ज्ञानस्य ज्ञातृनिरूप्यत्वं स्वभाव: अस्ति अथवा नास्ति?
प्र.- ज्ञानस्य ज्ञातृनिरूप्यत्वं स्वभाव: अस्ति अथवा नास्ति इति स्पष्टीकुरुत ।
उ.- अद्वैतसिद्धिकारेण ‘विमतं मिथ्या, जडत्वात् शुक्तिरजतवत्’ इति अनुमानं प्रतिपादितम्।तत्र विद्यमान: हेतु: जडत्वम्।तस्य लक्षणं कृतम् अज्ञानत्वम् इति।
इदानीं पूर्वपक्षोऽत्र आक्षिपति यद् मोक्षदशायां न ज्ञेयं विद्यते, न वा ज्ञाता। तदा ज्ञानस्यापि अभाव: मन्तव्य: यतो हि ज्ञानस्य ज्ञातृज्ञेयनिरूप्यत्वं स्वभाव:। ज्ञातृज्ञेयाभावे तन्निरूप्यं ज्ञानमपि न सम्भवति।तथा सति केवलस्य (वृत्तिरहितस्य) आत्मन: अज्ञानत्वं (जडत्वं) प्राप्तम्।मिथ्यात्वाभाववति आत्मनि जडत्वरूपहेतो: सत्त्वात् व्यभिचारदोष:।
अस्योत्तरे अद्वैतसिद्धिकारेण क्रमश:-
1 ज्ञानस्य ज्ञेयनिरूप्यत्वं स्वभाव: नास्ति
2 ज्ञानस्य ज्ञातृनिरूप्यत्वं स्वभाव: नास्ति
इति साधितम्।तदेवम्-
१ ज्ञानस्य ज्ञातृनिरूप्यत्वं नाम किम् ? ज्ञातृजन्यत्वम् अथवा ज्ञातृव्याप्यत्वम् अथवा ज्ञातृसमवेतत्वम्?
२ ज्ञानं ज्ञातृजन्यं चेद् ईश्वरज्ञाने व्यभिचार:। ईश्वरज्ञानं नित्यमस्ति अत: तत्र ज्ञातृजन्यत्वं न सम्भवति।
३ ज्ञानं ज्ञातृव्याप्यं चेदपि ज्ञातृनिरूप्यत्वसाधने अप्रयोजकम्।ज्ञानं नित्यमत: अन्यानपेक्षम्।
४ ज्ञानं ज्ञातृसमवेतमिति चेत् यथा ज्ञानस्य जन्यत्वं वृत्त्युपाधिकं तथा समवेतत्वमपि मन्तुं शक्यते।
५ ज्ञातुरर्थप्रकाशो ज्ञानम् इति विवरणकारेण उक्तम्। तथापि कदाचित् ज्ञानस्य ज्ञेयज्ञातृनिरूप्यत्वम् अस्ति इति अभिप्रायेण तत् स्वीक्रियते।
६ नित्यं ज्ञानं कर्तारं नापेक्षते।
७ अत्र पूर्वपक्ष: आक्षिपति- नित्यं ज्ञानं कर्तारं नापेक्षते इति वचनम् अनुचितम्। ‘अस्ति ब्रह्म’ इति व्यवहारे कर्तरि लकार: विद्यते।स: सत्तां प्रति ब्रह्मण: कर्तृत्वं प्रतिपादयति।नित्या अपि सत्ता कर्तारमपेक्षते चेत् नित्यं ज्ञानं कथं कर्तारं नापेक्षते?
८ अद्वैतसिद्धिकारस्य उत्तरमेतद्- नित्या सत्ता कर्तारमपेक्षते इति वचनमेव अनुचितम्, असम्भवात्।ब्रह्म अस् इति एतावन्मात्रोक्ते व्याकरणसङ्केतस्य (प्रकृतिर्नोपयोक्तव्या।) भङ्ग: भवति।अत: प्रयोगस्य साधुत्वाय कर्तरि लकार: अत्र प्रयुज्यते।
एवम् अद्वैतसिद्धिकारेण ज्ञानस्य ज्ञातृनिरूप्यत्वं स्वभाव: नास्तीति साधितम्।
लघूत्तरप्रश्ना: