स्वव्यवहारे स्वातिरिक्तसंविदपेक्षानियमो दृश्यत्वम्

विकिपुस्तकानि तः

प्र.- स्वव्यवहारे स्वातिरिक्तसंविदपेक्षानियमो दृश्यत्वम्।– चर्चां कुरुत।
उ.-
सन्दर्भ: -
विमतं मिथ्या, दृश्यत्वात् इति अनुमानं सिद्धान्तपक्षेण कृतम्।तत्र दृश्यत्वहेतो: षड् अर्था: सम्भवन्ति। तेषु अर्थेषु अयमन्यतम: अर्थ: स्वव्यवहारे स्वातिरिक्तसंविदपेक्षानियमो दृश्यत्वमिति।अयमर्थ: सिद्धान्तमते अङ्गीकृत:।घटे अस्य समन्वय: दर्श्यते-
व्यवहारशब्दस्य त्रय: अर्था: भवन्ति-
१ स्फुरणम् २ शब्दप्रयोग: ३ इच्छा
संवित् इति सामान्यं चैतन्यम्।तदपि त्रिविधं सम्भवति –
१ विषयाभिव्यक्तम्
२ वृत्त्यभिव्यक्तम्
३ शुद्धम्।
आक्षेप:-
ब्रह्म अद्वितीयम् इति शब्दप्रयोगे ब्रह्मभिन्नसंविद: अपेक्षा अस्ति। अन्यथा ईदृश: व्यवहार: न सम्भवेत्।तत: ब्रह्मणि दृश्यत्वहेतु: आयाति।ब्रह्मणि मिथ्यात्वरूपं साध्यं तु नास्ति।साध्याभाववति ब्रह्मणि हेतो: विद्यमानत्वात् व्यभिचारदोष:।
समाधानम्
नियति: इति पदेनयं व्यभिचारो वार्यते।यत्र यत्र व्यवहार: तत्र तत्र संविदन्तरापेक्षा इति नियतिपदस्यार्थ:।ब्रह्मण: स्फुरणं संविदन्तरं नापेक्षते।अत: यावद्व्यवहारं संविदन्तरापेक्षत्वं ब्रह्मणि नास्ति। अत: न तत्र दृश्यत्वम्।

लघूत्तरप्रश्ना: