अंशित्वहेतौ विरुद्धत्वरूपं दूषणम्

विकिपुस्तकानि तः

प्र.- अंशित्वहेतौ विरुद्धत्वरूपं दूषणं कथं विद्यते? विवेचयत।
उ.सन्दर्भ: -
अयं पट: एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, अंशित्वात्, इतरांशिवत् इत्यनुमाने अंशित्वम् इति हेतु: विद्यते।तस्मिन् विरुद्धत्वरूप: दोष: पूर्वपक्षेण एवम् उक्त:-
१ आदौ अंशित्वहेतुना पटे समवेतत्वं साधितम्।
२ तत: पटे एतत्तन्तुसमवेतत्वं साधितम्।
३ तत: पटे एतत्तन्तुनिष्ठात्यन्ताभाव-अप्रतियोगित्वं साधितम्।
४ तत: एतत्तन्तुनिष्ठात्यन्ताभाव-अप्रतियोगिन: व्याप्यम् अंशित्वं पटे साधितम्।

१ आदौ अंशित्वहेतुना पटे समवेतत्वं साधितम्।
अंशांशिनो: समवाय: इति वैशेषिकशास्त्रे अभ्युपगम्यते।अत: अंशी पट: अंशसमवेत: इति सिद्धम्।एवं पटे अंशसमवेतत्वम् अस्ति।

२ तत: पटे एतत्तन्तुसमवेतत्वं साधितम्।
किंसमवेतोऽयं पट: इत्याकाङ्क्षायाम् अन्यत्तन्तुसमवेतो वा एतत्तन्तुसमवेतो वेति विकल्पौ सम्भवत:।तत्र आद्य: अयुक्तिक:, प्रत्यक्षविरोधात्।पारिशेष्यात् ‘अयं पट: एतत्तन्तुसमवेत:’ इति सिद्धम्।

३ तत: पटे एतत्तन्तुनिष्ठात्यन्ताभाव-अप्रतियोगित्वं साधितम्।
एतत्तन्तुनिष्ठ-अत्यन्ताभाव-अप्रतियोगित्वम् एतत्समवेतत्वं प्रति प्रयोजकम् (परम्परया एतत्समवेतत्वजनकम्)।प्रयोज्यसत्त्वे प्रयोजकसत्त्वम्।अत: यत्र (पटे) एतत्तन्तुसमवेतत्वं तत्र एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वम् इति व्याप्त्या पटे एतत्तन्तुनिष्ठ-अत्यन्ताभाव-अप्रतियोगित्वं सिद्धम्।

४ तत: एतत्तन्तुनिष्ठात्यन्ताभाव-अप्रतियोगिन: व्याप्यम् अंशित्वं पटे साधितम्।
एतत्तन्तुनिष्ठात्यन्ताभाव-अप्रतियोगित्वं चित्सुखीयसाध्यस्य (अयं पट: एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी...) अभाव:।स: पटे साधित:।पटे अंशित्वम् इति चित्सुखोक्त: हेतु: विद्यते एव।अंशित्वस्य व्यापकम् एतत्तन्तुसमवेतत्वम्।एतत्तन्तुसमवेतत्वस्य व्यापकम् एतत्तन्तुनिष्ठ-अत्यन्ताभाव-अप्रतियोगित्वम्।
अत: अंशित्वम् एतत्तन्तुनिष्ठात्यन्ताभाव-अप्रतियोगित्व-व्याप्यम्। एवं साध्याभावव्याप्य: अंशित्वहेतु: विरुद्ध:।
.....................................
दीर्घोत्तरप्रश्ना: