सामग्री पर जाएँ

ज्योतिराद्यधिकरणम्

विकिपुस्तकानि तः

ज्योतिराद्यधिष्ठानं तु तदामननात् ब्रसू-२,४.१४ ।
विशय:- प्रकृता: प्राणा: स्वमहिम्ना एव स्वस्वकार्याय प्रवर्तन्ते,अथवा देवताधिष्ठिता: प्रवर्तन्ते इति संशय:।
पू.-प्राणा: स्वकर्मणि समर्था:।अत: स्वमहिम्ना एव स्वस्वकार्येषु प्रवर्तन्ते।
वे.- ज्योतिराद्यधिष्ठानं तु।तु इति पूर्वपक्षव्यावर्तनपर: शब्द:।ज्योति: अग्निदेवता। अग्न्यादिदेवता: अधिष्ठानम् अस्ति यस्य तद् ज्योतिराद्यधिष्ठानम्।तादृशं ज्योतिराद्यधिष्ठानं वागादि करणजातं स्वस्वकार्ये प्रवर्तते।तत्र हेतु: उच्यते ‘तदामननात्’ इति।‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ (ऐतरेय. २.४)
इत्यादिकम् आम्नातम्।अत्र अग्ने: वाग्भाव: मुखप्रवेशश्च देवतारूपेण अधिष्ठातृत्वमेव सूचयति।अन्यथा अग्ने: वाचा सह अपर: कोऽपि सम्बन्ध: न दृश्यते।एवमेव
‘वायु: प्राणो भूत्वा नासिके प्राविशत्|’ (ऐतरेय. २.४) वागेव ब्रह्मण: चतुर्थ: पाद:।सोऽग्निना ज्योतिषा भाति च तपति च। (छान्दो.३.१८.३)
एवं स्मृतिरपि प्रमाणम्-
‘वागध्यात्ममिति प्राहुर्ब्राह्मणास्तत्त्वदर्शिन:।वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम्।’
एवं वागादीनाम् अग्न्याद्यधिष्ठितत्वं श्रुतौ स्मृतौ चोक्तम्।अत: अग्न्याद्यधिष्ठितमेव वागादि करणजातं स्वकार्याय प्रभवतीति मन्तव्यम्।
पू.- प्राणानां स्वकार्यशक्ति: अस्ति चेत् किं देवताधिष्ठानेन?
वे.-नैवम्।शकटस्य वहनकर्मणि शक्तियोग: अस्ति।तथापि स: अनडुदाद्यधिष्ठित: सन् एव वहने कर्मणि प्रवर्तते, नान्यथा।एवमेव प्राणानां स्वकार्यशक्तियोग: अस्ति।तथापि देवताधिष्ठिता: एव ते स्वकर्मसु प्रवर्तन्ते, नान्यथा।
पू.- यदि देवताधिष्ठिता: प्राणा: स्वकर्मसु प्रवर्तन्ते, तर्हि तेषां तेषां कर्मणां कर्तृत्वं भोक्तृत्वं च तासां तासां देवतानां भवितुम् अर्हति।तथा सति शारीरस्य भोक्तृत्वं समाप्तं स्यात्।

प्राणवता शब्दात्।२.४.१५
वे.- यद्यपि प्राणानाम् अधिष्ठात्र्यो देवता: सन्ति, तथापि प्राणवता शारीरेण एव प्राणानां सम्बन्ध: इति श्रुते: शब्दाद् अवगम्यते।
पू.- क: स: श्रुते: शब्द:?
वे.- ‘अथ यत्र एतदाकाशमनुविषण्णं चक्षु:, स चाक्षुष: पुरुष: दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति, स आत्मा गन्धाय घ्राणम्।’ (छा. ८.१२.४)
अस्य अर्थ: एवम्- ‘अथ देहे प्राणप्रवेशानन्तरं यत्र गोलके एतत् छिद्रम् अनुप्रविष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुष:, तस्य रूपदर्शनाय चक्षु:।’
अपरं च प्रतिकरणम् अधिष्ठात्री देवता भिन्ना।तेन एकस्मिन् शरीरे अनेकदेवतानां भोक्तृत्वं कल्पनीयम्।
पू.- भवतु तथा।का हानि:?
वे.- ‘योऽहं नृत्यम् दृष्टवान्, सोऽहम् इदानीं गीतं शृणोमि’ इति प्रतिसन्धानं भवति।यदि प्रत्येकं विषयस्य भोक्त्री देवता भिन्ना मता, तर्हि एतादृशं प्रतिसन्धानं न स्यात्।

तस्य च नित्यत्वात् । ब्रसू-२,४.१६ ।
वे.- तस्य च शारीरस्य अस्मिन् शरीरे भोक्तृत्वसम्बन्धेन नित्यत्वम् अस्ति।शारीर: एव पुण्यपापोपलिप्त: भवति।शारीर एव सुखदु:खानि भुङ्क्ते, न देवता:।
पू.- देवता: अस्मिन् शरीरे सुखदु:खानि न भुञ्जते इत्यत्र किं प्रमाणम्?
वे.- ‘पुण्यमेवामुं गच्छति, न ह वै देवान् पापं गच्छति’।(बृ.१.५.३)
पू.- शारीरेण सह प्राणानां सम्बन्ध: नित्य: इत्यत्र किं प्रमाणम्?
वे.- ‘तमुत्क्रामन्तं प्राणोनूत्क्रामति, प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति।(बृ.४.४.२) तस्मात् सतीष्वपि करणानां नियन्त्रीषु देवतासु शारीरस्य भोक्तृत्वं न लुप्यति।देवता करणपक्षस्य, न भोक्तृपक्षस्य।

द्वितीयाध्याये चतुर्थ: पाद:   ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्
"https://sa.wikibooks.org/w/index.php?title=ज्योतिराद्यधिकरणम्&oldid=5649" इत्यस्माद् प्रतिप्राप्तम्