असम्भवाधिकरणम्

विकिपुस्तकानि तः

असम्भवस्तु सतोऽनुपपत्ते:।२.३.९
पू. – ब्रह्म उत्पत्तिमत्, विकारजनकत्वात्, आकाशादिवत्।
आकाशाद्वायुरित्यादिषु विकारस्य विकारादुत्पत्ति: श्रूयते।अत: आकाशस्य विकारस्य जन्मापि विकारभूताद् ब्रह्मण: भवितुम् अर्हति।
वे.- सदात्मकस्य ब्रह्मण: असम्भव:, अनुपपत्ते:।सन्मात्रं ब्रह्म।तस्य जनकं सद् वा असद् वा?
पू.- सत्।
वे.- तर्हि असति अतिशये प्रकृतिविकृतिभावो न घटते।
पू.- सद्विशेषाद् ब्रह्म उत्पद्यते।
वे.-दृष्टविपरीतमेतद्।सामान्याद् विशेषा: जायन्ते।यथा मृदो घटादय:।न तु विशेषात् सामान्यं जायते।
पू.- तर्हि ब्रह्मण: जनकम् असत् स्यात्।
वे.- न।यतो हि
१ कथमसत: सज्जायेत (छा. ८.७.१)इति निषेध: श्रूयते।
२ असत् निरात्मकम्।तत: ब्रह्मजन्म न सम्भवति।
३ स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिप: (श्वे. ६.९) इति ब्रह्मजनकस्य निषेधश्रवणात्।
४ वियत्पवनयो: उत्पत्ति: श्रुतौ दर्शिता।ब्रह्मणस्तु उत्पत्ति: क्वापि न दर्शिता।
५ ब्रह्मणोऽपि कारणेऽभ्युपगते अनवस्थाप्रसङ्ग:।या का मूलप्रकृतिरभ्युपगम्यते, तदेवास्माकं ब्रह्म।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्      द्वितीयाध्याये तृतीय: पाद:
"https://sa.wikibooks.org/w/index.php?title=असम्भवाधिकरणम्&oldid=5620" इत्यस्माद् प्रतिप्राप्तम्