सामग्री पर जाएँ

न च कार्यस्य कारणाभेदेन...

विकिपुस्तकानि तः

प्र.-स्पष्टीकुरुत- न च कार्यस्य कारणाभेदेन तदनाश्रितत्वात् सिद्धसाधनम्, अनाश्रितत्वेन अन्याश्रितत्वेन वा उपपत्त्या अर्थान्तरं चेति वाच्यम्।
उ.- सन्दर्भ:-
अंशित्वहेतूपपत्ति-प्रकरणे एतद्वचनं विद्यते।पूर्वपक्षस्य आक्षेप: अस्मिन्वचने उक्त:।एतादृश: आक्षेप: न कार्य: इति वचनस्यान्ते ‘न वाच्यम्’ इति सिद्धान्ती वदति।वाच्यम् इति वाक्यान्तं पदं वाक्यारम्भे उक्तेन नकारेण सह अन्वेति।
स्पष्टीकरणम्-
पूर्वपक्षस्य आक्षेप: एवम्-
१ अयं पट: एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, अंशित्वात्, इतरांशिवत् इत्यस्मिन् अनुमाने सिद्धसाधनदोष: विद्यते। परस्परं भिन्नयो: एव आश्रयाश्रयिभाव: सम्भवति।कार्यं तु कारणेन अभिन्नम्।अत: कार्यं कारणाश्रितं नास्ति एव। कार्यं कारणाश्रितं नास्ति इत्यस्य अर्थ: कार्यं कारणनिष्ठात्यन्ताभावप्रतियोगि अस्ति।सिद्धान्तिना इदमेव साध्यते।अत्र किमपि अपूर्वं नास्ति। कार्यं कारणाश्रितं नास्ति इति सिद्धमेव साध्यते अत: सिद्धसाधनदोष:।

२ अयं पट: एतत्तन्तुषु नास्ति इति सिद्धान्तिना उच्यते।अयं पट: अन्यतन्तुषु नास्ति इति तु स्पष्टम्।एवं सिद्धान्तिना अनेन अनुमानेन पटस्य सर्वथा अनाश्रितत्वं साधितम्।सिषाधयिषितम् अस्ति मिथ्यात्वं, साधितम् अनाश्रितत्वम् अत: अर्थान्तरदोष: अपि अस्मिन् अनुमाने विद्यते।सिषाधयिषिताद् अर्थाद् अन्योर्थ: अर्थान्तरम्।

३ ‘विशेषनिषेध: शेषविध्यनुज्ञापर:’ इति न्याय: अस्ति।अयं पट: एतत्तन्तुषु नास्ति इत्यनेन अस्य पटस्य एतत्तन्तुषु निषेध: भवति।तेन अन्यत्र अस्य पटस्य सद्भाव: सिद्ध्यति।अयमपि अर्थान्तरदोष: यतो हि सिषाधयिषितं पटस्य मिथ्यात्वं, साधितं पटस्य अन्याश्रितत्वम्। तस्मात् चित्सुखाचार्यस्य इदम् अनुमानं दुष्टम् इति पूर्वपक्षस्य आशय: प्रकृतवचने विद्यते।


लघूत्तरप्रश्ना: