१२दोषभेदीय:

विकिपुस्तकानि तः

अध्याय 12[सम्पाद्यताम्]

मूलम्
पक्वाशय-कटी-सक्थि-श्रोत्रास्थि-स्पर्शनेन्द्रियम् ।स्थानं वातस्य तत्रापि पक्वाधानं विशेषतः ॥ १ ॥
पदच्छेद:-
पक्वाशय-कटी-सक्थि-श्रोत्र-अस्थि-स्पर्शन-इन्द्रियम् ।स्थानं वातस्य तत्र अपि पक्वाधानं विशेषतः ॥ १

मूलम्
नाभिर् आमाशयः स्वेदो लसीका रुधिरं रसः ।दृक् स्पर्शनं च पित्तस्य नाभिर् अत्र विशेषतः ॥ २ ॥
पदच्छेद:-
नाभि: आमाशयः स्वेद: लसीका रुधिरं रसः ।दृक् स्पर्शनं च पित्तस्य नाभि: अत्र विशेषतः ॥ २

मूलम्
उरः-कण्ठ-शिरः-क्लोम-पर्वाण्य् आमाशयो रसः ।मेदो घ्राणं च जिह्वा च कफस्य सु-तराम् उरः ॥ ३ ॥
पदच्छेद:-
उरः-कण्ठ-शिरः-क्लोम-पर्वाणि आमाशय: रसः ।मेद: घ्राणं च जिह्वा च कफस्य सु-तराम् उरः ॥ ३ ॥

मूलम्
प्राणादि-भेदात् पञ्चात्मा वायुः प्राणो ऽत्र मूर्ध-गः । उरः-कण्ठ-चरो बुद्धि-हृदयेन्द्रिय-चित्त-धृक् ॥ ४ ॥
पदच्छेद:-
प्राण-आदि-भेदात् पञ्च-आत्मा वायुः प्राण:अत्र मूर्ध-गः । उरः-कण्ठ-चर: बुद्धि-हृदय-इन्द्रिय-चित्त-धृक् ॥ ४

मूलम्
ष्ठीवन-क्षवथूद्गार-निःश्वासान्न-प्रवेश-कृत् ।उरः स्थानम् उदानस्य नासा-नाभि-गलांश् चरेत् ॥ ५ ॥
१२.५dv नासा-नाभि-गलांश् चरन्
पदच्छेद:-
ष्ठीवन-क्षवथु-उद्गार-निःश्वास-अन्न-प्रवेश-कृत् ।उरः स्थानम् उदानस्य नासा-नाभि-गलान् चरेत् ॥ ५

मूलम्
वाक्-प्रवृत्ति-प्रयत्नोर्जा-बल-वर्ण-स्मृति-क्रियः ।व्यानो हृदि स्थितः कृत्स्न-देह-चारी महा-जवः ॥ ६ ॥
पदच्छेद:-
वाक्-प्रवृत्ति-प्रयत्न-ऊर्जा-बल-वर्ण-स्मृति-क्रियः ।व्यान: हृदि स्थितः कृत्स्न-देह-चारी महा-जवः ॥ ६

मूलम्

गत्य्-अपक्षेपणोत्क्षेप-निमेषोन्मेषणादिकाः ।प्रायः सर्वाः क्रियास् तस्मिन् प्रतिबद्धाः शरीरिणाम् ॥ ७ ॥
पदच्छेद:-
गति-अपक्षेपण-उत्क्षेप-निमेष-उन्मेषण-आदिकाः ।प्रायः सर्वाः क्रिया: तस्मिन् प्रतिबद्धाः शरीरिणाम् ॥ ७

मूलम्

समानो ऽग्नि-समीप-स्थः कोष्ठे चरति सर्वतः ।अन्नं गृह्णाति पचति विवेचयति मुञ्चति ॥ ८ ॥
पदच्छेद:-
समान: अग्नि-समीप-स्थः कोष्ठे चरति सर्वतः ।अन्नं गृह्णाति पचति विवेचयति मुञ्चति ॥ ८

मूलम्
अपानो ऽपान-गः श्रोणि-वस्ति-मेढ्रोरु-गो-चरः ।शुक्रार्तव-शकृन्-मूत्र-गर्भ-निष्क्रमण-क्रियः ॥ ९ ॥
पदच्छेद:-
अपान: अपान-गः श्रोणि-वस्ति-मेढ्र-ऊरु-गो-चरः ।शुक्र-आर्तव-शकृन्-मूत्र-गर्भ-निष्क्रमण-क्रियः ॥ ९

मूलम्
पित्तं पञ्चात्मकं तत्र पक्वामाशय-मध्य-गम् ।पञ्च-भूतात्मक-त्वे ऽपि यत् तैजस-गुणोदयात् ॥ १० ॥
पदच्छेद:-
पित्तं पञ्चात्मकं तत्र पक्व-आमाशय-मध्य-गम्।पञ्च-भूत-आत्मक-त्वे ऽपि यत् तैजस-गुण-उदयात् ॥ १०

मूलम्
त्यक्त-द्रवत्वं पाकादि-कर्मणानल-शब्दितम् । पचत्य् अन्नं विभजते सार-किट्टौ पृथक् तथा ॥ ११ ॥
१२.११dv सार-किट्टे पृथक् तथा पदच्छेद:-
त्यक्त-द्रवत्वं पाक-आदि-कर्मणा अनल-शब्दितम् ।पचति अन्नं विभजते सार-किट्टौ पृथक् तथा ॥

मूलम्
तत्र-स्थम् एव पित्तानां शेषाणाम् अप्य् अनुग्रहम् ।करोति बल-दानेन पाचकं नाम तत् स्मृतम् ॥ १२ ॥
पदच्छेद:-
तत्र-स्थम् एव पित्तानां शेषाणाम् अपि अनुग्रहम् ।करोति बल-दानेन पाचकं नाम तत् स्मृतम् ॥

मूलम्
आमाशयाश्रयं पित्तं रञ्जकं रस-रञ्जनात् ।बुद्धि-मेधाभिमानाद्यैर् अभिप्रेतार्थ-साधनात् ॥ १३ ॥
पदच्छेद:-
आमाशय-आश्रयं पित्तं रञ्जकं रस-रञ्जनात् ।बुद्धि-मेधा-अभिमान-आद्यै: अभिप्रेत-अर्थ-साधनात् ॥ १३ ॥

मूलम्
साधकं हृद्-गतं पित्तं रूपालोचनतः स्मृतम् ।दृक्-स्थम् आलोचकं त्वक्-स्थं भ्राजकं भ्राजनात् त्वचः ॥ १४ ॥
पदच्छेद:-
साधकं हृद्-गतं पित्तं रूप-आलोचनतः स्मृतम् ।दृक्-स्थम् आलोचकं त्वक्-स्थं भ्राजकं भ्राजनात् त्वचः ॥ १४ ॥

मूलम्
श्लेष्मा तु पञ्च-धोरः-स्थः स त्रिकस्य स्व-वीर्यतः ।हृदयस्यान्न-वीर्याच् च तत्-स्थ एवाम्बु-कर्मणा ॥ १५ ॥
१२.१५av श्लेष्मापि पञ्च-धोरः-स्थः पदच्छेद:-
श्लेष्मा तु पञ्च-धा उरः-स्थः स: त्रिकस्य स्व-वीर्यतः ।हृदयस्य- अन्न-वीर्यात् च तत्-स्थ एव अम्बु-कर्मणा ॥ १५ ॥

मूलम्
कफ-धाम्नां च शेषाणां यत् करोत्य् अवलम्बनम् ।अतो ऽवलम्बकः श्लेष्मा यस् त्व् आमाशय-संस्थितः ॥ १६ ॥
१२.१६dv यस् त्व् आमाशय-संश्रितः
पदच्छेद:-
कफ-धाम्नां च शेषाणां यत् करोति अवलम्बनम् ।अत: अवलम्बकः श्लेष्मा य: तु आमाशय-संस्थितः ॥ १६ ॥

मूलम्
क्लेदकः सो ऽन्न-संघात-क्लेदनाद् रस-बोधनात् ।बोधको रसना-स्थायी शिरः-संस्थो ऽक्ष-तर्पणात् ॥ १७ ॥
पदच्छेद:-
क्लेदकः स: अन्न-संघात-क्लेदनाद् रस-बोधनात् ।बोधक: रसना-स्थायी शिरः-संस्थ: अक्ष-तर्पणात् ॥ १७ ॥

मूलम्
तर्पकः संधि-संश्लेषाच् छ्लेषकः संधिषु स्थितः ।इति प्रायेण दोषाणां स्थानान्य् अ-विकृतात्मनाम् ॥ १८ ॥
१२.१८bv छ्लेषकः संधि-संस्थितः
पदच्छेद:-
तर्पकः संधि-संश्लेषात् श्लेषकः संधिषु स्थितः ।इति प्रायेण दोषाणां स्थानानि अ-विकृत-आत्मनाम् ॥ १८ ॥

मूलम्
व्यापिनाम् अपि जानीयात् कर्माणि च पृथक् पृथक् ।उष्णेन युक्ता रूक्षाद्या वायोः कुर्वन्ति संचयम् ॥ १९ ॥
पदच्छेद:-
व्यापिनाम् अपि जानीयात् कर्माणि च पृथक् पृथक् ।उष्णेन युक्ता: रूक्षाद्या: वायोः कुर्वन्ति संचयम् ॥ १९ ॥

मूलम्
शीतेन कोपम् उष्णेन शमं स्निग्धादयो गुणाः ।शीतेन युक्तास् तीक्ष्णाद्याश् चयं पित्तस्य कुर्वते ॥ २० ॥
पदच्छेद:-
शीतेन कोपम् उष्णेन शमं स्निग्धादय: गुणाः ।शीतेन युक्ता: तीक्ष्णाद्या: चयं पित्तस्य कुर्वते ॥ २० ॥

मूलम्
उष्णेन कोपं मन्दाद्याः शमं शीतोपसंहिताः ।शीतेन युक्ताः स्निग्धाद्याः कुर्वते श्लेष्मणश् चयम् ॥ २१ ॥
पदच्छेद:-
उष्णेन कोपं मन्दाद्याः शमं शीत-उपसंहिताः ।शीतेन युक्ताः स्निग्धाद्याः कुर्वते श्लेष्मण: चयम् ॥ २१ ॥

मूलम्
उष्णेन कोपं तेनैव गुणा रूक्षादयः शमम् ।चयो वृद्धिः स्व-धाम्न्य् एव प्रद्वेषो वृद्धि-हेतुषु ॥ २२ ॥
पदच्छेद:-
उष्णेन कोपं तेन एव गुणा: रूक्षादयः शमम् ।चय: वृद्धिः स्व-धाम्नि एव प्रद्वेष: वृद्धि-हेतुषु ॥ २२ ॥

मूलम्
विपरीत-गुणेच्छा च कोपस् तून्-मार्ग-गमि-ता ।लिङ्गानां दर्शनं स्वेषाम् अ-स्वास्थ्यं रोग-संभवः ॥ २३ ॥
पदच्छेद:-
विपरीत-गुण-इच्छा च कोप: तु उन्-मार्ग-गमि-ता ।लिङ्गानां दर्शनं स्वेषाम् अ-स्वास्थ्यं रोग-संभवः ॥ २३ ॥

मूलम्
स्व-स्थान-स्थस्य सम-ता विकारा-संभवः शमः ।चय-प्रकोप-प्रशमा वायोर् ग्रीष्मादिषु त्रिषु ॥ २४ ॥
पदच्छेद:-
स्व-स्थान-स्थस्य सम-ता विकार-असंभवः शमः ।चय-प्रकोप-प्रशमा: वायो: ग्रीष्म-आदिषु त्रिषु ॥ २४ ॥

मूलम्
वर्षादिषु तु पित्तस्य श्लेष्मणः शिशिरादिषु । चीयते लघु-रूक्षाभिर् ओषधिभिः समीरणः ॥ २५ ॥
१२.२५av वर्षादिषु च पित्तस्य
पदच्छेद:-
वर्षा-आदिषु तु पित्तस्य श्लेष्मणः शिशिर-आदिषु । चीयते लघु-रूक्षाभि: ओषधिभिः समीरणः ॥ २५ ॥

मूलम्
तद्-विधस् तद्-विधे देहे कालस्यौष्ण्यान् न कुप्यति । अद्भिर् अम्ल-विपाकाभिर् ओषधिभिश् च तादृशम् ॥ २६ ॥
पदच्छेद:-
तद्-विध: तद्-विधे देहे कालस्य औष्ण्यात् न कुप्यति । अद्भि: अम्ल-विपाकाभि: ओषधिभि: च तादृशम् ॥ २६ ॥

मूलम्
पित्तं याति चयं कोपं न तु कालस्य शैत्यतः ।चीयते स्निग्ध-शीताभिर् उदकौषधिभिः कफः ॥ २७ ॥
पदच्छेद:-
पित्तं याति चयं कोपं न तु कालस्य शैत्यतः ।चीयते स्निग्ध-शीताभि: उदक-औषधिभिः कफः ॥ २७ ॥

मूलम्
तुल्ये ऽपि काले देहे च स्कन्न-त्वान् न प्रकुप्यति ।इति काल-स्व-भावो ऽयम् आहारादि-वशात् पुनः ॥ २८ ॥
१२.२८bv स्कन्न-त्वान् न विकुप्यति
पदच्छेद:-
तुल्ये अपि काले देहे च स्कन्न-त्वान् न प्रकुप्यति ।इति काल-स्व-भाव: अयम् आहार-आदि-वशात् पुनः ॥ २८ ॥

मूलम्
चयादीन् यान्ति सद्यो ऽपि दोषाः काले ऽपि वा न तु ।व्याप्नोति सहसा देहम् आ-पाद-तल-मस्तकम् ॥ २९ ॥
पदच्छेद:-
चय-आदीन् यान्ति सद्य: अपि दोषाः काले अपि वा न तु ।व्याप्नोति सहसा देहम् आ-पाद-तल-मस्तकम् ॥ २९ ॥

मूलम्
निवर्तते तु कुपितो मलो ऽल्पाल्पं जलौघ-वत् ।नाना-रूपैर् अ-संख्येयैर् विकारैः कुपिता मलाः ॥ ३० ॥
पदच्छेद:-
निवर्तते तु कुपित: मल: अल्प-अल्पं जल-ओघ-वत् ।नाना-रूपै: अ-संख्येयै: विकारैः कुपिता मलाः ॥ ३० ॥

मूलम्
तापयन्ति तनुं तस्मात् तद्-धेत्व्-आकृति-साधनम् ।शक्यं नैकैक-शो वक्तुम् अतः सामान्यम् उच्यते ॥ ३१ ॥
पदच्छेद:-
तापयन्ति तनुं तस्मात् तद्-हेतु-आकृति-साधनम् ।शक्यं न एक-एक-श: वक्तुम् अतः सामान्यम् उच्यते ॥ ३१ ॥

मूलम्
दोषा एव हि सर्वेषां रोगाणाम् एक-कारणम् ।यथा पक्षी परिपतन् सर्वतः सर्वम् अप्य् अहः ॥ ३२ ॥
पदच्छेद:-
दोषा: एव हि सर्वेषां रोगाणाम् एक-कारणम् ।यथा पक्षी परिपतन् सर्वतः सर्वम् अपि अहः ॥ ३२ ॥

मूलम्
छायाम् अत्येति नात्मीयां यथा वा कृत्स्नम् अप्य् अदः ।विकार-जातं विविधं त्रीन् गुणान् नातिवर्तते ॥ ३३ ॥
पदच्छेद:-
छायाम् अत्येति न आत्मीयां यथा वा कृत्स्नम् अपि अदः ।विकार-जातं विविधं त्रीन् गुणान् न अतिवर्तते ॥ ३३ ॥

मूलम्
तथा स्व-धातु-वैषम्य-निमित्तम् अपि सर्व-दा ।विकार-जातं त्रीन् दोषान् तेषां कोपे तु कारणम् ॥ ३४ ॥
पदच्छेद:-
तथा स्व-धातु-वैषम्य-निमित्तम् अपि सर्व-दा ।विकार-जातं त्रीन् दोषान् तेषां कोपे तु कारणम् ॥ ३४ ॥

मूलम्
अर्थैर् अ-सात्म्यैः संयोगः कालः कर्म च दुष्-कृतम् ।हीनाति-मिथ्या-योगेन भिद्यते तत् पुनस् त्रि-धा ॥ ३५ ॥
पदच्छेद:-
अर्थै: अ-सात्म्यैः संयोगः कालः कर्म च दुष्-कृतम् ।हीन-अति-मिथ्या-योगेन भिद्यते तत् पुन: त्रि-धा ॥ ३५ ॥

मूलम्
हीनो ऽर्थेनेन्द्रियस्याल्पः संयोगः स्वेन नैव वा ।अति-योगो ऽति-संसर्गः सूक्ष्म-भासुर-भैरवम् ॥ ३६ ॥
पदच्छेद:-
हीन: अर्थेन इन्द्रियस्य अल्पः संयोगः स्वेन न एव वा ।अति-योग: अति-संसर्गः सूक्ष्म-भासुर-भैरवम् ॥ ३६ ॥

मूलम्
अत्य्-आसन्नाति-दूर-स्थं वि-प्रियं विकृतादि च ।यद् अक्ष्णा वीक्ष्यते रूपं मिथ्या-योगः स दारुणः ॥ ३७ ॥
१२.३७dv मिथ्या-योगः सु-दारुणः
पदच्छेद:-
अति-आसन्न-अति-दूर-स्थं वि-प्रियं विकृत-आदि च ।यद् अक्ष्णा वीक्ष्यते रूपं मिथ्या-योगः स: दारुणः ॥ ३७ ॥

मूलम्
एवम् अत्य्-उच्च-पूत्य्-आदीन् इन्द्रियार्थान् यथा-यथम् ।विद्यात् कालस् तु शीतोष्ण-वर्षा-भेदात् त्रि-धा मतः ॥ ३८ ॥
१२.३८dv -वर्ष-भेदात् त्रि-धा मतः
पदच्छेद:-
एवम् अति-उच्च-पूति-आदीन् इन्द्रिय-अर्थान् यथा-यथम् ।विद्यात् काल: तु शीत-उष्ण-वर्षा-भेदात् त्रि-धा मतः ॥ ३८ ॥

मूलम्
स हीनो हीन-शीतादिर् अति-योगो ऽति-लक्षणः ।मिथ्या-योगस् तु निर्दिष्टो विपरीत-स्व-लक्षणः ॥ ३९ ॥
पदच्छेद:-
स: हीन: हीन-शीतादि: अति-योग: अति-लक्षणः ।मिथ्या-योग: तु निर्दिष्ट: विपरीत-स्व-लक्षणः ॥ ३९ ॥

मूलम्
काय-वाक्-चित्त-भेदेन कर्मापि विभजेत् त्रि-धा ।कायादि-कर्मणो हीना प्रवृत्तिर् हीन-संज्ञकः ॥ ४० ॥
१२.४०cv कायादि-कर्मणां हीना १२.४०dv प्रवृत्तिर् हीन-संज्ञिका
पदच्छेद:-
काय-वाक्-चित्त-भेदेन कर्म अपि विभजेत् त्रि-धा ।काय-आदि-कर्मण: हीना प्रवृत्ति: हीन-संज्ञकः ॥ ४० ॥

मूलम्
अति-योगो ऽति-वृत्तिस् तु वेगोदीरण-धारणम् ।विषमाङ्ग-क्रियारम्भ-पतन-स्खलनादिकम् ॥ ४१ ॥
१२.४१av अति-योगो ऽति-वृत्तिश् च
पदच्छेद:-
अति-योग: अति-वृत्ति: तु वेग-उदीरण-धारणम् ।विषम-अङ्ग-क्रिया-आरम्भ-पतन-स्खलन-आदिकम् ॥ ४१ ॥

मूलम्
भाषणं सामि-भुक्तस्य राग-द्वेष-भयादि च ।कर्म प्राणातिपातादि दश-धा यच् च निन्दितम् ॥ ४२ ॥
पदच्छेद:-
भाषणं सामि-भुक्तस्य राग-द्वेष-भय-आदि च ।कर्म प्राण-अतिपात-आदि दश-धा यत् च निन्दितम् ॥ ४२ ॥

मूलम्
मिथ्या-योगः समस्तो ऽसाव् इह वामु-त्र वा कृतम् ।निदानम् एतद् दोषाणां कुपितास् तेन नैक-धा ॥ ४३ ॥
१२.४३bv इह चामु-त्र वा कृतम्
पदच्छेद:-
मिथ्या-योगः समस्त: असौ इह वा अमु-त्र वा कृतम् ।निदानम् एतद् दोषाणां कुपिता: तेन नैक-धा ॥ ४३ ॥

मूलम्
कुर्वन्ति विविधान् व्याधीन् शाखा-कोष्ठास्थि-संधिषु ।शाखा रक्तादयस् त्वक् च बाह्य-रोगायनं हि तत् ॥ ४४ ॥
१२.४४dv बाह्य-रोगायनं हि सा
पदच्छेद:-
कुर्वन्ति विविधान् व्याधीन् शाखा-कोष्ठ-अस्थि-संधिषु ।शाखा रक्तादय: त्वक् च बाह्य-रोग-अयनं हि तत् ॥ ४४ ॥

तद्-आश्रया मष-व्यङ्ग-गण्डालज्य्-अर्बुदादयः ।
बहिर्-भागाश् च दुर्-नाम-गुल्म-शोफादयो गदाः ॥ ४५ ॥

अन्तः कोष्ठो महा-स्रोत आम-पक्वाशयाश्रयः ।
तत्-स्थानाः छर्द्य्-अतीसार-कास-श्वासोदर-ज्वराः ॥ ४६ ॥

अन्तर्-भागं च शोफार्शो-गुल्म-विसर्प-विद्रधि ।
शिरो-हृदय-वस्त्य्-आदि-मर्माण्य् अस्थ्नां च संधयः ॥ ४७ ॥

१२.४७dv -मर्माण्य् अस्थ्नां तु संधयः तन्-निबद्धाः सिरा-स्नायु-कण्डराद्याश् च मध्यमः ।
रोग-मार्गः स्थितास् तत्र यक्ष्म-पक्ष-वधार्दिताः ॥ ४८ ॥

मूर्धादि-रोगाः संध्य्-अस्थि-त्रिक-शूल-ग्रहादयः ।
स्रंस-व्यास-व्यध-स्वाप् अ-साद-रुक्-तोद-भेदनम् ॥ ४९ ॥

सङ्गाङ्ग-भङ्ग-संकोच-वर्त-हर्षण-तर्पणम् ।
कम्प-पारुष्य-सौषिर्य-शोष-स्पन्दन-वेष्टनम् ॥ ५० ॥

स्तम्भः कषाय-रस-ता वर्णः श्यावो ऽरुणो ऽपि वा ।
कर्माणि वायोः पित्तस्य दाह-रागोष्म-पाकि-ताः ॥ ५१ ॥

स्वेदः क्लेदः स्रुतिः कोथः सदनं मूर्छनं मदः ।
कटुकाम्लौ रसौ वर्णः पाण्डुरारुण-वर्जितः ॥ ५२ ॥

श्लेष्मणः स्नेह-काठिन्य-कण्डू-शीत-त्व-गौरवम् ।
बन्धोपलेप-स्तैमित्य-शोफा-पक्त्य्-अति-निद्र-ताः ॥ ५३ ॥

वर्णः श्वेतो रसौ स्वादु-लवणौ चिर-कारि-ता ।
इत्य् अ-शेषामय-व्यापि यद् उक्तं दोष-लक्षणम् ॥ ५४ ॥

दर्शनाद्यैर् अवहितस् तत् सम्यग् उपलक्षयेत् ।
व्याध्य्-अवस्था-विभाग-ज्ञः पश्यन्न् आर्तान् प्रति-क्षणम् ॥ ५५ ॥

अभ्यासात् प्राप्यते दृष्टिः कर्म-सिद्धि-प्रकाशिनी ।
रत्नादि-सद्-अ-सज्-ज्ञानं न शास्त्राद् एव जायते ॥ ५६ ॥

१२.५६av अभ्यासाज् जायते दृष्टिः १२.५६av अभ्यासात् केवलं दृष्टिः दृष्टापचार-जः कश्-चित् कश्-चित् पूर्वापराध-जः ।
तत्-संकराद् भवत्य् अन्यो व्याधिर् एवं त्रि-धा स्मृतः ॥ ५७ ॥

१२.५७bv कश्-चित् पूर्वापचार-जः १२.५७dv व्याधिर् एवं त्रि-धा मतः यथा-निदानं दोषोत्थः कर्म-जो हेतुभिर् विना ।
महारम्भो ऽल्पके हेताव् आतङ्को दोष-कर्म-जः ॥ ५८ ॥

विपक्ष-शीलनात् पूर्वः कर्म-जः कर्म-संक्षयात् ।
गच्छत्य् उभय-जन्मा तु दोष-कर्म-क्षयात् क्षयम् ॥ ५९ ॥

द्वि-धा स्व-पर-तन्त्र-त्वाद् व्याधयो ऽन्त्याः पुनर् द्वि-धा ।
पूर्व-जाः पूर्व-रूपाख्या जाताः पश्चाद् उपद्रवाः ॥ ६० ॥

यथा-स्व-जन्मोपशयाः स्व-तन्त्राः स्पष्ट-लक्षणाः ।
विपरीतास् ततो ऽन्ये तु विद्याद् एवं मलान् अपि ॥ ६१ ॥

ताō̃ लक्षयेद् अवहितो विकुर्वाणान् प्रति-ज्वरम् ।
तेषां प्रधान-प्रशमे प्रशमो ऽ-शाम्यतस् तथा ॥ ६२ ॥

पश्चाच् चिकित्सेत् तूर्णं वा बल-वन्तम् उपद्रवम् ।
व्याधि-क्लिष्ट-शरीरस्य पीडा-कर-तरो हि सः ॥ ६३ ॥

१२.६३av पश्चाच् चिकित्सेत् पूर्वं वा विकार-नामा-कुशलो न जिह्रीयात् कदा-च-न ।
न हि सर्व-विकाराणां नामतो ऽस्ति ध्रुवा स्थितिः ॥ ६४ ॥

स एव कुपितो दोषः समुत्थान-विशेषतः ।
स्थानान्तराणि च प्राप्य विकारान् कुरुते बहून् ॥ ६५ ॥

तस्माद् विकार-प्रकृतीर् अधिष्ठानान्तराणि च ।
बुद्ध्वा हेतु-विशेषांश् च शीघ्रं कुर्याद् उपक्रमम् ॥ ६६ ॥

दूष्यं देशं बलं कालम् अनलं प्रकृतिं वयः ।
सत्-त्वं सात्म्यं तथाहारम् अवस्थाश् च पृथग्-विधाः ॥ ६७ ॥

सूक्ष्म-सूक्ष्माः समीक्ष्यैषां दोषौषध-निरूपणे ।
यो वर्तते चिकित्सायां न स स्खलति जातु चित् ॥ ६८ ॥

गुर्व्-अल्प-व्याधि-संस्थानं सत्-त्व-देह-बला-बलात् ।
दृश्यते ऽप्य् अन्य-था-कारं तस्मिन्न् अवहितो भवेत् ॥ ६९ ॥

गुरुं लघुम् इति व्याधिं कल्पयंस् तु भिषग्-ब्रुवः ।
अल्प-दोषाकलनया पथ्ये विप्रतिपद्यते ॥ ७० ॥

१२.७०bv कलयंस् तु भिषग्-ब्रुवः १२.७०bv कल्पयंस् तु भिषग् ध्रुवम् ततो ऽल्पम् अल्प-वीर्यं वा गुरु-व्याधौ प्रयोजितम् ।
उदीरयेत्-तरां रोगान् संशोधनम् अ-योगतः ॥ ७१ ॥

शोधनं त्व् अति-योगेन विपरीतं विपर्यये ।
क्षिणुयान् न मलान् एव केवलं वपुर् अस्यति ॥ ७२ ॥

१२.७२dv केवलं वपुर् अप्य् अति अतो ऽभियुक्तः सततं सर्वम् आलोच्य सर्व-था ।
तथा युञ्जीत भैषज्यम् आरोग्याय यथा ध्रुवम् ॥ ७३ ॥

१२.७३dv आरोग्याय यथा भवेत् वक्ष्यन्ते ऽतः परं दोषा वृद्धि-क्षय-विभेदतः ।
पृथक् त्रीन् विद्धि संसर्गस् त्रि-धा तत्र तु तान् नव ॥ ७४ ॥

१२.७४cv पृथक् त्रीन् विद्धि संसर्गं त्रीन् एव समया वृद्ध्या षड् एकस्यातिशायने ।
त्रयो-दश समस्तेषु षड् द्व्य्-एकातिशयेन तु ॥ ७५ ॥

१२.७५dv षड् द्व्य्-एकातिशयेन च एकं तुल्याधिकैः षट् च तारतम्य-विकल्पनात् ।
पञ्च-विंशतिम् इत्य् एवं वृद्धैः क्षीणैश् च तावतः ॥ ७६ ॥

१२.७६cv पञ्च-विंशतिर् इत्य् एवं एकैक-वृद्धि-सम-ता-क्षयैः षट् ते पुनश् च षट् ।
एक-क्षय-द्वन्द्व-वृद्ध्या स-विपर्यययापि ते ॥ ७७ ॥

भेदा द्वि-षष्टिर् निर्दिष्टास् त्रि-षष्टिः स्वास्थ्य-कारणम् ॥ ७८अब् ॥
संसर्गाद् रस-रुधिरादिभिस् तथैषां ॥ ७८च् ॥
१२.७८cv संसर्गाद् रस-रुधिरादिभिस् तथैतान् दोषांस् तु क्षय-सम-ता-विवृद्धि-भेदैः ॥ ७८द् ॥
१२.७८dv दोषाणां क्षय-सम-ता-विवृद्धि-भेदैः आनन्त्यं तर-तम-योगतश् च यातान् ॥ ७८ए ॥
जानीयाद् अवहित-मानसो यथा-स्वम् ॥ ७८f ॥

वर्ग:  सूत्रस्थान- पदच्छेदान्वयार्थसहितम्
"https://sa.wikibooks.org/w/index.php?title=१२दोषभेदीय:&oldid=5286" इत्यस्माद् प्रतिप्राप्तम्