सत्त्वशब्दस्य सम्भाव्यार्थानां विषये...
प्र.-सद्विविक्तत्वं मिथ्यात्वमित्यत्र सत्त्वशब्दस्य सम्भाव्यार्थानां विषये चर्चां कुरुत।
उ.-सद्विविक्तत्वं मिथ्यात्वमित्यत्र सत्त्वशब्दस्य एते अर्था: सम्भवन्ति-
अ सत्ताजात्यधिकरणत्वम्
आ अबाध्यत्वम्
इ ब्रह्मरूपत्वम्
अ) सत्ताजात्यधिकरणत्वं मिथ्यात्वम्।
द्रव्यगुणकर्मसु सत्ताजाति: वर्तते।सा च अविद्यारूपा।यदि सा सत्त्वशब्देन अभिप्रेता तर्हि सद्विविक्तत्वम् इति मिथ्यात्वलक्षणं घटादिप्रपञ्चे नैव सम्भवति।यतो हि तेषु सत्ता जाति: वर्तते।तत: विविक्तत्वं तेषु न सम्भवति।अत: असम्भवदोष:।
आ) अबाध्यत्वं मिथ्यात्वम्।
यदि सत्त्वं नाम अबाध्यत्वं तर्हि,
मिथ्यात्वं = अबाध्यत्व-विविक्तत्वम्।
मिथ्यात्वं = बाध्यत्वम्।
एतावल्लक्षणं पर्याप्तम्।‘सत्त्वेन प्रतीयमानत्वे सति’ इति विशेषणांश: अत्र व्यर्थ:।किञ्च त्रैकालिकनिषेधप्रतियोगित्वम् इति मिथ्यात्वस्य द्वितीयं लक्षणं प्रोक्तं तत: अस्य लक्षणस्य (मिथ्यात्वं = बाध्यत्वम्।)वैलक्षण्यं न सिद्ध्यति। निषेधप्रतियोगित्वं नाम बाध्यत्वमेव।
किञ्च ज्ञाननिवर्त्यम् इति मिथ्यात्वस्य यत् तृतीयं लक्षणमुक्तं, तस्मादस्य किं वा वैलक्षण्यम्? ज्ञाननिवर्त्यत्वं नाम ज्ञानबाध्यत्वमेव।
इ) सत्त्वं नाम ब्रह्मरूपत्वम्।
यदि सत्त्वं नाम ब्रह्मरूपत्वं तर्हि,
मिथ्यात्वम् = सद्विविक्तत्वं = ब्रह्मभिन्नत्वम्
यदि ब्रह्मभिन्नत्वमेव मिथ्यात्वेनाभिमतं तर्हि तादृशं मिथ्यात्वं द्वैतिभि: अपि अनुमतमेव।अत: तादृशं मिथ्यात्वं प्रपञ्चे साध्यते चेत् सिद्धसाधनदोष:।
निर्णय:-
उपर्युक्तेषु त्रिषु अर्थेषु कोऽप्यर्थ: प्रकृते सत्त्वशब्देन ग्राह्य: नास्ति।सत्त्वं नाम प्रमाणसिद्धत्वम् इत्येव अर्थ: अत्र ग्राह्य:।
.......................................
लघूत्तरप्रश्ना: अद्वैतसिद्धिप्रश्नोत्तरसङ्ग्रह: