अन्न-ज्ञान-अन्न-संरक्षा-मात्रा-द्रव्य-रसाश्रयाः ॥ ३६ ॥


दोषादि-ज्ञान-तद्-भेद-तच्-चिकित्सा-द्व्य्-उपक्रमाः ।शुद्ध्य्-आदि-स्नेहन-स्वेद-रेकास्थापन-नावनम् ॥ ३७ ॥

पदच्छेद:-

दोष-आदि-ज्ञान-तद्-भेद-तत्-चिकित्सा-द्वि-उपक्रमाः ।शुद्धि-आदि-स्नेहन-स्वेद-रेक-आस्थापन-नावनम् ॥ ३७ ॥


धूम-गण्डूष-दृक्-सेक-तृप्ति-यन्त्रक-शस्त्रकम् ।सिरा-विधिः शल्य-विधिः शस्त्र-क्षाराग्नि-कर्मिकौ ॥ ३८ ॥

पदच्छेद:-

धूम-गण्डूष-दृक्-सेक-तृप्ति-यन्त्रक-शस्त्रकम् ।सिरा-विधिः शल्य-विधिः शस्त्र-क्षार-अग्नि-कर्मिकौ ॥ ३८ ॥

१.३८cv सिरा-व्यधः शल्य-विधिः


सूत्र-स्थानम् इमे ऽध्यायास् त्रिंशच् छारीरम् उच्यते ।गर्भावक्रान्ति-तद्-व्यापद्-अङ्ग-मर्म-विभागिकम् ॥ ३९ ॥

पदच्छेद:-

सूत्र-स्थानम् इमे अध्याया: त्रिंशत् शारीरम् उच्यते ।गर्भ-अवक्रान्ति-तद्-व्यापद्-अङ्ग-मर्म-विभागिकम् ॥ ३९ ॥


विकृतिर् दूत-जं षष्ठं निदानं सार्वरोगिकम् ।ज्वरासृक्-श्वास-यक्ष्मादि-मदाद्य्-अर्शो-ऽतिसारिणाम् ॥ ४० ॥

पदच्छेद:-

विकृति: दूत-जं षष्ठं निदानं सार्वरोगिकम् ।ज्वर-असृक्-श्वास-यक्ष्म-आदि-मद-आदि-अर्श:-अतिसारिणाम् ॥ ४० ॥


मूत्राघात-प्रमेहाणां विद्रध्य्-आद्य्-उदरस्य च ।पाण्डु-कुष्ठानिलार्तानां वातास्रस्य च षोडश ॥ ४१ ॥

पदच्छेद:-

मूत्र-आघात-प्रमेहाणां विद्रधि-आदि-उदरस्य च ।पाण्डु-कुष्ठ-अनिल-आर्तानां वात-अस्रस्य च षोडश ॥ ४१ ॥


चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि ।वमौ मदात्यये ऽर्शःसु विषि द्वौ द्वौ च मूत्रिते ॥ ४२ ॥

पदच्छेद:-

चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि ।वमौ मद-अत्यये अर्शःसु विषि द्वौ द्वौ च मूत्रिते ॥ ४२ ॥


विद्रधौ गुल्म-जठर-पाण्डु-शोफ-विसर्पिषु ।कुष्ठ-श्वित्रानिल-व्याधि-वातास्रेषु चिकित्सितम् ॥ ४३ ॥

पदच्छेद:-

विद्रधौ गुल्म-जठर-पाण्डु-शोफ-विसर्पिषु ।कुष्ठ-श्वित्र-अनिल-व्याधि-वात-अस्रेषु चिकित्सितम् ॥ ४३ ॥


द्वा-विंशतिर् इमे ऽध्यायाः कल्प-सिद्धिर् अतः परम् ।कल्पो वमेर् विरेकस्य तत्-सिद्धिर् वस्ति-कल्पना ॥ ४४ ॥

पदच्छेद:-

द्वा-विंशति: इमे अध्यायाः कल्प-सिद्धि: अतः परम् ।कल्प: वमे: विरेकस्य तत्-सिद्धि: वस्ति-कल्पना ॥ ४४ ॥


सिद्धिर् वस्त्य्-आपदां षष्ठो द्रव्य-कल्पो ऽत उत्तरम् ।बालोपचारे तद्-व्याधौ तद्-ग्रहे द्वौ च भूतगे ॥ ४५ ॥

पदच्छेद:-

सिद्धिर: बस्ति-आपदां षष्ठ: द्रव्य-कल्प: अत: उत्तरम् ।बाल-उपचारे तद्-व्याधौ तद्-ग्रहे द्वौ च भूतगे ॥ ४५ ॥


उन्मादे ऽथ स्मृति-भ्रंशे द्वौ द्वौ वर्त्मसु संधिषु ।दृक्-तमो-लिङ्ग-नाशेषु त्रयो द्वौ द्वौ च सर्वगे ॥ ४६ ॥

पदच्छेद:-

उन्मादे अथ स्मृति-भ्रंशे द्वौ द्वौ वर्त्मसु संधिषु ।दृक्-तम:-लिङ्ग-नाशेषु त्रय: द्वौ द्वौ च सर्वगे ॥ ४६ ॥


कर्ण-नासा-मुख-शिरो-व्रणे भङ्गे भगन्दरे ।ग्रन्थ्य्-आदौ क्षुद्र-रोगेषु गुह्य-रोगे पृथग् द्वयम् ॥ ४७ ॥

पदच्छेद:-

कर्ण-नासा-मुख-शिर:-व्रणे भङ्गे भगन्दरे ।ग्रन्थि-आदौ क्षुद्र-रोगेषु गुह्य-रोगे पृथग् द्वयम् ॥ ४७ ॥


विषे भुजङ्गे कीटेषु मूषकेषु रसायने ।चत्वारिंशो ऽन्-अपत्यानाम् अध्यायो बीज-पोषणः ॥ ४८

पदच्छेद:-

विषे भुजङ्गे कीटेषु मूषकेषु रसायने ।चत्वारिंश: अनपत्यानाम् अध्यायो बीज-पोषणः ॥ ४८

१.४८dv अध्यायो बीज-पोषणे


इत्य् अध्याय-शतं विंशं षड्भिः स्थानैर् उदीरितम् ॥ ४८ऊ̆ ॥

पदच्छेद:-

इति अध्याय-शतं विंशं षड्भिः स्थानै: उदीरितम् ॥ ४८ऊ̆ ॥

वर्ग:अष्टाङ्गहृदयम्- पदच्छेद-अन्वयार्थसहितम्सूत्रस्थान-पदच्छेदान्वयार्थसहितम्
"https://sa.wikibooks.org/w/index.php?title=०१आयुष्कामीय:&oldid=7051" इत्यस्माद् प्रतिप्राप्तम्