०७अन्नरक्षा

विकिपुस्तकानि तः

अध्याय 07[सम्पाद्यताम्]

राजा राज-गृहासन्ने प्राणाचार्यं निवेशयेत् । सर्व-दा स भवत्य् एवं सर्व-त्र प्रतिजागृविः ॥ १ ॥
पदच्छेद:- राजा राज-गृह-आसन्ने प्राणाचार्यं निवेशयेत् । सर्व-दा स: भवति एवं सर्व-त्र प्रतिजागृविः ॥ १ ॥
अन्न-पानं विषाद् रक्षेद् विशेषेण मही-पतेः । योग-क्षेमौ तद्-आयत्तौ धर्माद्या यन्-निबन्धनाः ॥ २ ॥
पदच्छेद:- अन्न-पानं विषाद् रक्षेद् विशेषेण मही-पतेः । योग-क्षेमौ तद्-आयत्तौ धर्म-आद्या: यत्-निबन्धनाः ॥ २ ॥
ओदनो विष-वान् सान्द्रो यात्य् अ-विस्राव्य-ताम् इव । चिरेण पच्यते पक्वो भवेत् पर्युषितोपमः ॥ ३ ॥
पदच्छेद:- ओदन: विष-वान् सान्द्र: याति अ-विस्राव्य-ताम् इव । चिरेण पच्यते पक्व: भवेत् पर्युषित-उपमः ॥ ३ ॥
मयूर-कण्ठ-तुल्योष्मा मोह-मूर्छा-प्रसेक-कृत् । हीयते वर्ण-गन्धाद्यैः क्लिद्यते चन्द्रिका-चितः ॥ ४ ॥
पदच्छेद:- मयूर-कण्ठ-तुल्य-उष्मा मोह-मूर्छा-प्रसेक-कृत् । हीयते वर्ण-गन्ध-आद्यैः क्लिद्यते चन्द्रिका-चितः ॥ ४ ॥
व्यञ्जनान्य् आशु शुष्यन्ति ध्याम-क्वाथानि तत्र च । हीनातिरिक्ता विकृता छाया दृश्येत नैव वा ॥ ५ ॥
पदच्छेद:- व्यञ्जनानि आशु शुष्यन्ति ध्याम-क्वाथानि तत्र च । हीन-अतिरिक्ता विकृता छाया दृश्येत न एव वा ॥ ५ ॥
फेनोर्ध्व-राजि-सीमन्त-तन्तु-बुद्बुद-संभवः । विच्छिन्न-वि-रसाः रागाः खाण्डवाः शाकम् आमिषम् ॥ ६ ॥
पदच्छेद:- फेन-ऊर्ध्व-राजि-सीमन्त-तन्तु-बुद्बुद-संभवः । विच्छिन्न-वि-रसाः रागाः खाण्डवाः शाकम् आमिषम् ॥ ६ ॥
नीला राजी रसे ताम्रा क्षीरे दधनि दृश्यते । श्यावा-पीतासिता तक्रे घृते पानीय-संनिभा ॥ ७ ॥
पदच्छेद:- नीला राजी रसे ताम्रा क्षीरे दधनि दृश्यते । श्यावा-पीता-असिता तक्रे घृते पानीय-संनिभा ॥ ७ ॥
मस्तुनि स्यात् कपोताभा राजी कृष्णा तुषोदके । काली मद्याम्भसोः क्षौद्रे हरित् तैले ऽरुणोपमा ॥ ८ ॥
पदच्छेद:- मस्तुनि स्यात् कपोत-आभा राजी कृष्णा तुष-उदके । काली मद्य-अम्भसोः क्षौद्रे हरित् तैले अरुण-उपमा ॥ ८ ॥
पाकः फलानाम् आमानां पक्वानां परिकोथनम् । द्रव्याणाम् आर्द्र-शुष्काणां स्यातां म्लानि-विवर्ण-ते ॥ ९ ॥
पदच्छेद:- पाकः फलानाम् आमानां पक्वानां परिकोथनम् । द्रव्याणाम् आर्द्र-शुष्काणां स्यातां म्लानि-विवर्ण-ते ॥ ९ ॥
मृदूनां कठिनानां च भवेत् स्पर्श-विपर्ययः । माल्यस्य स्फुटिताग्र-त्वं म्लानिर् गन्धान्तरोद्भवः ॥ १० ॥
पदच्छेद:- मृदूनां कठिनानां च भवेत् स्पर्श-विपर्ययः । माल्यस्य स्फुटित-अग्र-त्वं म्लानि: गन्ध-अन्तर-उद्भवः ॥ १० ॥
ध्याम-मण्डल-ता वस्त्रे शदनं तन्तु-पक्ष्मणाम् । धातु-मौक्तिक-काष्ठाश्म-रत्नादिषु मलाक्त-ता ॥ ११ ॥
पदच्छेद:- ध्याम-मण्डल-ता वस्त्रे शदनं तन्तु-पक्ष्मणाम् । धातु-मौक्तिक-काष्ठ-अश्म-रत्न-आदिषु मल-अक्त-ता ॥ ११ ॥
स्नेह-स्पर्श-प्रभा-हानिः स-प्रभ-त्वं तु मृन्-मये । विष-दः श्याव-शुष्कास्यो वि-लक्षो वीक्षते दिशः ॥ १२ ॥
पदच्छेद:- स्नेह-स्पर्श-प्रभा-हानिः स-प्रभ-त्वं तु मृन्-मये । विष-दः श्याव-शुष्क-आस्य: वि-लक्षो वीक्षते दिशः ॥ १२ ॥
स्वेद-वेपथु-मांस् त्रस्तो भीतः स्खलति जृम्भते । प्राप्यान्नं स-विषं त्व् अग्निर् एकावर्तः स्फुटत्य् अति ॥ १३ ॥
पदच्छेद:- स्वेद-वेपथु-मान् त्रस्त: भीतः स्खलति जृम्भते । प्राप्य-अन्नं स-विषं तु अग्नि: एक-आवर्तः स्फुटति अति ॥ १३ ॥
शिखि-कण्ठाभ-धूमार्चिर् अन्-अर्चिर् वोग्र-गन्ध-वान् । म्रियन्ते मक्षिकाः प्राश्य काकः क्षाम-स्वरो भवेत् ॥ १४ ॥
पदच्छेद:- शिखि-कण्ठ-आभ-धूमार्चि: अन्-अर्चि: वा उग्र-गन्ध-वान् । म्रियन्ते मक्षिकाः प्राश्य काकः क्षाम-स्वर: भवेत् ॥ १४ ॥
उत्क्रोशन्ति च दृष्ट्वैतच् छुक-दात्यूह-सारिकाः । हंसः प्रस्खलति ग्लानिर् जीवञ्जीवस्य जायते ॥ १५ ॥
पदच्छेद:- उत्क्रोशन्ति च दृष्ट्वा एतत् शुक-दात्यूह-सारिकाः । हंसः प्रस्खलति ग्लानि: जीवञ्जीवस्य जायते ॥ १५ ॥
चकोरस्याक्षि-वैराग्यं क्रौञ्चस्य स्यान् मदोदयः । कपोत-परभृद्-दक्ष-चक्रवाका जहत्य् असून् ॥ १६ ॥
पदच्छेद:- चकोरस्य-अक्षि-वैराग्यं क्रौञ्चस्य स्यात् मदोदयः । कपोत-परभृद्-दक्ष-चक्रवाका जहति असून् ॥ १६ ॥
उद्वेगं याति मार्जारः शकृन् मुञ्चति वानरः । हृष्येन् मयूरस् तद्-दृष्ट्या मन्द-तेजो भवेद् विषम् ॥ १७ ॥
पदच्छेद:- उद्वेगं याति मार्जारः शकृत् मुञ्चति वानरः । हृष्येत् मयूर: तद्-दृष्ट्या मन्द-तेज: भवेद् विषम् ॥ १७ ॥
इत्य् अन्नं विष-वज् ज्ञात्वा त्यजेद् एवं प्रयत्नतः । यथा तेन विपद्येरन्न् अपि न क्षुद्र-जन्तवः ॥ १८ ॥
पदच्छेद:- इति अन्नं विष-वज् ज्ञात्वा त्यजेद् एवं प्रयत्नतः । यथा तेन विपद्येरन् अपि न क्षुद्र-जन्तवः ॥ १८ ॥
स्पृष्टे तु कण्डू-दाहोषा-ज्वरार्ति-स्फोट-सुप्तयः । नख-रोम-च्युतिः शोफः सेकाद्या विष-नाशनाः ॥ १९ ॥
पदच्छेद:- स्पृष्टे तु कण्डू-दाह-ऊषा-ज्वर-आर्ति-स्फोट-सुप्तयः । नख-रोम-च्युतिः शोफः सेक-आद्या विष-नाशनाः ॥ १९ ॥
शस्तास् तत्र प्रलेपाश् च सेव्य-चन्दन-पद्मकैः । स-सोमवल्क-तालीश-पत्त्र-कुष्ठामृता-नतैः ॥ २० ॥
पदच्छेद:- शस्ता: तत्र प्रलेपा: च सेव्य-चन्दन-पद्मकैः । स-सोमवल्क-तालीश-पत्त्र-कुष्ठ-अमृता-नतैः ॥ २० ॥
लाला जिह्वौष्ठयोर् जाड्यम् ऊषा चिमिचिमायनम् । दन्त-हर्षो रसा-ज्ञ-त्वं हनु-स्तम्भश् च वक्त्र-गे ॥ २१ ॥
पदच्छेद:- लाला जिह्वा-ओष्ठयो: जाड्यम् ऊषा चिमिचिमायनम् । दन्त-हर्ष: रस-अज्ञत्वं हनु-स्तम्भ: च वक्त्र-गे ॥ २१ ॥
सेव्याद्यैस् तत्र गण्डूषाः सर्वं च विष-जिद् धितम् । आमाशय-गते स्वेद-मूर्छाध्मान-मद-भ्रमाः ॥ २२ ॥
पदच्छेद:- सेव्य-आद्यै: तत्र गण्डूषाः सर्वं च विष-जिद् हितम् । आमाशय-गते स्वेद-मूर्छा-आध्मान-मद-भ्रमाः ॥ २२ ॥
रोम-हर्षो वमिर् दाहश् चक्षुर्-हृदय-रोधनम् । बिन्दुभिश् चाचयो ऽङ्गानां पक्वाशय-गते पुनः ॥ २३ ॥
पदच्छेद:- रोम-हर्ष: वमि: दाह: चक्षुस्-हृदय-रोधनम् । बिन्दुभि: च अचय: अङ्गानां पक्वाशय-गते पुनः ॥ २३ ॥
अनेक-वर्णं वमति मूत्रयत्य् अतिसार्यते । तन्द्रा कृश-त्वं पाण्डु-त्वम् उदरं बल-संक्षयः ॥ २४ ॥
पदच्छेद:- अनेक-वर्णं वमति मूत्रयति अतिसार्यते । तन्द्रा कृश-त्वं पाण्डु-त्वम् उदरं बल-संक्षयः ॥ २४ ॥
तयोर् वान्त-विरिक्तस्य हरिद्रे कटभीं गुडम् । सिन्धुवारित-निष्पाव-बाष्पिका-शतपर्विकाः ॥ २५ ॥
पदच्छेद:- तयो: वान्त-विरिक्तस्य हरिद्रे कटभीं गुडम् । सिन्धुवारित-निष्पाव-बाष्पिका-शतपर्विकाः ॥ २५ ॥
तण्डुलीयक-मूलानि कुक्कुटाण्डम् अवल्गुजम् । नावनाञ्जन-पानेषु योजयेद् विष-शान्तये ॥ २६ ॥
पदच्छेद:- तण्डुलीयक-मूलानि कुक्कुटाण्डम् अवल्गुजम् । नावन-अञ्जन-पानेषु योजयेद् विष-शान्तये ॥ २६ ॥
विष-भुक्ताय दद्याच् च शुद्धायोर्ध्वम् अधस् तथा । सूक्ष्मं ताम्र-रजः काले स-क्षौद्रं हृद्-विशोधनम् ॥ २७ ॥
पदच्छेद:- विष-भुक्ताय दद्यात् च शुद्धाय ऊर्ध्वम् अध: तथा । सूक्ष्मं ताम्र-रजः काले स-क्षौद्रं हृद्-विशोधनम् ॥ २७ ॥
शुद्धे हृदि ततः शाणं हेम-चूर्णस्य दापयेत् । न सज्जते हेम-पाङ्गे पद्म-पत्त्रे ऽम्बु-वद् विषम् ॥ २८ ॥
पदच्छेद:- शुद्धे हृदि ततः शाणं हेम-चूर्णस्य दापयेत् । न सज्जते हेमप-अङ्गे पद्म-पत्त्रे अम्बु-वद् विषम् ॥ २८ ॥
जायते विपुलं चायुर् गरे ऽप्य् एष विधिः स्मृतः । विरुद्धम् अपि चाहारं विद्याद् विष-गरोपमम् ॥ २९ ॥
पदच्छेद:- जायते विपुलं च आयु: गरे अपि एष: विधिः स्मृतः । विरुद्धम् अपि च आहारं विद्याद् विष-गर-उपमम् ॥ २९ ॥
आनूपम् आमिषं माष-क्षौद्र-क्षीर-विरूढकैः । विरुध्यते सह बिसैर् मूलकेन गुडेन वा ॥ ३० ॥
पदच्छेद:- आनूपम् आमिषं माष-क्षौद्र-क्षीर-विरूढकैः । विरुध्यते सह बिसै: मूलकेन गुडेन वा ॥ ३० ॥
विशेषात् पयसा मत्स्या मत्स्येष्व् अपि चिलीचिमः । विरुद्धम् अम्लं पयसा सह सर्वं फलं तथा ॥ ३१ ॥
पदच्छेद:- विशेषात् पयसा मत्स्या: मत्स्येषु अपि चिलीचिमः । विरुद्धम् अम्लं पयसा सह सर्वं फलं तथा ॥ ३१ ॥
तद्-वत् कुलत्थ-चणक-कङ्गु-वल्ल-मकुष्टकाः । भक्षयित्वा हरितकं मूलकादि पयस् त्यजेत् ॥ ३२ ॥
पदच्छेद:- तद्-वत् कुलत्थ-चणक-कङ्गु-वल्ल-मकुष्टकाः । भक्षयित्वा हरितकं मूलकादि पय: त्यजेत् ॥ ३२ ॥
वाराहं श्वाविधा नाद्याद् दध्ना पृषत-कुक्कुटौ । आम-मांसानि पित्तेन माष-सूपेन मूलकम् ॥ ३३ ॥
पदच्छेद:- वाराहं श्वाविधा नाद्याद् दध्ना पृषत-कुक्कुटौ । आम-मांसानि पित्तेन माष-सूपेन मूलकम् ॥ ३३ ॥
अविं कुसुम्भ-शाकेन बिसैः सह विरूढकम् । माष-सूप-गुड-क्षीर-दध्य्-आज्यैर् लाकुचं फलम् ॥ ३४ ॥
पदच्छेद:- अविं कुसुम्भ-शाकेन बिसैः सह विरूढकम् । माष-सूप-गुड-क्षीर-दधि-आज्यै: लाकुचं फलम् ॥ ३४ ॥
फलं कदल्यास् तक्रेण दध्ना ताल-फलेन वा । कणोषणाभ्यां मधुना काकमाचीं गुडेन वा ॥ ३५ ॥
पदच्छेद:- फलं कदल्या: तक्रेण दध्ना ताल-फलेन वा । कणा-ऊषणाभ्यां मधुना काकमाचीं गुडेन वा ॥ ३५ ॥
सिद्धां वा मत्स्य-पचने पचने नागरस्य वा । सिद्धाम् अन्य-त्र वा पात्रे कामात् ताम् उषितां निशाम् ॥ ३६ ॥
पदच्छेद:- सिद्धां वा मत्स्य-पचने पचने नागरस्य वा । सिद्धाम् अन्य-त्र वा पात्रे कामात् ताम् उषितां निशाम् ॥ ३६ ॥
मत्स्य-निस्तलन-स्नेहे साधिताः पिप्पलीस् त्यजेत् । कांस्ये दशाहम् उषितं सर्पिर् उष्णं त्व् अरुष्करे ॥ ३७ ॥
पदच्छेद:- मत्स्य-निस्तलन-स्नेहे साधिताः पिप्पली: त्यजेत् । कांस्ये दश-अहम् उषितं सर्पि: उष्णं तु अरुष्करे ॥ ३७ ॥
भासो विरुध्यते शूल्यः कम्पिल्लस् तक्र-साधितः । ऐकध्यं पायस-सुरा-कृशराः परिवर्जयेत् ॥ ३८ ॥
पदच्छेद:- भासो विरुध्यते शूल्यः कम्पिल्ल: तक्र-साधितः । ऐकध्यं पायस-सुरा-कृशराः परिवर्जयेत् ॥ ३८ ॥
मधु-सर्पिर्-वसा-तैल-पानीयानि द्वि-शश् त्रि-शः । एक-त्र वा समांशानि विरुध्यन्ते परस्-परम् ॥ ३९ ॥
पदच्छेद:- मधु-सर्पि:-वसा-तैल-पानीयानि द्वि-श: त्रि-शः । एक-त्र वा सम-अंशानि विरुध्यन्ते परस्-परम् ॥ ३९ ॥
भिन्नांशे अपि मध्व्-आज्ये दिव्य-वार्य् अनु-पानतः । मधु-पुष्कर-बीजं च मधु-मैरेय-शार्करम् ॥ ४० ॥
पदच्छेद:- भिन्न-अंशे अपि मधु-आज्ये दिव्य-वारि अनु-पानतः । मधु-पुष्कर-बीजं च मधु-मैरेय-शार्करम् ॥
मन्थानु-पानः क्षैरेयो हारिद्रः कटु-तैल-वान् । उपोदकातिसाराय तिल-कल्केन साधिता ॥ ४१ ॥
पदच्छेद:- मन्थ-अनुपानः क्षैरेय: हारिद्रः कटु-तैल-वान् । उपोदका अतिसाराय तिल-कल्केन साधिता ॥ ४१ ॥
बलाका वारुणी-युक्ता कुल्माषैश् च विरुध्यते । भृष्टा वराह-वसया सैव सद्यो निहन्त्य् असून् ॥ ४२ ॥
पदच्छेद:- बलाका वारुणी-युक्ता कुल्माषै: च विरुध्यते । भृष्टा वराह-वसया सा एव सद्यो निहन्ति असून् ॥ ४२ ॥
तद्-वत् तित्तिरि-पत्त्राढ्य-गोधा-लाव-कपिञ्जलाः । ऐरण्डेनाग्निना सिद्धास् तत्-तैलेन विमूर्छिताः ॥ ४३ ॥
पदच्छेद:- तद्-वत् तित्तिरि-पत्त्र-आढ्य-गोधा-लाव-कपिञ्जलाः । ऐरण्डेन अग्निना सिद्धा: तत्-तैलेन विमूर्छिताः ॥ ४३ ॥
हारीत-मांसं हारिद्र-शूलक-प्रोत-पाचितम् । हरिद्रा-वह्निना सद्यो व्यापादयति जीवितम् ॥ ४४ ॥
पदच्छेद:- हारीत-मांसं हारिद्र-शूलक-प्रोत-पाचितम् । हरिद्रा-वह्निना सद्य: व्यापादयति जीवितम् ॥ ४४ ॥
भस्म-पांसु-परिध्वस्तं तद् एव च स-माक्षिकम् । यत् किञ्-चिद् दोषम् उत्क्लेश्य न हरेत् तत् समासतः ॥ ४५ ॥
पदच्छेद:- भस्म-पांसु-परिध्वस्तं तद् एव च स-माक्षिकम् । यत् किञ्-चिद् दोषम् उत्क्लेश्य न हरेत् तत् समासतः ॥ ४५ ॥
विरुद्धं शुद्धिर् अत्रेष्टा शमो वा तद्-विरोधिभिः । द्रव्यैस् तैर् एव वा पूर्वं शरीरस्याभिसंस्कृतिः ॥ ४६ ॥
पदच्छेद:- विरुद्धं शुद्धि: अत्र इष्टा शम: वा तद्-विरोधिभिः । द्रव्यै: तै: एव वा पूर्वं शरीरस्य अभिसंस्कृतिः ॥ ४६ ॥
व्यायाम-स्निग्ध-दीप्ताग्नि-वयः-स्थ-बल-शालिनाम् । विरोध्य् अपि न पीडायै सात्म्यम् अल्पं च भोजनम् ॥ ४७ ॥
पदच्छेद:- व्यायाम-स्निग्ध-दीप्त-अग्नि-वयः-स्थ-बल-शालिनाम् । विरोधि अपि न पीडायै सात्म्यम् अल्पं च भोजनम् ॥ ४७ ॥
पादेना-पथ्यम् अभ्यस्तं पाद-पादेन वा त्यजेत् । निषेवेत हितं तद्-वद् एक-द्वि-त्र्य्-अन्तरी-कृतम् ॥ ४८ ॥
पदच्छेद:- पादेन-अपथ्यम् अभ्यस्तं पाद-पादेन वा त्यजेत् । निषेवेत हितं तद्-वद् एक-द्वि-त्रि-अन्तरी-कृतम् ॥ ४८ ॥
अ-पथ्यम् अपि हि त्यक्तं शीलितं पथ्यम् एव वा । सात्म्या-सात्म्य-विकाराय जायते सहसान्य-था ॥ ४९ ॥
पदच्छेद:- अ-पथ्यम् अपि हि त्यक्तं शीलितं पथ्यम् एव वा । सात्म्य-असात्म्य-विकाराय जायते सहसा अन्य-था ॥ ४९ ॥
क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः । सन्तो यान्त्य् अ-पुनर्-भावम् अ-प्रकम्प्या भवन्ति च ॥ ५० ॥
पदच्छेद:- क्रमेण अपचिता: दोषाः क्रमेण उपचिता: गुणाः । सन्त: यान्ति अ-पुनर्-भावम् अ-प्रकम्प्या: भवन्ति च ॥ ५० ॥
अत्य्-अन्त-संनिधानानां दोषाणां दूषणात्मनाम् । अ-हितैर् दूषणं भूयो न विद्वान् कर्तुम् अर्हति ॥ ५१ ॥
पदच्छेद:- अत्यन्त-संनिधानानां दोषाणां दूषणात्मनाम् । अ-हितै: दूषणं भूय: न विद्वान् कर्तुम् अर्हति ॥ ५१ ॥
आहार-शयना-ब्रह्म-चर्यैर् युक्त्या प्रयोजितैः । शरीरं धार्यते नित्यम् आगारम् इव धारणैः ॥ ५२ ॥
पदच्छेद:- आहार-शयन-अब्रह्मचर्यै: युक्त्या प्रयोजितैः । शरीरं धार्यते नित्यम् आगारम् इव धारणैः ॥ ५२ ॥
आहारो वर्णितस् तत्र तत्र तत्र च वक्ष्यते । निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बला-बलम् ॥ ५३ ॥
पदच्छेद:- आहार: वर्णित: तत्र तत्र तत्र च वक्ष्यते । निद्रा-आयत्तं सुखं दुःखं पुष्टिः कार्श्यं बल-अबलम् ॥ ५३ ॥
वृष-ता क्लीब-ता ज्ञानम् अ-ज्ञानं जीवितं न च । अ-काले ऽति-प्रसङ्गाच् च न च निद्रा निषेविता ॥ ५४ ॥
पदच्छेद:- वृष-ता क्लीब-ता ज्ञानम् अ-ज्ञानं जीवितं न च । अ-काले अति-प्रसङ्गात् च न च निद्रा निषेविता ॥ ५४ ॥
सुखायुषी पराकुर्यात् काल-रात्रिर् इवापरा । रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा ॥ ५५ ॥
पदच्छेद:- सुख-आयुषी पराकुर्यात् काल-रात्रि: इव अपरा । रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा ॥ ५५ ॥
अ-रूक्षम् अन्-अभिष्यन्दि त्व् आसीन-प्रचलायितम् । ग्रीष्मे वायु-चयादान-रौक्ष्य-रात्र्य्-अल्प-भावतः ॥ ५६ ॥
पदच्छेद:- अ-रूक्षम् अन्-अभिष्यन्दि तु आसीन-प्रचलायितम् । ग्रीष्मे वायु-चय-आदान-रौक्ष्य-रात्रि-अल्प-भावतः ॥ ५६ ॥
दिवा-स्वप्नो हितो ऽन्यस्मिन् कफ-पित्त-करो हि सः । मुक्त्वा तु भाष्य-यानाध्व-मद्य-स्त्री-भार-कर्मभिः ॥ ५७ ॥
पदच्छेद:- दिवा-स्वप्नो हित: अन्यस्मिन् कफ-पित्त-करो हि सः । मुक्त्वा तु भाष्य-यान-अध्व-मद्य-स्त्री-भार-कर्मभिः ॥ ५७ ॥
क्रोध-शोक-भयैः क्लान्तान् श्वास-हिध्मातिसारिणः । वृद्ध-बाला-बल-क्षीण-क्षत-तृट्-शूल-पीडितान् ॥ ५८ ॥
पदच्छेद:- क्रोध-शोक-भयैः क्लान्तान् श्वास-हिध्मा-अतिसारिणः । वृद्ध-बाल-अबल-क्षीण-क्षत-तृट्-शूल-पीडितान् ॥ ५८ ॥
अ-जीर्ण्य्-अभिहतोन्मत्तान् दिवा-स्वप्नोचितान् अपि । धातु-साम्यं तथा ह्य् एषां श्लेष्मा चाङ्गानि पुष्यति ॥ ५९ ॥
पदच्छेद:- अ-जीर्णि-अभिहत-उन्मत्तान् दिवा-स्वप्न-उचितान् अपि । धातु-साम्यं तथा हि एषां श्लेष्मा च अङ्गानि पुष्यति ॥ ५९ ॥
बहु-मेदः-कफाः स्वप्युः स्नेह-नित्याश् च नाहनि । विषार्तः कण्ठ-रोगी च नैव जातु निशास्व् अपि ॥ ६० ॥
पदच्छेद:- बहु-मेदः-कफाः स्वप्युः स्नेह-नित्या: च न अहनि । विष-आर्तः कण्ठ-रोगी च न एव जातु निशासु अपि ॥ ६० ॥
अ-काल-शयनान् मोह-ज्वर-स्तैमित्य-पीनसाः । शिरो-रुक्-शोफ-हृल्-लास-स्रोतो-रोधाग्नि-मन्द-ताः ॥ ६१ ॥
पदच्छेद:- अ-काल-शयनान् मोह-ज्वर-स्तैमित्य-पीनसाः । शिरो-रुक्-शोफ-हृल्लास-स्रोतो-रोध-अग्नि-मन्द-ताः ॥ ६१ ॥
तत्रोपवास-वमन-स्वेद-नावनम् औषधम् । योजयेद् अति-निद्रायां तीक्ष्णं प्रच्छर्दनाञ्जनम् ॥ ६२ ॥
पदच्छेद:- तत्र-उपवास-वमन-स्वेद-नावनम् औषधम् । योजयेद् अति-निद्रायां तीक्ष्णं प्रच्छर्दन-अञ्जनम् ॥ ६२ ॥
नावनं लङ्घनं चिन्तां व्यवायं शोक-भी-क्रुधः । एभिर् एव च निद्राया नाशः श्लेष्माति-संक्षयात् ॥ ६३ ॥
पदच्छेद:- नावनं लङ्घनं चिन्तां व्यवायं शोक-भी-क्रुधः । एभि: एव च निद्राया: नाशः श्लेष्म-अति-संक्षयात् ॥ ६३ ॥
निद्रा-नाशाद् अङ्ग-मर्द-शिरो-गौरव-जृम्भिकाः । जाड्य-ग्लानि-भ्रमा-पक्ति-तन्द्रा रोगाश् च वात-जाः ॥ ६४ ॥
पदच्छेद:- निद्रा-नाशाद् अङ्ग-मर्द-शिरो-गौरव-जृम्भिकाः । जाड्य-ग्लानि-भ्रम-अपक्ति-तन्द्रा रोगा: च वात-जाः ॥ ६४ ॥
कफो ऽल्पो वायुनोद्धूतो धमनीः संनिरुध्य तु । कुर्यात् संज्ञापहां तन्द्रां दारुणां मोह-कारिणीम् ॥ ६४+१ ॥
पदच्छेद:- कफ: अल्प: वायुना उद्धूत: धमनीः संनिरुध्य तु । कुर्यात् संज्ञा-अपहां तन्द्रां दारुणां मोह-कारिणीम् ॥ ६४+१ ॥
उन्मीलित-विनिर्भुग्ने परिवर्तित-तारके । भवतस् तत्र नयने स्रुते लुलित-पक्ष्मणी ॥ ६४+२ ॥
पदच्छेद:- उन्मीलित-विनिर्भुग्ने परिवर्तित-तारके । भवत: तत्र नयने स्रुते लुलित-पक्ष्मणी ॥ ६४+२ ॥
अर्ध-त्रि-रात्रात् सा साध्या न सा साध्या ततः परम् ॥ ६४+३अब् ॥
पदच्छेद:- अर्ध-त्रि-रात्रात् सा साध्या न सा साध्या ततः परम् ॥ ६४+३अब् ॥
यथा-कालम् अत: निद्रां रात्रौ सेवेत सात्म्यतः । अ-सात्म्याज् जागराद् अर्धं प्रातः स्वप्याद् अ-भुक्त-वान् ॥ ६५ ॥
पदच्छेद:- यथा-कालम् अत: निद्रां रात्रौ सेवेत सात्म्यतः । अ-सात्म्यात् जागराद् अर्धं प्रातः स्वप्याद् अ-भुक्त-वान् ॥ ६५ ॥
शीलयेन् मन्द-निद्रस् तु क्षीर-मद्य-रसान् दधि । अभ्यङ्गोद्वर्तन-स्नान-मूर्ध-कर्णाक्षि-तर्पणम् ॥ ६६ ॥
पदच्छेद:- शीलयेत् मन्द-निद्र: तु क्षीर-मद्य-रसान् दधि । अभ्यङ्ग-उद्वर्तन-स्नान-मूर्ध-कर्ण-अक्षि-तर्पणम् ॥ ६६ ॥
कान्ता-बाहु-लताश्लेषो निर्वृतिः कृत-कृत्य-ता । मनो-ऽनुकूला विषयाः कामं निद्रा-सुख-प्रदाः ॥ ६७ ॥
पदच्छेद:- कान्ता-बाहु-लता-आश्लेष: निर्वृतिः कृत-कृत्य-ता । मन:-अनुकूला: विषयाः कामं निद्रा-सुख-प्रदाः ॥ ६७ ॥
ब्रह्म-चर्य-रतेर् ग्राम्य-सुख-निः-स्पृह-चेतसः । निद्रा संतोष-तृप्तस्य स्वं कालं नातिवर्तते ॥ ६८ ॥
पदच्छेद:- ब्रह्म-चर्य-रते: ग्राम्य-सुख-निः-स्पृह-चेतसः । निद्रा संतोष-तृप्तस्य स्वं कालं नातिवर्तते ॥ ६८ ॥
ग्राम्य-धर्मे त्यजेन् नारीम् अन्-उत्तानां रजस्वलाम् । अ-प्रियाम् अ-प्रियाचारां दुष्ट-संकीर्ण-मेहनाम् ॥ ६९ ॥
पदच्छेद:- ग्राम्य-धर्मे त्यजेत् नारीम् अन्-उत्तानां रजस्वलाम् । अ-प्रियाम् अ-प्रिय-आचारां दुष्ट-संकीर्ण-मेहनाम् ॥ ६९ ॥
अति-स्थूल-कृशाम् सूतां गर्भिणीम् अन्य-योषितम् । वर्णिनीम् अन्य-योनिं च गुरु-देव-नृपालयम् ॥ ७० ॥
पदच्छेद:- अति-स्थूल-कृशाम् सूतां गर्भिणीम् अन्य-योषितम् । वर्णिनीम् अन्य-योनिं च गुरु-देव-नृप-आलयम् ॥ ७० ॥
चैत्य-श्मशानायतन-चत्वराम्बु-चतुष्-पथम् । पर्वाण्य् अन्-अङ्गं दिवसं शिरो-हृदय-ताडनम् ॥ ७१ ॥
पदच्छेद:- चैत्य-श्मशान-आयतन-चत्वर-अम्बु-चतुष्-पथम् । पर्वाणि अन्-अङ्गं दिवसं शिर:-हृदय-ताडनम् ॥ ७१ ॥
अत्य्-आशितो ऽ-धृतिः क्षुद्-वान् दुः-स्थिताङ्गः पिपासितः । बालो वृद्धो ऽन्य-वेगार्तस् त्यजेद् रोगी च मैथुनम् ॥ ७२ ॥
पदच्छेद:- अति-आशित: अधृतिः क्षुत्-वान् दुः-स्थित-अङ्गः पिपासितः । बाल: वृद्ध: अन्य-वेग-आर्त: त्यजेद् रोगी च मैथुनम् ॥ ७२ ॥
सेवेत कामतः कामं तृप्तो वाजी-कृता हिमे । त्र्य्-अहाद् वसन्त-शरदोः पक्षाद् वर्षा-निदाघयोः ॥ ७३ ॥
पदच्छेद:- सेवेत कामतः कामं तृप्त: वाजी-कृतां हिमे । त्रि-अहाद् वसन्त-शरदोः पक्षाद् वर्षा-निदाघयोः ॥ ७३ ॥
भ्रम-क्लमोरु-दौर्बल्य-बल-धात्व्-इन्द्रिय-क्षयाः । अ-पर्व-मरणं च स्याद् अन्य-था गच्छतः स्त्रियम् ॥ ७४ ॥
पदच्छेद:- भ्रम-क्लम-ऊरु-दौर्बल्य-बल-धातु-इन्द्रिय-क्षयाः । अ-पर्व-मरणं च स्याद् अन्य-था गच्छतः स्त्रियम् ॥ ७४ ॥
स्मृति-मेधायुर्-आरोग्य-पुष्टीन्द्रिय-यशो-बलैः । अधिका मन्द-जरसो भवन्ति स्त्रीषु संयताः ॥ ७५ ॥
पदच्छेद:- स्मृति-मेधा-आयु:-आरोग्य-पुष्टि-इन्द्रिय-यश:-बलैः । अधिका: मन्द-जरस: भवन्ति स्त्रीषु संयताः ॥ ७५ ॥
स्नानानुलेपन-हिमानिल-खण्ड-खाद्य-शीताम्बु-दुग्ध-रस-यूष-सुरा-प्रसन्नाः । सेवेत चानु शयनं विरतौ रतस्य तस्यैवम् आशु वपुषः पुनर् एति धाम ॥ ७६ ॥
पदच्छेद:- स्नान-अनुलेपन-हिम-अनिल-खण्ड-खाद्य-शीत-अम्बु-दुग्ध-रस-यूष-सुरा-प्रसन्नाः । सेवेत चानु शयनं विरतौ रतस्य तस्य एवम् आशु वपुषः पुन: एति धाम ॥ ७६ ॥
श्रुत-चरित-समृद्धे कर्म-दक्षे दयालौ भिषजि निर्-अनुबन्धं देह-रक्षां निवेश्य। भवति विपुल-तेजः-स्वास्थ्य-कीर्ति-प्रभावः स्व-कुशल-फल-भोगी भूमि-पालश् चिरायुः॥ ७७ ॥
पदच्छेद:- श्रुत-चरित-समृद्धे कर्म-दक्षे दयालौ भिषजि निर्-अनुबन्धं देह-रक्षां निवेश्य। भवति विपुल-तेजः-स्वास्थ्य-कीर्ति-प्रभावः स्व-कुशल-फल-भोगी भूमि-पाल: चिरायुः॥ ७७ ॥

"https://sa.wikibooks.org/w/index.php?title=०७अन्नरक्षा&oldid=5113" इत्यस्माद् प्रतिप्राप्तम्