न प्रयोजनवत्त्वाधिकरणम्

विकिपुस्तकानि तः

न प्रयोजनवत्त्वात्।२.१.३२
पूर्वपक्ष:- चेतन: परमात्मा जगद्विरचयितुं नार्हति, प्रयोजनवत्त्वात् प्रवृत्तीनाम्। लोके हि चेतनस्य सर्वा प्रवृत्ति: सप्रयोजना दृश्यते।परमेश्वरस्य प्रयोजनं न सम्भवतीति स: जगद्विनिर्मातुं नार्हति।
प्र.- स्यात्परमेश्वरस्य किमपि प्रयोजनं जगतो रचनायाम्।
पू.- तथा सति परमात्मन: परितृप्तत्वं प्रतिपादयन्ती श्रुति: बाध्यते।
प्र.- तर्हि प्रयोजनाभावेऽपि प्रवृत्ति: स्यात्।
पू.- तथा सती उन्मत्तेन सह परमात्मन: साम्यं स्यात्।तेन परमात्मन: सर्वज्ञत्वं श्रूयमाणं बाध्यते।तस्मात् चेतनात्सृष्टि: न शक्या।

लोकवत्तु लीलाकैवल्यम्।२.१.३३
वेदान्ती- परन्तु यथा लोके तथा एव परमात्मन: अपि लीला केवला सम्भवति।सा तु प्रयोजनमनपेक्ष्य स्वभावादेव सम्भवति। न च स्वभाव: पर्यनुयोक्तुं शक्यते।
पू.- लोके लीलासु अपि किञ्चित् सूक्ष्मं प्रयोजनं विद्यत एव।तथैव अत्रापि स्यात्।
वे.- लोके लीलासु प्रयोजनं कामं कल्पन्ताम्।परमात्मन: जगन्निर्माणे तथा प्रयोजनमुतप्रेक्षितुं न शक्यते।
पू.- कुत:?
वे.- आप्तकामश्रुते:।
पू.- तर्हि प्रयोजनाभावादप्रवृत्ति: मन्तव्या।
वे.- न, सृष्टिश्रुते:।
पू.- तर्हि उन्मत्तस्येव प्रयोजनाभावेऽपि प्रवृत्तिर्मन्यताम्।
वे.- न, सर्वज्ञश्रुते:।
पू.- अस्त्वेतत्।सृष्टिप्रतिपादिका श्रुतिरस्तीति सृष्टि: सत्यत्वेनाभ्युपगम्यते वा?
वे.- न।
पू.- किमर्थम्?
वे.- सा श्रुति: सृष्टिप्रतिपादनपरा नास्ति, ब्रह्मात्मभावप्रतिपादनपरा अस्ति।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   द्वितीयाध्याये प्रथम: पाद: